Saturday 19 October 2019

अर्च्यच्यते मम भारतमाता
-राष्ट्रभक्तानां गीतम्
हिमगिरि-श्रृङ्गं उत्तुङ्गम्
भारतमातुर् मणिमकुटम्
गङ्गा यमुना सिन्धु-सरस्वति
प्रवहति मातुर् हृदयतटम्॥
(हिमगिरि)

काश्मीरादि महोन्नतदेशे
विकसन्त्यधुना कुसुमानि
गायन्त्यचिरात् तानि सुमानि
वन्देमातर-गानानि ॥
वन्दे मातरं.....वन्दे मातरं.....
सुजला सुफलां मलयजशीतलाम् ॥
(हिमगिरि)


आरब वङ्ग महोदधिनायुत
हिन्दुसमुद्रो स्त्तौति चिरं ताम्
तस्य तरङ्गकरेण हारेण
अर्च्यते मम भारत माता ॥
(हिमगिरि)
---------------------------
गान रचयिता - अय्यम्पुष़ हरिकुमारः