Wednesday, 30 March 2016

सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥

चाणक्यनीतिदर्पणम् ५/१९

इयं भूमिः सत्येन एव धृता अस्ति । सूर्यः सत्येन एव तपति । वायुः स॒ञ्चरति सत्यस्य आधारेण एव । जगति विद्यमानं सर्वमपि सत्ये एव प्रतिष्ठितम् अस्ति । सत्यमेव सर्वस्य आधारभूतं, शक्तिमूलं च । अतः अस्माभिः सत्यम् उपासितव्यम् ।

Monday, 28 March 2016

सम्पत्सु महतां चित्तम् भवत्युत्पलकोमलम् ।
आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥

नीतिशतकम् – ६६

सामान्यजनाः सौख्यकाले आनन्देन अत्युत्सुकाः भवन्ति । कष्टकाले निरुत्साहिनः सन्तः असहायकताम् अनुभवन्ति । किन्तु महापुरुषाः न तथा । सम्पत्तेः प्राप्तौ तेषां मनः कमलवत् कोमलं भवति । आपत्तौ ते किञ्चिदपि विचलिताः न भवन्ति । महापर्वतस्य शिला इव नितरां दृढं तिष्ठन्ति ।

Friday, 25 March 2016

सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् ।
सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम् ॥

उद्योगपर्व - ४०/६

बहु जनाः सुखेन जीवितुम् इच्छन्ति । परिश्रमं कर्तुं न इच्छन्ति । एतादृशाः विद्यां सम्पादयितुं न अर्हन्ति । सुखार्थी विद्यां प्राप्तुं न अर्हति । यतः विद्यायाः सम्पादनं परिश्रमं, निरन्तरं प्रयत्नञ्च अपेक्षते । विद्यां प्राप्तुं यः इच्छति सः सुखं त्यजेदेव ।
यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः ।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ।।

मनुस्मृतिः ४/१६१

जनाः विभिन्नानि कार्याणि कुर्वन्ति । कीदृशानि कार्याणि कर्तव्यानि कीदृशानि न कर्तव्यानि इत्येतत् सर्वदा मनुष्यान् बाधते । यस्य कार्यस्य करणेन अन्तरात्मा तुष्यति तच्च कार्यम् अवश्यं करणीयम् । आनन्देन कर्तव्यं च । तस्य विरुद्धं कार्यं तन्नाम यस्य कार्यस्य करणेन अन्तरात्मनः सन्तोषः न भवति तत् कार्यं न करणीयम् ।
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पुराकृतं कर्म कर्तारमनुगच्छति ॥

सु.भा. - दैवाख्यानम् (९५/१२)

सहस्राधिकाः धेनवः सन्ति चेत् अपि वत्सः तासु धेनुषु स्वमातुः एव समीपं गत्वा तामेव अनुसरति । तथा एव अस्माभिः पूर्वजन्मनि कृतानि कर्माणि अस्मान् अनुसरन्ति एव ।
पिबन्ति नद्यः स्वयमेव नाम्भ:
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहा:
परोपकाराय सतां विभूतयः ॥

सु.भा. - सज्जनप्रशंसा (५१/१७०)

नदीषु जलं भवति । परन्तु नद्यः स्वयमेव तत् जलं कदापि न पिबन्ति । वृक्षेषु फलानि भवन्ति । ते वृक्षाः अपि स्वयमेव तानि फलानि कदापि न खादन्ति । जलवर्षणेन सस्यानि यथा सम्यक् प्रवृद्धानि भवेयुः तथा कुर्वन्ति मेघाः । परन्तु ते स्वेन वर्धितानि सस्यानि स्वयमेव न खादन्ति । एवमेव सज्जनाः स्वसमीपे विद्यमानानां सम्पत्तीनाम् उपयोगं स्वयं न कुर्वन्ति । अपि तु परोपकारार्थमेव तासां विनियोगं कुर्वन्ति ।
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥

विष्णुपुराणम् ३/९/३१

मुनिः सर्वदा सर्वेषां विषये उत्तमम् एव चिन्तयन् अभयप्रदानं कुर्वन् सञ्चरति । तस्य अन्यस्मात् कस्मात् अपि भयं न भवति। यत् भावयति तत् भवति । वयम् अन्येषां विषये यथा भावयामः यथा व्ययहरामः तथैव ते अपि अस्माकं विषये भावयन्ति व्यवहरन्ति च ।
यो यस्य चित्ते वसति न सदूरे कदाचन ।
खे सूर्य कमलं भूमौ दृष्ट्वेदं स्फुटति प्रियाः ॥

गर्गसंहिता माधुर्यखण्डः १/११

यः यस्य हृदये निवसति सः कदापि तस्मात् दूरे न तिष्ठति । यद्यपि सूर्यः आकाशे अस्ति कमलं तु भूमौ निवसति तथापि सूर्यस्य दर्शनमात्रेण कमलं विकसितं भवति (सूर्यस्य सान्निध्यम् अनुभवति ) ।
वयमिह परितुष्टा वल्कलैस्त्वं दुकुलैः
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोर्थवान् को दरिद्रः ॥

वैराग्यशतकम् – ५३

कश्चन संन्यासी राजानम् उद्दिश्य वदति – ”आश्रमे वसन्तः वयं वल्कलवस्त्रैः एव सन्तुष्टाः स्मः । भवान् कौशेयवस्त्राणि धरन् सन्तोषम् अनुभवति । भवतः मम च सन्तोषः समानः एव । तत्र न कोपि भेदः । यस्य तृष्णा अधिका अस्ति सः एव दरिद्रः । मनः यदि तृप्तं स्यात् तर्हि कः धनिकः ? कः दरिद्रः ?

Wednesday, 23 March 2016

स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥

पञ्चतन्त्रम् १/११२

अन्येषु जनेषु परिवर्तनम् आनेतुं ये इच्छन्ति ते सपदि उपदेशम् आरभन्ते । किन्तु उपदेशमात्रेण कस्यापि स्वभावस्य परिवर्तनं कर्तुं न शक्यते । स्वभावस्य परिवर्तनं तथा सुकरं न । यतः समीचीनतया उष्णीकृतमपि पानीयं स्वस्य स्वभावानुगुणं पुनः शीततां प्राप्नोति ।

Tuesday, 22 March 2016

कामान् दुग्घे विप्रकर्षत्यलक्ष्मीं
कीर्तिं सूते दुष्कृतं या हिनस्ति ।
तां चाप्येतां मातरं मङ्गलानां
धेनुं धीराः सूनृतां वाचमाहुः ॥

सु.भा. - वाग्वर्णनम् ८८/१२

लोके सर्वैः सज्जनानां सहवासं प्राप्तुं यत्नः करणीयः । तेषां सम्पर्केण अस्माकम् अनेके उपकाराः भवन्ति । सर्वेषां मङ्गलानां जननी इव स्थिता एषा सतां वाणी कामधेनुः इव अस्माकं सर्वाः इच्छाः पूरयति । अनिष्टात् अस्मान् दूरीकरोति । अतः एव पण्डिताः सज्जनानां वाचं कामधेनुं वदन्ति ।

Monday, 21 March 2016

अनेकशास्त्रं बहु वेदितव्यम्
अल्पश्च कालो बहवश्च विघ्नाः ।
यत्सारभूतं तदुपासितव्यं
हंसो यथा क्षीरमिवाम्बुमध्यात् ॥

सु.भा. - सामान्यनीतिः (१८०/८७८)

जातेन मनुष्येण बहूनां शास्त्राणां विषये यावत् शक्यते तावत् अध्येतव्यम् । तद्विषये विलम्बः न करणीयः । यतः कालः बहु अल्पः । अपि च सत्कार्याणां विघ्नाः अपि बहवः भवन्ति । यथा केनचित् कविना उक्तं - ‘क्षणशः विद्यां साधयेत्’ इति, तथैव कृत्वा शास्त्राध्ययनसमये अपि सारभूतम्, अतिप्रधानम् एव विषयं ज्ञातुम् अधिकः प्रयत्नः करणीयः । जलेन मिश्रितं क्षीरम् एकस्मिन् पात्रे अस्ति चेदपि हंसः यथा क्षीरमेव स्वीकरोति, तथा अध्ययनसमये अनुपयुक्तः अप्रधानः वा भागः परित्यक्तव्यः|