Saturday, 13 March 2021

 शिक्षा अर्थात्

-उपन्यासः


 साक्षी चौरसिया - (छात्रा) 

केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड नवदेहली

भूमिका

    "शिक्षा" अर्थात् – पठनपाठनस्यानवरतप्रक्रिया। √शिक्ष् धातोः निष्पन्नः शब्दोऽयम्। शिक्षायै विद्या शब्दमपि ग्राह्यते। प्रत्येकछात्रेभ्यः शिक्षा आवश्यकी। तेषां मौलिकाधिकारेषु शिक्षायाः अप्येकमधिकारो वर्तते। शिक्षया विना न कस्यश्चित् जीवनं सार्थकं भवति। शिक्षया विहीनाः जनाः पशुभिः समानाः एव वर्तन्ते। यथोक्तं वर्तते —

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्,

विद्या भोगकरी यशः सुखकरी विद्या गुरुणां गुरुः।

विद्या बन्धुजने विदेशगमने विद्या परा देवता,

विद्या राजसु पूजिता न तु धनं विद्या विहीनः पशुः,॥

  विद्या मनुष्यस्य रूपं, धनं भवति, विद्या भोगकारी, सुखकरी, भवति, यशः प्रददाति, सर्वेषां गुरूणामपि गुरुः भवति। विद्या विदेशगमने मनुष्यस्य बन्धुजनसमाना भवति, एषा परा विद्या मन्यते, राजभिः अपि विद्या एव पूजिता धनन्न, तदर्थमेवमुच्यते यत् ये मनुष्याः विद्यया विहीनाः तेषां जीवनं पशुभिः समानमस्ति, ते केवलं बुभुक्षायै जीवन्ति, जीवितुन्न खादन्त्यपितु खादितुं जीवन्ति।

अपि चोक्तम् —

साहित्यसंगीतकला विहीनः,

साक्षात् पशुः पुच्छविषाणहीनः।

तृणन्न खादन्नपि जीवमानः,

तद्भागदेयं पपरमं पशूनाम्॥

  प्रत्येकस्य मनुष्यस्य जीवने माधुर्याय नवानां रसानां प्रवाहः भवितव्यः, सो रसः साहित्येन, संगीतेन, कलया चायाति, किन्तु ये एतेभ्यः विहीनाः भवन्ति ते साक्षात् पुच्छहीनाः पशुनां समानाः भवन्ति। सौभाग्यवशात् सः तृणन्न खादति तथापि जीवमानो वर्तते।

ये मातापिता स्वबालकान्न शिक्षयन्ति ते बालकस्य शत्रुः भवन्ति। यथोक्तम् —

माता शत्रुः पिता वैरी येन बालो न पाठितः|

न शोभते सभामध्ये हंसमध्ये बको यथा ॥

विद्यया न केवलं पुस्तकीयज्ञानमपितु व्यावहारिकत्वं, विनयं, धनं, सुख-सम्मानमादिकं सर्वं प्राप्यते—

विद्या ददाति विनयं विनयाद् याति पात्रताम्।

पात्रत्वाद् धनमाप्नोति धनाद् धर्मः ततः सुखम्॥

रूपसम्पन्नं, यौवनसम्पन्नं, विशालकुले जन्मजन्मोऽपि यदि विद्या विहीनोऽस्ति तर्हि स सुगन्धहीनं कसुडपुष्पवदस्ति —

रूपयौवनसम्पन्ना विशाल कुलसम्भवाः।

विद्याहीना न शोभते निर्गन्धः इव किन्शुकाः॥

बालकाय वा सर्वेभ्यः विद्या कल्याणकारिणी, सुखदायिनी भवति यथोक्तम् —

विद्याभ्यास स्तपो ज्ञानमिन्द्रियाणाञ्च संयमः।

अहिंसा गुरूसेवा च निःश्रेयसकरं परम्॥

विद्यालयाः बालकानां शिक्षायां प्रप्रथमभूमिकां व्याहरन्ति। विद्यालयाः बालकानां शिक्षायाः प्रथमं सोपानम्भवति। यया शिक्षया गतेकाले तेषां सुव्यक्तित्वं निर्मीयते, तदनन्तरं सुराष्ट्रस्य निर्माणङ्करोति। यदा कदापि बालानां सुशिक्षायाः विषयोऽऽयाति तदा तत्र केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड (CBSE) अस्यनामनूनं श्रूयते। इदानीन्तनदिनेषु मन्ये सीबीएसई इति विद्यालयस्य पर्यायोऽभूत्। इदानीन्सर्वेऽभिभावकाः स्वबालकान् केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड इत्यस्मिन्पाठयितुमिच्छन्ति।

केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड- इत्यनेन संचालिताः परीक्षाः —


सीबीएसई इति प्रथमतः द्वादशीकक्षापर्यन्तं पाठ्यक्रमः निर्माति। एवं वर्षेवारद्वयं परीक्षामायोजयति — दशमीकक्षायै अखिलभारतीय-माध्यमिक-विद्यालयपरीक्षा (AISSE) इत्येवं द्वादशीकक्षायै अखिलभारतीय-सिनीयर-विद्यालय-प्रमाणपत्रपरीक्षा (AISSCE) इति। अपरं अखिलभारतीय-इन्जीनियरिंग-प्रवेशपरीक्षा (AIEEE) तथा अखिलभारतीय-प्री-मेडिकल-परीक्षा (AIPMT) इत्यापि सञ्चालयति।

प्रमुखकार्याण्युद्देश्यानि च —

केन्द्रीयमाध्यमिकशिक्षाबोर्ड अस्य स्थापना कतिपय-परस्पर-सम्बन्धितामुद्देश्याणां पूर्तये जाता। : —

• दशमीद्वादशीकक्षायाः अन्ते सार्वजनिकीपरीक्षामायोजितुमेवं परीक्षासम्बन्धिताः नियमाः निर्धारणार्थम्। सम्बद्धविद्यालयानां सफलविद्यार्थिभ्योऽर्हता-प्रमाण-पत्रं प्रदातुम्।

• तेषां विद्यार्थिनां शैक्षिकावश्यकतानां पूर्तये, येषां पितरौ स्थानान्तरणीयपदेषु कार्यरताः भवेयुः।

• परीक्षायै अनुदेशपाठ्यक्रमाणां निर्धारणाय तथा च एतान्पाठ्यक्रमानद्यतनङ्कर्तुम्।

• परीक्षाप्रयोजनाय विद्यालयसम्बद्धतां प्रदातुं, देशस्य शैक्षिकप्रतिमानान् वर्धयितुञ्च।

• तथा च एतान्पाठ्यक्रमानद्यतनङ्कर्तुम्।

सीबीएसई इति (Central Board Of Secondary Education), केंद्रीय-माध्यमिक-शिक्षा-बोर्ड इत्यस्येकं संक्षिप्तनामास्ति। इत्यस्य पूर्णनाम “केंद्रीय-माध्यमिक-शिक्षा-बोर्ड” इत्यस्ति । इयमस्माकं देशस्य प्रप्रमुखशिक्षाबोर्ड वर्तते। सीबीएसई इत्यस्यान्तर्गते आगच्छन्तः सर्वे विद्यालयानां सञ्चालनं केन्द्रसर्वकारेण क्रीयते। अस्यस्थापना १९६२तमे वर्षे नवम्बरमासस्य तृतीये दिनाङ्के (03 नवम्बर 1962) जाता।

इतिहासः

    भारते प्रप्रथमं "उत्तरप्रदेशबोर्डऑफहाईस्कूलएण्डइंटरमीडिएटएजुकेशन” प्रथमबोर्ड इत्यस्य स्थापना १९२१तमे ईस्वीयेवर्षे जाता। राजपुताना, मध्यभारत, ग्वालियर चेत्यस्याधिकारक्षेत्रे आयान्ति स्मः। अपि च संयुक्तप्रान्तानां सर्वकारेण द्वाराकृताभ्यावेदनस्यूत्तरे तत्कालीनभारतसर्वकारेण सर्वेभ्यः क्षेत्रेभ्यः १९२९तमेवर्षे एकं संयुक्तबोर्ड इत्यस्य स्थापनायाः प्रस्तावं प्रदत्तं यस्य नाम "बोर्ड् ऑफ् हाईस्कूल् एण्डइंटरमीडिएट् एजुकेशन् राजपूताना" इति स्वीकृतम्। क्षेत्रेऽस्मिन् अजमेर्, मारवाड़, मध्यभारतः ग्वालियर् च सम्मिलिताः आसन्।

     बोर्डद्वारा माध्यमिकशिक्षास्तरे तीव्रविकासविस्तारकरणस्य फलस्वरूपं अस्य संस्थानेषु शिक्षास्तरे गुणताञ्च परिष्कारः आगतः। परं देशस्य विभिन्नभागेषु राज्यविश्वविद्यालयाः राज्यबोर्ड इत्यनयोः स्थापनेन केवलम् अजमेरभोपाल-तत्पश्चात्‌ विंयप्रदेशमेवास्याधिकारक्षेत्रेऽवशिष्टः आसन्। परिणामस्वरूपतः १९५२तमेवर्षे बोर्ड इत्यस्य संविधानं संशोधितं जातम् येनास्य क्षेत्राधिकारः भाग-ग, भाग-घ इत्यस्य क्षेत्रतः वर्धितः जातः। अपि च बोर्ड एतमस्य वर्तमाननाम केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड इति कृतम्। अन्ततः १९६२तमेवर्षे बोर्ड इत्यस्य पुनर्गठनं जातम्। अस्य प्रमुखोद्देश्यः वर्तते। तेषां शैक्षिकसंस्थानानामधिकप्रभावीरूपेण सेवाकरणं, तेषां छात्राणां शैक्षिकावश्यकतानां प्रति उत्तरदायी भवितव्यम् येषामभिभावकाः केन्द्रसर्वकारे कार्यरताः सन्ति अपि च येषां प्रायः स्थानान्तरणीयव्यवसायाः आसन्।

   अस्यान्तर्गतेरागतः सर्वे निजी अथवा पब्लिक् विद्यालयाः, राजधानीदेहलीतः संचालिताः भवन्ति। सीबीएसई विद्यालयेषु शिक्षायाः द्वौ माध्यमौ स्तः, हिन्दीमाङ्ग्लं वापि चेतेषां पाठ्यक्रमे NCERT इत्यस्य पुस्तकानि प्रयुज्यते।

  1921तमेवर्षे भारतस्य प्रप्रथमशिक्षा-बोर्ड इत्यस्य स्थापना उत्तरप्रदेशे जाता, यस्य नामासीत् “उत्तर-प्रदेश-बोर्ड्-आफ्-हाई-स्कूल्-एंड-इंटरमीडिएट-एजूकेशन्” इति। सीबीएसई इत्यनेन शिक्षायाः क्षेत्रे तीव्रगत्या से विकासः कृतः, अपि चैतदेव कारणमस्ति यत् गतवर्षेषु अस्याः बहुतीव्रतया विस्तारोऽभवत्। 2020तमे वर्षे वर्तमानसमये ‘मनोजः आहूजा महोदयः’ केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड सीबीएसई इत्यस्याध्यक्षोऽस्ति।

  सीबीएसई अन्यबोर्ड तः भिन्नो एतदर्थमस्ति यतोह्यस्य पाठ्यक्रमे NCERT इत्यस्य पुस्तकानि प्रयुज्यते। भारते उच्चस्तरीया शिक्षायै बहवाः महत्वपूर्णपरीक्षाणां यथा NEET, JEE आदिनां पाठ्यक्रमाः सीबीएसई इत्यनेन युक्तः भवति। ये छात्राः क्षेत्रेऽस्मिन् स्वीयभविष्यं यच्छन्ति तेभ्यः सीबीएसई पाठ्यक्रमः बहूपयोगी सिद्धः ।

  केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड् (Central Board of Secondary Education अथवा CBSE) भारतस्य विद्यालयस्तरीय-शिक्षायाः एको प्रमुखो बोर्ड् अस्ति। भारतस्यान्तर्बहिर्वा बहवः निजी-विद्यालयाः एतेन सम्बद्धाः सन्ति। अस्यप्रमुखोद्देश्यो वर्तते – शिक्षासंस्थानान्याधिकप्रभावशाली रूपेण लाभः दानीयम्, तेषां विद्यार्थिनां शैक्षिकावश्यकतानां प्रति उत्तरदायित्वं भवितव्यम्, येषां मातापितरौ केन्द्रीयसर्वकारस्य कर्मकरौ स्तः।

   अपि च निरन्तरन्स्थानान्तरणीयपदेषु कार्यरताः भवेयुः। केन्द्रीयविद्यालयाः, १७६१ सर्वकारीयविद्यालया़ः, ५८२७ स्वतन्त्रविद्यालयाः, ४८० जवाहरनवोदयविद्यालया़ः, १४ केन्द्रीयतिब्बतीयविद्यालयाः सम्मिलिताः सन्ति। अस्य ध्येयवाक्यं वर्तते – “असतो मा सद्गमय” (हे प्रभो! अस्मानसत्यतः सत्यम्प्रत्यग्रसरतु ।)

क्षेत्राधिकारः

 बोर्ड् इत्यस्याधिकारक्षेत्रं व्यापकं वर्तते अपि च राष्ट्रस्य भौगोलिकसीमातः बहिरपि प्रसरितमस्ति। पुनर्गठनस्य फलस्वरूपं दिल्लीमाध्यमिकशिक्षाबोर्ड इत्यस्य केन्द्रीयबोर्ड मध्ये विलयः कृतः तथा च ऐन प्रकारेण दिल्लीबोर्ड द्वारा मान्यताप्राप्तासर्वाः शैक्षिकसंस्थाः अपि केन्द्रीयबोर्ड इत्यस्याङ्गोंऽभूत्। तदनन्तरं संघशासितप्रदेश-चण्डीगढ-अरूणाचलप्रदेश-अण्डमाननिकोबारद्वीपसमूह सिक्किमराज्यस्य पुनश्च झारखण्ड-उत्तरांचल एवं छत्तीसगढ़स्य सर्वे विद्यालयाः अपि बोर्ड इत्यनेन सह सम्बद्धतां प्राप्तवन्तः सन्ति। १९६२तमेवर्षे मात्र ३०९ विद्यालयतः ३१-०३-२००७ तमेवर्षे ८९७९ विद्यालययावत् बोर्ड इत्यनेन सम्बद्धाः जाताः येषु २१ अन्यदेशेषु प्रचलिताः १४१ विद्यालयाः अपि सम्मिलिताः सन्ति। एतेषु आहत्य ८९७ केन्द्रीयविद्यालयाः, १७६१ सर्वकारिकविद्यालयाः, ५८२७ स्वतन्त्रविद्यालयाः, ४८० जवाहरनवोदयविद्यालयाः, १४ केन्द्रीयतिब्बतीविद्यालयाः सम्मिलिताः सन्ति।

विकेन्द्रीकरणम्

    स्वकीयकार्याणि अधिकाधिकप्रभावशालीरूपेण निष्पादितुं सम्बद्धविद्यालयानाञ्च प्रति अधिकप्रतिसंवेदी उद्देश्येन बोर्डद्वारा देशस्य विभिन्नभागेषु क्षेत्रीयकार्यालयाः स्थापिताः। बोर्ड इत्यस्य क्षेत्रीयकार्यालयाः अजमेर्, चेन्नई, इलाहाबाद, गुवाहाटी, पंचकुला, देहेल्याञ्च स्थिताः सन्ति। देशात् बहिः स्थितविद्यालयाः, क्षेत्रीयकार्यालयाः देहल्याः अन्तर्गते आयान्ति। मुख्यालयस्य, क्षेत्रीयकार्यालयस्य कार्यकलापेषु दृष्टिः स्थापयति। यद्यपि क्षेत्रीयकार्यालयाः अपि पर्याप्ताधिकारः दीयते तथापि नीतिगतकार्येषु मुख्यालयं प्रेषयते। प्रशासनसम्बन्धिनः दिनप्रतिदिनस्य कार्येषु, विद्यालयेन सम्पर्कः, परीक्षायाः पूर्वं परं वा व्यवस्थादि सर्वेषां कार्याणां निरीक्षणं क्षेत्रीयकार्यालयेन द्वारा क्रीयते।