बाणलिङ्गम् कविता
इच्छया प्रलयो यस्य महादेव इति स्मृतः।।
महादेवस्य नामानि अत्यद्भुतानि श्रुतानि वै।
बाणलिंगं खलु नाम तु उत्तमं सुखकरञ्च तत्।।
नर्मदायाः शिलाखण्डानि शिव इव आदृतानि वै।
बाणलिंगानि प्राप्यन्ते रेवाया:जले हि वै।।
रेखांकिता भवन्ति रेखाभिर्विविधाभिश्च सर्वदा शुभैः।
वर्णेषु च विविधेषु बाणलिङ्गानि रंजिता: प्राप्नुवन्ति च वै।।
शिवस्योल्लेखो$स्ति देवपंचायतने तथा।
जलस्य प्रतिनिधिरयं तेन कारुणिको भवः।।
स्वयम्भवतीति स्वयम्भूलिंगं नर्मदाया नर्मदेश्वरस्तथा ।
स्मरणीयश्च महाकालः सर्वदा वै कालस्यापि निवारकः।।
बाणलिङ्गं मृण्मयं ज्ञेयं बाणासुरेण च पूजितम्।
सर्व श्रेयस्करं देवं वै प्रणमामि च पुनः पुनः।।
----------------------------------------------
भगवल्लीला कविता
समर्थस्सृष्ट्युत्पादने चैव पालने प्रलये तथा।
लीलायै स आयाति वै शास्त्रेष्वस्ति विवेचनम्।।
चतुर्विंशत्यवतारेषु स आगतो धरिणीतले।
कृतं सर्वं तथा तेन संसारे यथास्मज्जीवनम्।।
लीला रामकृष्णयोर्हि प्रसिद्धा मनोरंजिका।
मर्यादा पुरुषः रामोऽस्ति कृष्णस्तु भगवान् स्वयम्।।
लीला द्विविधा प्रोक्ता हि नित्या अनित्या तथा।
अदृश्या नित्या चैव दृश्या लोकोपकारिका।।
नित्या रासलीला वै कृष्णचरिते उदाहृता।
शुकदेवेन सा दृष्टा गोपिकाः सम्मिलिता अभवन्।।
रामचरिते तु सा लीला तदासीच्च कृता हि वै।
हनुमतैव सा दृष्टा अन्येन द्रष्टुं न शक्यते।।
उपकाराय हि जीवानां भगवतो लीला भवति हि वै।
चतुर्मूर्तियुतो भूत्वा श्रीशः लोकानां हितमादधे।।
---------------------------------------------------
डा गदाधर त्रिपाठी
उत्पत्तिस्थितिप्रलयेषु सृष्टिरियं विभाजिता।इच्छया प्रलयो यस्य महादेव इति स्मृतः।।
महादेवस्य नामानि अत्यद्भुतानि श्रुतानि वै।
बाणलिंगं खलु नाम तु उत्तमं सुखकरञ्च तत्।।
नर्मदायाः शिलाखण्डानि शिव इव आदृतानि वै।
बाणलिंगानि प्राप्यन्ते रेवाया:जले हि वै।।
रेखांकिता भवन्ति रेखाभिर्विविधाभिश्च सर्वदा शुभैः।
वर्णेषु च विविधेषु बाणलिङ्गानि रंजिता: प्राप्नुवन्ति च वै।।
शिवस्योल्लेखो$स्ति देवपंचायतने तथा।
जलस्य प्रतिनिधिरयं तेन कारुणिको भवः।।
स्वयम्भवतीति स्वयम्भूलिंगं नर्मदाया नर्मदेश्वरस्तथा ।
स्मरणीयश्च महाकालः सर्वदा वै कालस्यापि निवारकः।।
बाणलिङ्गं मृण्मयं ज्ञेयं बाणासुरेण च पूजितम्।
सर्व श्रेयस्करं देवं वै प्रणमामि च पुनः पुनः।।
----------------------------------------------
भगवल्लीला कविता
डा गदाधर त्रिपाठी
एकाकी न रमते कोऽपि भावनेयं सार्वकालिका।
ईशोऽपिअनया बद्धश्च आयाति वै पृथिवीतले।।समर्थस्सृष्ट्युत्पादने चैव पालने प्रलये तथा।