[
सरलया
संस्कृत-गिरा
वर्णिताः
] डॉ.
बलदेवानन्द-सागरः
भारते
यदुवंशः प्रमुखेषु राजवंशेषु
अन्यतमः आसीत्।
अस्य
वंशस्य अनुवर्तिनो यादवाः
गोपालकत्वेन विख्याताः जाताः।
ते
सुख्याते सुरम्ये प्रदेशे
गोकुले निवसन्ति स्म।
यादवानां
प्रमुखः नन्द-गोपः
तस्य पत्नी यशोदा च,
आनन्द-सन्दोहं
कृष्णं दत्तक-पुत्रत्वेन
स्वीकृत्य तं गोकुलम् आनीतवन्तौ।
गोकुलस्य
अनेन नूतनेन संयोगेन यादवानां
प्रसन्नता द्विगुणिता जाता।
कृष्णः
गोकुल-वासिनां
जीवनेषु अतुल्यं परिवर्तनम्
अकरोत्।
प्रेम्णा
स्नेहेन च गोपाल-इति
नाम्ना ख्यातः कृष्णः अतितरां
चञ्चलः सर्वैः साकं लीलया
व्यवहरति स्म।
यद्यपि
तस्य चञ्चल-बाल-लीलाभिः
नैकवारं प्रतोदिताः सन्तोऽपि
ते सर्वे गोपालाय स्निह्यन्ति
स्म।
अनुमिनोतु
,
गोपालाय
अधिकतमं किं रोचते स्म ?
भवतु,
दुग्धं
नवनीतं च।
प्रायेण
प्रतिदिनमेव,
यदा
वत्सः निज-मातुः
दुग्धं पातुम् उपक्रमते स्म
,
तद्-दृश्यं
रमणीयं भवति स्म।
दुग्ध-पानानन्तरं
कृष्णः गोवृन्दस्य पश्च-भागे
निलीयते स्म।
यदा
यादव-स्त्रियः
गो-दुग्धाहरणार्थम्
आयान्ति स्म,
कृष्णः
गोः पुच्छं सहसा आकर्षयति
स्म।
भवता
किं कदाचित् एवं श्रुतं यत्
कश्चन गोः पुच्छम् आकर्षयति
चेत् तदा किं गौः स्थिरा
अभविष्यत् ?
नैव...
एषा
स्यात् कूर्देत् ...
दुग्ध-पात्रं
च,
आस्फा
लयेत्...!
एतत्
सर्वं दृष्ट्वा कृष्णः प्रमुदितः
सन् मुक्त-मनसा
हसति दूरे
च
पलायते स्म।
एकदा
कृष्णः अतितरां चाञ्चल्य-पूर्णां
लीलाम् अकरोत्। सः
निजगृहस्य दुग्ध-भण्डारण-कक्षं
गतवान्,
यत्र
दुग्धं मृत्तिका-पात्रे
बालैः अप्राप्ये उन्नते स्थाने
आधीयते स्म |
किं
जानाति
भवान्
कृष्णेन किम् आचरितम् ?
सः
पार्श्व-स्थात्
कक्षात् चूर्णिका-प्रस्तरमेकम्
लोठयित्वा तत्रानीय तस्योपरि
च स्थितवान्।
अहो
काठिन्यम्...!
साम्प्रतमपि
सः दुग्ध-पात्रं
स्प्रष्टुं नैव अपारयत्।
सः
कानिचित् काष्ठानि प्रकीर्ण-फलकानि
च समेत्य मिथः संयोज्य
प्रस्तर-खण्डोपरि
स्थापितवान्।
तदुपरि
महता प्रयासेन पादाङ्गुलिभिः
आधृतः सन् दुग्ध-पात्रं
बलात् स्प्रष्टुम् अपारयत्।
सहसा
काष्ठानि प्रकीर्ण-फलकानि
च अवपतितुम् आरभन्त।
कृष्णः
पात्र-रज्जुं
धृत्वा “ अम्ब !
अम्ब
!!
कृपया
आगच्छतु ...
!!! साहाय्यं
करोतु...
अम्ब...!”
इति
सोत्कण्ठं मातरम् आकारयत्।
तस्मिन्
स्थले सर्व-प्रथमं
कृष्णस्य भ्राता,
बलरामः
प्राप्तः,
नभसि
दोलायमानं कृष्णं
दृष्ट्वा
बलरामः सानन्दं मातरम् आकारयत्
,
“मात
!
सपदि
आगच्छ !
कृष्णः
नभसि दोलायते ....
हा...
हा...
हा...!”
एतत्-संक्षोभं
श्रुत्वा यशोदा,
राधया
तत्-सखीभिः
च साकं धावन्ती तत्र आगता।
राधा
कृष्णस्य सखी आसीत्।
कृष्णं
दृष्ट्वा यशोदा साश्चर्यं
अवदत् –
“उद्धत
!
बाल
!
, अहं
दुःखितास्मि त्वत्तः...
!”
कृष्णः
यदा अधः अपश्यत् ,
सः
राधां तस्याः अन्यसखीः च
अपश्यत्,
तदा
सः समधिकेन तार-स्वरेण
अवदत् – “अम्ब !
कृपया
...
अम्ब
!!
कृपया
...
साहाय्यं
करोतु...अम्ब...!
मां
नीचैः अवतारयतु ...!!”
इदं
श्रुत्वा कृष्णे कृतदया यशोदा
तम् अवातारयत्।
परञ्च,
कृष्णः
साम्प्रतमपि हताशः आसीत् ,
अतः
यशोदा किम् अकरोत् ?
अस्तु
...
किञ्चित्
नवनीत-पिण्डं
दत्वा तं प्रसादितवती।
एकदा
,
कृष्णस्य
अन्यतमः सखा बलरामम् उपगम्य
अवदत् ,
“राम
!
पश्यतु
,
कृष्णः
मृत्तिकां खादति !”
अयं
कृष्णस्य ताडनं वाञ्छति स्म।
निश्चयेन,
मृत्तिकां
खादन्तं कृष्णं यदि यशोदा
पश्यति चेत् नूनं सा तं ताडयेत्
!
इदमेव
असौ सखा ईच्छति स्म।
बलरामः
विनैव काल-यापनम्
,
धावन्
एव यशोदाम् उपगम्य तां वार्ताम्
इमाम् अश्रावयत्।रुष्टा
यशोदा बलरामेण साकं कृष्णम्
अन्वेष्टुं निर्गता ।
तैः
दूरं नैव गमनीयम् आसीत्।
सः
तत्रैव आसीत् !
तम्
उपगम्य यशोदा अपृच्छत् ,
कृष्ण
!
कथय
मां,
किं
त्वया मृत् भक्षिता ?”
नैव
मात...!
नैव
भक्षिता।”
कृष्णः
अवदत्।
यद्यपि
यशोदा तं पुनः पुनः पृष्टवती,
कृष्णः
तुल्यमेव उत्तरं प्रादात्।
परञ्च,
यशोदा
तस्मिन् विश्वासं नैव कृतवती
!
कृष्णस्य
हस्तौ दृढं तस्य पृष्ठभागे
बद्ध्वा अपृच्छत् ,
“कृष्ण
!
मुधा
मा वद !
यदि
त्वम् अलीकं वदिष्यति,
ताडयिष्यामि।
मुखम्
उद्घाटय।
तव
मुखान्तं निरीक्षे।”
कृष्णः
सस्मितं निज-मुखम्
उदघाटयत्।
यशोदा
अतितराम् आघाताहता जाता।
मुखाभ्यन्तरं
तया यद् अवलोकितम्,
सा
नासीत् मृत्तिका,
परञ्च
वसुधा,
सूर्यः,
चन्द्रमा,
नक्षत्राणि...,
किम्बहुना,
समग्रं
जगत्।
इदं
सर्वं दृष्ट्वा किञ्चित्
स्थिरताम् अवाप्तुकामा यशोदा
कृष्णस्य मुखे गोकुलम् अवालोकयत्।
अपि
च,
कृष्णस्य
अनावृत-मुखस्य
सम्मुखं स्थिताम् आत्मानमपि
विलोकितवती।
परम-दुःखिता
यशोदा कृष्णं सोत्कण्ठम्
आश्लिष्य प्रार्थितवती.
“ कृष्ण
!
कृपया
निजमुखं पिधातु ...
अनावृतम्
इदं स्वीयं मुखं पिधातु कृपया...
! सस्मैरं
कृष्णः स्वकं मुखं पिहितवान्।
एकदा
यदा यशोदा दधि-मन्थनं
करोति स्म,
तदा
कृष्णः कक्षाभ्यन्तरम् आगतः।
“प्रिय-वत्स
!
किं
नवनीतं वाञ्छसि ...?”
यशोदा
अपृच्छत्।
कृष्णेन
मूर्धावधूननं कृत्वा न्यक्कृतम्।
कृष्णः
स्व-मातुः
दुग्धं पातुम् इच्छति स्म।
ततः
परम् ,
यशोदा
तं दुग्धं पाययितुम् आरभत।
किञ्चित्
कालानन्तरमेव यशोदा ज्ञातवती
यत् चुल्लिकोपरि प्रक्वथनार्थं
स्थापितं दुग्धं पात्राद्
बहिः निस्सरति।
सा
सहसा उत्थाय कृष्णं दूरे
अपसारितवती।
भवान्
कल्पयितुं शक्नोति यत् कृष्णः
कियान् रुष्टः सञ्जातः ?
क्रोधाविष्टः
सः तत्रस्थं सर्वमपि नवनीतं
रंहसा खादितवान्।
इतोऽपि
अधिकतर-रुष्टः
कृष्णः पार्श्वस्थं क्षीर-पात्रं
विकीर्य मार्जारं क्षीर-पानार्थम्
अनुज्ञातवान्।
ततः
परमसौ गृहात् तूर्णं निःसृतः।
परावर्तितवती
यशोदा अवालोकयत् यत् विकीर्णं
दुग्धं मार्जारः अवलिहति
स्म,
नवनीतं
किञ्चिदपि अवशिष्टं नासीत्।
यशोदा
वस्तुतः क्रुद्धा अजायत,
“गोपालेन
अतितरां तोदिताSस्मि,
नूनमसौ
सम्यक्तया ताडनीयोSस्ति।
ततः
परमेव सः सुशिष्टो भविता”-
सा
विचारितवती।
यशोदा
गृहात् बहिः निर्गता।
पूर्वतोऽपि
भयङ्करं दृश्यम् अपश्यत्।
सा
अपश्यत् यत् कृष्णः अवशिष्टं
नवनीतं कपिभ्यः खादयति स्म।
यशोदा
क्रोधाग्निना ज्वलिता।
यशोदा
रज्जुना कृष्णं बद्ध्वा रज्जोः
अपरान्तं उलूखलेन सार्धम्
अबद्ध्नात् !
“ उत्पातकारिन्
बाल !
अधुना
त्वं किं कर्तुं प्रभवसि –
इति ज्ञास्यामि !
किञ्चित्
कालार्थं अत्रैव तिष्ठ !!”
प्रमुदितः
बलरामः तन्मित्राणि च तत्र
आगतानि।
ते
कृष्णं उपाहसन् ततः परं
क्रीडितुं निर्गताः।
वराकः
कृष्णः !
सः
अतितराम् एकाकी अवर्तत !!
किञ्चित्
कालानन्तरं कृष्णः सत्यं हि
अतिरुचिम् अभजत।
किं
भवान् जानाति यत् तेन किं
कृतम् ?
सः
पश्चवर्तिनम् उलूखलम् आकर्षयन्
चलितुम् आरभत।
ततः
प्रचलन् कृष्णः पार्श्वस्थं
वृक्ष-द्वयम्
अपश्यत्।
किं
भवान् इदं ज्ञातुं नितरां
उत्सुकः नास्ति यत् ततः परं
कृष्णेन किम् आचरितम् ?
सः
केवलं वृक्ष-द्वयस्य
मध्यात् प्राचलत् !
अपिच,
उलूखलः
तयोः मध्ये अवरुद्धः।
कृष्णः
मन्थरतया उलूखलम् आकर्षयत्।
आह्...
! ओह्
...!!
उलूखलः
साम्प्रतमपि अवरुद्धः एव
आसीत्।
कृष्णः
स्व-पूर्ण-शक्त्या
उलूखलम् आकर्षयत्। अपि
च,
ततः
परं किं घटितम् ?
वृक्षद्वयमपि
उन्मूलितं जातम् !
अनुवर्तिनि
क्षणे उन्मूलित-वृक्ष-द्वयात्
देवौ समुत्पन्नौ।
एतौ
देवौ वृक्ष-योनौ
समुत्पन्नार्थं शापितौ आस्ताम्।
कृष्णः
स्व-लीलया
एव तौ शापमुक्तौ व्यदधात्।
कृष्णाय
निज-कृतज्ञतां
समर्प्य तौ स्वर्गं परावर्तितौ।
वृक्षयोः
उन्मूलनस्य महारावं श्रुत्वा
गोकुलस्य प्रत्येकमपि निवासी
धावन्निव तत्रागतः।
कृष्णः
प्रहसन्निव तत्र स्थितः आसीत्
!
नन्दगोपः
कृष्णम् उन्मोचितवान्।
किम्
अद्भुतं घटितम् ?
द्वौ
विशालौ वृक्षौ अप्रतिहतौ,
सहसा
उन्मूलितौ जातौ।
“इदन्तु
कस्यचित् अभिशापस्य उत्पात-जातम्।”
अनेके
यादवाः विचारितवन्तः।
“अस्मात्
आत्मानं रक्षितुम्,
अस्माभिः
किं करणीयम् ?
स्थानमेतत्
परित्यजेम ?”
एवं
हि,
यादवाः
गोकुलं परित्यज्य वृन्दावनं
प्रति याताः।
दिनानि
व्यतीतानि।
कृष्णः
बलरामः च पशु-पालन-योग्यौ
सञ्जातौ।
तौ
अपि अन्यैः गोपालकैः सह
गोचारणार्थं प्रयातुम् आरभताम्।
तयोः
अम्बा मध्याह्न-भोजनार्थं
प्रतिदिनं ताभ्यां दधि-मिश्रितम्
ओदनं ददाति स्म।
ते
गोपालाः आदिनं पशुभिः सार्धं
परितः परिभ्रमन्ति स्म।
यदा
गावः गोचारण-भूमौ
चरन्ति स्म,
कृष्णः
तस्य सखायः च क्रीडन्ति स्म,
उत
वा,
वृक्षाणां
छायासु विश्रमन्ते स्म।
कृष्णः
तदा स्वीयं वेणुं वादयति स्म।
कृष्णस्य
वेणु-स्वरं
श्रुत्वा प्रत्येकमपि प्राणी
परिवेश-जातं
विस्मरन्ति स्म।
एतादृशं
मधुरं सङ्गीतम् !
गावः
ग्रास-चरणं
विस्मृत्य सङ्गीत-माधुर्ये
निमग्नाः अभूवन्।
पक्षिणः
सङ्गीतमेतत् श्रोतुम् उद्डीय
कृष्णं निकषा आयान्ति स्म।
मयूराः
हरिणः च आनन्द-सन्दोह-भरिताः
तं परितः नृत्यन्ति स्म।
एकदा,
किञ्चित्
अतितरां अद्भुतं घटितम्।
कृष्णस्य
केचन सखायः गावः च विलुप्ताः
जाताः !
एते
कृष्णस्य वेणुगानं श्रोतुं
तस्य समीपम् उपयान्ति स्म।
ते
सर्वेऽपि कुत्र प्रयाताः ?
निज-वंशीं
वादयन् कृष्णः विलुप्तानि
मित्राणि गाः च अन्वेष्टुम्
आरभत।
सुदीर्घ-कालं
यावत् अन्वेषणानन्तरमपि सः
न कमपि प्राप्तवान्।
तदा
कृष्णः अन्वभवत् यत् ब्रह्मदेवः
प्रवञ्चनया एवं क्रीडति !
ब्रह्मा,
येन
समग्रमपि ब्रह्माण्डं सृष्टम्।
सः
कृष्णं परीक्षितुं गोपालान्
गाः च गोपायितवान्।
किं
भवान् जानाति ?
तदा
कृष्णेन किम् आचरितम् ?
निज-विलुप्तानां
मित्राणां गवां च स्थाने सः
तेषां तासां च प्रतिकृतीः
विरचितवान्।
सायङ्काले
कृष्णः प्रतिदिनमिव निज-मित्रैः
गोभिः च साकं गृहं प्रतिनिवृत्तः।
ब्रह्मदेवः
असमञ्जसताम् अन्वभवत्।
कृष्णं
परीक्षितुं गोपायितानां गवां
गोपालानां च विषये अधुना मया
की करणीयम् ?”
दिनानि
व्यतीतानि।
अन्ततः,
ब्रह्मदेवः
कृष्णस्य समक्षम् उपस्थाय
न्यवेदयत् ,
“ कृपया
मां क्षम्यताम्।
केवलं
भवन्तं परीक्षितुं वाञ्छामि
स्म।
अत
एव मया गोपालाः गावः च चोरिताः
गोपायिताः च।
एवम्
इदम् आचरितम् !
अहं
जानामि – भवान् साक्षात्
पुरुषोत्तमस्य नारायण-विष्णोः
अवतारः।”
सस्मितः
कृष्णः ब्रह्मदेवं न्यगादीत्
– “भगवन् !
भवता
मम मित्राणि पशवः च गोपायिताः,
परं
मया तु सायम् एते साकमेव गृहं
नेतव्याः आसन्।
अत
एव,
मया
एते पुनः सृष्टाः सन्ति।”
एतत्
श्रुत्वा,
ब्रह्मदेवः
अभिघोषितवान्–
“अहं
स्वीयं पराजयं स्वीकरोमि।
गोपायिताः
सर्वाः गावः गोपालाश्च मया
प्रत्यानीताः।
परञ्च
विशङ्के यत् भवता प्रकल्पितानां
गवां गोपालानां च किं भविष्यति
इति ?”
कृष्णः
सस्मितं अङ्गुलिं निर्दिशन्
न्यगादीत् –“पश्यतु !”
ततः
परं ब्रह्मदेवेन किं दृष्टम्
?
कृष्णेन
प्रकल्पिताः सर्वाः अपि गावः
यादवाश्च स्वयं भगवतो विष्णोः
स्वरूपतां परिणताः।
प्रत्येकमपि
विष्णोः नाभितः कमलं प्रादुरभूत्।
प्रत्येकमपि
कमले ब्रह्मदेवस्य प्रतिमूर्तिः
उपविष्टा आसीत्।
आश्चर्यचकितः
ब्रह्मदेवः एतत् सर्वं संवीक्षते
स्म।
ततः
परं सः बद्ध-कराञ्जलिः
कृष्णाय प्रणिपातं व्यदधात्।
अनुवर्तिनि
क्षणे,
विष्णोः
सर्वाण्यपि प्रतिरूपाणि
एकस्मिन् समन्वितानि सन्ति
कृष्णे विलीनानि।
कृष्णाय
आदराञ्जलीन् अर्पयित्वा
ब्रह्मदेवः प्रतिनिवर्तितः।
भगवतः
विष्णोः अवतारः,
भगवान्
कृष्णः स्मितं व्यदधात्।
परःसहस्रं
सूर्य-प्रभाभिः
प्रकाशितः अवर्तत।
कृष्णः
न कमपि किञ्चिदपि अवदत् यत्
किं किं घटितम् इति।
वृन्दावने
सर्वं यथावत् सञ्जातम्,
तथा
च,
कृष्णः
सर्वैः निज-मित्रैः
सह सुखम् आनन्दम् च अनुभवन्
व्यराजत।
Cell-
9810 5622
77
email-
baldevanand.sagar@gmail.com