‘मनोगतम्’ – ४९ ‘मनकीबात’ (49वींकड़ी) प्रसारणतिथि: - २८-१०-२०१८
[“मनकीबात”-“मनोगतम्” -इतिकार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
- भाषान्तर-कर्ता -डॉ.बलदेवानन्द-सागरः
मम प्रियाः देशवासिनः, भवद्भ्यः सर्वेभ्यः नमस्कारः| ओक्टोबर-मासे एकत्रिंशत्तमे दिने अस्माकं सर्वेषां प्रियस्य सरदार-वल्लभभाई-पटेलस्य जयन्ती वर्तते, तथा च, प्रतिवर्षमिव ‘Run for Unity’-इति एकतायै धावनार्थं देशस्य युवजनाः सन्नद्धाः सन्ति | साम्प्रतन्तु ऋतुरपि बहु सुखदः| अयञ्च एकता-धावनस्य कृते उत्साह-वर्धकः| ममाग्रहोsयं यद् भवन्तः सर्वे बृहन्मात्रया एकताधावनेsस्मिन् नूनं सहभागित्वमावहन्तु | स्वाधीनता-प्राप्तेः प्रायेण सार्ध-षण्मासेभ्यः प्राक्, सप्तचत्वारिंशदुत्तरोनविंश-शततमे वर्षे जान्युआरि-मासे सप्त-विंशे दिने, विश्वस्य प्रसिद्धायाः Time Magazine’–इत्यान्ताराष्ट्रिय-पत्रिकायाः प्रकाशित-संस्करणस्य प्रथम-पृष्ठे सरदार-पटेलस्य छायाचित्रं प्रकाशितमासीत्| स्वीये मुख्ये वृत्त-विवरणे पत्रिकया भारतस्य एकं मानचित्रं प्रकाशितम्, अपि चैतत् मानचित्रं तादृशं नासीत् यादृशं वयमद्यत्वे पश्यामः | एतत् तादृशस्य भारतस्य मानचित्रमासीत् यद्धि अनेकधा विभक्तमवर्तत| तदा देशे सार्ध-पञ्चशताधिकानि रियासत-इति वंशभोग्यानि देशज-राज्यानि आसन्| आङ्ग्ल-जनानां भारत-विषयिणी रुचिः समाप्ता आसीत् परञ्च ते देशमिमं छिन्न-भिन्नं कृत्वा त्यक्तुमिच्छन्ति स्म |‘Time-पत्रिकया’लिखितमासीत् यत् भारते विभाजनं, हिंसा,खाद्यान्नसङ्कटं, महार्घता, सत्ता-इति शासनाधिकाराणां राजनीति-सदृशानि सङ्कटानिपरिभ्रमन्ति स्म |ततः परं ‘Time-पत्रिका’ लिखति यत् एतेषु सङ्कटेषु सत्सु देशं एकता-सूत्रेण सन्नद्धुं, व्रणान् च सम्भर्तुं यदि कश्चन क्षमते चेत् सोsस्ति- सरदार-वल्लभभाई-पटेलः |‘Time-पत्रिका’याः विवरणमिदंलौहपुरुषस्य जीवनस्य अपरान् अपि पक्षान् प्रकाशयति | केन प्रकारेण सः विंशत्युत्तरोन- विंश-शततमस्य दशके अमदाबादे समापन्न-जलपूरावसरे साहाय्य-कार्याणां प्रबन्धनमकरोत्| केन प्रकारेण सः बारडोली-सत्याग्रहस्य दिङ्निर्देशनं व्यदधात् | देशस्य कृते तस्य प्रामाणिकता प्रतिबद्धता च तादृशे आस्तां यत् कृषक-श्रमिकोद्योगपति-प्रभृतयः सर्वेsपि तस्मिन् विश्वसन्ति स्म| गान्धि-चरणः सरदार-पटेलम् अकथयत् यत् राज्यानां समस्याः तावत्यो विकटाः सन्ति यत् केवलं भवान् एव एताः समाधातुमर्हति, तथा च, सरदार-पटेलः समस्यानां प्रत्येकं समाधाय देशम् एकतासूत्रेण सन्नद्धुम् असम्भवकार्यं पूर्णतामनयत् | सः सर्वेषामपि वंश-भोग्यानां लघु-राज्यानां भारते विलयम- कारयत्| भवतु तत् जूनागढ़म् आहोस्वित् हैदराबादम्,त्रावणकोरम् वा राजस्थानस्य वंश-भोग्यं राज्यम् – सः सरदार-पटेलः एवासीत् यस्य विवेकेन रणनीतिक-कौशलेन चाद्य वयं एकं हिन्दुस्थानम् अवलोकयितुं पारयामः | एकता-सूत्रेण समन्वितं राष्ट्रमेतं, अस्मदीयां भारत-मातरं दृष्ट्वा वयं स्वाभाविक-रूपेण सरदार-वल्लभभाई-पटेलस्य पुण्य-स्मरणं कुर्मः |ऐषमः ओक्टोबर-मासीये एक-त्रिंशत्तमे दिने सरदार-पटेलस्य जयन्ती तु इतोऽपि विशिष्टा भविता –दिनेsस्मिन् सरदार-पटेल-वर्याय तात्विक-श्रद्धाञ्जलिमर्पयन्तो वयं Statue of Unity-इति एकता-प्रतिमां राष्ट्राय समर्पयिष्यामः | गुजराते नर्मदा-नदी-तटे स्थापितायाः अस्या प्रतिमायाः उत्तुङ्गत्वम् अमेरिका-देशस्य ‘Statue of Liberty’-इत्यपेक्षया
द्विगुणितं वर्तते | इयं हि विश्वस्य उच्छ्रिततमाप्रतिमा -प्रत्येकमपि भारतीयः एवं परिभाव्य गौरवमनुभविष्यति यत् विश्वस्यउच्छ्रिततमाप्रतिमा भारत-भूमौ विराजते | असौ सरदार-पटेलः यो हि धरण्या धृत-सम्पर्कः आसीत्, इतः परं नभसोsपि शोभां विवर्धयिष्यति | आशासे यत् देशस्य प्रत्येकमपि नागरिकः‘मातुः भारत्याः’ अस्याः महत्याः उपलब्धेः विषये विश्वस्मिन्नपि विश्वे सगौरवं वक्षसो वितान-पुरस्सरं, शिरः उन्नमय्य चास्याः गौरवं गास्यति तथा चेदं स्वाभाविकं यत् प्रत्येकमपि हिन्दुस्थानीअस्याः एकता-प्रतिमायाः दर्शनाभिलाषुकः भवेत्, तथा च विश्वसिमि यत् हिन्दुस्थानस्य प्रत्येकमपि कोणीयाः जनाः, इतः परं स्वीयं बहुतरं प्रियमिदं पर्यटन-स्थलमिति रुचिमाधास्यन्ति |
द्विगुणितं वर्तते | इयं हि विश्वस्य उच्छ्रिततमाप्रतिमा -प्रत्येकमपि भारतीयः एवं परिभाव्य गौरवमनुभविष्यति यत् विश्वस्यउच्छ्रिततमाप्रतिमा भारत-भूमौ विराजते | असौ सरदार-पटेलः यो हि धरण्या धृत-सम्पर्कः आसीत्, इतः परं नभसोsपि शोभां विवर्धयिष्यति | आशासे यत् देशस्य प्रत्येकमपि नागरिकः‘मातुः भारत्याः’ अस्याः महत्याः उपलब्धेः विषये विश्वस्मिन्नपि विश्वे सगौरवं वक्षसो वितान-पुरस्सरं, शिरः उन्नमय्य चास्याः गौरवं गास्यति तथा चेदं स्वाभाविकं यत् प्रत्येकमपि हिन्दुस्थानीअस्याः एकता-प्रतिमायाः दर्शनाभिलाषुकः भवेत्, तथा च विश्वसिमि यत् हिन्दुस्थानस्य प्रत्येकमपि कोणीयाः जनाः, इतः परं स्वीयं बहुतरं प्रियमिदं पर्यटन-स्थलमिति रुचिमाधास्यन्ति |
मम प्रियाः भ्रातरः भगिन्यश्च, ह्यः एव वयं देशवासिनः ‘पदाति-सेना-दिवसम्’ आयोजितवन्तः |भारतीय-सेनायाः अङ्गत्वेन ये वर्तन्ते तेभ्यः सर्वेभ्यः नमस्करोमि |निज-सैनिकानां साहसिक-कुटुम्बानि अपि अभिवन्दे, परञ्च किं भवन्तः जानन्ति यत् वयं हिन्दुस्थानीयाः सर्वे इमं ‘पदाति-सेना-दिवसम्’ किमर्थम् आयोजयामः? एतद्विषये न मनागपि वयं सूचिताः – न ज्ञायते यत् कथं शनैः शनैः दिवसोsयन्तु स्मृतिस्थः जातः परञ्च अस्य कारणं किमासीत् इति स्यात् सामान्यः हिन्दुस्थानीयः नैव जानाति | अयमेव स दिवसः, यदा भारतीय-सैनिकाः कश्मीर-धरायामवतीर्णाः आसन्, तथा च अवैध-प्रवेशकेभ्यः उपत्यकामरक्षन्| ऐतिहासिकीघटनैषा अपि सरदार-वल्लभभाई-पटेलेन साक्षात् सम्बद्धास्ति| भारतस्य महतः सैन्याधिकारिणः साम्-माणेकशाहस्य प्राचीनमेकं साक्षात्कारं पठन्नासम्| तस्मिन् साक्षात्कारे Field Marshal Manekshah [माणेकशाह्], स्वीय-कर्नल-पद-कालं संस्मरन् आसीत्| अस्मिन्नवसरे सप्त-चत्वारिंशदुत्तरोनविंश-शततमे वर्षे ओक्टोबर-मासे, कश्मीर-क्षेत्रे सैन्याभियानमारभत | Field Marshal Manekshah असूचयत् यत् एकस्य उपवेशनस्य अवसरे कश्मीरस्य कृते सेना-प्रेषणे सञ्जायमानं विलम्बमभिलक्ष्य सरदार-वल्लभभाई-पटेलः रुष्टः संवृत्तः |सरदार-पटेलः उपवेशनावसरे निज-विशिष्ट-शैल्या तमवलोक्य अकथयत् यत् कश्मीरे सैन्याभियाने न मनागपि विलम्बो भवेत्, अपि च तूर्णमेव अस्याः समस्यायाः समाधानं स्यात् | ततः परमेव सैनिकाः विमानैः कश्मीरं प्रति प्रस्थिताः, तथा च, वयं ज्ञातवन्तः यत् केन प्रकारेण सेनासफलतामवाप्नोत्– अमुमेव वयं ‘Infantry Day’-इति पदाति-सेना-दिवस-रूपेण प्रतिवर्षम् आयोजयामः |सरदार-महोदयाय श्रद्धाञ्जलिः, सरदार-वर्याय सादरं प्रणतिः | देशस्य दृढतायाः एकतायाश्च कृते तस्य सन्देशाय अपि प्रणामः | देशस्य एकतायै तस्य समर्पणस्य कृते प्रणतिपातः | ओक्टोबर-मासीये एकत्रिंशत्तमे दिने अस्माकं प्राक्तन-प्रधान-मन्त्रिणः इन्दिरागान्धि-महाभागायाः अपि पुण्यतिथिरस्ति | इन्दिरा-महाभागायै अपि सादरं श्रद्धाञ्जलिः|
मम प्रियाः देशवासिनः, क्रीडा कस्मै न रोचते ?क्रीडाजगति चैतन्यं, शक्तिः, दक्षता, क्षमता – एतानि सर्वाणि अतितरां महत्वपूर्णानि सन्ति| एते भवन्ति कस्यचन क्रीडकस्य सफलतायाः निकषः, अपि च, एतान्येव चत्वारि गुणानि कस्यचन राष्ट्रस्य निर्माणार्थमपि महत्वपूर्णानि भवन्ति| कस्यचन देशस्य युव-जनेषु यदि एतानि चत्वारि सन्ति चेत् स देशः न केवलं प्रविधि-विज्ञानार्थव्यवस्था-सदृशेषु क्षेत्रेषु प्रोन्नतो भविता, परञ्च क्रीडास्वपि स्वीयं ध्वजमुत्तोलयिष्यति| नातिचिरं मम स्मरणीयं मेलन-द्वयम् अजायत | अनयोः प्रथमं,जकार्ता-नगरे सम्पन्नानां ऐषमः ‘Asian Para Games’-इति एशिया-दिव्याङ्ग-क्रीडा-स्पर्धानाम्अस्मदीयैः दिव्याङ्ग-क्रीडकैः सह मेलनावसरः| एतासु क्रीडासु भारतेन आहत्य द्विसप्ततिः पदकानि विजित्य नूतनं कीर्तिमानं विरचितं तथा च, भारतस्य गौरवं विवर्धितम् | एतैः सर्वैः प्रतिभावद्भिःदिव्याङ्ग-क्रीडकैः साकं व्यक्तिशः मेलनस्य सौभाग्यं अहमवाप्नवम्, तथा चाहं तान् वर्धापितवान् | तेषां दृढा इच्छाशक्तिःप्रत्येकमपि विपरीत-परिस्थितिषु सङ्घर्षं कृत्वा अग्रेसरणस्य कृते तेषां समुत्साहश्च, अस्मान् सर्वान् अपि देशवासिनः सततं प्रेरयतः | एवं रीत्या Argentina-देशे ऐषमः ‘Summer Youth Olympics’- इति ग्रीष्मकालीन-युव-ओलम्पिक्-क्रीडा-स्पर्धानां विजेतृभिः साकं मेलनावसरो लब्धः | एतद् ज्ञात्वा भवन्तः प्रसन्नतामनुभविष्यन्ति यत् आसु क्रीडा-स्पर्धासु अस्माकं युवभिः एतावत्-पर्यन्तं उत्कृष्टं प्रदर्शनं विहितम्| अस्मिन् आयोजने वयं त्रयोदश पदकानि अतिरिच्य मिश्रितासु स्पर्धासु अपराणि त्रीणि पदकानि अवाप्नुम|कदाचित् भवतां स्मरणे स्यात् यत् साम्प्रतिके क्रमे एशिया-क्रीडा-स्पर्धासु अपि भारतस्य प्रदर्शनम् सर्वोत्तममवर्तत| पश्यन्तु! विगतेषु सद्यः कतिपय-पलेषु अहं कतिवारं ‘एतावत्-पर्यन्तंउत्कृष्टंप्रदर्शनं’, ‘भारतस्यप्रदर्शनम्सर्वोत्तमम्’, चेति शब्दान् प्रायुजम| एषास्ति अद्यतनानां भारतीय-क्रीडानां कथा या ह्यनुदिनं नूतनोपलब्धीः अवाप्नोति | भारतं न केवलं क्रीडासु अपि तु तेषु क्षेत्रेष्वपि नूतनानि कीर्तिमानानि विरचयति येषां विषये न कदाचिदपि विचारितमासीत् | उदाहरणार्थमहं भवतः Para Athlete-नारायण-ठाकुरस्य विषये विज्ञापयितुमिच्छामि, यो हि ऐषमः एशिया-दिव्याङ्ग-क्रीडा-स्पर्धासु देशस्य कृते धावन-स्पर्धायां सुवर्ण-पदकं विजितवान्| असौ जन्मना एव दिव्याङ्गः अस्ति | यदायं अष्ट-वर्षीयः सञ्जातः तदा तस्य पितृ-चरणः प्राणान् अत्यजत् | पुनश्चासौ आगामीनि अष्ट-वर्षाणि एकस्मिन् अनाथालये यापितवान् | अनाथालयं परित्यज्य आजीविकायैनारायण-ठाकुरः दिल्ली-परिवहन-निगमस्य बस-यानानां स्वच्छीकरणमकरोत्, दिल्ल्यां च मार्गोपान्ते स्थितेषु अनावृत-भोजनालयेषु परिचारकत्वेन कार्यमकरोत् | अधुना स एव नारायणः अन्ताराष्ट्रिय-क्रीडा-स्पर्धासु भारताय सुवर्ण-पदकं जयति | एतावदेव नैव, भारतस्य समेधमानं क्रीडा-पाटव-परिधिम् अवलोकयन्तु,भारतं जूडो-स्पर्धायाः वरिष्ठे वा कनिष्ठे, कस्मिन्नपि स्तरे न कदापि, ओलिम्पिक्-पदकं विजितवत्| परञ्च तबाबी-देवी युव-ओलिम्पिक्-स्पर्धासु जूडो-द्वन्द्वे रजत-पदकं विजित्य इतिहासं विरचितवती | षोडश-वर्षीया क्रीडिका तबाबी-देवी मणिपुरस्य अन्यतम-ग्राम-वासिनी वर्तते | तस्याः जनकः श्रमिकः, जननी च मत्स्य-विक्रयं करोति | नैकवारं तस्याः कुटुम्बं तादृशं कालं सम्मुखीकृतवत् यदा तेषां पार्श्वे अशनार्थमपि नाणकानि न भवन्ति स्म | एताः परिस्थितयोsपि तबाबी-देव्याः धैर्यं अवधीरयितुं नैवापारयन्| तथा च सा देशस्य कृते पदकंविजित्यइतिहासंविरचितवती| एतादृश्यः असंख्याःकथाः सन्ति | प्रत्येकमपि जीवनं प्रेरणा-स्रोतस्त्वेन वर्तते | प्रत्येकं युवा क्रीडकः तस्य चोत्साहः नूतन-भारतस्य अभिज्ञानं वर्तते |
मम प्रियाः देशवासिनः, कदाचिद् भवतां स्मरणे स्यात् यद् वयं विगते वर्षे FIFA-सप्तदशोन-विश्व-चषक-स्पर्धानां सफलायोजनं कृतवन्तः | निखिलमपि विश्वम् अतितरां सफल-क्रीडा-स्पर्धात्वेन एतत् प्राशंसद् अपि च,FIFA-सप्तदशोन-विश्व-चषक-स्पर्धासु दर्शकाणां संख्याविषयोsपि नवीनं कीर्तिमानं व्यरचयत् | देशस्य पृथक्-पृथक् कीडाङ्गणेषुद्वादश-लक्षाधिकाः जनाः पाद-कन्दुक-क्रीडानाम् आनन्दम् अन्वभवन्, तथा च, युव-क्रीडकानाम् उत्साहं विवर्धितवन्तः | वर्षेsस्मिन् भारतं भुवनेश्वरे ऐषमः पुरुष-हॉकी-विश्व-चषक-स्पर्धानांआयोजन-सौभाग्यमलभत| हॉकी-विश्व-चषक-स्पर्धाः नवम्बर-मासस्य अष्टाविंशत्तःआरभ्य डिसेम्बर-मासस्य षोडश-दिनं यावत् प्रचलितारः |प्रत्येकमपि भारतीयः, यो हि कामपि क्रीडां खेलति वा कस्याञ्चन अपि क्रीडायां तस्य तस्याः वा रुचिः भवेत्,तेषां तासाञ्च मनस्सु हॉकीं प्रति, अनुरक्तिः नूनं भवत्येव | भारतं हॉकी-क्रीडायां स्वीयं स्वर्णिमेतिहासं विरचयति | व्यतीते काले भारतं विविधासु प्रतियोगितासु सुवर्ण-पदकानि विजितवत् तथा चैकवारं विश्व-चषक-विजेतृरूपेणापि अवर्तत | भारतं अनेकान् महतः हॉकी-क्रीडकान् अपि अजनयत् |जगति यदापि हॉकी-विषयिणी चर्चा भविष्यति, तदा भारतस्य एतैः महद्भिः क्रीडकैः विना हॉकी-कथा अपूर्णा एव स्थास्यति | हॉकी-प्रवीणः मेजर-ध्यानचन्दः अशेष-जगति सुख्यातोsस्ति |ततः परं बलविन्दर-सिंहः वरिष्ठः, लेस्ली-क्लौड़ीयस् (Leslie Claudius), मोहम्मद्-शाहिदः, ऊधम-सिंहतः धनराज-पिल्लईम्-यावत् हॉकी-क्रीडा महतीमेकां यात्रां पूर्णतामनयत् | अद्यापि भारत-वृन्दस्य क्रीडकाः निज-परिश्रमेण अनुरक्त्या च अधिगम्यमानाभिः सफलताभिः हॉकी-क्रीडायाः नूतन-सन्ततिं सततं प्रेरयति | खेला-प्रेमिणां कृते लोमहर्षक-स्पर्धानामवलोकनं हि समीचीनावसरत्वेन भवति | भुवनेश्वरं यान्तु तथा च, न केवलं भारतीय-समूहम् उत्साहयन्तु परञ्च सर्वाण्यपि वृन्दानि प्रोत्साहयन्तु | ओड़िशा नाम तादृशमेकं राज्यं यस्य नैजः गौरवपूर्णः इतिहासः वर्तते,समृद्धञ्च सांस्कृतिकं रिक्थमस्ति, अपि च, अत्रत्याः जनाः अपि भावोत्साह-भरिताः भवन्ति | क्रीडा-प्रेमिणां कृतेsयं ओड़िसा-दर्शनस्यापि बृहदवसरोsस्ति | अत्रान्तरे क्रीडानन्दानुभवेन सहैव भवन्तः कोणार्कस्य सूर्यमन्दिरं, पुर्यां भगवतो जगन्नाथस्य मन्दिरं, चिल्का-तडाग-सहितानि अनेकानि विश्वप्रसिद्धानि दर्शनीयानि पवित्रस्थलानि चापि नूनम् अवलोकयितुं शक्नुवन्ति | अहं अस्याः प्रतियोगितायाः कृते भारतीय-पुरुष-हॉकी-वृन्दं शुभकामना-प्रदानेन वर्धापयामि तथा च, तान् सर्वान् अपि विश्वासयामि यत् सपाद-शत-कोटि-भारतीयाः तैः सम्भूय तेषाञ्च समर्थने सुस्थिताः सन्ति, एवञ्च भारतमागम्यमानेभ्यः विश्वस्य सर्वेभ्योsपि क्रीडक-गणेभ्यः भूयान्सि शुभकामना-वचान्सि व्याहरामि|
मम प्रियाः देशवासिनः, सामाजिक-कार्यार्थं येन विधिना जनाः अग्रे आयान्ति,तदर्थञ्च स्वैच्छिकतया कार्याणि आचरन्ति, तद्धि सर्वेषामपि देशवासिनां कृते प्रेरणादायकम् उत्साह-प्रदञ्चास्ति | वस्तुतस्तु,‘सेवा परमो धर्मः’ इत्यस्ति भारतस्य रिक्थम्| युग-युग-प्राचीनाः सन्ति अस्मदीयाः परम्पराः, तथा च, समाजस्य प्रत्येकमपि कोणे, प्रत्येकमपि क्षेत्रे च वयमासां परम्पराणां सुरभिम् अद्यापि अनुभवामः | परञ्च नवीने युगे, नूतन-पद्धत्या, नव-सन्ततिः,नूतनानन्देन, अभिनवोत्साहेन, नव-नवानि स्वप्नानि आदाय एतानि कार्याणि अनुष्ठातुमद्यत्वे अग्रे आयान्ति | विगतेषु दिनेषु कार्यक्रममेकं गतवान् यत्र एकं प्रवेश-द्वारं प्रवर्तितं, यस्य नामास्ति - ‘Self 4 Society’- समुदायाय आत्मा |MyGov, देशस्य सूचना-प्रविधिः, वैद्युदाणविकोद्योगश्च स्वीय-कार्मिकान् सामाजिक-कार्यार्थं प्रोत्साहयितुम्, एतदर्थञ्च अवसरान् उपलम्भयितुं प्रवेश-द्वारमिदं प्रवर्तितवन्तः|अस्यकार्यस्यकृते तेषु यावान् समुत्साहः, प्रसक्तिश्च वर्तते तद्दृष्ट्वा प्रत्येकमपि भारतीयः गौरवमावक्ष्यति |सूचना-प्रविधितः समुदायं यावत्, अहं नैव वयम्,स्व-तः समष्टियात्रायाः सुरभिः अत्रास्ति | कश्चन बालं पाठयति, अपरत्र कश्चन वरिष्ठान् पाठयति, कश्चन स्वच्छता-कर्मणि संनिरतः, तर्हि कश्चन कृषकेभ्यः साहाय्यं करोति, तथा चैवंकरणस्य कृते न काचिदपि अपरा लालसास्ति अपि तु, अत्र समर्पण-सङ्कल्पयोः निःस्वार्थ-भावः सन्निहितोsस्ति | अन्यतमो युवा दिव्याङ्गानां wheelchair basketball-इति चक्रासन्दिका-कण्डोल-कन्दुक-गणस्य साहाय्यमनुष्ठातुकामः स्वयमपिचक्रासन्दिका-कण्डोल-कन्दुक-क्रीडां शिक्षितवान् | अयं हि उत्साह-भावः, एतच्च समर्पणम् – नूनमिदं लक्ष्योन्मुखि कार्यमस्ति | किं कस्यचनापि हिन्दुस्थानीयस्य कृते नायं गौरव-विषयो भविता! अवश्यं भविता! अहंनैववयम्-इति भावना अस्मान् सर्वान् प्रेरयिष्यति |
मम प्रियाः भ्रातरो भगिन्यश्च, एतस्मिन् क्रमे यदाहं ‘मन की बात’-प्रसारण-विषयकान् भवतां परामर्शान् अवलोकयन् आसम्, तदा पुडुचेर्याः श्रीमनीष-महापात्रस्य अतितरां रुचिरा टिप्पणी मया दृष्टा | सः Mygov-इत्यत्र अलिखत् - ‘कृपया भवान् ‘मन की बात’-इति कार्यक्रमे अस्मिन् क्रमे भाषतां यद्भारतस्य जनजातयः तासां रीतयः परम्पराश्च केन प्रकारेण प्रकृत्या साकं सहास्तित्वस्य सर्वश्रेष्ठमुदाहरणमस्ति इति |Sustainable development- इति संधारणीय-विकासार्थं केन प्रकारेण अस्माकं कृते तासां परम्पराणाम् अङ्गीकरणस्य आवश्यकताः वर्तन्ते, ताभ्यः किञ्चित् किञ्चित् शिक्षणम् आवश्यकमिति|
मनीष-महोदय! विषयमेनं ‘मन की बात’ – कार्यक्रमस्य श्रोतॄणां मध्ये उपस्थापनार्थमहं भवन्तं प्रशंसामि | तादृशोsयं विषयोsस्ति यो हि अस्मान् स्वीयं गौरवपूर्णमतीतं संस्कृतिञ्च प्रति अवलोकयितुं प्रेरयति | अद्यत्वे कृत्स्नमपि विश्वं विशेषरूपेण च पश्चिम-देशाः पर्यावरण-संरक्षणं चर्चन्ते, तथा च, संतोलित-जीवनशैल्याः कृते नूतनान् मार्गान् मृगयन्ति | यद्यपि साम्प्रतम् अस्मदीयं भारतवर्षमपि अस्याः समस्या- याः अस्पृष्टं नैवास्ति, परञ्च अस्याः समाधानार्थम् अस्माभिः केवलं स्वीयाभ्यन्तरं विवेचनीयम्, नैजं समृद्धमितिहासम्, परम्पराश्च विचारणीयाः सन्ति, तथा च, विशेषेण अस्मदीयानां जनजातीय-समुदायानां जीवनशैली अवगन्तव्यास्ति | प्रकृत्या साकं सामञ्जस्यं स्थापयित्वा जीवितव्यमिति अस्माकम् आदिवासि-समुदायानां संस्कृतौ समाविष्टम् | अस्मदीयाः आदिवासिनो भ्रातरो भगिन्यश्च वृक्षान् पादपान् पुष्पाणि च देवी-देवतावदेव पूजयन्ति | मध्य-भारतस्य भील-जनजातिः, विशेषरूपेण च मध्यप्रदेश-छत्तीसगढ़योः जनाः पिप्पलार्जुन–सदृशान् वृक्षान् सश्रद्धं पूजयन्ति | राजस्थान-सदृशायां मरुभूमौ बिश्नोई-समाजः अस्मान् पर्यावरण-संरक्षणस्य पन्थानं प्रादर्शयत् | विशेषेण वृक्षाणां संरक्षण-सन्दर्भे ते निज-जीवन-त्यागमेव बहु मन्यन्ते परञ्च एकोऽपि वृक्षः कदाचित् प्रणश्येदिति ते नैव स्वीकुर्वन्ति | अरुणाचलस्य मिशमी-जनाः,व्याघ्रैः साकं स्वीय-सम्बन्धान् साधिकारं ख्यापयन्ति | तान् ते निज-भगिनी-भ्रातृवद् आमनन्ति | नागालैण्डेsपिव्याघ्राः वनानां रक्षकरूपेण अवालोक्यन्ते | महाराष्ट्रस्य वार्ली-समुदाय-जनाः व्याघ्रान् अतिथित्वेन आमनन्ति | व्याघ्राणामुपस्थितिः तेषां कृते समृद्धि-प्रदायिनी गण्यते | मध्यभारतस्य कोलसमुदायस्य इयम् अन्यतमा मान्यता यत् तेषाम् आत्मनः सौभाग्यं व्याघ्रैः सम्बद्धमिति, यदि व्याघ्राः कवलं नैवाप्नुवन् चेत् ग्रामवासिनोsपि क्षुधिताः स्थास्यन्ति – इत्येतादृशी तेषां श्रद्धा | मध्य-भारतस्य गोंड-जनजातीयाः अभिजनन-ऋतौ केथन-नद्याः केषुचिद् भागेषु मत्स्याहरणं परित्यजन्ति | एतानि क्षेत्राणि मत्स्यानाम् आश्रय-स्थानमिति ते मन्यन्ते | अस्याः प्रथायाः कारणात् ते स्वस्थान् बहुसंख्यकान् च मत्स्यान् अवाप्नुवन्ति | आदिवासि-समुदायाः प्राकृतिक-सामग्रीभिः निज-गृहाणि निर्मान्ति | तानि च सुदृढानि सन्ति युगपदेव पर्यावरणानुकू- लानि अपि भवन्ति | दक्षिण-भारतस्य नीलगिरि-प्रस्थानाम् एकान्त-क्षेत्रेषु एकः लघुः तोड़ा-इति यायावर-समुदायोsस्ति, पारम्परिकरीत्या तेषां वसतयः स्थानीय-स्तरेण उपलब्ध-वस्तुभिरेव विनिर्मिताः भवन्ति |
मम प्रियाः भ्रातरः भगिन्यश्च, इदं सत्यं यत् आदिवासि-समुदायः सुतरां शान्तिपूर्णः भवति, तथा च, पारस्परिक-सामञ्जस्य-पुरस्सरं स्थातुं विश्वसिति, परन्तु यदि कश्चन तेषां प्राकृतिक-संसाधनानि प्रणाशयति चेत् तदा ते निजाधिकाराणां कृते युद्धादपि नैव बिभ्यति | नेदम् आश्चर्य- करं यदस्माकम् आद्येषु स्वतन्त्र-सैनिकेषु आदिवासि-समुदा- यस्य एव जनाः आसन् | को नाम विस्मर्तुमर्हति - भगवन्तं बिरसामुण्डा-महोदयं यो हि निज-वन्य-भूमेः रक्षार्थं ब्रिटेन्-शासनं विरुद्ध्य कठिनतरंसङ्घर्षमकरोत् | मया यानि तथ्यानि अत्रोपस्थापितानि तेषां सूची अतितरां दीर्घास्ति |
आदिवासिसमुदायस्य एतादृन्शि बहूनि उदाहरणानि सन्ति यानि अस्मान् शिक्षयन्ति यत् प्रकृत्या सार्धं सामञ्जस्यं स्थापयित्वा कथं जीवितव्यम् ? तथा च, साम्प्रतं अस्माकं पार्श्वे या अरण्य-सम्पदोsवशिष्टाः, तदर्थं देशोsयम् अस्मदीयानाम् आदिवासिनां ऋणी एव | आगच्छन्तु! वयं तान् प्रति आदर-भावं प्रकटयेम |
मम प्रियाः देशवासिनः,‘मन की बात’-प्रसारणे वयं तासां व्यक्तीनां संस्थानाञ्च विषये चर्चां कुर्मः ये हि समाज-हितार्थं किञ्चिद् असाधारण-कार्यं कुर्वन्ति | तादृन्शिकार्याणि यानि अवलोकनेन तु साधारणानि प्रतीयन्ते परञ्च वस्तुतस्तु तानि गभीरतया प्रभावकाणि सन्ति- अस्माकं मानसिकतायाः परिवर्तनार्थं, समाजस्य च दिशा-परिवर्तनार्थम् | कतिपयेभ्यो दिनेभ्यः प्रागहं, पञ्जाबस्य कृषकस्य भ्रातुः गुरबचन-सिंह-वर्यस्य विषये पठन् आसम् | सामान्यस्य परिश्रमिणश्च कृषकस्य गुरबचनसिंह-महोदयस्य पुत्रस्य विवाहः आसीत् | अस्माद् विवाहात् प्राक्, गुरबचन-वर्यः वध्वोः पितरौ अवोचत् यत् वयं निराडम्बरतया विवाहं करिष्यामः| वरयात्रिकाः वा स्युः आहोस्वित् अन्यानि वस्तूनि वा भवेयुः, नाधिकस्य व्यय-करणस्य आवश्यकतास्ति| एनं नितरां सरलावसरमेव धारयितुं वाञ्छामः, ततः परं सहसा ते अब्रुवन् यत् ‘परञ्च अस्मदीयः एकः समयः वर्तते’ तथा चाद्यत्वे विवाहावसरे समयस्य कथा उपस्थाप्यते तदा सामान्यतया प्रतीयते यत् प्रतिपक्षी किञ्चित् बृहदभियाचनम् उपस्थापयिष्यति| कानिचित् तादृन्शि वस्तूनि अभियाचिष्यते यद्धि स्यात् पुत्र्याः कुटुम्ब-जनानां कृते काठिन्यकराणि भवेयुः, परन्तु भवन्तः एतज्-ज्ञात्वा आश्चर्यमनुभविष्यन्ति | अयं भ्राता गुरबचन-सिंह-वर्यःआसीत् सरलः कृषकः, सः वध्वाः पितरमवादीत्, यं समयमुपास्थापयत्, सोsस्माकं समाजस्य यथार्था शक्तिरस्ति | गुरबचनसिंह-महोदयः तमवादीत्- ‘भवान् मह्यं वचनं ददातु यदितः परं कृषिक्षेत्रे पराली-ति पाकावशिष्टानि तृणानि नैव दाहयिष्यति’ इति | किं भवन्तः कल्पयितुं शक्नुवन्ति यत् अस्मिन् कियती महती सामाजिक-शक्तिरस्ति | गुरबचनसिंह-वर्यस्य उक्तिरियम् आपाततः सामान्या प्रतीयते परञ्चेयं द्योतयति यत्तस्य व्यक्तित्वं कियत् विशालम् ? वयम् अवलोकयामः यत् अस्माकं समाजे तादृन्शि बहूनि कुटुम्बानि भवन्ति यानि वैयक्तिकान् प्रसङ्गान् समाजहितकर-प्रसङ्गत्वेन परिवर्तयन्ति | श्रीमतो गुरबचनसिंहस्य कुटुम्बेन अस्मत्-समक्षम् उदाहरणम् उपस्थापितम् | अहं पञ्जाबस्य कल्लर-माजरेति अपर-ग्राम-विषयेsपि अपठम्, यो हि नाभातः समीपे एवास्ति | कल्लर-माजरा-ग्रामः एतदर्थं चर्चितः अभवत् यतो हि अत्रत्याः कृषकाः कैदार-ग्रासस्य दाहनापेक्षया पाकावशिष्टानि तृणानि क्षेत्र-भूमौ एव मिश्रयन्ति, एतदर्थञ्च आवश्यकं प्रविधिमपि नूनं प्रयुञ्जन्ति | भ्रात्रे गुरबचनसिंह-वर्याय वर्धापनानि |कल्लरमाजरा-वास्तव्येभ्यः तत्रत्येभ्यः सर्वेभ्यश्चापि वर्धापनानि ये हि वातावरणं स्वच्छतरं सन्धारयितुं सर्वात्मना सततं प्रयतन्ते | भवन्तः सर्वे स्वस्थायाः जीवनशैल्याः भारतीय-रिक्थं प्रामाणिकोत्तराधिकारिरूपेण अग्रे सन्नयन्ति | यथा बिन्दु-समूहेन सागरः समुद्भवति तथैव, लघु-लघुभिः जागरुकैः सक्रियं सकारात्मक-कार्यैश्च सदा रचनात्मकं परिवेशं रचयितुं महती भूमिका निर्वाह्यते |
मम प्रियाः देशवासिनः, अस्मदीयेषु ग्रन्थेषु निगदितम् :-
ॐ द्यौः शान्तिः अन्तरिक्षं शान्तिः,
पृथिवी शान्तिःआपःशान्तिःऔषधयःशान्तिः|
वनस्पतयःशान्तिःविश्वेदेवाःशान्तिःब्रह्मशान्तिः,
सर्वंशान्तिःशान्तिरेवशान्तिःसामाशान्तिरेधि||
ॐशान्ति: शान्ति: शान्ति: ||
अर्थात् हेईश्वर! लोक-त्रयेsपि सर्वत्र शान्तिः प्रसरेत्, जले,पृथिव्यां, आकाशे,अन्तरिक्षे, अग्नौ,पवने,औषधिषु, वनस्पतिषु,उपवने,अवचेतनेषु, सम्पूर्ण-ब्रह्माण्डे च शान्तिं प्रतिष्ठापयतु | प्रत्येकमपि जीवात्मनि,हृदये, मयि, त्वयि, जगतः प्रत्येकमपि कणे, सर्वत्र शान्तिं प्रतिष्ठापयतु
ॐशान्ति: शान्ति: शान्ति: ||
यदा कदापि विश्वशान्तेः चर्चा भवति, तदा विषयेsस्मिन् भारतस्य नाम योगदानञ्च स्वर्णाक्षरैः अङ्कितं द्रक्ष्यते |भारतस्य कृते ऐषमः नवम्बर-मासीयस्य एकादश-दिनस्य विशिष्टं महत्वं वर्तते यतो हि शत-वर्षेभ्यः प्राक् अस्मिन्नेव दिने प्रथम-विश्वयुद्धंसमाप्तम्, तस्याः समाप्तेः शतं वर्षाणि पूर्णतां यान्ति अर्थात् तत्रान्तरे दुरापन्न्नस्य बृहद्-विनाशस्य जनहानेश्च समाप्तेरपि शती पूर्णा भविता | भारतस्य कृते प्रथम-विश्वयुद्धं हि महत्वाधायिनी घटनासीत्| यथार्थतया ब्रूमश्चेत् तेन युद्धेन साकमस्मदीयः न कश्चन साक्षात् सम्बन्धः |एवं सत्यपि,अस्मदीयाः सैनिकाः वीरता-पुरस्सरम् अयुध्यन्त, महतीं भूमिकां निरवाहयन्, सर्वोच्चञ्चबलिदानमकुर्वन्| भारतीय-सैनिकाः विश्वं प्रदर्शितवन्तः यत् युद्ध-कथा यदा यदा प्रवर्तेत तदा ते न केभ्यश्चिदपि पश्चवर्तिनो वर्तन्ते |
अस्मदीयाः सैनिकाः दुर्गमक्षेत्रेषु, विषमासु परिस्थितिषु चापि स्वीयं शौर्यं प्रदर्शितवन्तः | एतेषां सर्वेषामपि कृते आधार -भूतमेकमेव उद्देश्यमासीत् - शान्तेः पुन:स्थापना|प्रथम-विश्वयुद्धे संसारः विनाश-ताण्डवमवालोकयत् | अनुमानानुसारेण प्रायेण कोटिः सैनिकाः, प्रायेण एतावन्तश्च नागरिकाः विगत-प्राणाः जाताः | अमुना अशेष-विश्वं, किं नाम शान्तेः महत्वमिति अवागच्छत् | विगतेषु शत-वर्षेषु शान्तेः परिभाषा परिवर्तिता| अद्यत्वे शान्ति-सौहार्दयोः अर्थः केवलं युद्धस्य अभावः एव नैवास्ति | आतङ्कवादतः आरभ्य जलवायु-परिवर्तनम्, आर्थिक-विकासतः सामाजिक-न्यायः - चैतेषां सर्वेषां कृते वैश्विक-सहयोगेन समन्वयेन च सार्धं कार्यानुष्ठानस्य आवश्यकता वर्तते | निर्धनतमस्य जनस्य विकासः एव शान्तेः यथार्थ-प्रतीकोsस्ति|
मम प्रियाः देशवासिनः,अस्मदीयस्य पूर्वोत्तर-क्षेत्रस्य कथा काचिद् भिन्नैवास्ति | पूर्वोत्तरस्य प्राकृतिकं सौन्दर्यमनुपमम्, अत्रत्याश्च जनाः अतितरां प्रतिभाशालिनो विद्यन्ते | अस्मदीयं पूर्वोत्तरक्षेत्रं साम्प्रतं सर्व-विधोत्कृष्ट-कार्याणां कृतेsपि विख्यातमस्ति |पूर्वोत्तरं तादृशमेकं क्षेत्रमस्ति येन जैव-कृषि-क्षेत्रेsपि भूयसी उन्नतिः विहिता | केभ्यश्चित् दिनेभ्यः प्राक् सिक्किमेन संधारणीय-खाद्य-पद्धतये प्रोत्साहन-प्रदानार्थं प्रतिष्ठितः ऐषमः ‘Future Policy Gold-नामा पुरस्कारो विजितः | पुरस्कारोsयं सयुंक्त-राष्ट्र-सङ्घेन संयुतस्यF.A.O-इति खाद्य-कृषि-सङ्घटनस्य पक्षतः प्रदीयते| एतज्-ज्ञात्वा भवन्तः प्रसन्नतामनुभविष्यन्ति यत् क्षेत्रेsस्मिन् उत्कृष्ट-नीति- निर्माणार्थं प्रदीयमानोsयं पुरस्कारः ओस्कर-सदृशः अस्ति | एतावता एव नालम्, अस्मदीयेन सिक्किमेन पञ्चविंशतेः देशानां एक-पञ्चाशत्-नामाङ्कन-नीतीः पराजित्य पुरस्कारोsयं विजितः, एतदर्थमहं सिक्किम-जनेभ्यः भूयान्सि अभिनन्दनानि व्याहरामि |
मम प्रियाः देशवासिनः, समाप्त-प्रायोsयम् ओक्टोबर-मासः | ऋतावपि भूयः परिवर्तनमनुभूयते | साम्प्रतं शीत-कालः आरभत, तथा च, ऋतु-परिवर्तनेन साकमेव उत्सवानामपि ऋतुः समागतोsस्ति | धनतेरस-दीपावली-भ्रातृद्वितीया-सूर्यषष्ठी-प्रभृति-विषये कथ्यते चेत् नवम्बर-मासः उत्सवानामेव मासोsस्ति | भवद्भ्यः सर्वेभ्यः देशवासिभ्यः एतेषां निखिलानां समुत्सवानां कृते अनेकाः शुभकामनाः|
भवतः सर्वान् साग्रहमहं कथयामि यत् भवन्तः सर्वे उत्सव-कालेsस्मिन् आत्मनोsवधानं सन्धारयेयुः, स्वीय-स्वास्थ्यस्य समाज-हितानाञ्चापि ध्यानमादध्युः | विश्वसिमि यदयं समुत्सव-कालः नूतन-सङ्कल्पस्य नवीन-निर्णयानाञ्च अवसरः|अयञ्च समुत्सव-कालः भवतां जीवनेsपिmission mode- इति लक्ष्यावाप्तये अग्रेगमनस्य, दृढसङ्कल्पाधानस्य च, अवसरः भवेत्| भवतां प्रगतिः देशस्य प्रगतेः महत्त्वाधायी अंशोsस्ति | भवतां यावती अधिकतरा प्रगतिः भविष्यति, तावती एव देशस्य प्रगतिः सेत्स्यति | भवद्भ्यः सर्वेभ्यः मम भूरि भूरि शुभकामनाः| कोटिशो धन्यवादाः|
--- भाषान्तर-कर्ता -डॉ.बलदेवानन्द-सागरः
दूरभाषः - ९८१० ५६२२ ७७
ईमेलः - baldevanand.sagar@gmail.com