Friday 23 November 2018


संस्कृतेन वृत्तिलाभः। ( Sanskrit for Employment )
ओली अमितः
संस्कृतरसास्वादसमूहस्य संचालकः

मार्गे गमनसमये देवेश: अनिलेन सह मिलति तयोः वार्तालापः।....

देवेश:- भो: अनिल भवान्  कुत्र वेगेन गच्छन् अस्ति?

अनिल:- नमो नमः मित्र। किं वदामि , बहु समस्याग्रस्तः अस्मि। मम PHD अभवत् परञ्च कुत्रापि उद्द्योग: न दृश्यते ।

देवेश:- अरे भवान् कस्मिन् विषये PHD कृतवान् ?

अनिलः- संस्कृतविषये।

देवेश: - अहमपि संस्कृतेन आचार्यपदवीम् अधिगतवान्  अस्मि। परञ्च अहम् उद्द्योगविषये कदापि न चिन्तयामि।

अनिलः- अरे तर्हि भवतः जीवनं कथं चलति?

देवेश: - पश्यतु अहम् अस्मि ब्राह्मणः। कर्मकांडम् अस्माकं कार्यम्, तेन सम्यक् चलति मम जीवनम्। अहं तु वदामि भवान् अपि आगच्छतु मया सह। पौरोहित्यं करिष्याव:।

अनिलः- अरे भवान् तु ब्राह्मणः अस्ति। भवान् तत् कर्तुं शक्नोति। अहं कथं करिष्यामि?

देवेश: - तर्हि  भवतः कृते केवलं शिक्षकस्य उद्द्योग: लप्स्यते। तदपि रामभरोसे रामाश्रये अस्ति।

( एतद्वार्तालापं कश्चन युवक: शृण्वन् आसीत्। सः आगत्य वदति)

युवक: - अरे कः वदति संस्कृतेन केवलं शिक्षकस्य उद्योग: एव प्राप्यते ?

देवेश: - अहं वदामि। भवान् किं मत्तः अधिकं  जानाति?

युवक: - भो: श्रीमन् कूपमण्डूक: मा भवतु।
पश्यतु - संस्कृतमाध्यमेन वयं शिक्षक:,विश्वविद्यालये अधिवक्ता, समाचारप्रवाचक:(news-reader) भारतीयदूतावासे अनुवादक: (translator) पुस्तकप्रकाशकः (publisher) लेखकः(writer) पुस्तकसमीक्षकः (critic) अपि भवितुं शक्नुमः।

अनिलः - अहं तु बाल्यकालात् एव प्रशासनिकक्षेत्रे (administrative field) गन्तुमिच्छामि।

युवक: - भवान् संस्कृतं पठित्वा केवलं NDA विहाय इतरासु सर्वासु प्रशासनिकसेवासु गन्तुम् अर्हति।

देवेश: - अहं तु श्रुतवान् वित्तकोषे कार्यलाभार्थम गणितम् अधिकं पठनीयं भवति?

युवक:- पश्यतु मित्र ! कापि भाषा उद्योगं न
ददाति। अपितु उद्योगस्य कृते प्रतियोगिपरीक्षाया: सिद्धता करणीया भवति।

देवेश: - अहं तु कर्मकाण्डकार्यार्थं बहुवारं विदेशमपि गच्छामि भो:, मम कृते तु एतदेव सम्यक्।

युवक: - पश्यतु मित्र, पौरोहित्यकर्म आभूषणम् अस्ति संस्कृतस्य ,परञ्च संस्कृतेन केवलं कर्मकांडं , पूजा-अर्चना भवति एवं सर्वत्र प्रचार: न करणीयः।

अनिलः - किं संस्कृतं पठित्वा विदेशेषु उद्द्योग: लभते वा?

युवक:- भवान् गूगलद्वारा यदा अन्वेषणं करिष्यति तदा पश्येत् यत् विदेशेषु अधुना संस्कृतज्ज्ञानां महती आवश्यकता वर्तते।

देवेश:- विदेशेषु अन्यत् किं कार्यम् अस्ति संस्कृतस्य?

युवक: -  विदेशेषु ये भारतीयाः निवसन्ति ते अपि संस्कतं ज्ञातुम् इच्छन्ति। अधुना भारतेपि IIT कानपुर, IIT मुम्बई , IIM अहमदाबाद मध्ये अपि अभियन्तार: संस्कृतं पठन्ति शोधकार्यं कुर्वन्ति।

अनिल: - एतावान् अवसरः अस्ति संस्कृते, अहं तु न जानामि ।

देवेश: - अरे महोदय! भवान् एतद् सर्वं कथं जानाति?

युवक: - अहं संस्कृते आज्ञावलिसञ्चस्य (software) निर्माणं करोमि भो:!

उभौ- ओहो! आश्चर्मेतत्।संस्कृते एतस्यापि निर्माणं कर्तुं शक्यते वा?

युवकः- अथ किम्? बहुवर्षेभ्यः पूर्वम् एकः नासाशास्त्रज्ञः उक्तवान् आसीत् यत् संस्कृतं सङ्गणकस्य कृते उपयुक्ततमा भाषा। वयं भारतीयाः तदा प्रारभ्य अद्य यावत् संस्कृतं सङ्गणकस्य कृते अत्त्युतमा इत्येव जपन्तः स्मः। संस्कृतं सङ्गणकक्षेत्रे उपयोक्तुं न केनापि प्रयत्नः कृतः। अतः यः मादृशः जनः सङ्गणकज्ञः तथा च संस्कृतमपि जानाति तस्य एतत् प्राप्तकार्यमेव यत् सः अनया दिशया प्रयत्नं कृत्वा सत्यमेव सङ्गणके संस्कृतं योजयेत्।

उभौ- तथापि संस्कृतं सङ्गणकभाषा भवेत् एतत् शक्यम् अस्ति वा?

युवकः- किमर्थं न शक्यम् भवेत्? यदि चीनजपानदेशीयाः तेषां मातृभाषां सङ्गणके योजयन्ति तर्हि वयं किमर्थं न शक्ताः भवामः?

उभौ- एवं वा?.

 युवकः- किं तर्हि? अतः संस्कृतं पठन्तु आधुनिकाः भवन्तु।