‘मन की बात’ [३८]
“मनोगतम्” [३८] (प्रसारण-तिथि:- 26.11.2017)
मम प्रियाः देशवासिनः, अद्य नवम्बर-मासीयः एकादश-दिनाङ्कः | नवम्बर-मासीयः एकादश-दिनाङ्कः, अस्मदीय-संविधानस्य दिवसः अस्ति | ऊनविंश-शताब्दस्य ऊन-पन्चाशत्तमे वर्षे [1949] अस्मिन्नेव दिने, संविधान-सभा भारतस्य संविधानं स्वीकृतवती | ऊनविंश-शताब्दस्य पञ्चाशत्तमे वर्षे [1950] जान्युआरि-मासे षड्विंशे दिनाङ्के संविधानं प्रवर्तितम्, अत एव वयं एनं गणतंत्र-दिवसरूपेण आयोजयामः | भारतस्य संविधानं हि, अस्मदीय-लोकतंत्रस्य आत्मा वर्तते | अद्यतनोsयं दिवसः, संविधान-सभायाः सदस्यानां स्मरण-दिनं वर्तते | ते हि भारतस्य संविधान-संरचनायाः कृते प्रायेण वर्षत्रयं यावत् परिश्रमम् अकुर्वन् | यः कश्चन तद्विषयिणीं परिचर्चां पठति, नूनं सः अनुभवति यत् राष्ट्राय समर्पित-जीवनस्य विचार-सरणी कीदृशी भवति ! एतद्-विषये वयं गौरवम् अनुभवामः | किं भवन्तः इदं कल्पयितुं शक्नुवन्ति यत् विविधता-पूर्णस्य अस्मदीय-देशस्य संविधान-रचनायै ते कियन्तं कठोरं श्रमितवन्तः ? पारदर्शित्वस्य प्रबोधस्य दूर-दर्शितायाः च नूनं ते दर्शनं कारितवन्तः, तथा च, तस्मिन् काले यदा देशः दासतायाः शृङ्खलाभ्यः मुक्ति-प्रक्रियायाम् आसीत् | अस्यैव संविधानस्य प्रकाशान्तर्गतं संविधान-निर्मातॄणां, तेषां महापुरुषाणां च विचार-प्रकाशान्तर्गतं नूतन-भारतस्य निर्माणम् अस्माकं सर्वेषां दायित्वं वर्तते | अस्मदीयं संविधानम् अतिव्यापकं वर्तते | सम्भवतः जीवनस्य तादृशं किञ्चन क्षेत्रं नास्ति, प्रकृतेः तादृशः कश्चन विषयो नैवास्ति, यो हि नात्र समावेशितः | सर्वेषां कृते समानता, सर्वान् प्रति च संवेदनशीलता, एतदस्ति - अस्मदीय-संविधानस्य अभिज्ञानम् | इदं प्रत्येकमपि नागरिकस्य, भवतु नाम सः निर्धनो वा दलितः, पश्चवर्ती वा वञ्चितः, आदिवासी वा महिला - सर्वेषां मौलिकान् अधिकारान् रक्षति तेषाञ्च हितानि परिपालयति | अस्मदीयमिदं कर्तव्यं यत् वयं संविधानम् अक्षरशः अनुसरेम | भवतु नाम सः नागरिको वा प्रशासकः, संविधानस्य भावनानुरूपम् अग्रेसरेम | न कश्चन अपि क्षतिम् अवाप्नुयात् - अयमेवास्ति संविधानस्य सन्देशः | अद्य, संविधान-दिवसस्य अवसरे डॉ.बाबासाहेब-आंबेडकरस्य स्मरणं सुतरां स्वाभाविकम् | अस्यां संविधान-सभायां महत्वपूर्ण-विषयाणां कृते सप्तदश पृथक्-पृथक् समितयो विरचिताः आसन् | एतासु अतितरां महत्वपूर्णाषु समितिषु अन्यतरा आसीत् - drafting committee - प्रारूपण-समितिः | डॉ. बाबासाहेब-आंबेडकरः, संविधानस्य तस्याः प्रारूपण-समितेः अध्यक्षः आसीत् | असौ नितरां भूयसीं महत्वपूर्णां भूमिकां निर्वाहयन् आसीत् | अद्य वयं भारतस्य यस्य संविधानस्य विषये गौरवमनुभवामः, तस्य निर्माणे बाबासाहेब-आंबेडकरस्य कुशल-नेतृत्वस्य अनुपमः प्रभावः वर्तते | तेन सुनिर्धारितमासीत् यत् समाजस्य प्रत्येकमपि वर्गस्य कल्याणं भवेत् | डिसम्बर-मासे षष्ठे दिने तस्य महापरिनिर्वाण-दिवसस्य अवसरे, वयं सर्वदा एव तं स्मरामः नमामश्च | देशस्य समृद्धौ शक्तिमत्करणे च बाबासाहेबस्य योगदानम् अविस्मरणीयम् अस्ति | डिसम्बर-मासे पञ्चदशे दिने सरदार-वल्लभभाई-पटेलस्य पुण्यतिथिरस्ति | कृषक-पुत्रतः लौह-पुरुषत्वेन प्रतिष्ठितः सरदार-पटेलः, देशस्य एकसूत्रीकरणे अतितराम् असाधारण-कार्यम् अनुष्ठितवान् | सरदार-साहबः अपि संविधान-सभायाः सदस्यः आसीत् | असौ मौलिकाधिकाराणां, अल्प-संख्यकानाम् आदिवासिनां च कृते विरचितायाः परामर्शदातृ-समितेः अपि अध्यक्षः आसीत् |
नवम्बर-मासीयः एकादश-दिनाङ्कः अस्मदीय-संविधान-दिवसोsस्ति, परञ्च देशोsयं कथं विस्मर्तुं प्रभवति यत् नव-वर्षेभ्यः प्राक्, अस्मिन्नेव दिने, आतंकवादिनः मुंबईम् आक्रान्तवन्तः | देशोsयं तान् वीरान् नागरिकान्, रक्षिकर्मिणः, सुरक्षाकर्मिणः, सर्वान् अपि तान् स्मरति प्रणमति च, ये आत्मानम् उत्सृष्टवन्तः | देशोsयं तेषां बलिदानं न कदापि विस्मरिष्यति | आतंकवादः, अद्यत्वे विश्वस्य प्रत्येकमपि भू-भागे सामान्यतः प्रतिदिनं सञ्जायमानायाः घटनायाः अति-भयंकर-रूपत्वेन संतिष्ठते | वयं, भारते विगतेभ्यः चत्वारिंशद्वर्षेभ्यः आतंकवादस्य कारणात् सुबहु सम्मुखीकुर्मः | अस्मदीयाः परस्सहस्रं निर्दोष-जनाः विगत-प्राणाः जाताः | अपि च, कतिपय-वर्षेभ्यः प्राक्, यदा भारतं जगति आतंकवादं चर्चते स्म, आतंकवादात् सञ्जायमानं भयङ्करं सङ्कटं परिचर्चते स्म, तदा जगतः जनानाम् अधिसंख्यं विषयमेनं गभीरतया स्वीकर्तुम् उद्यतं नैव आसीत् | परञ्चाद्य, आतंकवादः तेषां द्वाराणि संकेतयति तदा जगतः प्रत्येकमपि प्रशासनम्, मानवतावादे आहित-विश्वासानि, लोकतन्त्रे आश्वस्तानि प्रशासनानि च, आतंकवादं बृहत्तर-समाह्वानत्वेन अवलोकयन्ति | आतंकवादः विश्वस्य मानवतां समाह्वयति | सः मानवीय-शक्तीः नाशयितुं तत्परः | अतः न केवलं भारतं, विश्वस्य सर्वाः अपि मानवतावादि-शक्तयः सम्भूय, नूनम् आतंकवादं पराजयेरन् | भगवान् बुद्धः, भगवान् महावीरः, गुरुः नानकः, महात्म-गांधी चैतेषाम् एषा भूः, ये सदा जगति अहिंसा-प्रेम्णोः सन्देशं प्रसारितवन्तः | आतंकवादः उग्रवादश्च, अस्मदीयां सामाजिक-संरचनां दुर्बलीकृत्य एनां छेत्तुं भेत्तुञ्च दुश्चेष्टेते | अत एव, कालेsस्मिन् मानवतावादि-शक्तयः समधिक-जागरुकतया व्यवहरेयुः इति परमावश्यकम् |
मम प्रियाः देशवासिनः, डिसम्बर-मासे चतुर्थ-दिने वयं सर्वे मिलित्वा नौ-सेना-दिवसम् आयोजयिष्यामः | भारतीय-नौ-सेना, अस्मदीय-समुद्र-तटानि संरक्षति | अहं, नौ-सेना-सम्बद्धान् सर्वान्नपि जनान् अभिनन्दामि | भवन्तः सर्वे जानन्त्येव यत् अस्मदीय-सभ्यतायाः विकासः नदीनां तटेषु अजायत | भवतु नाम सा गङ्गा वा सिन्धुः वा यमुना वा सरस्वती - अस्मदीयाः सरितः समुद्राश्च, आर्थिक-सामरिकेति द्विविध-लक्ष्यार्थं महत्वाधायिनः सन्ति | एते अशेष-विश्वस्य कृते अस्मदीय-द्वाराणि सन्ति | अस्य देशस्य, अस्मदीयायाः अस्याः भूमेः महासागरैः साकम् अविभाज्यः सम्बन्धः अवर्तत, तथा च, यदा वयम् इतिहासम् अवलोकयामः, प्रायेण अष्टशत-नवशत-वर्षेभ्यः प्राक् [800-900] चोल-वंश-काले, चोल-नौ-सेना शक्तिमत्तमासु सेनासु अन्यतमा मान्यते स्म | चोल-साम्राज्यस्य विस्तरे, आर्थिक-महच्छक्तित्वेन अस्य विकासार्थं नौ-सेनायाः महद्-योगदानमासीत् | चोल-नौ-सेनायाः अभियानानाम्, अन्वेषण-यात्राणाम् चानेकानि उदाहरणानि अद्यापि, संगम-साहित्ये समुपलब्धानि सन्ति | अतिन्यूनाः एव अवगताः भवेयुः यत् जगति नौसेनानाम् अधिसंख्यं सुदीर्घ-कालानन्तरं युद्ध-पोतेषु कार्यार्थं महिलाः अनुज्ञातवत् | परञ्च, चोल-नौसेनायां, अष्टशत-नवशत-वर्षेभ्यः प्राक्, अनेकाः महिलाः प्रमुखां भूमिकां निरवहन् | न केवलम् एतावदेव, युद्धेष्वपि महिलाः समाविष्टाः आसन् | चोल-शासकाः पोत-निर्माण-विषयकं बहुतरं समृद्धं ज्ञानं सन्धारयन्ति स्म | यदा वयं नौ-सेना-विषयं कथयामः तदा छत्रपति-शिवाजी-महाराजस्य तस्य च नौ-सेनायाः सामर्थ्यं को नाम विस्मर्तुम् अर्हति ! कोंकण-तट-क्षेत्रम्, यत्र समुद्रस्य महत्वपूर्णा भूमिका वर्तते, शिवाजी-महाराजस्य राज्यान्तर्वर्ति आसीत् | शिवाजी-महाराजेन सम्बद्धाः अनेके दुर्गाः - यथा सिंधु-दुर्गः, मुरुड-जंजिरा-दुर्गः, स्वर्ण-दुर्गः प्रभृतयः, समुद्रतट-वर्तिनः आसन् उत वा समुद्रेण परिवृताः आसन् | एतेषां दुर्गाणां सुरक्षा-दायित्वं हि मराठा-नौ-सेना कुर्वन्ती आसीत् | मराठा-नौ-सेनायां विशाल-काय-पोतानां लघु-नौकानाञ्च संयुतिः आसीत् | अस्याः नौसैनिकाः कमपि शत्रुम् आक्रान्तुं तस्माच्च आत्मानं रक्षितुं अतितरां कुशलाः आसन् | यदा वयं मराठा-नौ-सेनायाः चर्चां कुर्मः, तदा कान्होजी-आंग्रे-वर्यस्य स्मरणं नैव जायेत, तन्नैवास्ति शक्यम् ! सः मराठा-नौ-सेनायाः स्तरोन्नयनं कृतवान् अपि च, नैकत्र, मराठा-नौ-सैनिकानाम् आस्थानकानि स्थापितवान् | स्वतंत्रतायाः प्राप्तेः अनन्तरम् अस्मदीया भारतीया नौ-सेना, विभिन्नेषु अवसरेषु स्वीयं पराक्रमं प्रादर्शयत् - भवतु सः गोवा-मुक्ति-संग्रामः आहोस्वित् ऊनविंश-शताब्दस्य एकसप्ततितम-वर्षीयं [1971] भारत-पाक-युद्धम् | यदा वयं नौ-सेनायाः चर्चां कुर्मः तदा केवलं युद्धमेव पश्यामः परञ्च भारतस्य नौ-सेना, मानवतायाः कार्येष्वपि सोत्साहं सहभागित्वमावहति | वर्षेsस्मिन् जून-मासे बांग्लादेश-म्यांमार-देशयोः Cyclone Mora- इति सामुद्रिक-झञ्झावात-संकटं समापन्नमासीत्, तदा अस्मदीय-नौसेनायाः INS-SUMITRA-पोतः तत्कालमेव सुरक्षा-साहाय्य-कार्याणि कुर्वन् अनेकान् मत्स्य-जीविनः जलेभ्यः निष्कास्य संरक्ष्य च बांग्लादेशाय अर्पितवान् | वर्षेsस्मिन् मे-जून-मासयोः यदा श्रीलंका-देशे जलपूरस्य भयंकरं संकटं समापन्नं तदा अस्मदीय-नौ-सेनायाः पोत-त्रयं तत्कालमेव तत्र गत्वा तत्रत्य-प्रशासनाय जनतायै च साहाय्यं व्यदधात् | बांग्लादेशे सेप्टेम्बर-मासे रोहिंग्या-विषये अस्मदीय-नौ-सेनायाः INS-GHADIYAL- (घड़ियाल)- इति पोत-द्वारा मानवीय-सहायता प्रापिता | जून-मासे PAPUA NEW GUINEA ( पापुआ न्यू गिनी ) - देशस्य सर्वकारः SOS- इत्यात्मरक्षि-सन्देशं प्राहिणोत्, तथा च, तस्य मत्स्याहरण-नौकायाः धीवरान् रक्षितुम् अस्मदीया नौ-सेना साहाय्यम् अकरोत् | नवंबर-मासे एक-विंशे दिने पश्चिमीय-खाते एकस्मिन् व्यापारिक-पोते दुरापन्ने सामुद्रिक-लुण्ठन-घटनावसरेsपि, अस्मदीय-नौ-सेनायाः INS TRIKAND - (त्रिकंड) इति पोतः साहाय्यार्थं तत्र द्रुतं प्रयातः | फ़िजी-देशाय [FIJI] आरोग्य-सेवानां सम्प्रापणं वा भवेत्, तत्कालमेव साहाय्य-प्रदानं वा स्यात्, प्रतिवेशि-देशस्य संकट-काले मानवीय-साहाय्य-प्रदानं वा स्यात्, अस्मदीया नौ-सेना सर्वदैव गौरवपूर्णानि कार्याणि कुर्वन्ती आसीत् | वयं भारतवासिनः, अस्मदीय-सुरक्षा-बलानि प्रति सर्वदैव गौरवस्य आदरस्य च भावं सन्धारयामः - भवतु नाम स्थल-सेना वा नौ-सेना वा वायु-सेना, अस्माकं सैनिकानां साहसं, वीरता, शौर्यं, पराक्रमः, बलिदानञ्च गौरवास्पदमेव, प्रत्येकमपि देशवासी एतान् प्रणमति | सपाद-शत-कोटि-मिताः देशवासिनः सुखेन जीवनं यापयेयुः इति विचिन्त्य एते स्वीयं यौवनं राष्ट्राय समर्पयन्ति | प्रति-वर्षं डिसेम्बर-मासे सप्तमे दिने सशस्त्रबलानि ध्वज-दिनम् आयोजयन्ति | अयं हि देशस्य सशस्त्रबलानि प्रति गर्व-सम्मानयोः प्रकटीकरणस्य दिवसोsस्ति | प्रसन्नोsस्मि यत् सम्प्रति प्रतिरक्षा-मंत्रालयः डिसेम्बर-मासे एकतः सप्तम-दिनं यावत् अभियानं प्रचालयितुं निरणैषीत् - देशस्य नागरिकान् सम्प्राप्य सशस्त्रबलानां विषये जनाः संसूचनीयाः, ते च सुतरां प्रबोधनीयाः | सम्पूर्णेsपि सप्ताहे आबाल-वृद्धाः सर्वेsपि ध्वजं सन्धारयेयुः | देशे सेनां प्रति सम्मानस्य आन्दोलनं प्रवर्तितं स्यात् | अवसरेsस्मिन् वयं सशस्त्रबलानां ध्वजान् वितरितुं शक्नुमः | स्व-परिवर्तिभ्यः निज-परिचितेभ्यश्च सशस्त्रबलैः सम्बद्धानां अनुभवान्, तेषां शौर्यपूर्ण-कार्याणि, तत्सम्बद्ध-चित्राङ्कन-मुद्रिकाः, चित्राणि च (hashtag armedforcesflagday) #armedforcesflagday- इत्यत्र प्रेषयितुं शक्नुमः | विद्यालयेषु, महाविद्यालयेषु च, सैनिकान् सैन्याधिकारिणश्च समामन्त्र्य, तेभ्यः सैन्य-विषयाणां सूचनाः आदातुं शक्नुमः | अस्माकं नूतन-सन्ततये सेना-सम्बद्ध-सूचनाः अधिगन्तुमयं समुचितः अवसरः भवितुमर्हति | अवसरोsयं अस्माकं सशस्त्र-सैन्य-बालानां सर्वेषामपि सैनिकानां कल्याणार्थं धनराशि-संग्रहस्य कालः भवति | राशिरयं, सैनिक-कल्याण-मण्डल-माध्यमेन युद्धस्य हुतात्मनां सैनिकानां कुटुम्ब-जनानां व्रणितानाम् आहतानां च भटानां कल्याणार्थं पुनर्वासार्थञ्च व्ययीक्रियते | आर्थिक-योगदानार्थं भवन्तः विभिन्न-प्रदेय-विषयिणीः सूचनाः ksb.gov.in - इत्यतः आदातुं शक्नुवन्ति | भवन्तः एतदर्थं cashless- इति रोक्क-रहितं प्रदातुमर्हन्ति | आगच्छन्तु, अवसरेsस्मिन् वयमपि किञ्चित् तादृशं करवाम, येन अस्मदीय-सशस्त्र-बलानां मनोबलं विवर्धेत | वयमपि तेषां कल्याण-दिशि स्वीयं योगदानं करवाम |
मम प्रियाः देशवासिनः, डिसेम्बर-मासीये पञ्चमे दिने ‘World Soil Day’ - इति विश्व-मृत्तिका-दिवसोsस्ति | अहं स्वीयैः कृषक-भ्रातृ-भगिनीभिः साकमपि किञ्चित् सम्भाषितुमीहे | पृथिव्याः महत्वपूर्णाङ्गत्वेन वर्तते - मृत्तिका | वयं यत्-किमपि खादामः तत्-सर्वमपि अनया मृत्तिकया एव सम्पृक्तं वर्तते | एकतस्तु, कृत्स्नापि खाद्य-शृङ्खला मृत्तिकया सम्बद्धास्ति | किञ्चित् कल्पयन्तु, यदि विश्वेsस्मिन् कुत्रचिदपि उत्पादक-मृत्तिका नैव भवेत् चेत्, किं नाम भविष्यति ? इदं विचिन्त्यैव भीतिः अनुभूयते | नैव मृत्तिका भविता, न हि पादपाः वा वृक्षाः समुत्पत्स्यन्ते, मानव-जीवनं कुत्र सम्भविता ? जीव-जन्तवः कुत्र सम्भविष्यन्ति ? अस्मदीयायां संस्कृतौ एतद्-विषयिणी चिन्ता पूर्वमेव परिशीलिता, इदमेव कारणमस्ति यत् वयं मृत्तिकायाः महत्व-विषये प्राचीन-कालादेव जागरुकाः स्मः | अस्मदीयायां संस्कृतौ एकतः कृषि-क्षेत्राणि प्रति, मृत्तिकां प्रति च भक्तिः आभार-भावश्च, जनेषु प्रवर्तेत - इति कृत्वा सहजः प्रयासः विहितः, अपरतश्च, तादृश्यः वैज्ञानिक-पद्धतयः, जीवनस्य अङ्गत्वेन अवर्तन्त यत् अस्याः मृत्तिकायाः पोषणं सततं स्यात् | अस्य देशस्य कृषकस्य जीवने तथ्य-द्वयस्यापि महत्वं प्रावर्तत - निज-मृत्तिकां प्रति भक्तिः युगपदेव, वैज्ञानिक-रूपेण मृत्तिकायाः संरक्षणं परिपोषणञ्च | वयं सर्वेsपि विषयेsस्मिन् गौरवमनुभवामः यत् अस्मदीयाः कृषकाः, परम्पराभिः साकमपि सम्पृक्ताः भवन्ति तथा च, आधुनिक-विज्ञानं प्रत्यपि रुचिमन्तो भवन्ति, प्रयतन्ते, संकल्पयन्ति च | अहं हिमाचल-प्रदेशस्य हमीरपुर-जनपदस्य टोहू-ग्रामस्य भोरंज-प्रखण्डस्य कृषकाणां विषये श्रुतवान् | अत्र पूर्वं कृषकाः असन्तोलित-रीत्या रासायनि- कोर्वरकाणाम् उपयोगं कुर्वन्ति स्म, येन एतस्याः भूमेः स्वास्थ्यम् अपक्षतम् | उत्पादनं न्यूनीभूतम्, उत्पादन-न्यूनतायाः कारणात् आयजातमपि न्यूनीभूतम्, मृत्तिकायाः उत्पादकता चापि शनैः शनैः क्षीणा जायते स्म | ग्रामस्य केचन जागरुकाः कृषकाः अस्याः परिस्थितेः गम्भीरताम् अवागच्छन्, तदनन्तरं ग्रामस्य कृषकाः काले एव स्व-मृत्तिकां परीक्षितवन्तः, तथा च, यावन्ति उर्वरकाणि, लघु-पौष्टिक-वस्तूनि, जैविकोर्वर्काणि चोपयोक्तुं ते निर्दिष्टाः, ते तदनुसृतवन्तः | तथा च, भवन्तः तत्परिणामं श्रुत्वा चकिताः भविष्यन्ति यन् मृत्तिका-आरोग्य-द्वारा कृषकाः यां सूचनां प्राप्तवन्तः, यन्मार्ग-दर्शनं लब्धवन्तः, तस्य कार्यान्वयनस्य परिणामः किमभवत् ? विगत-वित्त-वर्षे श्रावणीय-शस्यावधौ गोधूमस्य उत्पादने प्रति-एकड् त्रितः चतुर्मिता वृद्धिः जाता, अपि च, आयमितौ अपि प्रति-एकड् चतुर्तः षट्-सहस्र-रूप्यकाणां वृद्धिः अभवत् | अमुना साकं मृत्तिकायाः गुणवत्तायामपि परिष्कारः अजायत | उर्वरकस्य उपयोगस्य न्यूनता-कारणात् आर्थिक-सञ्चयोsपि जातः | इदं दृष्ट्वा प्रसीदामितमां यन्मम कृषक-भ्रातरः, मृदा–स्वास्थ्य-पत्रस्य परमर्शान् क्रियया अन्वेतुं प्रेरिताः अभूवन्, तथा च, यथा यथा परिणामाः अवाप्यन्ते, तेषां समुत्साहः अपि संवर्धते | सम्प्रति कृषकाः अपि अनुभवन्ति यत् शस्यानि चिन्तनीयानि सन्ति चेत् प्रथमं तावत् भूमेः चिन्ता करणीयास्ति, एवं हि, यदि वयं भूमि-मातुः चिन्तां करिष्यामश्चेत् भूमि-मातापि अस्माकं सर्वेषां पोषणं करिष्यति | अशेष- देशे अस्मदीयैः कृषकैः दश-कोट्यधिकानि मृदारोग्य-पत्राणि विनिर्मितानि येन हि ते स्वीय-मृत्तिकां सम्यग्रूपेण अवगन्तुं शक्नुयुः, तदनुरूपेण च, शस्य-वपनमपि कर्तुं पारयेयुः | वयं भूमि-मातुः भक्तिं कुर्मः, परञ्च यूरिया-सदृशैः उर्वरकैः भूमि-मातुः स्वास्थ्यं कियद् अपक्षतं भवति ? कदाचित् विचारितं वा ? प्रत्येकमपि वैज्ञानिक-प्रकारेण इदं सिद्धं यत् भूमि-माता समधिकस्य यूरियोपयोगस्य कारणात् गभीरां क्षतिं सम्मुखी- करोति | कृषकस्तु पृथिव्याः पुत्रोsस्ति, कृषकः भूमि-मातरम् अस्वस्थां कथं द्रष्टुं शक्ष्यति ? कालस्य इयमावश्यकतास्ति यत् मातृ-पुत्रयोः सम्बन्धाः पुनरेकवारं जागृताः स्युः | किम् अस्माकं कृषकाः, अस्मदीयायाः भूमेः पुत्राः, अस्माकं धरण्याः सन्ततयश्च इदं संकल्पयितुं शक्नुवन्ति यत् साम्प्रतं ते स्वीय-क्षेत्रेषु यावन्तं यूरियोपयोगं कुर्वन्ति, एतच्छताब्दस्य द्वाविंश-वर्षं यावत्, यद्धि स्वाधीनता-प्राप्तेः पञ्च-सप्तति-वर्षं भविता, अर्धोपयोगं अवरोत्स्यन्ति ? एक-वारं यदि, भूमि-मातुः पुत्रः, मम कृषक-भ्राता, इदं संकल्पयति चेत्, नूनं पश्यन्तु, भूमि-मातुः आरोग्यं परिष्कृतं भविता, उत्पादनञ्च विवर्धिता | कृषकस्य जीवनं परिवर्तितुम् आरप्स्यते |
सम्प्रति वयं सर्वेsपि Global warming, Climate change- इति जागतोष्णता-ऋतु-परिवर्तन-विषयम् अनुभवामः | कदाचित् तादृशः कालः आसीत् यदा दीपावल्याः प्रागेव शीतर्तुः प्रारभते स्म | अधुना सत्यपि डिसेम्बर-मासे आगते, शीतर्तुः शनैः शनैः समुपागच्छति | परञ्च यथैव शीतकालः आरभते, वयं सर्वेsपि अनुभवामः यत् कम्बलात् बहिः निर्गन्तुं न मनागपि कस्मैचिद् रोचते | परञ्च, एतादृशेष्वपि ऋतुषु सततं जागरुकाः सन्तः जनाः महान्तं परिणामं विधातुमर्हन्ति, अपि चैतानि उदाहरणानि अस्माकं सर्वेषां कृते प्रेरणा-प्रदायीनि भवन्ति | भवन्तोsपि इदं श्रुत्वा आश्चर्यमनुभविष्यन्ति यन् मध्यप्रदेशस्य अष्ट-वर्षीयः दिव्यांग-बालकः तुषारः, स्वीयं ग्रामं अनावृत-शौचाचरणान् मुक्तं विधातुं निरणैषीत् | एतावत्-व्यापक-स्तरीयं कार्यं तथा च, एतावान् कनीयान् बालकः ! परञ्च भावः संकल्पश्च, सुतरां बहुगुणितौ बृहन्तौ बलवत्तरौ च आस्ताम् | अष्ट-वर्षीय-बालकः न वक्तुं प्रभवति परञ्च, शीष्कारं स्वीयायुधत्वेन स्वीकृत्य प्रातः पञ्च-वादने उत्थाय स्वीय-ग्रामे प्रतिगृहं गत्वा च जनान् शीष्कार-स्वरेण जागरयति, हस्तयोः संकेतेन अनावृते शौचाचरणं नैव कर्तुं शिक्षयितुम् आरभत | प्रतिदिनं त्रिंशत्-चत्वारिंशत्-संख्याकेषु गृहेषु गत्वा स्वच्छतायाः सन्देश-प्रदायकस्य अस्य बालकस्य कारणात् कुम्हारी-ग्रामः, अनावृते शौचाचरणान् मुक्तः अभवत् | स्वच्छता-प्रोत्साहनाय कनिष्ठः बालकः तुषारः प्रेरकं कार्यमकरोत् | अस्माकीनाः दिव्यांग-भातृ-भगिन्यः दृढ़-निश्चयिनः, सामर्थ्यवन्तः, साहसिकाः संकल्प-वन्तश्च वर्तन्ते | प्रतिक्षणं वयं किञ्चित्-किञ्चिदपि शिक्षितुं अवसरान् लभेमहि | साम्प्रतं ते प्रत्येकमपि क्षेत्रे समीचीनतरं कार्यं कुर्वन्ति | अस्माकं दिव्यांग-जनाः न कस्मादपि पश्चवर्तिनः वर्तन्ते | भवन्तः सर्वे स्मरन्ति वा यत् अस्माकं दिव्याङ्गाः क्रीडकाः Rio Olympic-क्रीडा-स्पर्धासु भद्रतरं प्रदर्शनम् अकुर्वन्, चत्वारि पदकानि च विजितवन्तः | तथा च, नेत्रहीन- T-20 Cricket World Cup- इति स्पर्धायां अपि विजेतारः अभूवन् | अशेष-देशे पृथक्-पृथक्-प्रकारिकाः प्रतियोगिताः आयोज्यन्ते | विगतेषु दिनेषु उदयपुरे सप्तदश-संख्याकाः राष्ट्रिय-दिव्याङ्ग-तरण-स्पर्धाः आयोजिताः | अशेष-देशाद् आगताः अस्मदीयाः युवानः दिव्याङ्गाः भ्रातृ-भगिन्यः आसु सहभागित्वम् आवहन्, स्वीयं कौशलञ्च प्रादर्शयन् | तेषु अन्यतमः अस्ति- गुजरातस्य ऊनविंश-वर्षीयः जिगर-ठक्करः, तस्य शरीरे प्रतिशतं अशीतौ भागेषु मांसकोशिकाः नैव वर्तन्ते, परञ्च, तस्य साहसम्, संकल्पम् श्रमञ्च पश्यन्तु ! राष्ट्रिय-दिव्याङ्ग-तरण-स्पर्धायाम् ऊनविंश-वर्षीयः जिगर-ठक्करः एकादश-पदकानि विजितवान् ! असौ भारतस्य स्पर्धा-प्राधिकरण- द्वारा विंशति-विंशति-दिव्याङ्ग-ओलम्पिक-स्पर्धायै चितः, द्वात्रिंशत्-तरण-पटुषु चान्यतमः यो हि गुजराते गांधीनगरे Centre for Excellences- इत्यत्र प्रशिक्षणं प्राप्स्यति | अहं यूनः जिगर-ठक्करस्य समुत्साहम् अभिनन्दामि, तस्मै च मङ्गल-कामनाः व्याहरामि | अस्मदीयोsयं प्रयासो वर्तते यत् देशस्य प्रत्येकमपि जनः समर्थः क्षमश्च स्यात् | एकस्य समावेशि-समाजस्य निर्माणं भवेत् | ‘सम’-‘मम’’ इत्यनयोः भावः समाजे समरसतां विवर्धयेत्, सर्वे च सम्भूय अग्रेसरेम |
कतिपय-दिनानन्तरम् ‘ईद-ए-मिलाद्-उन-नबी’-पर्व आयोजयिष्यते| दिनेsस्मिन् पैगम्बर-हज़रत-मोहम्मद-वर्यस्य जन्म अजायत | अहं सर्वेभ्योsपि देशवासिभ्यः हार्दिकीः शुभकामनाः वितरामि, आशासे यत् इदम् ईद-पर्व, समाजे शान्तिं सद्भावनाञ्च विवर्धयितुं अस्मभ्यं सर्वेभ्यः नूतन-प्रेरणा-प्रदायि स्यात्, अभिनवाञ्च ऊर्जां प्रदद्यात्, नवीन-संकल्पस्य च सामर्थ्य-प्रदं भवेत् |
(दूरभाषः)
‘नमस्ते ! प्रधानमन्त्रि-महोदय, अहं कानपुरतः नीरजा-सिंहः वदामि | मम निवेदनं यत् अस्मिन् सम्पूर्णेsपि वर्षे स्वीये ‘मन की बात’-प्रसारणे यत् किमपि भवता उक्तं तेषु सर्वोत्तमान् दश-विषयान् पुनरपि अस्मान् कथयतु, येन पुनरपि तेषां विषयाणां स्मरणं स्यात् तथा च, वयं किञ्चित् इतः परमपि शिक्षितुं शक्नुमः | धन्यवादः |
( इति दूरभाष-सम्भाषणंम् )
भवत्याः कथनं समीचीनम् | इदं वर्षं पूर्णं भवति | अभिनवं वर्षं आसन्न-प्रायम् | परञ्च भवत्या सम्यक् परामर्शितम् | भवत्या यदुक्तं तेन सह किमपि संयोक्तुं किञ्चित् परिवर्तयितुं चाभिलषामि | अस्माकं ग्रामेषु ये वरिष्ठाः वृद्धाः भवन्ति, ते सर्वदैव कथयन्ति यत् दुःखं विस्मरतु, सुखञ्च नैव विस्मृतं स्यात् | अनुभवामि यद् विषयोsयं अस्माभिः प्रचारणीयः | वयं अष्टादशोत्तर-द्विसहस्र-तमे वर्षे शुभ-स्मरण-पुरस्सरम्, शुभ-संकल्पेन सहैव प्रविशेम | अस्माकं देशे तु संचार-माध्यमेषु, विगत-वर्षस्य अनेकासां रोचक-घटनानां पुनःस्मरणं कारयितुं प्रयत्यते | तेषु रचनात्मकमपि भवति, नकारात्मकमपि भवति | अहं भवद्भ्यः परामर्शमेकं वदामि यत् भवन्तः पञ्च वा दश वा रचनात्मक-विषयान् स्वीकर्वन्तु ये भवद्भिः श्रुताः वा दृष्टाः वा अनुभूताः स्युः तान् जनाः अपि अवगच्छन्ति चेत्, तेsपि शुभ-भावानुभूतिम् अवाप्नुयुः| किमत्र योगदानं कर्तुं शक्ष्यन्ति ? किम् अस्मिन् क्रमे वयं अस्य वर्षस्य जीवनस्य पञ्च रचनात्मक-विषयानुभवान् संभक्तुं शक्नुमः ? भवतु नाम तत् चित्र-माध्यमेन, वा लघुकथा-रूपेण, लघु-दृश्याङ्कनेन वा, अहम् आमन्त्रयामि यत् अष्टादशोत्तर-द्विसहस्र-तम-वर्षस्य स्वागतम् अस्माभिः शुभे परिवेशे करणीयम् | शुभ-स्मृतिभिः साकं करणीयम् | रचनात्मक-चिन्तनेन सह अनुष्ठेयम् | रचनात्मक-विषयान् संस्मृत्य विधेयम् |
आगच्छन्तु, NarendraModi App- इत्यत्र, MyGov- इत्यत्र, सामाजिक-संचार-माध्यमेषु #PositiveIndia (हैशटैग Positive India) - इत्यमुना साकं सकारात्मक-विषयान् वितरेम | अन्येभ्यः प्रेरणा-प्रदायि-घटनाः स्मरेम | शुभं स्मरेम चेत् शुभानुष्ठानस्य रुचिः समुत्पत्स्यते | शुभ-वस्तूनि शुभ-कार्यार्थम् ऊर्जां प्रददति | शुभ-भावः, शुभ-संकल्पस्य हेतुः भवति | शुभ-संकल्पः शुभ-परिणामार्थम् अग्रे सन्नयति |
आगच्छन्तु, सम्प्रति प्रयतेम #PositiveIndia (हैशटैग Positive India) | पश्यन्तु, वयं सर्वे सम्भूय प्रबलं रचनात्मकं च परिवेशं निर्माय आगमिष्यमाणस्य वर्षस्य स्वागतं करिष्यामः | अस्य वर्षस्य सामूहिक-गतेः शक्तिम्, अस्याश्च शक्तेः प्रभावं वयं सर्वे मिलित्वा द्रक्ष्यामः | तथा च, अवश्यमहम् आगामिनि ‘मन की बात’ -प्रसारणे #PositiveIndia (हैशटैग Positive India) इत्यत्र स्थापितान् विषयान् देशवासिभ्यः प्रापयितुं प्रयतिष्ये |
मम प्रियाः देशवासिनः, आगामिनि मासे, आगामिने ‘मन की बात’-प्रसारणाय अहं पुनरेकवारं भवतां मध्ये आगमिष्यामि | अनेकविधान् विषयान् चर्चितुं अवसरञ्च लप्स्ये | भूयांसो धन्यवादाः !!!
“मनोगतम्” [३८] (प्रसारण-तिथि:- 26.11.2017)
[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
- बलदेवानन्द-सागरः
मम प्रियाः देश-वासिनः !
नमस्कारः | कतिपय-दिनेभ्यः पूर्वम् अहं कर्णाटकस्य बालमित्रैः सह परोक्ष-संवादस्य अवसरं लब्धवान् | Times Group - इत्यस्य ‘विजय-कर्णाटक’-वार्तापत्रं बाल-दिवसावसरे, प्राथमिक-प्रयासम् अकरोत् यस्मिन् साग्रहं बालाः प्रेरिताः यत्ते प्रधानमन्त्रिणं पत्रं लिखेयुः | अनन्तरम् अमुना कानिचन चितानि पत्राणि प्रकाशितानि | अहं तानि पत्राणि अपठम्, तत् मह्यं सुतरां अरोचत | एते लघु-लघु-बालकाः अपि, देशस्य समस्याभिः अभिज्ञाताः सन्ति, देशे प्रवर्तमानाभिः चर्चाभिरपि परिचिताः सन्ति | अनेकान् विषयान् आलक्ष्य एते बालाः अलिखन् | उत्तर-कन्नड़स्य, कीर्ति-हेगड़े, Digital India-Smart City - इति योजनां प्रशंसन्ती परामर्शयत् यत् अस्मदीयायां शिक्षा-व्यवस्थायां परिवर्तनस्य आवश्यकतास्ति, तथा च, सा इदमपि परामर्शयत् यत् अद्यत्वे बालाः कक्ष्यायामेव पठितुं नाभिलषन्ति, तेभ्यः प्रकृति-ज्ञानं अतितरां रोचते | यदि वयं बालेभ्यः प्रकृति-सूचनां दद्मश्चेत्, स्यात् पर्यावरणस्य रक्षायाः कृते तेभ्यः भविष्यत्काले महत्-साहाय्यं सेत्स्यति |
लक्ष्मेश्वरातः रीडा-नदाफः अलिखत् यत् सा सैनिकस्य पुत्री अस्ति, सा चैतद्-विषये गौरवम् अनुभवति | को नाम वा भवेत् भारतीयः, यः सैनिकत्व-विषये गौरवं नानुभवेत् ! भवती तु सैनिकस्य पुत्री, भवत्याः गौरवानुभूतिस्तु स्वाभाविकी | कलबुर्गीतः इरफ़ाना-बेग़मः अलिखत् यत् तस्याः विद्यालयः तद्-ग्रामात् पञ्च-किलोमीटर-मितान्तरालेन दूरं वर्तते, यतः तया गृहात् शीघ्रं निर्गन्तव्यं भवति, अपि च, प्रत्यागमनेsपि अतितरां विलम्बो भवति | सा इदमपि लिखितवती यत् एतस्मात् कारणात् स्वीयैः सखिभिः साकं सा कालं यापयितुं नैव शक्नोति | सा परामर्शयत् यत् समीपमेव कश्चन विद्यालयः स्थापनीयः | परञ्च, देशवासिनः ! एकेन वार्तापत्रेण प्राथमिक-प्रयासत्वेन इदमारब्धम्, मां प्रति एतानि पत्राणि प्रापितानि, मह्यम् इदम् अरोचत, तेषां पत्राणां पठनस्य अवसरं लब्धवान् | मत्कृतेsपि अयं सुखदः अनुभवः आसीत् |मम प्रियाः देशवासिनः, अद्य नवम्बर-मासीयः एकादश-दिनाङ्कः | नवम्बर-मासीयः एकादश-दिनाङ्कः, अस्मदीय-संविधानस्य दिवसः अस्ति | ऊनविंश-शताब्दस्य ऊन-पन्चाशत्तमे वर्षे [1949] अस्मिन्नेव दिने, संविधान-सभा भारतस्य संविधानं स्वीकृतवती | ऊनविंश-शताब्दस्य पञ्चाशत्तमे वर्षे [1950] जान्युआरि-मासे षड्विंशे दिनाङ्के संविधानं प्रवर्तितम्, अत एव वयं एनं गणतंत्र-दिवसरूपेण आयोजयामः | भारतस्य संविधानं हि, अस्मदीय-लोकतंत्रस्य आत्मा वर्तते | अद्यतनोsयं दिवसः, संविधान-सभायाः सदस्यानां स्मरण-दिनं वर्तते | ते हि भारतस्य संविधान-संरचनायाः कृते प्रायेण वर्षत्रयं यावत् परिश्रमम् अकुर्वन् | यः कश्चन तद्विषयिणीं परिचर्चां पठति, नूनं सः अनुभवति यत् राष्ट्राय समर्पित-जीवनस्य विचार-सरणी कीदृशी भवति ! एतद्-विषये वयं गौरवम् अनुभवामः | किं भवन्तः इदं कल्पयितुं शक्नुवन्ति यत् विविधता-पूर्णस्य अस्मदीय-देशस्य संविधान-रचनायै ते कियन्तं कठोरं श्रमितवन्तः ? पारदर्शित्वस्य प्रबोधस्य दूर-दर्शितायाः च नूनं ते दर्शनं कारितवन्तः, तथा च, तस्मिन् काले यदा देशः दासतायाः शृङ्खलाभ्यः मुक्ति-प्रक्रियायाम् आसीत् | अस्यैव संविधानस्य प्रकाशान्तर्गतं संविधान-निर्मातॄणां, तेषां महापुरुषाणां च विचार-प्रकाशान्तर्गतं नूतन-भारतस्य निर्माणम् अस्माकं सर्वेषां दायित्वं वर्तते | अस्मदीयं संविधानम् अतिव्यापकं वर्तते | सम्भवतः जीवनस्य तादृशं किञ्चन क्षेत्रं नास्ति, प्रकृतेः तादृशः कश्चन विषयो नैवास्ति, यो हि नात्र समावेशितः | सर्वेषां कृते समानता, सर्वान् प्रति च संवेदनशीलता, एतदस्ति - अस्मदीय-संविधानस्य अभिज्ञानम् | इदं प्रत्येकमपि नागरिकस्य, भवतु नाम सः निर्धनो वा दलितः, पश्चवर्ती वा वञ्चितः, आदिवासी वा महिला - सर्वेषां मौलिकान् अधिकारान् रक्षति तेषाञ्च हितानि परिपालयति | अस्मदीयमिदं कर्तव्यं यत् वयं संविधानम् अक्षरशः अनुसरेम | भवतु नाम सः नागरिको वा प्रशासकः, संविधानस्य भावनानुरूपम् अग्रेसरेम | न कश्चन अपि क्षतिम् अवाप्नुयात् - अयमेवास्ति संविधानस्य सन्देशः | अद्य, संविधान-दिवसस्य अवसरे डॉ.बाबासाहेब-आंबेडकरस्य स्मरणं सुतरां स्वाभाविकम् | अस्यां संविधान-सभायां महत्वपूर्ण-विषयाणां कृते सप्तदश पृथक्-पृथक् समितयो विरचिताः आसन् | एतासु अतितरां महत्वपूर्णाषु समितिषु अन्यतरा आसीत् - drafting committee - प्रारूपण-समितिः | डॉ. बाबासाहेब-आंबेडकरः, संविधानस्य तस्याः प्रारूपण-समितेः अध्यक्षः आसीत् | असौ नितरां भूयसीं महत्वपूर्णां भूमिकां निर्वाहयन् आसीत् | अद्य वयं भारतस्य यस्य संविधानस्य विषये गौरवमनुभवामः, तस्य निर्माणे बाबासाहेब-आंबेडकरस्य कुशल-नेतृत्वस्य अनुपमः प्रभावः वर्तते | तेन सुनिर्धारितमासीत् यत् समाजस्य प्रत्येकमपि वर्गस्य कल्याणं भवेत् | डिसम्बर-मासे षष्ठे दिने तस्य महापरिनिर्वाण-दिवसस्य अवसरे, वयं सर्वदा एव तं स्मरामः नमामश्च | देशस्य समृद्धौ शक्तिमत्करणे च बाबासाहेबस्य योगदानम् अविस्मरणीयम् अस्ति | डिसम्बर-मासे पञ्चदशे दिने सरदार-वल्लभभाई-पटेलस्य पुण्यतिथिरस्ति | कृषक-पुत्रतः लौह-पुरुषत्वेन प्रतिष्ठितः सरदार-पटेलः, देशस्य एकसूत्रीकरणे अतितराम् असाधारण-कार्यम् अनुष्ठितवान् | सरदार-साहबः अपि संविधान-सभायाः सदस्यः आसीत् | असौ मौलिकाधिकाराणां, अल्प-संख्यकानाम् आदिवासिनां च कृते विरचितायाः परामर्शदातृ-समितेः अपि अध्यक्षः आसीत् |