‘मनोगतम्’ [०२.०५] ‘मन की बात’ (5वीं कड़ी)
प्रसारण-तिथि : २७-ओक्टोबर’२०१९
- [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-पुरुषोत्तम-शर्मभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
मम प्रियाः देशवासिनः, नमस्कारः | अद्य दीपावल्ल्याः पावन पर्व अस्ति | भवद्भ्यः सर्वेभ्यः दीपावल्ल्याः भूयस्यः शुभकामनाः | अस्मदीये वाङ्मये निगदितम् -
शुभं करोति कल्याणम् आरोग्यं धनसम्पदाम् |शत्रु-बुद्धि-विनाशाय दीपज्योतिर्नमोsस्तु ते ||
कियान् उत्तमः सन्देशः अस्ति | अस्मिन् श्लोके कथितं – प्रकाशः जीवने सुखं, स्वास्थ्यं समृद्धिञ्च आपादयति, तथा च, विपरीत-बुद्धिं विनाश्य, सद्बुद्धिं विकासयति | एतादृशाय दिव्यज्योतये नमान्सि | दीपावलीमेनां स्मरणीयां विधातुं किमितः परं भद्रतरः विचारः भवेत् यत् वयं प्रकाशं विस्तारयेम, रचनात्मिकां प्रवृत्तिं प्रसारयेम, शत्रुतायाः भावनाम् एव च प्रणाशयितुं प्रार्थयेम! अद्यत्वे जगतः अनेकेषु देशेषु दीपावली-पर्व आयोज्यते | अत्र वैशिष्ट्यम् इदमेव यत् अत्र केवलं भारतीय-समुदायः एव भवति, इति नैव, अपि तु, साम्प्रतं अनेकेषां देशानां प्रशासनानि, तत्रत्याः नागरिकाः, तत्रत्यानि च सामाजिक-सङ्घटनानि दीपावलीं पूर्ण-हर्षोल्लासेन आयोजयन्ति | एवं हि ते तत्र ‘भारतम्’ विरचयन्ति |
सखायः, जगति ‘festival tourism’-इति उत्सव-