Thursday, 15 December 2022

 सत्यव्रतचरितम्

 


लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः


     व्यासदेवः सविस्तरं सत्यव्रतचरितं कथयति। पूर्वकाले एकदा मुनीनां समाजे विचारः अभूत्- यत् कः देवः सर्वश्रेष्ठः पूज्यतमश्च भवति। कः देवः विशेषरूपेण उपासनीयः। कः देवः अभीष्टफलं ददाति। एतस्य प्रश्नस्य उत्तरेण लोमशमुनिः उक्तवान् यत् सर्वेऽपि बुद्धिमन्तः कल्याणकामिनः पुरुषाः महाशक्तेः भगवत्याः अम्बिकायाः उपासनां कुर्युः। तस्मिन् प्रसङ्गे कथं ऐकारस्य उच्चारणेन ब्राह्मणः सत्यव्रतः देवीकृपातः लोकप्रसिद्धिं मोक्षञ्च प्राप्तवानिति एकमाख्यानमुक्तवान्। पुरा कोशलदेशे देवदत्तनामकः एकः विख्यातः ब्राह्मणः तिष्ठति स्म। तस्य कोऽपि सन्तानः नासीत्। पुत्रप्राप्त्यर्थं सः पुत्रेष्टियज्ञं कृतवान्। गोभिलमुनिः उद्गाता च आसीत्। मुनिवरः गोभिलः रथन्तरच्छन्दसा गानं करोति स्म । तदा तस्य स्वरभङ्गः अभूत्। ब्राह्मणः देवदत्तः मुनिवरं गोभिलं भर्त्सितवान्। महात्मा गोभिलः अपि कुपितः अभूत्। देवदत्तस्य भर्त्सनं श्रुत्वा सः तस्मै अभिशापं दत्तवान्। हे देवदत्त ! भवतः एकः मूर्खपुत्रः भविष्यति। तदा देवदत्तः मुनेः पादौ पतित्वा क्षमायाचनां कृतवान्। मुनिः शान्तः भूत्वा उक्तवान् यत् तव पुत्रः मूर्खः भूत्वा अपि अनन्तरं पण्डितः भविष्यति। अनन्तरं शुभकाले देवदत्तस्य पत्नी एकं पुत्रं जनयामास। तस्य नाम उतथ्य इति अभूत्। ब्राह्मणदेवदत्तस्य सः पुत्रः उतथ्यः पठितुं गुरुगृहं गतवान्। बहुवर्षं पठित्वा अपि तस्य किमपि ज्ञानं नाभूत्। एकशब्दमपि उच्चारयितुं सः समर्थः नाभूत्। सः किमपि शास्त्रं न जानाति स्म, सन्ध्यावन्दनादिकमपि न जानाति स्म। अतः सः मूर्ख इति सर्वत्र प्रचारितः अभूत्। सर्वे तस्य उपहासं कृतवन्तः। पितरौ अपि निन्दां कृतवन्तौ। यदा जनाः माता, पिता सर्वेऽपि च जनाः तस्य अत्यन्तनिन्दां कृतवन्तः, तदा तस्य मनसि वैराग्यमागतम्। सः वनं गतवान्। गङ्गातटे एकस्मिन् स्थाने कुटीरं निर्माय वन्यफलं मूलञ्च भुक्त्वा सः जीवनं यापयति स्म। सः इन्द्रियसंयमं स्थापयित्वा एकनियमं स्थापितवान् यत्- अहं कदापि मिथ्या न कथयिष्यामि। अतः तत्रत्याः जनाः तं ब्राह्मणं सत्यव्रत इति नाम्ना आह्वयन्ति स्म। एवम्प्रकारेण सः वने केवलं ब्रह्मचर्यधारणपूर्वकं फलमूलानि भुक्त्वा जीवनं यापयति स्म।     

    एकदा एकः निषादः तत्र हस्ते धनुर्बाणं धृत्वा आगतवान्। सः वने एकं शूकरं शरेण विद्धवान्। ततः भयभीतः सः शूकरः शीघ्रं धावन् उतथ्यमुनेः आश्रमे आगतवान्। तदा शूकरस्य शरीरं रक्ताक्तमासीत् एवं सः भयेन कम्पते स्म। तं दीनहीनं पशुम् उतथ्यमुनिः दृष्टवान्। ततः मुनेः हृदये दया आगता। एवं तस्य मुखात् भगवत्याः सारस्वतबीजमन्त्रः ऐं इति उच्चारितमभूत्। पूर्वं कदापि सः एनं मन्त्रं न जानाति स्म। कदापि न श्रुतवान् अपि आसीत्। कस्मादपि अदृष्टप्रेरणया शोकवशात् तस्य मुखे एषः मन्त्रः आगतः। तदा सः निषादः धनुर्बाणं नीत्वा तत्र उपस्थितः अभूत्। सः व्याधः मुनिम् उतथ्यं वारम्बारं पृष्टवान् यत् - हे मुने ! भवान् सत्यव्रती अस्ति। अतः भवान् कथयतु बाणविद्धः सः शूकरः कुत्र गतः। व्याधस्य वचनं श्रुत्वा मुनेः मनसि बहुविचारः आगतः। सः चिन्तितवान् यदि अहं सत्यं कथयिष्यामि तदा व्याधः शूकरं नेष्यति। असत्यं कथयामि चेत् मम व्रतहानिः भविष्यति। एवं किमपि कथयिष्यामि येन मम वाणी मिथ्या न भवेत् एवं शूकरस्य जीवनहानिरपि न भवेत्। प्रथमतः बाणविद्धं शूकरं दृष्ट्वा दयावशात् तस्य मुखात् सरस्वत्याः सारस्वतबीजमन्त्रः ऐं इति उच्चारितमासीत्। ऐं इति भवति वागबीजमन्त्रः। ततः तमेव मन्त्रं श्रुत्वा भगवती उतथ्यमुनेः उपरि प्रसन्ना अभूत्। अतः देवीकृपातः उतथ्यमुनेः कृते सम्पूर्णविद्या आगता। तस्य मनसि सर्वविद्याः स्फुरिताः अभवन्। सः एकः महान् कविरभूत्। तदेव तस्य मुखादेकः श्लोकः निर्गतः –

या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति।

अहो व्याधः स्वकार्यार्थी किं पृच्छसि पुनः पुनः॥

 तस्य तात्पर्यं भवति यत् हे व्याध ! यत् नयनं पश्यति तत् न कथयति, या वाणी कथयति सा न पश्यति। अतः हे व्याध ! भवान् पुनः पुनः मां किमर्थं पृच्छति। मुनिवरस्य कथनादनन्तरं सः व्याधः ततः निर्गतः अभूत्। एवं शूकरस्य जीवनरक्षा अभूत्। इदानीं देवीकृपातः उतथ्यमुनिः वाल्मीकि इव प्रकाण्डः विद्वान् अभूत्। समग्रभूमण्डले सत्यव्रत इति नाम्ना तस्य प्रसिद्धिरभूत्। तदनु अनन्तरं सारस्वतबीजमन्त्रः ऐं इति सः विधिवत् जपं कृतवान्। ततः जगति तस्य वैदुष्यं यशो च चर्तुदिक्षु प्रसारितमभूत्। ब्राह्मणजनाः उत्सवादिषु तस्य यशोगानं कृतवन्तः। सत्यव्रतस्य माहात्म्यं श्रुत्वा तस्य परिवारजनाः वनमागत्य बहुमानेन सत्कारेण च तं मुनिं गृहं नीतवन्तः। अतएव हे राजन् ! तस्याः एव आदिशक्तेः भगवत्याः जगदम्बिकायाः सदैव भक्तिपूर्वकतया उपासना करणीया भवति। भगवत्याः कृपातः जनस्य सर्वकल्याणं भवितुमर्हति। एवम्प्रकारेण पाठ्यक्रमेऽस्मिन् द्वितीयांशे सारांशरूपेण एते विषयाः उपन्यस्ताः सन्ति।