दर्शनमालानुसारं योगदर्शनम्
|
शान्तिनी वि. एम् . |
(दर्शनम्)
Research Article No: 20200101
शान्तिनी वि. एम्.
शोधछात्रा,
श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयः, कालटी।
दर्शनं नाम किमिति प्रश्ने सति सामान्यतया वक्तुं शक्यते "दृश्यते
आधुनिकयुगॆ अद्वैताचार्यैण श्रीनारायणगुरुणा वेदान्तशास्त्र प्रतिबोधितं तत्वं अद्वैतं लोककल्याणाय प्रतिपाद्यते। गुरुदेवः क्रिस्त्वब्धे 1864 आगस्त् 26 तमे दिने तिरूवनन्तपुरे चेम्पषन्ति इति ग्रामे वयल्वारगृहे भूजातः। तस्य पिता माटनाशान् माता कुट्टियम्मा च भवतः। न केवलं केरलेषु किन्तु लोके सर्वत्रापि तस्य नाम सुपरिचितमेव। अधःस्थितजनानां उन्नमनाय सः अतीव श्रद्धालुः आसीत्। तदर्थं गुरुणा कैरली-तमिल्-संस्कृत भाषासु षष्ठी परकृतयः विरचितम्। ते स्तोत्रकृतयः, अनुशासनकृतयः, गद्यकृतयः, परिभाषाकृतयः दार्शनिककृतयः इति विभक्ताः। गुरोः दार्शनिककृतिषु अन्यतमा भवति दर्शनमाला।
मनः एव मनुष्याणां सर्वबन्धमोक्षयोः कारणं भवति। मनसः बन्धनात् यावत् समयं अस्माकं बोधः मुक्तः भवति तावत् समयं वयं मुक्ताः भवन्ति। एवं मनः संकल्पविकल्पेभ्यः मोचयितुं उपयुक्तां सिद्धिं साधारणजनेषु संवेदयितुं आरभते गुरुदेवः। तदर्थं गुरुदेवेन प्रोक्तानि दशदर्शनानि दर्शनमालायां अन्तर्भवन्ति। समस्तं वेदान्तशास्त्रं दशदर्शनरूपेण विभज्य़ अस्मिन् ग्रन्थं सक्रमं प्रतिपातयति।
दर्शनशब्दस्य सामान्यार्थः वीक्षणं इति भवति। सर्वमपि वस्तु सम्पूर्णतया वा द्रष्टुं शक्यते। सम्पूर्णं दर्शनं एव सत्यदर्शनं भवति। संपूर्ण दर्शनं तु मिथ्यादर्शनं भवति। जीवितप्रतिभासगतं अपूर्णं दर्शनं पूर्णेन वस्तुदर्शनेन मेलयित्वा जिज्ञासवे पुरुषाय विशदयति गुरुः अस्मिन् ग्रन्थे।
दर्शनमालायां गुरुः साधारण जनेभ्यः एव वक्तुं आरभ्यते। साधारणस्य मानवस्य लोकदर्शमं तथा एव गुरुः प्रथमं अङ्कीकरोति। सर्वे∫पि विश्वासिनः हिन्दुः वा क्रैस्तवः वा इस्लामिकः वा आदौ इदं लोकं न अस्ति पुनः स्पष्टा स्वसंकल्पेन इदं जगत् ससर्ज इति विश्वसन्ति। अयं विश्वासः एव गुरुदेवः प्रथमं विशकलनाय स्वीकरोति।
मानवमानसे संजाताः सर्वे∫पि मिथ्यबोधाः मिथ्या एव इति बोधः यदा जायते तदा तादृश अज्ञानजन्याः भयभीतयः अपकर्षताबोधः च तस्य मानसात् दूरीकर्तुं शक्यते। तस्मादेव बोधवत्करणस्य प्रथमसोपानत्वेन गुरुदेवः अध्यारोपदर्शनं उपदिशति। तदनन्दरं क्रमेण अपवाददर्शनं, असत्यदर्शनं, मायादर्शनं, भानदर्शनं, कर्मदर्शनं, ज्ञानदर्शनं, भक्तिदर्शनं, योगदर्शनं च उपदिश्यते। अन्ते निर्वाणदर्शनं उपदिशति। गुरुदेवः मोक्षमार्गं प्रापयितुं इच्छन् सर्वान् अपि मानुषान् तं लक्ष्यं साधयितुमेव अस्य ग्रन्थस्य रचनां निवर्तयामास।
योगदर्शनम्
दर्शनमालायां नवम दर्शनं भवति योगदर्शनम्। योगस्य़ निर्वचनं, स्वरूरं, साधनं, फलं च प्रकरणे∫स्मिन् गुरुणा स्पष्टुं निरूप्यते।
यत् मनः चिदात्मनि सततं योजयति युनक्ति च, मनोनिरोधरूपः सः अयं योगःइति शंसितः। योगः इति पदस्य निर्वचनं द्विधा भवति। योजयतीति योगः,युनक्ति इति योगः।1 चिदात्मनि अर्थात् ज्ञानस्वरूपे आत्मनि मनसः योजनं एव योग इति उच्यते।
यत्र द्रष्टा, दर्शनं दृश्यं न विद्यते तत्र वासना योजयेत्।2
यः पश्यति सः द्रष्टा भवति। दर्शनक्रिययेव दर्शनं भवति। यद् दृश्यते तदेव दृश्यम्। द्रष्टा दर्शनं दृश्यं च इति त्रयं त्रिपुटीत्युच्यते। यत्र त्रिपुटी नास्ति स परमात्मा एव। तस्मिन् परमात्मनि मनसः योजनं कुर्यात्। एतते वासनानाशपर्यन्तं करणीयं भवति।
अविद्यादशायां अनुभूयमानमिदं जगत् नामरूपात्मकं भवति।3 घटादीनि नामानि तेषां रूपाणि च वस्तुतः न सन्ति। तत्र सत्यं मृत्तिका एव तद्वत् नामरूपात्मकं जगदपि ब्रह्मणि आरोपितम्। अधिष्ठानभूतं ब्रह्मैव सत्यम्। एवं नामरूपमिदं सर्वं ब्रह्म एव इति मनः नित्यं ब्रह्मणि विलीयते इति यत् सः योगः भवति।
तैलधारातुल्यतया चित्तस्य वृत्तिः नैरन्तर्येण आत्माभिमुखं प्रसरन्ति तत्रैव वाधं अवतिष्ठते। अयमेव योगः इति योगिभिः स्मृतः।4
वासनाबलेन विक्षिप्तं मनःयं यं विषयं उद्दिश्य निरसरेत् तस्मात् विषयात् बलात् निवर्त्य चिदात्मनि योजयेत्। अयं य़ोगः इह युज्यताम्।5
जनानां सर्वानर्धकारणं सङ्कल्प एव।6 सङ्कल्पेन कल्पितं इदं जगत् असत्यं भवति। संकल्पस्य कारणं वासना भवति। वासनासहितस्य संकल्पस्य कारणं समुच्छेदः समोमिरोधनेन करणीयः भवति। दृश्यं दृशः भिन्नं न भवति। दृश्यस्य अस्तित्वं नास्ति। दृशः अस्तित्वं भवति।7 अतः दृश्यं दृगात्मकं इति यः दृग्रूपे युञ्जीत, सः योगविदां वरः भवति।
प्रकृत्या चञ्चलं मनः भ्रमरत्वेन रूप्यते। इमां मनो भृङ्गं विषयेभ्य़ः निवर्त्य आत्मनि एव योजनीयः।8 आत्मानन्दरूपमधुनः माधुर्यं पिबतः तस्य स्पन्तनलेशो∫पि न संभवति। तदा योगः स्यात्। एवं मनसः स्वास्थ्येन योगः संभवति।
यदा भ्रुवोः अन्तः ध्यानं दृष्टिः च, लम्बिकोर्ध्वतः जिह्वाग्रं च स्यात् तदा निद्रालस्यादिनाशिनी खेचरीमुद्रा स्यात्।9
संक्षेपेण योगस्य द्वौ प्रकारौ स्तः ज्ञानयोगः कर्मयोगः च इति।10 श्रवणमनननिदिध्यासनाभ्यां संपद्यमानः आत्मसाक्षात्कारः एव ज्ञानयोगेन उच्यते। तादृशस्य ज्ञानयोगस्य अधिकारिता सिद्ध्यर्थं चित्तशुद्धिप्रदायकं निष्कामकर्मानुष्ठानं कर्मयोगशब्देन निर्दिश्यते। अनयोः सर्वः य़ोगविस्तारः परिसमाप्यते।
Foot Notes
दर्शनमाला 9-1
Ibid 9-2
Ibid 9-3
Ibid 9-4
Ibid 9-5
Ibid 9-6
Ibid 9-7
Ibid 9-8
Ibid 9-9
Ibid 9-10
References
- Darsanamala of Sree Narayanaguru, Sree Sankara Sanskrit Vidyapeedam Publication, Edakkadom, Quilon, 1982
- Nityachaitanya Yati, Psychology of Darsanamala, Printworld Publication (p) Ltd, New Delhi, 2004
- T. Bhaskaran, Sree Narayanaguruvinte Sampurnakruthikal, Mathrubhumi Publication, 2002.
- Sreenivasan K, Sree Narayanaguru, Jayasreepublication, Thiruvananthapuram, 1989.
- M.K Sanu, Narayanagugu, Bharatiyavidyabhavan, Bombay, 1978.