विश्वसंस्कृतदिनम् ॥
निबन्धः
Article No: 20230812
लेखकः-अय्यम्पुष़ हरिकुमारः
विश्वस्मिन् विद्यमानासु भाषासु अतिप्राचीना भाषा भवति संस्कृम्। एषा सुरभारती, अमृतभारती, देववाणी, अमरवाणी, इत्यादिभिः नामभिः प्रकीर्तिता। वैदिकं लौकिकम् इति अस्याः भेदद्वयं वर्तते। वेदाः वैदिके रामायणादि पुराणानि लौकिके च अन्तर्भवन्ति ॥ सर्वासां भारतीयाभाषाणां जननी संस्कृतभाषा इति मन्यते।
भारतस्य २२ राजभाषासु संस्कृतभाषा अन्यतमा भवति। १९६९ तमे भारतसर्वकारेण श्रावणपूर्णिमादिनं संस्कृतदिनत्वेन परिगण्यते। तदनन्तरं प्रतिसंवत्सरं श्रावणपूर्णिमादिनेन सह सप्तदिनानि संस्कृतसप्ताहत्वेन आचरामः।
जगति विद्यमानासु भाषासु अत्याधुनिकता सम्पूर्णता च संवत्सरात् पूर्वं संस्कृतभाषया समार्जितम्। वैयाकरणदृष्ट्या वैज्ञानिकी भाषा च भवति संस्कृतम्। अत एव सङ्गणकयन्त्रे उपयोक्तुम् अत्यनुयोज्या इति सङ्गणकविद्वांसः अभिप्रयन्ति।
आधुनिके अन्तर्जालयुगे अपि संस्कृतभाषायाः स्वकीयं विपुलप्रयोगसाधकं स्थानम् अस्ति। तादृशेषु स्थानेषु यू-नालिकावाहिन्यः संस्कृत-अन्तर्जालपत्रिकाः च संस्कृतस्य आधुनिकत्वम् उद्घोषयन्ति। सम्प्रतिवार्ता-पत्रिकायाः अन्तर्जालवार्ताप्रसारणपुटद्वारा यू-नालिका द्वारापि लघुवयस्काः बालिकाबालकाः अपि संस्कृतवार्ताप्रवाचकत्वेन सुप्रसिद्धाः इति संस्कृतस्य गरिमा तथा लखिमा च युगपदेव प्रमाणीक्रियते।
संस्कृतस्य पोषणेन अस्माकं संस्कृतीनां पोषणं भविष्यति। अस्माकं मनोबलस्य पोषणं भविष्यति। विश्वमानवत्वस्य पोषणं च भविष्यति। अतः अस्माकं सुरक्षित-शान्तिमय-जीवनाय संस्कृतम् अध्येमः। संस्कृतेन चिन्तयामः। संस्कृतेन वदामः। संस्कृतं प्रसारयामः॥