Tuesday, 25 February 2020

॥ ज्योतिषामयनं चक्षुः॥
 (शास्त्रम्)
डा. ईश्वरन् ई एन्
Research Article No: 20200225
Dr. Eswaran E. N.
Asst. Professor.
Govt: Sanskrit College,
Thripunitura, Kerala.

       ज्योतींषि सन्ति अत्र विवचनीयत्वेन इति ज्योतिषम् अर्शादिगणपठितज्योतिश्शाब्दात् मत्वर्थीये अच्प्रत्यये ज्योतिषशब्दः निष्पन्नः भवति। ज्योतिश्सम्बन्धिशास्त्रम् इत्यर्थे ज्यौतिषम् इत्यपि व्यवहर्तुं शक्यते। ज्यौतिषम् ज्योतिषं ज्योतिश्शास्त्रम् इत्यादीनि पर्यायपदानिभवन्ति। अन्यथा ज्योतिषम् इत्युक्ते Astrology इति व्यवह्यियमाणम् ज्योतिश्शास्त्रम् इत्युक्ते Astronomy इति व्यवह्यियमाणम् च भवति इति केचन चिन्तयन्ति। तथा ज्योतिश्शास्त्रमेव शास्त्रम्ज्योतिषमन्धविश्वासः इति ते वदन्ति। तत्सर्वं सर्वथा असमञ्चसम्। Astrology इति वक्तव्ये ज्योतिषस्य फलभागः इति Astronomy प्रमाणभागः इति च शुद्धः व्यवहारः। प्रकाशकवस्तूनां शास्त्रमेव ज्योतिश्शास्त्रम्। अत्र प्रकाशः नामव्यक्तीभाव इत्यर्थः। व्यक्ततया मूर्ततया विद्यमानाः सकलपदार्थाः अपि ज्योतिश्शास्त्रविषयाः भवन्ति। तथा प्रकाशयितुं योग्यानामपि शास्त्रं ज्योतिश्शास्त्रं इत्यर्थः। इत्युक्ते प्रपञ्चे समस्तचराचरदृष्टादृष्टपदार्थाश्च ज्योतिश्शास्त्रप्रतिपाद्यविषयाः भवन्तीति भावः।

ज्योतिषम् वेदाङ्गशास्त्रम्
    भारतीयानां परमप्रामाणिको ग्रन्थः वेदः। स च वेदः ऋग्-यजुः-साम-अथर्वनाम्ना चतुर्था विभक्तः। एवं भूतस्य वेदस्य संज्ञानाय षट् शास्त्राणि प्रवर्तन्ते। तन्येव वेदाङ्गानि इति ज्ञायन्ते। उक्तञ्च प्रश्नमार्गे –
ज्योतिः कल्पो निरुक्तञ्च शिक्षा व्याकरणं तथा।
छन्दोविचितिरेतानिषडङ्गानि विदुः श्रुतेः॥1 इति।
ज्योतिषं कल्पः निरुक्तं शिक्षा व्याकरणं छन्दः इत्येतानि श्रुतेः वेदस्य षडङ्गानि जानन्ति इत्याशयः। अत एव षट्सु अङ्गेषु प्रधानभूतमङ्गं वेदपुरुषस्य नेत्रस्थानीयं च भवति ज्योतिश्शास्त्रम्। वेदस्य पादौ छन्दः मुखं व्याकरणं, हस्तौ कल्पः नेत्रे ज्योतिषं नासिका शिक्षा कर्णौ नरुक्तम् इत्याद्यङ्गविभागकल्पनां कृतवन्तः ऋषिश्रेष्ठः प्रयोजनमनुसृत्य।
उक्तमपि वर्तते यथा -
छन्दः पादौ शब्दशास्त्रं च वक्त्रं
कल्पः पाणी ज्योतिषं चक्षुषी च।
शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं
वेदस्याङ्गान्येवमाहर्मुनीन्द्राः॥ 2 इति।
प्रतिवेदं ज्योतिषमपि भिद्यते आर्चं याजुषमित्यादि। लगथाचार्यः वेदाङ्गज्योतिषे प्रसिद्धः आचार्यः।
ज्योतिषम् प्रत्यक्षशास्त्रम्
प्रत्यक्षं ज्योतिषं शास्त्रं
चन्द्रार्कौ यस्य साक्षिणौ॥
इति वचनात् सूर्यः चन्द्रः इत्यादि यथा तथैव प्रत्यक्षमिदं शास्त्रम्। तावद्व्यावहारिकं प्रायोगिकं चेति भावः। नित्यनैमित्तिकानुभवानां साक्षीभूतम् इत्यपि वक्तुं शक्यते। अन्तरिक्षं, ग्रहनक्षत्रादिस्थिति, तिथि इत्याद्यः ज्योतिश्शास्त्रसम्बन्धिविषयाः प्रत्यक्षमेव भवेत् ज्योतिष्कस्य। दृक्समतायाः प्रामुख्यमस्ति इति भावः।

ज्योतिषं सूचनाशास्त्रम्
  ज्योतिषं सूचकशास्त्रम् भवतीत्युक्ते एतेन एवमेव भवितव्यम् इति विधानं न करोति अपि तु एवं भवितुमर्हति इति सूचनाकरोतीत्येव। "सूचयन्ति ग्रहाः सर्वे'' इति आचार्याणामुक्तिः। अपि च परिहारेण कर्मणा वा अनुभोक्तव्यस्य भेदान् कर्तुं शक्नोतीत्यर्थः।

ज्योतिषं व्यञ्जकशास्त्रम् प्रकाशकशास्त्रम्
यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पंक्तिम्।
व्यञ्जयति शास्त्रमेतत् तमसि द्रव्याणि दीप इव॥ 4
इति वराहमिहिरोक्त्या पूर्वजन्मार्जित शुभ-अशुभ-शुभाशुभकर्मणां परिपाकम् अन्धकारे दीपः पदार्थान् इव प्रकाशयति शास्त्रमेतदिति भावः।

ज्योतिषं सर्वशास्त्रशिरोलङ्कारभूतम्
यथा शिखा मयूराणां नागानां मणयो यथा।
तथा वेदाङ्गशास्त्राणां ज्योतिषं मू्र्ध्नि संस्थितम्॥ 5/22
इति वचनात् सर्वशास्त्राणां शिरोलङ्कारभूतं भवति ज्योतिषम् इति ज्ञायते। इतरशास्त्राणामिव ज्योतिषस्यापि पुरुषार्थसाधनाप्रवृत्तिरस्ति। किन्तु फलप्रवचने सुव्यक्तं स्थापिता काचित् पद्धतिः ज्योतिषमात्रवैशिष्ट्यम्। इत्येवास्मै सर्वशास्त्रशिरोलङ्कारत्वं प्रददाति। आयुर्वेद-तन्त्र-मन्त्र-शिल्प-वास्त्वादि नानाशास्त्राणामपि आश्रयत्वम् ज्योतिषस्येति भावः।
टिप्पणी
1. प्रश्नमार्गः 1-10
2. प्र. मा., 1-11.
3. आर्चज्योतिषम्, 36
4. लघुजातकम्,1-3.
5. आर्चज्योतिषम् 35.
6. बृहत्संहिता 1-8.
7. प्रश्नमार्गः, 1-5,6.