Thursday 26 January 2023

 "वसन्तपञ्चमी"  

         निबन्धकारः - दीपककुमारचौधरी


  वसन्तो ग्रीष्मो वर्षा: शरद् हेमन्तः शिशिरश्चेति षडृतवो भवन्ति। एतेषु षट्सु ऋतुषु वसन्तस्य अन्यतमं स्थानं वर्तते "वसन्ति सर्वे ऋतवो यस्मिन् स वसन्तः"इति विग्रहात्। अत एव वसन्तः "ऋतुराज:"इति नाम्नाऽपि सम्बोध्यते।अस्मिन् ऋतौ क्षेत्रेषु नवसस्यानि प्रजायन्ते।तैः क्षेत्रसौन्दर्यम् अतीव मनोहरं प्रतिभाति।हृदयावर्जकानि विविधपुष्पाणि विकसन्ति।पुष्पाणि परितः भ्रमरा गुञ्जायमाना भ्रमन्तो वसन्तस्य माहात्म्यं ख्यापयन्ति।आम्रवृक्षेषु नवमञ्जराणि समायान्ति।वृक्षेषु पिका मधुरं कूजन्त: वसन्तमहत्त्वं कीर्तयन्ति। यथोक्तम्- ऋतुसंहारनामके खण्डकाव्ये कविकुलशिरोमणिना कालिदासेन वसन्तर्तुवर्णनप्रसङ्गे-

द्रुमाः सपुष्पा: सलिलं सपद्मं,

स्त्रिया: सकामा: पवनः सुगन्धि:।

सुखा: प्रदोषा दिवसाश्च रम्या:,

सर्वं प्रियं चारुतरं वसन्ते।।

       (ऋतुसंहार:-६/२)

असौ वसन्तो "मधुमास:,माधवमास:,ऋतुराज: पिकानन्दश्च"इत्याख्यै: कीर्त्यते।एतेन वसन्तस्य प्रामुख्यं स्पष्टं भवति।

           अस्मिन्(वसन्ते) ऋतौ निखिलेऽपि देशे अनेकानि पर्वाणि आयोज्यन्ते।तेषु अन्यतमं भवति "वसन्तपञ्चमी" इति। वसन्तस्य पञ्चमी वसन्तपञ्चमीति।इयमेव केषाञ्चन मते " ऋषिपञ्चमी श्रीपञ्चमी"इत्याख्याभ्यामपि कीर्त्यते। वसन्तपञ्चमी माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ आयोज्यते।अस्यां तिथौ मिथिलाप्रदेशे सोल्लासेन नृत्यगीतस्तोत्रघोषादिपुरस्सरं वाग्देव्या: सरस्वत्या आराधनं क्रियते,यतोहि अस्यामेव तिथौ विद्याप्रदायिन्या वीणापाणे: सरस्वत्या: प्रादुर्भावोऽभवद् इति पौराणिककथामाश्रित्य पौराणिका आमनन्ति। विद्याया वाण्याश्च अधिष्ठातृदेवी सरस्वती वर्तते।इयं विद्या-बुद्धिप्रदात्री वर्तते।

अतो "वागीश्वरी, वाग्देवी,विद्यादात्री,विद्या-बुद्धिप्रदायिनी, शारदा,भगवती,वीणापाणिः,

वीणावादिनी" इति नामभिः पूज्यते।सङ्गीतम् अस्या एव समुद्भूतम् अतः सङ्गीतदेवी इत्यपि उच्यते।ऋग्वेदेऽपि सरस्वतीस्तुति: प्राप्यते-

"प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामणित्रवतु" इति।शिक्षाविद: सङ्गीतनृत्यादिकलाविद: शिल्पिनः समेऽपि "विद्या-बुद्धि-वागधिष्ठातृदेवताया भगवत्या: श्रीसरस्वत्या आराधनां कुर्वन्ति।यथैव सैनिकाः क्षत्रियाश्च विजयदशम्यां शस्त्रपूजां कुर्वन्ति तथैव शिक्षकाः छात्रा अन्ये अध्येतारश्च शास्त्राणां ग्रन्थानां पुस्तकानाञ्च तदधिष्ठातृदेव्या: सरस्वत्याश्च पूजां कुर्वन्ति।यथोक्तम्-

"माघस्य शुक्लपञ्चम्यां महापूजां समाचरेत्।

नवै: प्रवालै: कुसुमैरनुलेपैर्विशेषत:।।

नीराजनोत्सवं कृत्वा भक्त्या संमान्य वैष्णवान्।

वसन्तरागं जनयन् गीतनृत्यादि कारयेत्।।"

              इयं पञ्चमी मानवान् समस्तपापान् मोचयित्वा तेभ्यः सदसद्विवेकबुद्धिं प्रददाति।यथोक्तं मत्स्यसूक्ते-

"वसन्तपञ्चमी नाम सर्वपापप्रमोचनी।"

             अस्यां तिथौ केचन लघुबालकानां विद्यारम्भम्(अक्षरारम्भम्) कारयन्ति।यतोहि विद्यारम्भनिमित्तं वसन्तपञ्चमी तिथिरतीव पवित्रतमा मन्यत इति शम्।

 लेखकः-दीपककुमारचौधरी

(संस्कृतशोधार्थी-दीपकवात्स्य:)