पद्मम्
चौ दुन्यि (Zhou Dunyi 1017-1073 ) चीनकविः ।
अनुवादक:- महामहोपाध्याय गो. गङ्गाधरनायरः |
बहूनि पुष्पाणि जले स्थले च
रोहन्ति सर्वाणि प्रियाणि नूनम् ।
जिन्- राजवंशे बत लब्धजन्मा
ताओयुवान् मिङ् युवराजवर्यः ॥1॥
सेवन्तिपुष्पे नितरां हि प्रीतो
नान्यत्सुमं कामयते स्म प्रीत्या ।
ताङ् वंशकालात् परमत्र सर्वे
पियोनिपुष्पे रुचिमावहन्ति ॥2॥
एकान्ततः पङ्कजमात्रकामी
भवाम्यहं राजकुमारभिन्नः ।
पङ्कात्तु निष्क्रान्तमिदं तु पुष्पं
निष्पङ्कमास्ते स्नपितं जलेन ॥3॥
दुष्काममेतन्न करोति चित्ते
मनोहरं तिष्ठति शोभते च ।
एतस्य वृन्तं तु ऋजु स्वयं त-
च्छून्यान्तरङ्गं न च तत्र पङ्कः ॥ 4 ॥
न तस्य शाखास्ति न च प्ररोहः
सन्तिष्ठते पूर्णशुचि स्वयं तु ।
प्रसारयत् सौरभमेव पुष्पं
समन्ततः सर्वहितं मनोज्ञम् ॥5॥
हस्तेन तद् लालयितुं न शक्यं
दूरे स्थितास्तु प्रवदेम शंसाम् ।
सेवन्तिका पुष्पमहो मतं मे
सन्न्यासि पुष्पेष्विति नात्र शङ्का ॥6॥
पियोनिपुष्पं खलु राजकीय-
माढ्यं च तद्वद् धनिनां प्रियं च ।
पद्मं तु पुष्पं सुजनः सुमेषु
मदन्य एतर्हि नु कस्तदिच्छेत् ॥7॥
ताओ कुमारात् परमस्ति नैव
सेवन्तिकायां रतमानसोऽन्यः
मत्तः परः कोऽस्ति सरोजपुष्ये
सुप्रीतिमान् वस्तुत एव देशे ॥8॥
पियोनिपुष्पाणि समस्तलोके
समाद्रियन्ते न हि तत्र शङ्का ।
इतःपरं किं न वदामि कष्टं
सेवन्तिका कुत्र च कुत्र पद्मम् ॥9॥
[भारते इव चीनमहाराज्येऽपि प्राचीनकाले धर्माश्रिता जीवनचर्या एव आद्रियते स्म। चीनदार्शनिक: कोङ्त्सिये (Confucius) महोदय: एव चीनसंस्कृतौ धार्मिकतायाः प्रतिष्ठायां कारणभूतः गुरुः। तस्य उपदेशेषु महता आदरेण पण्डितः कविः दार्शनिकः चौ दुन्यिमहोदयः नव्यकोङ्त्सियेदर्शनं प्रचार्य जनानां जीवनवृत्ते सामाजिकव्यवहारे च धार्मिकनीतिं पुनः स्थापयितुं महान्तं प्रयासं कृतवान्। चीनसंस्कृतौ धार्मिकतायाः चिह्नं भवति पद्मपुष्पम्। धार्मिकतायाः अपचये वैयक्तिकदुर्वृत्तं यद् व्याप्रोति तद् जनप्रियं स्यात् न तु जनहितम्। एषा कविता तु अन्यापदेशरीत्या सांस्कृतिकापचयं सूचयति।)