Thursday 25 August 2016

लोका: समस्ताः सुखिनो भवन्तु ।

डो. पि के शड़्करनारायणः
अकवूर् उच्च विद्यालयः,
श्रीमूलनगरम् ।

" पुत्रा: .....अप्पुट्टा ...... अम्मिणि...... सर्वे आगच्छन्तु ၊ अहमेकां कथां कथयामि ၊ " श्रावणमासस्य शैत्यसंयुते प्रभाते पूर्वस्मिन् दिने समाहृतानि  पष्पाणि उपयुज्य गृहाङ्णे पुष्पावरणनिर्माणसमये आसीत् मातामह्याः आह्वानम्।

" एषा मातामही सर्वदा एवमेव । उत्साहेन उत्साहेन किमपि कर्तं यदा दर्वीं चालयित्वा आगच्छति । " पारुकुट्ट्याः एतत् भाषणम् अप्पुट्टाय बहु अरोचत ।

" श्....... श्...... मा वदतु ज्येष्ठे एवम्। मातामही किल । स्नेह एव तस्याः सम्पाद्यम् इति अम्बा  सर्वदा वदति खलु "।

" सत्यं सत्यं ..... " अम्मिणिकुट्टी अवदत् । वदतु ,वदतु मातामहि !  वयं श्रुणुमः । ते सर्वे उत्साहेन मातामह्याः समीपं गत्वा उपाविशन् ।

' पुरा........ पुरातनकाले एकत्र एकं विशिष्टं राष्ट्रम् आसीत् '। ताम्बूलचर्वणं कुर्वती सा अवदत् ।
हुं .........  विशिष्टं राष्ट्रम् । तर्हि  तत्रत्य महाराजस्य विशेषः अपि स्यात् । उच्यतां  मातामहि उच्यताम् ' अप्पुट्टः उत्साहेन अपृच्छत् ।

" आ......आ.........  अ अ तत्रैव खलु विशेषः " मातामही सावधानं गत्वा किञ्चिद् दूरं दीर्धं निष्ठीवनम् अकरोत् ।

" हुं  वदामि श्रुणोतु, तस्मिन् राज्ये नृपः नासीत् । सर्वेऽपि नृपाः । सर्वेषामपि सर्वत्र अधिकारः आसीत् ।
 शासननिर्वहणे अपि सर्वेषाम्  अधिकारः। शिक्षाविधिं निर्णेतुं शिक्षां स्वीकर्तुं च तस्मिन् राज्ये केऽपि न आसन् ।  सर्वाण्यपि कार्याणि सुबद्धं प्रचलन्ति स्म तत्र । समत्वसुन्दरं राज्यम्  ' । मातामही साभिमानं दीर्धनिश्वासम् अकरोत् ।


" हन्त ! कष्टम् ! तर्हि तत्र आरक्षकाः भटाः वा न आसन् ? "  अम्मिणिकुट्टी अड़्गुल्या नासिकाग्रं स्पृष्ट्वा साकाड़्क्षं पृष्टवती ।

" नास्ति पुत्राः...... तदेव किल वदामि । तत्र चौर्यं नासीत् ।  धनिकाः निर्धनाः  वा न आसन्  । स्वामि-भृत्य - भावना वा न आसीत्। तत्र न केऽपि मद्यपानं कुर्वन्ति स्म । "

' उत्तमं राज्यम् । समीचीनम् । बहुविशिष्टम् । वदतु वदतु पुनः किम् ? अन्ये विशेषाः.......? ' अप्पुट्टः उपविश्यैव किञ्चिद् अग्रे सरन्नपृच्छत् ।

मातामही किञ्चिदालोच्य दीर्धनिश्वासं कृत्वा वक्तुम् आरब्धवती । तस्मिन् राज्ये सर्वेऽपि स्वस्य परिसरं प्रतिदिनं स्वच्छीकुर्वन्ति स्म । तत्र रुग्णाः न आसन् । तत्र दिनाचरणानि , इदानीं प्रचलन्ति खलु ग्रामे ग्रामे विद्यालये च, न.... न ..... तस्मिन् थाज्ये न सन्ति तादृशानि आचरणानि । सर्वं सर्वे जानन्ति स्म तत्र । परस्परसाहाय्येन सर्वेऽपि आवसन्। '

" ओ..........अरे ........... एतत् विशिष्टं राज्यमेव ' पारुकुट्याः   नेत्राभ्याम् आनन्दाश्रूणि प्रावहन् ।

' न समाप्तं पुत्राः । तत्र जनाः स्वस्य कृते आवश्यकानि वस्तूनि स्वयं निर्मन्ति स्म । शिशवः सदा सन्तुष्टाः आसन् । मातरः पितरः वा तान् न अपीडयन् । '

'आ........कारणं स्यात्..........। मातामही ! बालाः तत्र परस्परं न विवदन्ते स्म । एवं खलु  ' अम्मिणिकुट्टी सोत्साहमपृच्छत् ।

'हुं ..........सत्यं सत्यं ........' सा  शिरः अचालयत् । पारुकुट्टी अम्मिणीं नेत्रभ्यां भायितवती  ।

किं  ? मातामहि ! तस्य राज्यस्य नाम किम् ?
अप्पुट्टस्य आसीत् प्रश्नः । सर्वे साकुलं मातामहीं स्पृष्ट्वा अपश्यन् ।

ह  ह  ह मातामही तुला तोलनमिव चलित्वा हासमकरोत् । अवदत् च । तस्य राज्यस्य नाम नास्ति।एवं किञ्चित् राज्यमेव नास्ति भोः । तत्र सर्वे सुखिनः।शाश्वतप्रेम एव सर्वेषाम् । अथवा ........ अथवा ....... स्नेहः  इति स्यात् तस्य राज्यस्य नाम । श्रावणाचारणस्य स्मरणाः प्रददति तत् राज्यम् । पुरातनं राज्यम्....... ह ..... पुरातनम्.....' । मातामही नामजपेन मन्दं मन्दं महानसं लक्ष्यीकृत्य गतवती । कुत्रचित् श्रुतपुर्वं सुभाषितमपि सा वदति स्म ।

न राज्यं न राजासीत् न दण्ट्यो न च दाण्डिकः ।
धर्मेणैव प्रजाः सर्वाः रक्षन्ति स्म परस्परम् ।।