Monday, 11 March 2019

हनुमतः भक्तिकथा               -नीतिकथा
  
   - पुनर्लेखनम् - सन्तु घोष्।
                         
        भगवतः श्रीरामचन्द्रस्य सभामण्डले ये सेवकाः आसन्।  तेषु सेवकेषु दलद्वयं वर्तते। एकस्मिन् दले भरत-लक्ष्मण- शत्रुघ्न- जाम्वुवानादयः सन्ति। अन्यस्मिन् दले केवलं स्वयं महावलशाली अञ्जनीपुत्रः हनुमान् वर्तते। एकदा भरतादयः सेवकाः चिन्तयन् सन्ति हनुमति किमस्ति यत् अस्सासु नास्ति। यस्मात् कारणात् भगवते रामचन्द्राय हनुमान् अधिकं रोचते। एकस्मिन्नहनि भरतादयः सेवकाः भक्ताश्च सर्वे मिलित्वा एकां तालिकां निर्मितवन्तः आसन्। तस्यां तालिकायां विविधानि सेवाकार्यानि आसन् एवं च तेषां सेवाकार्यानां कार्यकर्तारः अपि आसन्। यथा लक्ष्मणभ्राता प्रभोः पादसेवनं करिष्यति। एवं क्रमेण कोऽपि प्रभोः हस्तं प्रक्षालयिष्यति, कोऽपि मुखमण्डलं प्रक्षालयिष्यति, कोऽपि पिष्ठं मर्दयिष्यति। परन्तु तालिकायां कुत्रापि हनुमतः नाम नासीत्। मारुतः कृते किमपि कार्यमवशिष्टं नासीत्। वण्टितानां सेवाकार्यानां  तां तालिकां भरतादयः सेवकाः प्रभुं दर्शयन्ते। तां तालिकां दृष्ट्वा प्रभुनापि उक्तं - तथास्तु। अनन्तरं  सम्यकतया तां तालिकां दृष्ट्वा हनुमता उक्तं-  अस्यां तालिकायां कुत्रापि मम नाम न दृश्यते। किं मम कृते किमपि कार्यमवशिष्टं नास्ति वा? हनुमान् न केवलं महावलशाली अपि तु वुद्धिमानपि भवति। तदा अतीव चातुर्यतया हनुमता सस्मितेन उक्तं - अधुनापि कार्यमेकमवशिष्टमस्ति। परिषदि विद्यमानाः  लक्ष्मणादयः सर्वे सेवकाः चिन्तयन्ति-  अधुनापि किं कार्यमवशिष्टमस्ति? तदा मारुता उक्तं- यदा मम प्रभुः आलस्यमनुभूय मुखमुन्मुच्य वायुं निष्कासयिष्यति तदा अहं चुटकिं वादयिष्यामि।  केशरीनन्दनस्य कथां श्रुत्वा प्रभुना रामचन्द्रेनापि उक्तं- सत्यं कार्यमेकम् अधुनापि अवशिष्यते। तथास्तु। सभायामुपस्थितैः  सर्वैः जनैः पृष्टं- सेवाकार्यमेतत् कदा करिष्यति हनुमान्? तदा भगवता रामचन्द्रेनोक्तं- कदा अहं क्लान्तम् अनुभूय मुखमुन्मुच्य वायुं निष्कासयिष्यामि। एतत् तु अहं न जानामि। शयनकाले भोजनकाले प्रजाभिः सह आलापनकाले च यदा तदा कार्यमेतत् भवितुं शक्यते। तर्हि एतस्मै सेवाकार्यायै हनुमान् सदैव मया सह स्थास्यति। एतत् श्रुत्वा हनुमन्तं प्रति विद्वेषिनः सर्वे सेवकाः भक्ताश्च हताशाः अभवन्।