[ऐषमः ऑगस्ट-मासे २२-दिनाङ्के ‘विनायक-चतुर्थी’ति विशेषावसरः | शुभावसरेsस्मिन् भगवतो गणेशस्य विशिष्टार्चनां सर्वेऽपि भारतीयाः विदधति, कथम्? जानन्तु अस्याः कथायाः माध्यमेन ... ]
!!> विघ्नहर्ता गजाननः <!!
आदिदेवस्य गणेशस्य विस्मयकारिणः रूपान्तरस्य कथा!
[ सरलया संस्कृत-गिरा वर्णिता ]
कथाकारः - बलदेवानन्द-सागरः
देवाधिदेवः शिवः स्वीय-अर्धाङ्गिन्या पार्वत्या सार्धं कैलास-पर्वते निवसति। एकदा, महादेवः तत्र नासीत्, तदा भगवती पार्वती स्नानार्थं सज्जा भवन्ती सती सहसा विचारितवती यत् “कदाचित् स्नान-कर्मणि निरतायां मयि कश्चन भवनम् इदं समुपागच्छेत्!”
किञ्चित् कालं यावत् गहनं परिशील्य सा समुपायम् एकं निर्धारितवती। स्नानारम्भात् पूर्वं, सा स्वीय-देहे लेपितं हरिद्रावलेपम् अपसार्य तम् एकस्मिन् पात्रे न्यदधात्। ततः परम्, तल्लेप-कर्दमात् सा एकस्य किशोरस्य बालकस्य प्रतिमां निर्मितवती। तदनु, भगवती पार्वती तस्यां प्रतिमायां जीवनम् अस्थापयत्। सा प्रतिमा रमणीय-किशोर-बालकत्वेन रूपान्तरिता जाता। भगवती पार्वती सगौरवं शनैः च अवदत् यत् - “त्वं मम सुतः! केवलं मामकीनः!!”
“मात! केन प्रकारेण अत्रभवती सेवनीया?” तस्याः सुतोऽयम् अपृच्छत्। पार्वती तं बालं भवन-प्रवेश-द्वारं सन्नीय लौह-दण्डम् एकं प्रदाय निरदिशत् – “सुत! अत्र प्रहरित्वं विदधातु। मम अनुज्ञां विना न त्वया कश्चन अन्तःप्रवेशार्थम् अनुमन्तव्यः।”
तत्पश्चात्, भगवती पार्वती भवनान्तः प्रविष्टा। किञ्चित्-कालानन्तरं कश्चन तत्र आयातः। अनुमिनोतु, कोऽयं सम्भवेत्...? साक्षात् परम-शिवः!
यथैव परम-शिवः भवनं प्रवेष्टुं समुद्यतः, तत्रस्थेन किशोरेण असौ अवरोधितः। “मम माता, भगवती पार्वती न कमपि जनम् अन्तःप्रवेशार्थं माम् आज्ञप्तवती।”
परम-शिवः स्वीय-हास्यम् अवरोद्धुं नैव अपारयत्। “हा...हा...हा... भगवती पार्वती साम्प्रतं पुत्रवती, तच्च, मम अवगमनं विना!”
बालकस्य तर्जनामयीं दृष्टिम् उपेक्ष्य परम-शिवः किञ्चित् अग्रेसृतः। तथा हि, अचिन्तनीयं किमपि घटितम्! बालकः लौह-दण्डेन भगवन्तं शिवम् अताडयत्। “अन्तः नैव प्रवेशार्थं मया पूर्वमेव प्रतिबोधितं नासीत् किम्...?”
भगवान् शिवः अतितरां क्रुद्धः सञ्जातः। किञ्चित् कालं विचिन्त्य ततः निर्गन्तुम् असौ निरणैषीत्। ततः प्रस्थानात् प्राक्, भगवान् शिवः बालकम् अब्रवीत् - “एतादृशः अहङ्कारः! त्वादृशं लघु-बालम् अनुशास्तुं मम गणाः एव अलम्।”
त्वरितमेव भगवान् शिवः स्वीय-गणान् आकारयत् आदिशत् च, “गच्छन्तु, भवन-द्वारि प्रहरित्वपरम् अहङ्कारिणं बालं सम्यक्तया शिक्षयन्तु।”
भगवतः शिवस्य सायुधाः गणाः स्वामिनः आज्ञां पूरयितुं द्रुतमेव भवन-प्रवेश-द्वारं प्रति धाविताः। पार्वत्याः सुतः अमुना बलप्रदर्शनेन न किञ्चिदपि भीतः। गण-प्रमुखः तार-स्वरेण अवदत् – “कथं त्वं भगवन्तं शिवं समाह्वयितुं प्रभवषि? वयं त्वां व्यापादयिष्यामः।”
विनैव कमपि उद्वेगम्, पार्वत्याः सुतः तान् अब्रवीत् – “मम मातुः भगवत्याः पार्वत्याः इच्छानुसारम् अहम्, भवतां स्वामिनः आज्ञानुसारेण च भवन्तः आदिष्टाः स्मः। नाहं मनागपि परावर्तिष्ये।”
“भगवत्याः पार्वत्याः सुते अस्मिन् आक्रमणमिदं किं समुचितम्?” - इति शिव-गणाः द्वन्दाभिभूताः जाताः। बालके अस्मिन् विनैव किमपि आक्रमणं ते परावर्तिताः। तत्रान्तरे, भगवती पार्वती यत् किमपि घटितमासीत्, तद् अभिज्ञातवती।
“परम-शिवस्तु मम पतिः अस्ति, तथ्यम् अपरीक्ष्य एव, सः मम सुतम् आक्रान्तुं प्रायतत, अहं मदीय-पुत्रस्य गौरवं रक्षिष्यामि”– इति सा निर्णीतवती।
गणाः भगवन्तं शिवम् उपगम्य सर्वं यत् घटितं तत् वर्णितवन्तः। तत् श्रुत्वा शिवः आदिशत् यत् “यदि वयं परावर्तामहे, सः अस्मान् भीतान् अवगमिष्यति, गच्छन्तु, तं पराजित्य प्रत्यागच्छन्तु।”
भगवतः शिवस्य सद्यः आदेशं श्रुत्वा, नूतन-बल-सम्पन्नाः गणाः भवनं प्रति द्रुतं प्रयाताः। नन्दिकेशः गणानां प्रमुखः आसीत्। आत्मानं प्रति आगच्छतः गणान् दृष्ट्वा पार्वती-पुत्रः अवोचत् – “अहं तु केवलं मदीय-जनन्याः आज्ञां परिपालितवान्। न मया भवन्तः किञ्चिदपि बाधिताः, तर्हि कथं माम् आक्रमन्ते?” परञ्च गणाः न किञ्चिदपि सम्भाषितुम् उद्यताः आसन्। युद्ध-समाघोषान् घोषयन्तः ते आक्रान्तुम् आरभन्त। एवं हि, भीषणं युद्धं प्रवृत्तम्। यद् अनुवर्तितं तद् आश्चर्यकरं नासीत्! पार्वती-पुत्रस्य एकाकिनः युद्ध-वीरस्य समक्षं स्थातुम् अशक्ताः गणाः सपदि पराजयं स्वीकृतवन्तः। देवाधिदेवः शिवः स्वीयं भवनं प्रवेष्टुं नार्हत् – इति वार्ता देवलोके अपि प्रसृता। समस्येयं केन प्रकारेण समाधेया? पितामहः ब्रह्मा, स्वर्गाधिपः इन्द्रः च, गहनां विचारणां अकुरुताम्। अन्ततः भगवन्तं शिवम् उपगन्तुं तौ निर्णीतवन्तौ।
पितामहः ब्रह्मा स्वर्गाधिपः इन्द्रः च, परमशिवम् उपगम्य निज-समवेदनां प्रकटितवन्तौ। शिवः तौ निगदितवान् यत् - “देवी-पार्वतीतः पराभवं न स्वीकरिष्यामि।”
“अहं स्वपक्षतः प्रयते।” - इति उक्त्वा ब्रह्मदेवः कैलाश-पर्वतं प्रति जगाम। अनेकैः महात्मभिः सहकृतः पितामहः ब्रह्मा ब्राह्मण-रूपेण पार्वती-पुत्रं मेलितुं प्रयातः। ते प्रवीरं बालम् उक्तवन्तः - “प्रियवत्स! त्वया परम-शिवस्य मार्गः नैव अवरोधनीयः आसीत्।”
बालकः अविचलितः एव स्थितः। “सम्प्रति भवान् प्रस्थातुं शक्नोति, अहं केवलं निजमातुः आज्ञाम् अनुपालयामि।”
बालकेन ब्रह्मदेवस्यापि वचनम् अन्यथाकृतं इति वृत्तम् आकर्ण्य परमशिवः अतिक्रुद्धः जातः। सः निज-सुतं कार्तिकेयं देवेन्द्रं च आकार्य न्यगदत् यत् – “कार्तिकेयः शिवगणान् सन्नयतु, देवेन्द्रः च देव-सेनाः सन्नेष्यति। तं व्यापादयन्तु।” एवं हि, शिवगणाः देवसेनाः च, भवन-प्रवेशं प्रति प्रयाताः।
एतद्-घटना-जातस्य वृत्तम् अवगम्य देवी पार्वती भगवतीं महाकालीं देवीं दुर्गां च आकार्य निरदिशत् यत् – “मम सुतः एकाकी वर्तते। अत्रभवत्यौ द्वेSपि तस्मै साहाय्यं कुरुतात्।”
यथैव महाकाली आदेशमेनम् अशृणोत्, सा युद्धभूमिं प्रति सपदि प्रयाता। तया देवसेनाः लक्ष्यीकृताः। देवानाम् आयुधानि तया ग्रसितुं आरब्धम्। भीताः सन्तः देवाः पलायिताः। तत्रान्तरे, भगवती दुर्गा शिव-गणानां सेनानां साम्मुख्यं व्यदधात्। तस्याः बलं सोढुम् अक्षमाः निःसहायाः गणाः स्व-जीवित-रक्षार्थम् इतस्ततः पलायिताः।
एतत्-सर्वं घटितम् अवगम्य भगवान् विष्णुः परमशिवं परामर्शितवान् – “महादेव! न कश्चन सम्मुखात् बालमेनं पराजेतुं शक्नोति। वयं केवलं कपटेन एव तं पराजेतुं शक्ष्यामः।”
पार्वती-पुत्रम् आक्रान्तुं महाविष्णुः महादेवः च पृथक्-पृथक् दिशां प्रति प्रयातौ। एकतः, महाविष्णुः बालकस्य सम्मुखम् आक्रमणम् आरभत, अपरतः, महादेवः त्रिशूलेन पश्चभागात् बालकमेनम् आक्रमत। शिवस्य त्रिशूलेन बालकस्य शिरच्छेदः कृतः। युद्धं समाप्तम्। परञ्च परमशिवः दुःखी अभवत्। “अहं देव्याः पार्वत्याः पुत्रं मारितवान्। मम पत्न्याः कृते किञ्चिदपि पीडादायि कार्यं मया नैव करणीयमासीत्।”
अपराध-बोधाविष्टः परमशिवः देवीं पार्वतीं मेलितुम् अगच्छत्। स्वीय-सुतस्य निधन-वार्तया सा अदम्यं क्रोधम् अनुभवति स्म। “अत्रभवता मम पुत्रस्य जीवनं परावर्तनीयम् - इत्यहं वाञ्छामि। नैतावन्मात्रम्! देवेषु सम्माननीयं गौरव-पदमपि अस्मै प्रदेयमित्यपि वाञ्छामि। ततः परमेव मम क्रोधः अपगमिष्यति” - इति देवी पार्वती चीत्कृतवती। एतत् आकर्ण्य परमशिवः भवनात् बहिः निर्गत्य देवान् आदिशत् – “कृपया उत्तरदिशां प्रति गत्वा प्रथमं सम्मुखीक्रियमाणस्य प्राणिनः शिरश्छेदं कृत्वा च पार्वत्याः सुतस्य जीवनार्थं तत्-शिरःसन्धानं कुर्वन्तु।” देवाः सपदि एव निर्गताः |
ते सर्वप्रथमं दीर्घ-दन्तिनं गजम् अपश्यन्। ते गजस्य शिरोवधं कृत्वा भवनं प्रत्यागताः। पार्वत्याः सुतस्य जीवनार्थं तस्य देहोपरि ते गजस्य शिरः स्थापितवन्तः। ते गजाननं बालं पार्वतीं उपानीतवन्तः। सा प्रसन्ना जाता। सा तं गजाननं स्वीय-अङ्के उपावेश्य भगवन्तं शिवम् अकथयत् यत् – “अस्मै देवेषु किं पदम् उपायनीक्रियते?”
परमशिवः गजाननस्य शिरसि निज-करपल्लवस्य स्पर्श-पुरस्सरं तस्मै आशीराशिं प्रदाय अवदत् – “अद्य प्रभृति बालोऽयं गणान् सन्नेष्यति, अतः गणेशत्वेन अर्थात् गणानां स्वामित्वेन लोकेषु पूजयिष्यते।”
भगवती पार्वती अतितरां प्रसन्ना अभवत्। परमशिवः पुनरपि अवदत् यत् - “अस्मदीयोऽयं सुतः विघ्नानि अपाकर्तुम् उत्पादयितुं चापि शक्तिं सन्धारयति। अतः असौ विघ्नेश्वर-रूपेणापि ख्यापयिष्यते। विघ्नानि दूरीकर्तुं केवलं विघ्नेश्वस्य प्रसन्नता अपेक्ष्यते।”
एतत् श्रुत्वा देवाः सादरं गण-नायकं गणेशं नमस्कृतवन्तः। प्रसन्नः गजाननः गणेशः सर्वेभ्यः स्मितवदनः सञ्जातः।
... डॉ. बलदेवानन्द-सागरः
Email - baldevanand.sagar@gmail.com