Saturday, 2 December 2017

 बाणलिङ्गम्                                        कविता 

      डा गदाधर त्रिपाठी
त्पत्तिस्थितिप्रलयेषु सृष्टिरियं विभाजिता।
इच्छया प्रलयो यस्य महादेव इति स्मृतः।।

महादेवस्य नामानि अत्यद्भुतानि श्रुतानि वै।
बाणलिंगं खलु नाम तु उत्तमं सुखकरञ्च तत्।।

नर्मदायाः शिलाखण्डानि  शिव इव आदृतानि वै।
बाणलिंगानि प्राप्यन्ते रेवाया:जले हि वै।।

रेखांकिता भवन्ति रेखाभिर्विविधाभिश्च सर्वदा शुभैः।
वर्णेषु च विविधेषु बाणलिङ्गानि रंजिता: प्राप्नुवन्ति च वै।।

शिवस्योल्लेखो$स्ति देवपंचायतने तथा।
जलस्य प्रतिनिधिरयं तेन कारुणिको भवः।।

स्वयम्भवतीति स्वयम्भूलिंगं नर्मदाया नर्मदेश्वरस्तथा ।
स्मरणीयश्च महाकालः सर्वदा वै कालस्यापि निवारकः।।
                             
बाणलिङ्गं मृण्मयं ज्ञेयं बाणासुरेण च पूजितम्।
सर्व श्रेयस्करं देवं वै प्रणमामि च पुनः पुनः।। 
----------------------------------------------

भगवल्लीला                                       कविता
      डा गदाधर त्रिपाठी
काकी न रमते कोऽपि भावनेयं सार्वकालिका।
ईशोऽपिअनया बद्धश्च आयाति वै पृथिवीतले।।
               समर्थस्सृष्ट्युत्पादने चैव पालने प्रलये तथा।
               लीलायै स आयाति वै शास्त्रेष्वस्ति विवेचनम्।।
चतुर्विंशत्यवतारेषु स आगतो धरिणीतले।
कृतं सर्वं तथा तेन संसारे यथास्मज्जीवनम्।।
               लीला रामकृष्णयोर्हि प्रसिद्धा मनोरंजिका।
               मर्यादा पुरुषः रामोऽस्ति कृष्णस्तु भगवान् स्वयम्।।
लीला द्विविधा प्रोक्ता  हि नित्या अनित्या तथा।
अदृश्या नित्या चैव दृश्या लोकोपकारिका।।
               नित्या रासलीला वै कृष्णचरिते उदाहृता।
               शुकदेवेन सा दृष्टा गोपिकाः सम्मिलिता अभवन्।।
रामचरिते तु सा लीला तदासीच्च कृता हि वै।
हनुमतैव सा दृष्टा अन्येन द्रष्टुं न शक्यते।।
               उपकाराय हि जीवानां भगवतो लीला भवति हि वै।
               चतुर्मूर्तियुतो भूत्वा  श्रीशः लोकानां हितमादधे।।
         ---------------------------------------------------
                     

Monday, 27 November 2017

‘मन की बात’ [३८]
“मनोगतम्”  [३८]              (प्रसारण-तिथि:- 26.11.2017)

[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                           
                                       -    बलदेवानन्द-सागरः  
मम प्रियाः देश-वासिनः ! 
             नमस्कारः | कतिपय-दिनेभ्यः पूर्वम् अहं कर्णाटकस्य बालमित्रैः सह परोक्ष-संवादस्य अवसरं लब्धवान् | Times Group - इत्यस्य ‘विजय-कर्णाटक’-वार्तापत्रं बाल-दिवसावसरे, प्राथमिक-प्रयासम् अकरोत् यस्मिन् साग्रहं बालाः प्रेरिताः यत्ते प्रधानमन्त्रिणं पत्रं लिखेयुः | अनन्तरम् अमुना कानिचन चितानि पत्राणि प्रकाशितानि | अहं तानि पत्राणि अपठम्, तत् मह्यं सुतरां अरोचत | एते लघु-लघु-बालकाः अपि,  देशस्य समस्याभिः अभिज्ञाताः सन्ति,  देशे प्रवर्तमानाभिः चर्चाभिरपि परिचिताः सन्ति | अनेकान् विषयान् आलक्ष्य एते बालाः अलिखन् | उत्तर-कन्नड़स्य, कीर्ति-हेगड़े, Digital India-Smart City - इति  योजनां प्रशंसन्ती परामर्शयत् यत् अस्मदीयायां शिक्षा-व्यवस्थायां परिवर्तनस्य आवश्यकतास्ति, तथा च, सा इदमपि परामर्शयत् यत् अद्यत्वे बालाः कक्ष्यायामेव पठितुं नाभिलषन्ति, तेभ्यः प्रकृति-ज्ञानं अतितरां रोचते | यदि वयं बालेभ्यः प्रकृति-सूचनां दद्मश्चेत्, स्यात् पर्यावरणस्य रक्षायाः कृते तेभ्यः भविष्यत्काले महत्-साहाय्यं सेत्स्यति | 
             लक्ष्मेश्वरातः रीडा-नदाफः अलिखत् यत् सा सैनिकस्य पुत्री अस्ति, सा चैतद्-विषये गौरवम् अनुभवति | को नाम वा भवेत् भारतीयः, यः सैनिकत्व-विषये गौरवं नानुभवेत् ! भवती तु सैनिकस्य पुत्री, भवत्याः गौरवानुभूतिस्तु स्वाभाविकी | कलबुर्गीतः इरफ़ाना-बेग़मः अलिखत् यत् तस्याः विद्यालयः तद्-ग्रामात् पञ्च-किलोमीटर-मितान्तरालेन दूरं वर्तते, यतः तया गृहात् शीघ्रं निर्गन्तव्यं भवति, अपि च, प्रत्यागमनेsपि अतितरां विलम्बो भवति | सा इदमपि लिखितवती यत् एतस्मात् कारणात् स्वीयैः सखिभिः साकं सा कालं यापयितुं नैव शक्नोति | सा परामर्शयत् यत् समीपमेव कश्चन विद्यालयः स्थापनीयः | परञ्च, देशवासिनः ! एकेन वार्तापत्रेण प्राथमिक-प्रयासत्वेन इदमारब्धम्, मां प्रति एतानि पत्राणि प्रापितानि, मह्यम् इदम् अरोचत, तेषां पत्राणां पठनस्य अवसरं लब्धवान् | मत्कृतेsपि अयं सुखदः अनुभवः आसीत् |
     मम प्रियाः देशवासिनः, अद्य नवम्बर-मासीयः एकादश-दिनाङ्कः | नवम्बर-मासीयः एकादश-दिनाङ्कः, अस्मदीय-संविधानस्य दिवसः अस्ति | ऊनविंश-शताब्दस्य ऊन-पन्चाशत्तमे वर्षे [1949] अस्मिन्नेव दिने, संविधान-सभा भारतस्य संविधानं स्वीकृतवती |  ऊनविंश-शताब्दस्य पञ्चाशत्तमे वर्षे [1950] जान्युआरि-मासे षड्विंशे दिनाङ्के संविधानं प्रवर्तितम्, अत एव वयं एनं गणतंत्र-दिवसरूपेण आयोजयामः | भारतस्य संविधानं हि, अस्मदीय-लोकतंत्रस्य आत्मा वर्तते | अद्यतनोsयं दिवसः, संविधान-सभायाः सदस्यानां स्मरण-दिनं वर्तते | ते हि भारतस्य संविधान-संरचनायाः कृते प्रायेण वर्षत्रयं यावत् परिश्रमम् अकुर्वन् | यः कश्चन तद्विषयिणीं परिचर्चां पठति, नूनं सः अनुभवति यत् राष्ट्राय समर्पित-जीवनस्य विचार-सरणी कीदृशी भवति ! एतद्-विषये वयं गौरवम् अनुभवामः | किं भवन्तः इदं कल्पयितुं शक्नुवन्ति यत् विविधता-पूर्णस्य अस्मदीय-देशस्य संविधान-रचनायै ते कियन्तं कठोरं श्रमितवन्तः ? पारदर्शित्वस्य प्रबोधस्य  दूर-दर्शितायाः च नूनं ते दर्शनं कारितवन्तः, तथा च, तस्मिन् काले यदा देशः दासतायाः शृङ्खलाभ्यः मुक्ति-प्रक्रियायाम् आसीत् |  अस्यैव संविधानस्य प्रकाशान्तर्गतं संविधान-निर्मातॄणां, तेषां महापुरुषाणां च विचार-प्रकाशान्तर्गतं नूतन-भारतस्य निर्माणम् अस्माकं सर्वेषां दायित्वं वर्तते | अस्मदीयं संविधानम् अतिव्यापकं वर्तते | सम्भवतः जीवनस्य तादृशं किञ्चन क्षेत्रं नास्ति, प्रकृतेः तादृशः कश्चन विषयो नैवास्ति, यो हि नात्र समावेशितः | सर्वेषां कृते समानता, सर्वान् प्रति च संवेदनशीलता, एतदस्ति - अस्मदीय-संविधानस्य अभिज्ञानम् | इदं प्रत्येकमपि नागरिकस्य, भवतु नाम सः निर्धनो वा दलितः, पश्चवर्ती वा वञ्चितः,  आदिवासी वा महिला - सर्वेषां मौलिकान् अधिकारान् रक्षति तेषाञ्च हितानि परिपालयति | अस्मदीयमिदं कर्तव्यं यत् वयं संविधानम् अक्षरशः अनुसरेम | भवतु नाम सः  नागरिको वा प्रशासकः, संविधानस्य भावनानुरूपम् अग्रेसरेम |  न कश्चन अपि क्षतिम् अवाप्नुयात् - अयमेवास्ति संविधानस्य सन्देशः | अद्य, संविधान-दिवसस्य अवसरे डॉ.बाबासाहेब-आंबेडकरस्य स्मरणं सुतरां  स्वाभाविकम् | अस्यां संविधान-सभायां महत्वपूर्ण-विषयाणां कृते  सप्तदश पृथक्-पृथक् समितयो विरचिताः आसन् | एतासु अतितरां महत्वपूर्णाषु समितिषु अन्यतरा आसीत् - drafting committee - प्रारूपण-समितिः | डॉ. बाबासाहेब-आंबेडकरः, संविधानस्य तस्याः प्रारूपण-समितेः अध्यक्षः आसीत् |  असौ नितरां भूयसीं महत्वपूर्णां भूमिकां निर्वाहयन् आसीत् | अद्य वयं भारतस्य यस्य संविधानस्य विषये गौरवमनुभवामः, तस्य निर्माणे बाबासाहेब-आंबेडकरस्य कुशल-नेतृत्वस्य अनुपमः प्रभावः वर्तते | तेन सुनिर्धारितमासीत् यत् समाजस्य प्रत्येकमपि वर्गस्य कल्याणं भवेत् | डिसम्बर-मासे षष्ठे दिने तस्य महापरिनिर्वाण-दिवसस्य अवसरे, वयं सर्वदा एव तं स्मरामः नमामश्च | देशस्य समृद्धौ शक्तिमत्करणे च बाबासाहेबस्य योगदानम् अविस्मरणीयम् अस्ति | डिसम्बर-मासे पञ्चदशे दिने सरदार-वल्लभभाई-पटेलस्य पुण्यतिथिरस्ति | कृषक-पुत्रतः लौह-पुरुषत्वेन प्रतिष्ठितः सरदार-पटेलः,  देशस्य एकसूत्रीकरणे अतितराम् असाधारण-कार्यम् अनुष्ठितवान् | सरदार-साहबः अपि संविधान-सभायाः सदस्यः आसीत् | असौ मौलिकाधिकाराणां, अल्प-संख्यकानाम् आदिवासिनां च कृते विरचितायाः परामर्शदातृ-समितेः अपि अध्यक्षः आसीत् |
           नवम्बर-मासीयः एकादश-दिनाङ्कः अस्मदीय-संविधान-दिवसोsस्ति, परञ्च देशोsयं कथं विस्मर्तुं प्रभवति यत् नव-वर्षेभ्यः प्राक्, अस्मिन्नेव दिने, आतंकवादिनः मुंबईम् आक्रान्तवन्तः |  देशोsयं तान् वीरान् नागरिकान्, रक्षिकर्मिणः, सुरक्षाकर्मिणः, सर्वान् अपि तान् स्मरति प्रणमति च, ये आत्मानम् उत्सृष्टवन्तः | देशोsयं तेषां बलिदानं न कदापि विस्मरिष्यति | आतंकवादः, अद्यत्वे विश्वस्य प्रत्येकमपि भू-भागे सामान्यतः प्रतिदिनं सञ्जायमानायाः घटनायाः अति-भयंकर-रूपत्वेन संतिष्ठते | वयं, भारते विगतेभ्यः चत्वारिंशद्वर्षेभ्यः आतंकवादस्य कारणात् सुबहु सम्मुखीकुर्मः | अस्मदीयाः परस्सहस्रं निर्दोष-जनाः विगत-प्राणाः जाताः | अपि च, कतिपय-वर्षेभ्यः प्राक्, यदा भारतं जगति आतंकवादं चर्चते स्म, आतंकवादात्  सञ्जायमानं भयङ्करं सङ्कटं परिचर्चते स्म, तदा जगतः जनानाम् अधिसंख्यं विषयमेनं गभीरतया स्वीकर्तुम् उद्यतं नैव आसीत् | परञ्चाद्य, आतंकवादः तेषां द्वाराणि संकेतयति तदा जगतः प्रत्येकमपि प्रशासनम्, मानवतावादे आहित-विश्वासानि, लोकतन्त्रे आश्वस्तानि प्रशासनानि च, आतंकवादं बृहत्तर-समाह्वानत्वेन अवलोकयन्ति | आतंकवादः विश्वस्य मानवतां समाह्वयति | सः मानवीय-शक्तीः नाशयितुं तत्परः | अतः न केवलं भारतं, विश्वस्य सर्वाः अपि मानवतावादि-शक्तयः सम्भूय, नूनम् आतंकवादं पराजयेरन् | भगवान् बुद्धः,  भगवान् महावीरः, गुरुः नानकः,  महात्म-गांधी चैतेषाम् एषा भूः, ये सदा जगति अहिंसा-प्रेम्णोः सन्देशं प्रसारितवन्तः |  आतंकवादः उग्रवादश्च, अस्मदीयां सामाजिक-संरचनां दुर्बलीकृत्य एनां छेत्तुं भेत्तुञ्च दुश्चेष्टेते |  अत एव, कालेsस्मिन् मानवतावादि-शक्तयः समधिक-जागरुकतया व्यवहरेयुः इति परमावश्यकम् |
         मम प्रियाः देशवासिनः, डिसम्बर-मासे चतुर्थ-दिने वयं सर्वे मिलित्वा नौ-सेना-दिवसम् आयोजयिष्यामः |  भारतीय-नौ-सेना, अस्मदीय-समुद्र-तटानि संरक्षति |  अहं, नौ-सेना-सम्बद्धान् सर्वान्नपि जनान् अभिनन्दामि | भवन्तः सर्वे जानन्त्येव यत् अस्मदीय-सभ्यतायाः विकासः नदीनां तटेषु अजायत | भवतु नाम सा गङ्गा वा सिन्धुः वा यमुना वा सरस्वती - अस्मदीयाः सरितः समुद्राश्च, आर्थिक-सामरिकेति द्विविध-लक्ष्यार्थं महत्वाधायिनः सन्ति |  एते अशेष-विश्वस्य कृते अस्मदीय-द्वाराणि सन्ति | अस्य देशस्य, अस्मदीयायाः अस्याः भूमेः महासागरैः साकम् अविभाज्यः सम्बन्धः अवर्तत, तथा च, यदा वयम् इतिहासम् अवलोकयामः, प्रायेण अष्टशत-नवशत-वर्षेभ्यः प्राक् [800-900] चोल-वंश-काले, चोल-नौ-सेना शक्तिमत्तमासु सेनासु अन्यतमा मान्यते स्म | चोल-साम्राज्यस्य विस्तरे, आर्थिक-महच्छक्तित्वेन अस्य विकासार्थं नौ-सेनायाः महद्-योगदानमासीत् | चोल-नौ-सेनायाः अभियानानाम्, अन्वेषण-यात्राणाम् चानेकानि उदाहरणानि अद्यापि, संगम-साहित्ये समुपलब्धानि सन्ति | अतिन्यूनाः एव अवगताः भवेयुः यत् जगति नौसेनानाम् अधिसंख्यं सुदीर्घ-कालानन्तरं युद्ध-पोतेषु कार्यार्थं महिलाः अनुज्ञातवत् | परञ्च, चोल-नौसेनायां, अष्टशत-नवशत-वर्षेभ्यः प्राक्, अनेकाः महिलाः प्रमुखां भूमिकां निरवहन् | न केवलम् एतावदेव, युद्धेष्वपि महिलाः समाविष्टाः आसन् | चोल-शासकाः पोत-निर्माण-विषयकं बहुतरं समृद्धं ज्ञानं सन्धारयन्ति स्म | यदा वयं नौ-सेना-विषयं कथयामः तदा छत्रपति-शिवाजी-महाराजस्य तस्य च नौ-सेनायाः सामर्थ्यं को नाम विस्मर्तुम् अर्हति ! कोंकण-तट-क्षेत्रम्, यत्र समुद्रस्य महत्वपूर्णा भूमिका वर्तते,  शिवाजी-महाराजस्य राज्यान्तर्वर्ति आसीत् |  शिवाजी-महाराजेन सम्बद्धाः अनेके दुर्गाः - यथा सिंधु-दुर्गः, मुरुड-जंजिरा-दुर्गः, स्वर्ण-दुर्गः प्रभृतयः, समुद्रतट-वर्तिनः आसन् उत वा समुद्रेण परिवृताः आसन् | एतेषां दुर्गाणां सुरक्षा-दायित्वं हि मराठा-नौ-सेना कुर्वन्ती आसीत् | मराठा-नौ-सेनायां विशाल-काय-पोतानां लघु-नौकानाञ्च संयुतिः आसीत् | अस्याः नौसैनिकाः कमपि शत्रुम् आक्रान्तुं तस्माच्च आत्मानं रक्षितुं अतितरां कुशलाः आसन् | यदा वयं मराठा-नौ-सेनायाः चर्चां कुर्मः, तदा कान्होजी-आंग्रे-वर्यस्य स्मरणं नैव जायेत, तन्नैवास्ति शक्यम् ! सः मराठा-नौ-सेनायाः स्तरोन्नयनं कृतवान् अपि च, नैकत्र, मराठा-नौ-सैनिकानाम् आस्थानकानि स्थापितवान् | स्वतंत्रतायाः प्राप्तेः अनन्तरम् अस्मदीया भारतीया नौ-सेना, विभिन्नेषु अवसरेषु स्वीयं पराक्रमं प्रादर्शयत् -  भवतु सः गोवा-मुक्ति-संग्रामः आहोस्वित् ऊनविंश-शताब्दस्य एकसप्ततितम-वर्षीयं [1971] भारत-पाक-युद्धम् |  यदा वयं नौ-सेनायाः चर्चां कुर्मः तदा केवलं युद्धमेव पश्यामः परञ्च भारतस्य नौ-सेना, मानवतायाः कार्येष्वपि सोत्साहं सहभागित्वमावहति |  वर्षेsस्मिन् जून-मासे बांग्लादेश-म्यांमार-देशयोः Cyclone Mora- इति सामुद्रिक-झञ्झावात-संकटं समापन्नमासीत्, तदा अस्मदीय-नौसेनायाः  INS-SUMITRA-पोतः तत्कालमेव सुरक्षा-साहाय्य-कार्याणि कुर्वन् अनेकान् मत्स्य-जीविनः जलेभ्यः निष्कास्य संरक्ष्य च बांग्लादेशाय अर्पितवान् | वर्षेsस्मिन् मे-जून-मासयोः यदा श्रीलंका-देशे जलपूरस्य भयंकरं संकटं समापन्नं तदा अस्मदीय-नौ-सेनायाः पोत-त्रयं तत्कालमेव तत्र गत्वा तत्रत्य-प्रशासनाय जनतायै च साहाय्यं व्यदधात् | बांग्लादेशे सेप्टेम्बर-मासे रोहिंग्या-विषये अस्मदीय-नौ-सेनायाः  INS-GHADIYAL- (घड़ियाल)- इति पोत-द्वारा मानवीय-सहायता प्रापिता | जून-मासे PAPUA NEW GUINEA ( पापुआ न्यू गिनी ) - देशस्य सर्वकारः SOS- इत्यात्मरक्षि-सन्देशं प्राहिणोत्, तथा च, तस्य मत्स्याहरण-नौकायाः धीवरान् रक्षितुम् अस्मदीया नौ-सेना साहाय्यम् अकरोत् | नवंबर-मासे एक-विंशे दिने पश्चिमीय-खाते एकस्मिन् व्यापारिक-पोते दुरापन्ने सामुद्रिक-लुण्ठन-घटनावसरेsपि, अस्मदीय-नौ-सेनायाः INS TRIKAND - (त्रिकंड) इति पोतः साहाय्यार्थं तत्र द्रुतं प्रयातः | फ़िजी-देशाय [FIJI] आरोग्य-सेवानां सम्प्रापणं वा भवेत्,  तत्कालमेव साहाय्य-प्रदानं वा स्यात्, प्रतिवेशि-देशस्य संकट-काले मानवीय-साहाय्य-प्रदानं वा स्यात्, अस्मदीया नौ-सेना सर्वदैव गौरवपूर्णानि कार्याणि कुर्वन्ती आसीत् | वयं भारतवासिनः, अस्मदीय-सुरक्षा-बलानि प्रति सर्वदैव गौरवस्य आदरस्य च भावं सन्धारयामः -  भवतु नाम स्थल-सेना वा नौ-सेना वा वायु-सेना, अस्माकं सैनिकानां साहसं, वीरता, शौर्यं, पराक्रमः, बलिदानञ्च गौरवास्पदमेव, प्रत्येकमपि देशवासी एतान् प्रणमति | सपाद-शत-कोटि-मिताः देशवासिनः सुखेन जीवनं यापयेयुः इति विचिन्त्य एते स्वीयं यौवनं राष्ट्राय समर्पयन्ति | प्रति-वर्षं डिसेम्बर-मासे सप्तमे दिने सशस्त्रबलानि ध्वज-दिनम् आयोजयन्ति |  अयं हि देशस्य सशस्त्रबलानि प्रति गर्व-सम्मानयोः प्रकटीकरणस्य दिवसोsस्ति | प्रसन्नोsस्मि यत् सम्प्रति प्रतिरक्षा-मंत्रालयः डिसेम्बर-मासे एकतः सप्तम-दिनं यावत् अभियानं प्रचालयितुं निरणैषीत् - देशस्य नागरिकान् सम्प्राप्य सशस्त्रबलानां विषये जनाः संसूचनीयाः, ते च सुतरां प्रबोधनीयाः | सम्पूर्णेsपि सप्ताहे आबाल-वृद्धाः सर्वेsपि ध्वजं सन्धारयेयुः | देशे सेनां प्रति सम्मानस्य आन्दोलनं प्रवर्तितं स्यात् |  अवसरेsस्मिन् वयं सशस्त्रबलानां ध्वजान् वितरितुं शक्नुमः | स्व-परिवर्तिभ्यः निज-परिचितेभ्यश्च सशस्त्रबलैः सम्बद्धानां अनुभवान्, तेषां शौर्यपूर्ण-कार्याणि, तत्सम्बद्ध-चित्राङ्कन-मुद्रिकाः, चित्राणि च (hashtag armedforcesflagday) #armedforcesflagday- इत्यत्र प्रेषयितुं शक्नुमः | विद्यालयेषु, महाविद्यालयेषु च, सैनिकान् सैन्याधिकारिणश्च समामन्त्र्य, तेभ्यः सैन्य-विषयाणां सूचनाः आदातुं शक्नुमः | अस्माकं नूतन-सन्ततये सेना-सम्बद्ध-सूचनाः अधिगन्तुमयं समुचितः अवसरः भवितुमर्हति | अवसरोsयं अस्माकं सशस्त्र-सैन्य-बालानां सर्वेषामपि सैनिकानां कल्याणार्थं धनराशि-संग्रहस्य कालः भवति | राशिरयं, सैनिक-कल्याण-मण्डल-माध्यमेन युद्धस्य हुतात्मनां सैनिकानां कुटुम्ब-जनानां व्रणितानाम् आहतानां च भटानां कल्याणार्थं पुनर्वासार्थञ्च व्ययीक्रियते | आर्थिक-योगदानार्थं भवन्तः विभिन्न-प्रदेय-विषयिणीः सूचनाः ksb.gov.in - इत्यतः आदातुं शक्नुवन्ति | भवन्तः एतदर्थं cashless- इति रोक्क-रहितं प्रदातुमर्हन्ति | आगच्छन्तु, अवसरेsस्मिन् वयमपि किञ्चित् तादृशं करवाम, येन अस्मदीय-सशस्त्र-बलानां मनोबलं विवर्धेत |  वयमपि तेषां कल्याण-दिशि स्वीयं योगदानं करवाम |
                  मम प्रियाः देशवासिनः, डिसेम्बर-मासीये पञ्चमे दिने ‘World Soil Day’ - इति विश्व-मृत्तिका-दिवसोsस्ति | अहं स्वीयैः कृषक-भ्रातृ-भगिनीभिः साकमपि किञ्चित् सम्भाषितुमीहे | पृथिव्याः महत्वपूर्णाङ्गत्वेन वर्तते - मृत्तिका | वयं यत्-किमपि खादामः तत्-सर्वमपि अनया मृत्तिकया एव सम्पृक्तं वर्तते | एकतस्तु, कृत्स्नापि खाद्य-शृङ्खला मृत्तिकया सम्बद्धास्ति | किञ्चित् कल्पयन्तु, यदि विश्वेsस्मिन् कुत्रचिदपि उत्पादक-मृत्तिका नैव भवेत् चेत्, किं नाम भविष्यति ? इदं विचिन्त्यैव भीतिः अनुभूयते | नैव मृत्तिका भविता, न हि पादपाः वा वृक्षाः समुत्पत्स्यन्ते, मानव-जीवनं कुत्र सम्भविता ? जीव-जन्तवः कुत्र सम्भविष्यन्ति ?  अस्मदीयायां संस्कृतौ एतद्-विषयिणी चिन्ता पूर्वमेव परिशीलिता, इदमेव कारणमस्ति यत् वयं मृत्तिकायाः महत्व-विषये प्राचीन-कालादेव जागरुकाः स्मः | अस्मदीयायां  संस्कृतौ एकतः कृषि-क्षेत्राणि प्रति, मृत्तिकां प्रति च  भक्तिः आभार-भावश्च, जनेषु प्रवर्तेत - इति कृत्वा सहजः प्रयासः विहितः, अपरतश्च, तादृश्यः वैज्ञानिक-पद्धतयः, जीवनस्य अङ्गत्वेन अवर्तन्त यत् अस्याः मृत्तिकायाः पोषणं सततं स्यात् | अस्य देशस्य कृषकस्य जीवने तथ्य-द्वयस्यापि महत्वं प्रावर्तत - निज-मृत्तिकां प्रति भक्तिः युगपदेव, वैज्ञानिक-रूपेण मृत्तिकायाः संरक्षणं परिपोषणञ्च | वयं सर्वेsपि विषयेsस्मिन् गौरवमनुभवामः यत् अस्मदीयाः कृषकाः, परम्पराभिः साकमपि सम्पृक्ताः भवन्ति तथा च, आधुनिक-विज्ञानं प्रत्यपि रुचिमन्तो भवन्ति, प्रयतन्ते, संकल्पयन्ति च | अहं हिमाचल-प्रदेशस्य हमीरपुर-जनपदस्य टोहू-ग्रामस्य  भोरंज-प्रखण्डस्य कृषकाणां विषये श्रुतवान् | अत्र पूर्वं कृषकाः असन्तोलित-रीत्या रासायनि- कोर्वरकाणाम् उपयोगं कुर्वन्ति स्म, येन एतस्याः भूमेः स्वास्थ्यम् अपक्षतम् | उत्पादनं न्यूनीभूतम्, उत्पादन-न्यूनतायाः कारणात् आयजातमपि न्यूनीभूतम्, मृत्तिकायाः उत्पादकता चापि शनैः शनैः क्षीणा जायते स्म | ग्रामस्य केचन जागरुकाः कृषकाः अस्याः परिस्थितेः गम्भीरताम् अवागच्छन्, तदनन्तरं ग्रामस्य कृषकाः काले एव स्व-मृत्तिकां परीक्षितवन्तः, तथा च, यावन्ति उर्वरकाणि, लघु-पौष्टिक-वस्तूनि, जैविकोर्वर्काणि चोपयोक्तुं ते निर्दिष्टाः, ते तदनुसृतवन्तः | तथा च, भवन्तः तत्परिणामं श्रुत्वा चकिताः भविष्यन्ति यन् मृत्तिका-आरोग्य-द्वारा कृषकाः यां सूचनां प्राप्तवन्तः, यन्मार्ग-दर्शनं लब्धवन्तः, तस्य कार्यान्वयनस्य परिणामः किमभवत् ? विगत-वित्त-वर्षे श्रावणीय-शस्यावधौ गोधूमस्य उत्पादने प्रति-एकड् त्रितः चतुर्मिता वृद्धिः जाता, अपि च, आयमितौ अपि प्रति-एकड् चतुर्तः षट्-सहस्र-रूप्यकाणां वृद्धिः अभवत् | अमुना साकं मृत्तिकायाः गुणवत्तायामपि परिष्कारः अजायत | उर्वरकस्य उपयोगस्य न्यूनता-कारणात् आर्थिक-सञ्चयोsपि जातः |  इदं दृष्ट्वा प्रसीदामितमां यन्मम कृषक-भ्रातरः, मृदा–स्वास्थ्य-पत्रस्य परमर्शान् क्रियया अन्वेतुं प्रेरिताः अभूवन्, तथा च, यथा यथा परिणामाः अवाप्यन्ते, तेषां समुत्साहः अपि संवर्धते | सम्प्रति कृषकाः अपि अनुभवन्ति यत् शस्यानि चिन्तनीयानि सन्ति चेत् प्रथमं तावत् भूमेः चिन्ता करणीयास्ति, एवं हि, यदि वयं भूमि-मातुः चिन्तां करिष्यामश्चेत् भूमि-मातापि अस्माकं सर्वेषां पोषणं करिष्यति | अशेष- देशे अस्मदीयैः कृषकैः दश-कोट्यधिकानि मृदारोग्य-पत्राणि विनिर्मितानि येन हि ते स्वीय-मृत्तिकां सम्यग्रूपेण अवगन्तुं शक्नुयुः, तदनुरूपेण च, शस्य-वपनमपि कर्तुं पारयेयुः |  वयं भूमि-मातुः भक्तिं कुर्मः, परञ्च यूरिया-सदृशैः उर्वरकैः भूमि-मातुः स्वास्थ्यं कियद् अपक्षतं भवति ? कदाचित् विचारितं वा ? प्रत्येकमपि वैज्ञानिक-प्रकारेण इदं सिद्धं यत् भूमि-माता समधिकस्य यूरियोपयोगस्य कारणात् गभीरां क्षतिं सम्मुखी- करोति | कृषकस्तु पृथिव्याः पुत्रोsस्ति, कृषकः भूमि-मातरम् अस्वस्थां कथं द्रष्टुं शक्ष्यति ?  कालस्य इयमावश्यकतास्ति यत् मातृ-पुत्रयोः सम्बन्धाः पुनरेकवारं जागृताः स्युः | किम् अस्माकं कृषकाः, अस्मदीयायाः भूमेः पुत्राः, अस्माकं धरण्याः सन्ततयश्च इदं संकल्पयितुं शक्नुवन्ति यत् साम्प्रतं ते स्वीय-क्षेत्रेषु यावन्तं यूरियोपयोगं कुर्वन्ति, एतच्छताब्दस्य द्वाविंश-वर्षं यावत्, यद्धि स्वाधीनता-प्राप्तेः पञ्च-सप्तति-वर्षं भविता, अर्धोपयोगं अवरोत्स्यन्ति ?  एक-वारं यदि, भूमि-मातुः पुत्रः, मम कृषक-भ्राता, इदं संकल्पयति चेत्, नूनं पश्यन्तु, भूमि-मातुः आरोग्यं परिष्कृतं भविता,  उत्पादनञ्च विवर्धिता | कृषकस्य जीवनं परिवर्तितुम् आरप्स्यते |
     सम्प्रति वयं सर्वेsपि Global warming, Climate change- इति जागतोष्णता-ऋतु-परिवर्तन-विषयम् अनुभवामः | कदाचित् तादृशः कालः आसीत् यदा दीपावल्याः प्रागेव शीतर्तुः प्रारभते स्म | अधुना सत्यपि डिसेम्बर-मासे आगते, शीतर्तुः शनैः शनैः समुपागच्छति | परञ्च यथैव शीतकालः आरभते, वयं सर्वेsपि अनुभवामः यत् कम्बलात् बहिः निर्गन्तुं न मनागपि कस्मैचिद् रोचते | परञ्च, एतादृशेष्वपि ऋतुषु सततं जागरुकाः सन्तः जनाः महान्तं परिणामं विधातुमर्हन्ति, अपि चैतानि उदाहरणानि अस्माकं सर्वेषां कृते प्रेरणा-प्रदायीनि भवन्ति | भवन्तोsपि इदं श्रुत्वा आश्चर्यमनुभविष्यन्ति यन् मध्यप्रदेशस्य अष्ट-वर्षीयः दिव्यांग-बालकः तुषारः, स्वीयं ग्रामं अनावृत-शौचाचरणान् मुक्तं विधातुं निरणैषीत् | एतावत्-व्यापक-स्तरीयं कार्यं तथा च, एतावान् कनीयान् बालकः ! परञ्च भावः संकल्पश्च, सुतरां बहुगुणितौ बृहन्तौ बलवत्तरौ च आस्ताम् | अष्ट-वर्षीय-बालकः न वक्तुं प्रभवति परञ्च, शीष्कारं स्वीयायुधत्वेन स्वीकृत्य प्रातः पञ्च-वादने उत्थाय स्वीय-ग्रामे प्रतिगृहं गत्वा च जनान् शीष्कार-स्वरेण जागरयति, हस्तयोः संकेतेन अनावृते शौचाचरणं नैव कर्तुं  शिक्षयितुम् आरभत | प्रतिदिनं त्रिंशत्-चत्वारिंशत्-संख्याकेषु गृहेषु गत्वा स्वच्छतायाः सन्देश-प्रदायकस्य अस्य बालकस्य कारणात् कुम्हारी-ग्रामः, अनावृते शौचाचरणान् मुक्तः अभवत् | स्वच्छता-प्रोत्साहनाय कनिष्ठः बालकः तुषारः प्रेरकं कार्यमकरोत् | अस्माकीनाः दिव्यांग-भातृ-भगिन्यः दृढ़-निश्चयिनः, सामर्थ्यवन्तः, साहसिकाः संकल्प-वन्तश्च वर्तन्ते | प्रतिक्षणं वयं किञ्चित्-किञ्चिदपि शिक्षितुं अवसरान् लभेमहि | साम्प्रतं ते प्रत्येकमपि क्षेत्रे समीचीनतरं कार्यं कुर्वन्ति | अस्माकं दिव्यांग-जनाः न कस्मादपि पश्चवर्तिनः वर्तन्ते |  भवन्तः सर्वे स्मरन्ति वा यत् अस्माकं दिव्याङ्गाः क्रीडकाः Rio Olympic-क्रीडा-स्पर्धासु भद्रतरं प्रदर्शनम् अकुर्वन्, चत्वारि पदकानि च विजितवन्तः | तथा च, नेत्रहीन- T-20 Cricket World Cup- इति स्पर्धायां अपि विजेतारः अभूवन् | अशेष-देशे पृथक्-पृथक्-प्रकारिकाः प्रतियोगिताः आयोज्यन्ते | विगतेषु दिनेषु उदयपुरे  सप्तदश-संख्याकाः राष्ट्रिय-दिव्याङ्ग-तरण-स्पर्धाः आयोजिताः | अशेष-देशाद् आगताः अस्मदीयाः युवानः दिव्याङ्गाः भ्रातृ-भगिन्यः आसु सहभागित्वम् आवहन्, स्वीयं कौशलञ्च प्रादर्शयन् | तेषु अन्यतमः अस्ति- गुजरातस्य ऊनविंश-वर्षीयः जिगर-ठक्करः, तस्य शरीरे प्रतिशतं अशीतौ भागेषु मांसकोशिकाः नैव वर्तन्ते, परञ्च, तस्य साहसम्, संकल्पम् श्रमञ्च पश्यन्तु ! राष्ट्रिय-दिव्याङ्ग-तरण-स्पर्धायाम् ऊनविंश-वर्षीयः जिगर-ठक्करः  एकादश-पदकानि विजितवान् !  असौ भारतस्य स्पर्धा-प्राधिकरण- द्वारा विंशति-विंशति-दिव्याङ्ग-ओलम्पिक-स्पर्धायै चितः, द्वात्रिंशत्-तरण-पटुषु चान्यतमः यो हि गुजराते गांधीनगरे    Centre for Excellences- इत्यत्र प्रशिक्षणं प्राप्स्यति | अहं यूनः जिगर-ठक्करस्य समुत्साहम् अभिनन्दामि, तस्मै च मङ्गल-कामनाः व्याहरामि | अस्मदीयोsयं प्रयासो वर्तते यत् देशस्य प्रत्येकमपि जनः समर्थः क्षमश्च स्यात् | एकस्य समावेशि-समाजस्य निर्माणं भवेत् | ‘सम’-‘मम’’ इत्यनयोः भावः समाजे समरसतां विवर्धयेत्, सर्वे च सम्भूय अग्रेसरेम |
          कतिपय-दिनानन्तरम् ‘ईद-ए-मिलाद्-उन-नबी’-पर्व आयोजयिष्यते| दिनेsस्मिन् पैगम्बर-हज़रत-मोहम्मद-वर्यस्य जन्म अजायत | अहं सर्वेभ्योsपि देशवासिभ्यः हार्दिकीः शुभकामनाः वितरामि, आशासे यत् इदम् ईद-पर्व,  समाजे शान्तिं सद्भावनाञ्च विवर्धयितुं अस्मभ्यं सर्वेभ्यः नूतन-प्रेरणा-प्रदायि स्यात्, अभिनवाञ्च ऊर्जां प्रदद्यात्, नवीन-संकल्पस्य च सामर्थ्य-प्रदं भवेत् |
(दूरभाषः)
‘नमस्ते ! प्रधानमन्त्रि-महोदय, अहं कानपुरतः नीरजा-सिंहः वदामि |  मम निवेदनं यत् अस्मिन् सम्पूर्णेsपि वर्षे स्वीये ‘मन की बात’-प्रसारणे यत् किमपि भवता उक्तं तेषु सर्वोत्तमान् दश-विषयान् पुनरपि अस्मान् कथयतु, येन पुनरपि तेषां विषयाणां स्मरणं स्यात् तथा च, वयं किञ्चित् इतः परमपि शिक्षितुं शक्नुमः | धन्यवादः |
( इति दूरभाष-सम्भाषणंम् )
        भवत्याः कथनं समीचीनम् | इदं वर्षं पूर्णं भवति | अभिनवं वर्षं आसन्न-प्रायम् | परञ्च भवत्या सम्यक् परामर्शितम् | भवत्या यदुक्तं तेन सह किमपि संयोक्तुं किञ्चित् परिवर्तयितुं चाभिलषामि |  अस्माकं ग्रामेषु ये वरिष्ठाः वृद्धाः भवन्ति, ते सर्वदैव कथयन्ति यत् दुःखं विस्मरतु, सुखञ्च नैव विस्मृतं स्यात् | अनुभवामि यद् विषयोsयं अस्माभिः प्रचारणीयः | वयं अष्टादशोत्तर-द्विसहस्र-तमे वर्षे शुभ-स्मरण-पुरस्सरम्, शुभ-संकल्पेन सहैव प्रविशेम | अस्माकं देशे तु संचार-माध्यमेषु, विगत-वर्षस्य अनेकासां रोचक-घटनानां पुनःस्मरणं कारयितुं प्रयत्यते | तेषु रचनात्मकमपि भवति, नकारात्मकमपि भवति | अहं भवद्भ्यः परामर्शमेकं वदामि यत् भवन्तः पञ्च वा दश वा रचनात्मक-विषयान् स्वीकर्वन्तु ये भवद्भिः श्रुताः वा दृष्टाः वा अनुभूताः स्युः तान् जनाः अपि अवगच्छन्ति चेत्, तेsपि शुभ-भावानुभूतिम् अवाप्नुयुः| किमत्र योगदानं कर्तुं शक्ष्यन्ति ?  किम् अस्मिन् क्रमे वयं अस्य वर्षस्य जीवनस्य पञ्च रचनात्मक-विषयानुभवान् संभक्तुं शक्नुमः ? भवतु नाम तत् चित्र-माध्यमेन, वा लघुकथा-रूपेण, लघु-दृश्याङ्कनेन वा, अहम् आमन्त्रयामि यत् अष्टादशोत्तर-द्विसहस्र-तम-वर्षस्य स्वागतम् अस्माभिः शुभे परिवेशे करणीयम् | शुभ-स्मृतिभिः साकं करणीयम् | रचनात्मक-चिन्तनेन सह अनुष्ठेयम् | रचनात्मक-विषयान् संस्मृत्य विधेयम् |
      आगच्छन्तु, NarendraModi App- इत्यत्र, MyGov- इत्यत्र, सामाजिक-संचार-माध्यमेषु #PositiveIndia (हैशटैग Positive India) - इत्यमुना साकं सकारात्मक-विषयान् वितरेम | अन्येभ्यः प्रेरणा-प्रदायि-घटनाः स्मरेम |  शुभं स्मरेम चेत् शुभानुष्ठानस्य रुचिः समुत्पत्स्यते | शुभ-वस्तूनि शुभ-कार्यार्थम् ऊर्जां प्रददति | शुभ-भावः,  शुभ-संकल्पस्य हेतुः भवति | शुभ-संकल्पः शुभ-परिणामार्थम् अग्रे सन्नयति |
   आगच्छन्तु, सम्प्रति प्रयतेम #PositiveIndia (हैशटैग Positive India)  | पश्यन्तु, वयं सर्वे सम्भूय प्रबलं रचनात्मकं च परिवेशं निर्माय आगमिष्यमाणस्य वर्षस्य स्वागतं करिष्यामः | अस्य वर्षस्य सामूहिक-गतेः शक्तिम्, अस्याश्च शक्तेः  प्रभावं वयं सर्वे मिलित्वा द्रक्ष्यामः | तथा च, अवश्यमहम् आगामिनि ‘मन की बात’ -प्रसारणे #PositiveIndia (हैशटैग Positive India) इत्यत्र स्थापितान् विषयान् देशवासिभ्यः प्रापयितुं प्रयतिष्ये |                                                 
            मम प्रियाः देशवासिनः,  आगामिनि मासे, आगामिने ‘मन की बात’-प्रसारणाय अहं पुनरेकवारं भवतां मध्ये आगमिष्यामि | अनेकविधान् विषयान्  चर्चितुं अवसरञ्च लप्स्ये | भूयांसो धन्यवादाः !!!

Monday, 13 November 2017

शिव उत माधवः? कस्त्वम्?
 सम्पादका -बाला  चिर्रावूरी
               "शिवस्य हृदयं विष्णुः विष्णोश्च हृदयं शिवः" इति शिवकेशवयोरैक्यं प्रतिदिनमपि संध्यायां उच्यन्ते। शिवविष्ण्वोःअभेदं अयं मन्त्रः प्रतिपाद्यते।तद्वदेव हरिहरौ, रामलिङ्गेश्वरौ, रामेश्वरौ, शंकरनारायणौ एतानि नामान्यपि अभेदं प्रतिपाद्यन्ते।

एकदा अमर्त्यानां संदेहो सञ्जातः" रामेश्वरमिति पदस्य समासःक "इति। व्याकरणे समासेषु ' कर्मधारय' 'तत्पुरुष''बहुव्रीहि' इति वर्तन्ते। 

राजसेवकः इत्युक्ते तत्पुरुषसमासो भवति। राज्ञः सेवकः इतयर्थः भवति। षष्ठीविभक्त्यर्थः अस्मिन् वर्तते इति कारणात् अयं षष्ठीतत्पुरुषसमासो भवति। 


'नीलोत्पलम्' अर्थात् नीलिवर्णयुत उत्पलमिति। इदं कर्मधारयमिति वदन्ति।

'दण्डपाणिः'अर्थात् दण्डः पाणौ यस्य सः ।बहुव्रीहिःभवति। दण्डपाणि शब्दस्य विभिन्ना अर्थाः वर्ततन्ते। यथा सुब्रह्मण्यः, कालभैरवः ... इत्यदयः। दण्ड इति शब्दात् पाणि इति शब्दादपि भिन्नोऽर्थः द्योतते बहुव्रीहौ। 'बहुव्रीहिः' इत्यस्य पदस्य अर्थ एव बहुफलसम्पन्नं धान्यसस्यमिति। 

'रामेश्वरम्' कस्समासो भवति? तत्पुरुषो वा? ' रमस्य ईश्वरः' इत्युक्ते सति ' रामस्य प्रभुरीश्वरः'इति अर्थो द्योतते। तदा तत्र शिवाधिक्यं भवति। शिवधनुर्भङ्गः कृत रामः शिवात् कथं न्यूनो भवति? सर्वलोकशरण्यो रामः , तस्मादुपरि पुनरीश्वरो वा? इमान् सन्देहाने कः समाधत्ते?  देवाः विष्णुमेव प्रक्ष्यामः इति विचार्य वैकुण्ठं प्रति अगमन्। ' अतिस्वल्पविषयमधिकृत्य बहुदूरं आगच्छन्ति?  एतत्पदस्यवलोकनेनैव तत्तपुरुष इति ज्ञायते। 'रामस्य ईश्वरः'एव इति विष्णुना प्रोक्तम्।किन्तु इतोऽपि देवाः न शंकानिवारिताः।

"विष्णुः कल्याणपरिपूर्णो भवति। कल्याणगुणेषु विनयोऽपि वर्तते। विनयसम्पन्नात्, अहंभावरहिताद्वा , ह्रिया वा विष्णुना एवं कथितम्। भवतु , शिवं प्रक्ष्यामः, सः किं कथयिष्तीति द्रक्ष्यामः" इति विचिन्त्य' विष्णुस्तत्पुरुषं ब्रूते' ' विष्णुः, रामेश्वरपदम्, तत्पुरुषसमासः इति चिन्तयन्तस्सन्तः कैलासमगच्छन्।

नाकलोकवासिनां सन्देहं श्रुतवान् नागाभरणधारी। ' भोः! अस्मिन् सन्देहस्य अवकाश कुत्रास्ति? रामेश्वरपदं बहुव्रीहिः भवति। राम एव ईश्वरः यस्य सः रामेश्वरः' इति समधत्तः ईश्वरः। 

व्याकरणविषये शिवकेशवयोर्मध्ये एवंप्रकारेण भेदाभिप्रायाः वर्तन्ते इति देवाः स्वप्ने अपि न ऊह्यन्ते। रामेश्वरपदे तयोः नाम प्रसक्तिरस्तीति कारणात् मध्यवर्तिनं पृष्ट्वा शंकानिवारणं कुर्मः इति ' बहुव्रीहिं महेश्वरः', शिवः बहुव्रीहिसमासः इति उक्तस्सन्तः  ब्रह्माणं दर्शितवन्तः। देवतानां सन्देहं, प्रचलितवृत्तान्तम्यावत् प्रशान्ततया आकर्ण्य " अयं तत्पुरुषसमसो नास्ति, बहुव्रीहिरपि नास्ति कर्मधारय इति, वीरराघव इत्युक्ते वीरः एकः राघवः अन्यो वा? नास्ति खलु! तद्वदेव रामेश्वर इत्युक्ते रामः एकः ईश्वरः अन्यो वा? रामएव ईश्वरः, ईश्वर एव रामः अर्थात् रामश्चासौ ईश्वरः- रामेश्वरः कर्मधारय एव भवति" इति शासनं क्रियते ब्रह्मणा। 

 विष्णुस्तत्पुरुषं ब्रूते बहुव्रीहिं महेश्वरः।
 उभयोरप्यतृप्तानामत्मभूः कर्मधारय।।

आत्मभूः अर्थात् ब्रह्मा, देवानां प्रति शिकेशवयोरेकमेव परतत्त्वमस्तीति ब्रह्मा बोधयामास। 

                बाला...✍

Sunday, 12 November 2017

हरियाणा-राज्यस्य कलाः संस्कृतिः इतिहासश्च  
                                                              - बलदेवानन्द-सागरः  
हरियाणा अर्थात् परमात्मनः निवास-स्थानम्  -
             सम्प्रति हिमालयस्य मुकुटवन्तं विशालम् आधुनिकञ्च भारतदेशं  सरलतया अवगन्तुं शक्यते, अस्य च वैभव-ज्ञानं सुकरञ्चेति नूनं गूगल्-कारणात् प्रतीयते परन्तु यावदवधि अस्य देशस्य कलाः संस्कृतिम् इतिहासञ्च सम्पूर्णतया हृदयङ्गमं नैव कुर्मः तावदवधि महतो भारतस्य बोधः नैवास्ति सुकरः | विशेषेण भारतस्य पृथक्-पृथक् राज्यानि अवगन्तुं तत्तद्-राज्यानां कलानां संस्कृतेः इतिहासस्य च गभीरतया हृदयङ्गमीकरणं परमावश्यकम् |
               “हरियाणा” अर्थात् हरेः [परमात्मनः] निवास-स्थानम् | मन्ये, सर्वे जानन्ति एव यत् “हरि व्यापक सर्वत्र समाना” अर्थात् “हरिः व्यापकः सर्वत्र समानः” | सः परमात्मा सर्वव्यापी किन्तु यस्याः भूमेः नाम एव हरेः निवासत्वेन ख्यातम् सा भूमिः कियती गरीयसी महत्वाधायिनी चास्तीति तु अनुभव-विषयः | शाब्दिक-व्याख्यया एवमवगन्तुं शक्यते यत् - हरि + अयन [अयण], तद्धि पूर्वं ‘हर्ययनम्’- रूपेण [‘हर्ययणम्’- रूपेण वा] प्रयुक्तमासीत्, अनन्तरं भाषित-भाषायां ‘हरियाणा’-नाम्ना प्रतिष्ठितं जातम् |  
             केचन विद्वान्सो निगदन्ति यत् अस्याः भूमेः नाम आसीत् “हरित + अरण्यम्” अर्थात् “शाद्वल-सम्भरितं काननम्” - एतस्मिन्नर्थे ‘हरितारण्यम्’ आसीत् यद्धि कालक्रमेण “हरियाणा” इति रूढं जातम् | एवम्मन्यमानेषु प्रमुखेषु विद्वत्सु श्रीमुरलीचन्द्र-शर्मा, श्रीएच्.ए.फडके, श्रीसुखदेवसिंह-छिबः श्रीमुन्नीलाल-प्रभृतयः अन्यतमाः सन्ति | 
आधुनिक-हरियाणा-राज्यस्य प्राचीन-सन्दर्भाः -        
        आधुनिक-सन्दर्भानुसारेण भारतीय-गणतन्त्रे पृथक्-राज्य-रूपेण १९६६-तमे वर्षे नवम्बर-मासे प्रथम-दिनाङ्के एतत् प्रतिष्ठापितं जातम्, किन्तु विशिष्टमेतद् ऐतिहासिकं सांस्कृतिकञ्च क्षेत्रमिति हरियाणा-राज्यस्य अस्तित्वं प्राचीनकालादेव अभिज्ञातम् आसीत् । 
         राज्यमिदम् आदिकालादेव भारतस्य  संस्कृतेः सभ्यतायाश्च धुरत्वेन अवर्तत। स्मृति-कारस्य महर्षेः मनोः अनुसारेण अस्य प्रदेशस्य अस्तित्वं देवताभिः विरचितम् अत एव अयं 'ब्रह्मवर्त'-प्रदेशः इति अभिहितम् ।  
         हरियाणा-प्रदेशस्य विषये अनेके सन्दर्भाः वैदिक-साहित्ये समुल्लिखिताः सन्ति | प्रदेशेsस्मिन् विहितेन उत्खननेन ज्ञायते यत् सिन्धु-उपत्यकायाः सभ्यतायाः, मोहनजोदड़ो- इत्यवशेषाणां च संस्कृतेः विकासः अत्रैव अजायत ।
          शास्त्र-वेत्तारः, पुराण-रचयितारः विचारकाश्च सुदीर्घ-कालं यावद् अस्य ब्रह्मर्षि-प्रदेशस्य रमणीये अङ्के स्थित्वा अनेकान् धर्म-ग्रन्थान् विरचय्य ज्ञानं प्रसारितवन्तः। ते सर्वदैव भगवत्याः मातुः सरस्वत्याः पावनस्य ब्रह्मवर्तस्य च गुणान् विविधासु निज-रचनासु वर्णितवन्तः।
         अस्य राज्यस्य ब्रह्मवर्त-ब्रह्मर्षि-इति नाम-द्वयम् अतिरिच्य 'ब्रह्मणः उत्तरवेदिका' - इति नाम्नापि प्रदेशोsयं ग्रन्थेषु जेगीयते। राज्यमिदम् आदि-सृष्टेः जन्म-स्थानमित्यपि आमन्यते । एतदपि विश्वस्यते यत् मानव-जातेः समुत्पत्तिः यस्मात् वैवस्वत-मनोः जाता, सः अस्यैव प्रदेशस्य राजा आसीत् । 
        “अवन्ति-सुन्दरी-कथा”- इति ग्रन्थे अयं मनु-महाराजः स्थाण्वीश्वर-निवासी [थानेश्वरवासी] इति वर्णितम् । पुरातत्ववेत्तारो निगदन्ति यद् आद्यैतिहासिक-कालीनायाः, प्राग्हड़प्पा-हड़प्पा-परवर्ति-हड़प्पा-प्रभृतीनाम् चानेकासां संस्कृतीनां बहुविधानि प्रमाणानि, हरियाणा-राज्यस्य वणावली-सीसवाल-कुणाल-मिर्ज़ापुर-दौलतपुर-भगवान्पुरादि-स्थानानाम् उत्खननैः प्राप्तानि ।
हरियाणा - ‘भारत’ - इति नामकरणस्य पृष्ठभूमिः अस्ति  -   
                    भरतवंशी सुदासः अस्मादेव प्रदेशाद् स्वीयं विजयाभियानम् प्रारभत, आर्याणां शक्तिञ्च सङ्घटितवान् । एते एव भरतवंशिनः आर्याः रंहसा सुदूरे पूर्वस्मिन् दक्षिणे च दिग्विभागयोः स्वीयां शक्तिं विवर्धयन्तः अग्रेसृताः । अनन्तरं तेषामेव वीर-भरतवंशिनां नाम्ना अशेष-राष्ट्रस्य अभिधानं ‘भारत’मिति प्रसिद्धिमगात्।
                   महाभारत-कालात् शताब्देभ्यः पूर्वम् आर्यवंशिनः कुरवः अत्रैव कृषि-युगमारभन्त । पौराणिक-कथानुसारेण ते आदिरूपायाः सरितः मातुः सरस्वत्याः ४८-कोष-मितम् उर्वर-प्रदेशं प्रप्रथमं कृषि-योग्यं व्यदधुः । अत एव सा ४८-कोष-परिमिता कृषि-योग्या भूमिः कुरूणां नाम्ना सुप्रतिष्ठिता सती अद्यत्वेsपि “कुरुक्षेत्र”-मिति भारतीय-संस्कृतेः पवित्रप्रदेशत्वेन जगति सम्मान्यते।
                  सुदीर्घ-कालं यावत् सरस्वत्याः गङ्गायाः च मध्यगतः सुविस्तृतः भू-भागः 'कुरु-प्रदेश'- नाम्ना अभिज्ञायते स्म । महाभारतस्य विश्व-प्रसिद्धं युद्धं कुरुक्षेत्रे एव अयुध्यत । अस्यैव युद्धस्य तुमुलेषु  शंख-नादेषु अद्भुतः सनातनः अलौकिकश्च स्वरः उदपद्यत-
“धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ! ||”  
                   श्रीमद्भगवद्गीतायाः अमुना प्रथमेन श्लोकेन साकमेव योगेश्वरस्य श्रीकृष्णस्य विश्व-जनीनस्य पारमार्थिक-स्वरस्य अनुकीर्तनम् अनुगुञ्जनञ्च अद्यापि श्रद्धालुभिः निज-कर्णाभ्यां पेपीयते | युगपुरुषस्य भगवतः श्रीकृष्णस्य मुख-कमलात् प्रकटिता श्रीमद्भग- वद्गीता या हि भारतीय-संस्कृतेः बीज-मंत्ररूपास्ति, सर्व-कालार्थं अमरायते ।
हरियाणा-प्रदेशस्य गौरवयुगम्  -
           वर्धनवंशस्य सर्वोत्तमः शासकः हर्षवर्धनः आसीत् येन विशालं साम्राज्यं स्थापितम् । हरियाणा-प्रदेशस्य तद् गौरवयुगमासीत् । चीन-देशीयः भिक्षुः ह्वेनसांगः हर्षस्य राजधान्याः (थानेश्वर) स्थाण्वीश्वरस्य वैभवं समृद्धिञ्च समीचीनतया अवर्णयत् । संस्कृत-साहित्यस्य महान् गद्यलेखकः बाणभट्टः नैजे 'हर्षचरितम्'- नाम्नि ग्रन्थे तत्कालीनस्य हरियाणा-प्रदेशस्य जन-जीवनं सांस्कृतिक-परम्पराश्च व्यापकतया अवर्णयत् । हर्षकालेsपि जनपदानां स्वरूपं यथावदेव सन्धारितमासीत् । सम्राट्, न कदापि अत्र आन्तरिक-व्यवस्थायां हस्तक्षेपमकरोत् ।
                 सम्राजो हर्षवर्धनस्य मृत्योः पश्चाद् अत्रत्यं जनजीवनं व्यस्तीभूतम् । अनारतं बाह्याक्रमणानि जायन्ते स्म । परन्तु अत्रत्याः जनाः निज-शक्त्या आन्तरिकीं सामाजिक-व्यवस्थां सन्धारितवन्तः। प्राचीनस्य हरियाणा-प्रदेशस्य सबलायाः गण-परम्परायाः फलस्वरूपेण एव अत्रत्याः जनाः सदा दृढतया जनवादिनः स्थिताः, तथा च कालान्तरेsपि ते प्रत्येकमपि तया साम्राज्यवादिन्या शक्त्या संघर्षम् अकुर्वन् याः काश्चन अपि शक्तयः तेषां जनवादि-व्यवस्थायां हस्तक्षेपं विहितवत्यः। 1857-मिते खीस्ताब्दे सञ्जातो जन-विद्रोहोsपि एतस्याः आस्थायाः प्रतीकरूपः ।
                यौधेय-काले अयं 'बहुधान्यक'- प्रदेशस्य नाम्ना अभिज्ञायते स्म। मूर्तिकला-हस्तकला-ललित-कलानां कृते यौधेयाः कृत्स्नेsपि प्रदेशे प्रसिद्धाः आसन्। रोहतकस्य मृदङ्ग-वादकाः पटह-ताडकाश्च उज्जयिनीं यावत् गत्वा प्रसिद्धिं प्राप्तवन्तः। मल्लयुद्धे युद्ध-कौशले च ते अद्वितीयाः आसन् । ते एकतः दुर्धर्षाः योद्धारः आसन्, अपरतश्च अदम्य-शक्तिमन्तः कृषकाः अपि । गौरवस्य विषयोsयं यत् सहस्राधिकानि वर्षाणि यावत् अमुना गणराज्येन भारतस्य इतिहासे अपूर्वा काचित् प्रसिद्धिः प्राप्ता, तथा च, ते नैजं प्रदेशं गणतन्त्रात्मक-राजनैतिक-व्यवस्थायाः अन्तर्गतं चरम-विकास-पर्यन्तं प्रापितवन्तः । तोमरशासकानां शासनकाले हरियाणा-प्रदेशेन कला-संस्कृति-व्यापारेषु महती उन्नतिः अधिगता यद्विषये वयं दशम-शताब्द्यां सुख्यातेन संस्कृत-विदुषा सोमदेवेन लिखिते 'यशस्तिलक-चम्पू'- इति ग्रन्थे सूचनां लभामहे। 
                  हरियाणा-प्रदेशस्य इतिहासो हि अनेक-विधानां राजनैतिक-सामाजिक-घटनानां विस्तृतेतिवृत्तं सत् विराजते यस्य विषये अत्र दिङ्गमात्रमेव निर्दिष्टमस्ति | 
भारतस्य हरित-क्रान्तौ समृद्धस्य हरियाणा-प्रदेशस्य योगदानम् -
                 ऊन-विंश-शताब्दस्य षष्ठे दशके [१९६०] देशे प्रवर्तितायां हरित-क्रान्तौ हरियाणा-प्रदेशस्य महद् योगदानमासीत् येन आधुनिकं भारतं खाद्यान्न-सम्पन्नं जातम् । भारतस्य समृद्धतम-राज्येषु अन्यतमस्य हरियाणा-राज्यस्य,  प्रतिव्यक्ति आयमानाधारेण इदं देशस्य द्वितीयं समृद्धतमं राज्यं वर्तते । एतदतिरिच्य, भारते सर्वाधिकाः ग्रामीणाः कोटि-पतयो धनिकाः अपि अस्मिन्नेव राज्ये सन्ति ।  हरियाणा-राज्यम् आर्थिकरूपेण दक्षिण-एशिया-द्वीपस्य विकसिततमं क्षेत्रं वर्तते, अपि चात्र, कृषि-विनिर्माणोद्योगः १९७०-वर्षतः अनारतं वृद्धिमवाप्नोत् । यात्रिणां कारयानानां, द्विचक्रिका-वाहनानां, कृषित्र-[ट्रैक्टर]-यानानाञ्च निर्माणे भारते हरियाणा-राज्यं सर्वोपरि वर्तते। भारते प्रतिव्यक्ति-निवेशाधारेण २०००-तमे वर्षे हरियाणा सर्वोपरि स्थानं भजते स्म । 
हरियाणा-राज्यस्य कला-परम्पराः बहुवर्णीया संस्कृतिश्च  - 
      हरियाणा-राज्यस्य सांस्कृतिक-जीवनेsपि कृषेः अर्थव्यवस्थायाः विभिन्नानाम् अवसराणां समन्वितिः प्रतिबिम्बायते तथा चास्मिन् विराजते प्राचीन-भारतस्य परम्पराणां लोककथानाञ्च भाण्डारः। हरियाणा-प्रदेशस्य एका विशिष्टा भाषित-भाषास्ति, एतस्याञ्च स्थानिकानाम् आभाणकानां सहजं प्रचलनं प्रवर्तते । स्थानीयं  लोकगीतं [विशेषरूपेण...रागिणी] नृत्यञ्च स्वीयाकर्षक-शैली-कारणात् एतद्-राज्यस्य सांस्कृतिक-जीवनं सविशेषं प्रदर्शयतः । एते ओजोभरिते स्थानीय-संस्कृतेः विनोद-प्रियतया च संपृक्ते स्तः। वसन्तर्तौ आनन्दोल्लास-सम्भृते होलिका-पर्वणि जनाः परस्परं ‘गुलाल’-इति रक्तचूर्णं स्नेहेन रागेण प्रेम्णा च प्रक्षिप्य आर्द्र-वर्णैः क्रीडन्ति | अस्मिन् न कस्यचन वयसो वा सामाजिक-योग्यतायाः वा भेदो व्यवह्रियते । हरियाणा-राज्ये जन्माष्टमी - इति भगवतः श्रीकृष्णस्य जन्मदिनस्य विशिष्टं धार्मिकञ्च महत्त्वं वर्तते |
              सूर्यग्रहणावसरे पवित्र-स्नानार्थं अशेष-देशात् लक्ष-लक्षशः श्रद्धालवः कुरुक्षेत्रं समायान्ति । अग्रोहा-(हिसारं निकषा)-पिहोवा-सहितानि अनेकानि प्राचीनानि तीर्थस्थलानि राज्येsस्मिन् विराजन्ते । अग्रोहा- इति अग्रसेन-रूपेण आमान्यते, यो हि अग्रवाल-समुदायस्य, अस्य च उपजातीनां प्रमुखः पूर्वजः वा प्रवर्तकः विश्वस्यते । अत एव अग्रोहा-तीर्थं सम्पूर्णस्य अग्रवाल-समुदायस्य जन्मभूमिः अस्ति । भारतस्य व्यापारि-वर्गेषु प्रमुखोsयं समुदायः साम्प्रतम् अशेष-देशे प्रसृतोsस्ति । अग्रसेनस्य जन्मभूमेः सम्मानस्वरूपोsयं समुदायः कतिपय-वर्षेभ्यः प्रतिष्ठापितवान् ।
              वैदिक-सन्दर्भाणाम् अनुसारेण कला-ज्ञानयोः देव्याः, सरस्वत्याः [सरितः] तट-स्थितं पिहोवा-तीर्थस्थलं पूर्वजानां श्राद्ध-हेतोः पिंडप्रदानाय महत्त्वाधायि-पवित्र-स्थलत्वेन आमान्यते । विभिन्न-देवतानां सत्पुरुषाणाञ्च स्मृतौ आयोज्यमानानि मेलकानि हरियाणा-संस्कृतेः महत्त्वपूर्णाङ्गत्वेन वर्तन्ते। अनेकेषु स्थानेषु पशु-मेलकान्यपि आयोज्यन्ते । क्षेत्रमेतत् उत्त्तम-जातेः दुग्ध-दायिनां पशूनां, विशेषेण च, महिषाणां कृषि-योग्यानां वर्ण-संकर-प्रजातीनां च पशूनां कृतेsपि सुख्यातमस्ति ।
              ‘हवेलियां’ - इति हरियाणा-प्रदेशस्य पारम्परिकाः पारिवारिकावासाः   वास्तुशिल्पस्य सुन्दरता-हेतोः, विशेषेण च तेषां द्वाराणां संरचना-कारणात् अभिज्ञायन्ते । एतेषां ‘हवेलियां’ - इति पारिवारिकावासानां द्वाराणाम् अभिकल्पनं [designing] हस्तकौशलञ्च न केवलं विविधता-युक्तम्, अपि तु, एतेषु उत्कीर्णा विभिन्न-विषयाणां शृंखलापि विस्मयकारिणी वर्तते | एते पारम्परिकाः पारिवारिकावासाः हरियाणा-राज्यस्य वीथीनां मध्ययुगीन-स्वरूपं सौन्दर्यञ्च विस्तारयन्ति । एतेषु भवनेषु बहवः आलिन्दाः [चबूतरे] भवन्ति, ये नाम आवासीयानां सुरक्षायाः धार्मिकाणां न्यायालयीयानाञ्च कार्याणां कृते समुपयुज्यन्ते । एतानि भवनानि निज-स्वामिनां सामाजिक-स्थितिमपि संकेतयन्ति । एतेषु आलिन्देषु उत्कीर्णाः कलाकृतयः अस्य क्षेत्रस्य समृद्धं सांस्कृतिकं वंशानुगतं च रिक्थं स्मारयन्ति ।
                   संक्षेपेण वक्तुं शक्यते यत् एताभिः अनेक-प्रकारिकाभिः विशेषताभिः समन्वितस्य हरियाणा-राज्यस्य विषये एतादृक्-लघु-निबन्धः एव नैवास्ति अलम् | विस्तृत-ग्रन्थस्य माध्यमेनैव वयं हरियाणा-राज्यस्य कलानां संस्कृतेः इतिहासस्य च विषये समग्रां सूचनामधिगन्तुं शक्नुमः |
शिक्षा-      रसकणिका    सम्पादका - लता चेन्नै ।

विद्यालयीय: शिक्षक: श्यामफलके लिखितवान्  -
९×१=९
९×२=१८
९×३=२७
९×४=३६
९×५=४५
९×६=५४
९×७=६३
९×८=७२
९×९=८१
९×१०=८९
     लेखनात्परं बालां दृष्टवान्तु  बाला: शिक्षकस्योपरि हसन्ति स्म , यतोहि अन्तिमं पदमशुद्धमासीत् ।
पुन: शिक्षकेनोक्तम् -
मया अन्तिमं पदं केन उद्देश्येन अशुद्धं लिखितम् , यतोहि अहम् युष्मान् सर्वान् किञ्चित् अत्यन्तं महत्वपूर्णं शिक्षयितुमिच्छामि ।

जगत् युष्माभि: सार्धमेवमेव व्यवहरिष्यति ।
यूयं द्रष्टुं शक्नुथ , यत् अहम् उपरि नववारं शुद्धं लिखितवान् परं कश्चिदपि मम प्रशंसां न कृतवान् ..??
परन्तु मम केवलमेकस्यैव अशुद्धस्योपरि यूयं अहसत आलोचनमपि अकुरुत ।
 अत: एतदेव शिक्षा अस्ति यत् - जगत् कदापि भवत्सहस्रलक्षात्मकानि  सुकार्याणि न प्रशंसते  परन्तु भवता कृतस्य  एकस्य दोषस्य आलोचनन्तु निश्चयेन करिष्यति । एतदेकं कटुसत्यमस्ति ।

Wednesday, 1 November 2017

‘मन की बात’ [37] “मनोगतम्” [37] (प्रसारण-तिथि: 29.10.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]
- बलदेवानन्द-सागरः
             मम प्रियाः देश-वासिनः ! नमस्कारः | दीपावल्याः षण्णां दिनानाम् अनन्तरम् आयोज्यमानं “महापर्व छठ”- इति अस्मदीय- देशे अतितरां निष्ठा-नियम-पुरस्सरं आयोज्यमानेषु पर्वसु अन्यतमं वर्तते, यस्मिन् पानाशनतः वेशभूषां यावत्, प्रत्येक-विषयेषु पारंपरिक-नियमाः अनुपाल्यन्ते | छठ-पूजायाः अनुपम-पर्व, प्रकृत्या प्रकृतेः उपासनया च पूर्णरूपेण सम्बद्धं वर्तते | एकतः आदिदेवः सूर्यः जलञ्च, छठ-महापर्वणः उपासनायाः केन्द्रीभूतौ विषयौ वर्तेते, अपरतश्च वेत्रेभ्यः मृत्तिकायाश्च निर्मितानि भाण्डानि कंदमूलानि च, अस्य पूजन-पद्धत्या संयुक्ताः अभिन्नाः सामग्र्यः सन्ति | आस्थायाः अस्मिन् महापर्वणि उदीयमानस्य सूर्यस्य उपासना, तथा च, अस्तंगम्यमानस्य सूर्यस्य पूजायाः सन्देशः अद्वितीय-संस्कारेण परिपूर्णोsस्ति | संसारोsयं उदीयमानान् सर्वदा पूजयति, किन्तु छठ-पूजा अस्मान् तेषामपि आराधनानुष्ठानार्थं संस्कारयति येषां अस्तंगमनं प्रायः सुनिश्चितम् |

            अस्माकं जीवने स्वच्छतायाः महत्वस्य अभिव्यक्तिः अपि अस्मिन् उत्सवे समाविष्टास्ति | छठ-पर्वणः प्राक्, संपूर्णस्य गृहस्य स्वच्छता, युगपदेव, नद्याः तडागस्य पल्वलस्य च तटेषु, पूजा-स्थलानाम् अर्थात् घट्टानामपि स्वच्छता, पूर्णोत्साहेन सर्वेsपि सम्भूय कुर्वन्ति | सूर्यस्य वंदना वा छठ-पूजा पर्यावरणसंरक्षण- स्य, रोगनिवारणस्य अनुशासनस्य च पर्व अस्ति यस्य उल्लेखः ऋग्वेदेsपि लभ्यते | ऋग्वेदे प्रोक्तम् –“सूर्य आत्मा जगतस्थुषश्च’‘ अर्थात् सूर्यः एव जगतः आत्मानं, शक्तिं चेतनाञ्च जागरयति |
             सामान्यरूपेण केचन जनाः याचयित्वा आदानं हि हीन-भावत्वेन परिगणयन्ति, परन्तु षष्ठी-पूजायां प्रातःकालिकस्य अर्घ्य-प्रदानस्य पश्चात् प्रसादं याचयित्वा अशनस्य एका विशिष्टा

Saturday, 28 October 2017

प्रीतिभोजनम्                         कविता  - डा गदाधर त्रिपाठी
उत्सवप्रियो मनुष्य इति प्रवृत्तिर्हि स्वाभाविकी मता।
आयोजनानि भवन्त्येव मनुष्याणाञ्च खलु जीवने।
विचित्रो$यं संसारो वै नैव को$पि च तिष्ठति।
क्षणार्धाय भवतु विस्मृतिर्येन आयोजनं भवति।।
यद् भोजनं भवति एकाकी उदरपूर्त्यै भवति हि तत्।
समूहे भोजनं यच्च आत्मभावं हि वर्धयति।
भुंक्ते भोजयते चैवोक्तं द्विधं प्रीतिलक्षणम्।
प्रीतिभोजनेन प्रीतिरायोजनमाह्लादकारकम्।।
जन्मोत्सवे विवाहे वै पर्वणि आयोज्यते सदा।
मित्राणि सम्बन्धिनश्चैव प्रसन्ना भवन्ति सर्वदा।।
            -----------------
               
कृष्णस्य हासः                   कविता
                                                    रचयिता -  डा. गदाधर त्रिपाठी।    
अवतारेषु कृष्णो हि अद्भुत आह्लादकारकः।
यस्य हास्येन आबद्धा:सर्वा व्रजकन्यकाः।।
एकदा कुपिता माता कृष्णाय बन्धनं कृतम्।
अपूर्णा रज्जुरभवद्धि कृष्णेन हसितं तदा।।
निरावृता यदा अभवन् युवत्यो यमुनाजले।
चोरितानि वस्त्राणि  कृष्णेन हसितं तदा।।
विलपन्तं कृष्णं दृष्ट्वा विधेर्मनसि विभ्रमः।
कथं वै अयं भगवान् हि रुदन्नेवञ्च गच्छति  ।।
वत्साश्चोरितास्तेन प्रसन्नो$भवत् प्रजापति:।
इच्छया अपरा सृष्टिः कृष्णेन हसितं तदा।।
एकदा मघवा रुष्टः कृष्णात् कृपणचेतसा।
जलेन पूरिता पृथिवी चिन्तिता  व्रजवासिनः।।
गोवर्धनं समुत्थाप्य  प्रदर्शिता शक्तिर्यदा।
अवशोऽभवन्मघवा वै कृष्णेन हसितं तदा।।
नागविषेण यमुनायास्तदा वै जलमभवत् प्रदूषितम्।
यमुनाया निष्कासितो नागः कृष्णेन हसितं तदा।।
कंसस्य तु शक्तयः सर्वा विफला अभवन् यदा।
युद्धे हतो यदा कंसः कृष्णेन हसितं तदा।।
क्षणस्थितञ्च किमपि नास्ति प्रसन्नाश्च सर्वे वयम्।
अस्माकमज्ञतां पश्य कृष्णेन हसितं तदा।।
               .........................

Tuesday, 17 October 2017

दीपावलिः

वि के हरीशः
  दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।

इदं कथ्यते यत् अस्मिन् दिवसे रावणं हत्वा रामः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानां मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति ।

नीराजयेयुदेर्वांस्तु विप्रान् गावतुरङ्गमान् ।
ज्येष्ठान्पूज्यान् जघन्यां मातृमुख्या योषित: ॥ इति उक्तम् अस्ति ।
दीप: ज्ञानस्वरूप:, सर्वविद्यानां कलानां च मूलरूप: । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् विष्णुरध्यात्मदीप: । इति वदति भागवतम् । हृदयकमलमध्ये दीपवद्वेदसारम् इति उच्यते गुरुगीतायां स्कान्दपुराणे च । यद्यपि दीपावली सर्वैरपि आचर्यते तथापि विशेषतया वैश्यपर्व इति उच्यते । एतदवसरे धनदेवताया: महालक्ष्म्या:, धनाध्यक्षस्य कुबेरस्य च पूजां कुर्वन्ति ।

पूजनीया तथा लक्ष्मीर्विज्ञेया सुखसुप्तिका ।
सुखरायां प्रदोषे तु कुबेरं पूजयन्ति हि ॥
एतत् केवलं धनसम्बद्धं पर्व न । अत्र महालक्ष्मी: केवलं धनदेवता न । श्रेयस: सर्वाणि अपि रूपाणि लक्ष्मीस्वरूपाणि एव । सा धर्मलक्ष्मी: मोक्षलक्ष्मी: अपि । वैश्या: तद्दिने लक्ष्मीपूजां कृत्वा नूतनगणनाया: आरम्भं कुर्वन्ति । तमिळुनाडुराज्ये चतुर्दशीदिनं दीपावली इति, कर्णातके चतुर्दशी-प्रतिपत् च दिनद्वयं दीपावली इति वदन्ति ।

त्रयोदश्यां सायङ्काले स्नानगृहं तत्रत्यानि पात्राणि च स्वच्छीकृत्य शुद्धं जलंपूरयन्ति । तत् जलपूरणपर्व इति वदन्ति । तद्दिने रात्रौ अपमृत्युनिवारणाय यमधर्मराजस्य सन्तोषाय च गृहस्य बहिर्भागे दीप: प्रज्वालनीय: इति वदति स्कान्दपुराणम् । तस्य दीपस्य नाम एव यमदीप: इति ।

कार्त्तीकस्यासिते पक्षे त्रयोदश्यां निशामुखे ।
यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति ॥ (स्कान्दपुराणम्)
मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह ।
त्रयोदश्यां दीपदानात् सूर्यज: प्रियतां मम ॥ (स्कान्द-पद्म-पुराणे)
चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्रीकृष्ण: नरकासुरं संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले तैले लक्ष्मी:, जले च गङ्गा निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति ।

”तैले लक्ष्मीर्जले गङ्गा दीपावल्याचतुर्दशीम् ।
प्रात:काले तु य: कुर्यात् यमलोकं न पश्यति ॥“ (पद्मपुराणम् - ४-१२४)
”अलक्ष्मीपरिहारार्थम् अभ्यङ्गस्नानमाचरेत् ।” (नारदसंहिता)
तद्दिने विभिन्नानां चतुर्दशशाकानां भक्षणपद्धति: अपि कुत्रचित् अस्ति ।

”अत्र आचारात् चतुर्दशशाकभक्षणं च कर्तव्यम् ॥ इति उक्तिरपि श्रूयते ।
रात्रौ च ज्वलन्तम् आलातं गृहीत्वा पित्रृभ्य: मार्गदर्शनम् अपि कुर्वन्ति ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नम: ॥
इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै तिलतर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, अश्वशालासु, गजशालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, शिवं, महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।

अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले उदुम्बर-अश्वत्थ-आम्र-वट-प्लक्षवृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति भेरि पणवानकै: महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि ताम्बूलं च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं कुबेरम् अपि पूजयन्ति ।
-कूष्माण्ड-मुरनामकानां राक्षसानाम् अपि चित्राणि लिखन्ति । कर्णकुण्डलकिरीटै: शोभमानं बलिं विभिन्नै: कमलपुष्पै:, गन्ध-धूप-दीप-नैवेद्यै: पूजयन्ति । स्वर्णेन अथवा स्वर्णवर्णपुष्पै: तस्य पूजां कुर्वन्ति ।

”बलिराज नमस्तुभ्यं विरोचनसुत प्रभो ।
भविष्येन्द्र सुराराते विष्णुसान्निध्यदो भव ॥“
पूजेयं प्रतिगृह्यताम् इति प्रार्थयन्ति । एतद्दिने महादानी बलिचक्रवर्ती वामनावतारिण: विष्णो: सकाशात् प्राप्तस्य वरस्य अनुगुणं भूलोकं द्रष्टुम् आगच्छति इति । अत: बलिम् उद्दिश्य तद्दिने यानि दानानि दीयन्ते तानि अक्षयफलदायकानि भवन्ति, नारायणस्य सन्तोषम् अपि जनयन्ति इति वदति भविष्योत्तरपुराणम् ।

”बलिमुद्दिश्य दीयन्ते बलय: कुरुनन्दन ।
यानि तान्यक्षयाण्याहु: मय्येवं सम्प्रदर्शितम् ॥“ (भविष्योत्तरपुराणम् - १४०-५७)
एतद्दिने पार्वतीशिवौ द्यूतं कीडितवन्तौ । तत्र पार्वत्या जय: प्राप्त: इति वदति ब्रह्मपुराणम् । तस्य स्मरणार्थं तद्दिने द्यूतम् अपि क्रीडन्ति कुत्रचित् । तत्र य: जयं प्राप्नोति स: वर्षपूर्णं जयं प्राप्नोति इति विश्वास: ।

”तस्मात् द्यूतं प्रकर्तव्यं प्रभाते तत्र मानवै: ।
तस्मिन् द्यूते जयो यस्य तस्य संवत्सर: शुभ: ॥“
एतद्दिने एव श्रीकृष्ण: गोवर्धनपर्वतम् उन्नीय गोकुलस्य रक्षणं कृतवान् इति । अत: तस्य दिनस्य स्मरणार्थं गोपूजाम् आचरन्ति । तद्दिने गोवृषभेभ्य: विश्रान्तिं यच्छन्ति । गोवृषभान् स्नापयित्वा अलङ्कुर्वन्ति । तेषां पूजां कृत्वा नैवेद्यं समर्पयन्ति । गोवर्धनपर्वतस्य गोपालकृष्णस्य च पूजां कुर्वन्ति । पर्वतं गन्तुम् अशक्ता: तस्य विग्रहं, चित्रं वा पूजयन्ति । गोवर्धनपूजाम् अन्नकूट: इति वदन्ति । गोपालेभ्य: नैवेद्यरूपेण अन्नसन्तर्पणं व्यवस्थापयन्ति च एतद्दिने ।

अग्रिमं दिनम् अस्ति कार्त्तीकशुद्धद्वितीया । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति ।

”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।
अर्घ्यात्र प्रदातव्यो यमाय सहजद्वयै: ॥“

एतद्दिने एव यमदेव: भगिन्या: यमुनादेव्या: गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्त्वा ता: सन्तोषयन्ति च । मार्कण्डेयादीनां चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् । एवं ५ दिनानि आचरन्ति दीपावलीपर्व ।

”उपशमित मेघनादं प्रज्वलित दशाननं रमितरामम् ।
रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ॥“ (भविष्योत्तरपुराणम् - १४० - ७१l

रामायणे मेघनाद: (इन्द्रजित्) यथा शान्त: तद्वत् एतत् पर्वावसरे मेघ: शान्त: जात: भवति । रामायणे दशमुखरावण: यथा दग्ध: भवति तथा अस्मिन् पर्वणि दशामुखं (वर्त्तिका) दहति । रामायणे राम: यथा रमते तद्वत् अस्मिन् पर्वणि सर्वे जना: रमन्ते । एवं रामायणमिव रमणीयं दीपावलीपर्व अस्माकं पापानि नाशयतु इति वदति अयं श्लोकः ll

Saturday, 2 September 2017

‘मन की बात’ [35]
“मनोगतम्”  [35]              (प्रसारण-तिथि:- 27.08.2017)
[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः]                                 
                -भाषान्तर-कर्ता -   डॉ. बलदेवानन्द सागर

मम प्रियाः देश-वासिनः ! 
           सादरं  नमस्कारः |
         एकतः देशः उत्सवेषु व्यापृतः अस्ति अपरतः च, हिन्दुस्थानस्य कस्मादपि कोणात् यदा हिंसा-वार्ता आयाति तदा देशस्य चिन्ता स्वाभाविकी एव | अस्मदीयः देशः अयं बुद्ध-गान्धिनोः देशः वर्तते | देशस्य एकतायै प्राण-पाणेनापि प्रयत्नशीलस्य सरदार-पटेलस्य देशः अयं | नैक-सहस्र-वर्षेभ्यः अस्मदीयाः पूर्वजाः सार्वजनिक-जीवन-मूल्यानि अहिंसां समादरञ्च स्वीकृतवन्तः | अस्मदीयेषु अन्तर्मनस्सु एतत् संभृतं वर्तते | “अहिंसा परमो धर्मः” - सूत्रमिदं वयं बाल्यकालादेव शृण्वन्तः  कथयन्तः च स्मः | रक्तदुर्गस्य प्राचीरेभ्यः अपि अहं उक्तवान् यत् आस्था-नाम्ना विधीयमाना हिंसा न मनागपि सहिष्यते | भवतु नाम सा सांप्रदायिकी आस्था वा राजनीतिक-विचारधारां प्रति आस्था वा भवतु नाम व्यक्ति-विशेषं प्रत्यास्था, उताहो स्याद् वा परम्पराः प्रत्यास्था -  आस्था-व्याजेन न कश्चन विधिं स्वयत्तीकर्तुं अधिकृतः अस्ति | डॉ.बाबा-साहेब-अम्बेडकरः अस्मभ्यं संविधानं प्रादात्, एतस्मिन् सर्वोsपि जनः न्यायं प्राप्नुयादिति सर्वप्रकारेण  व्यवस्थापितमस्ति | अहं देशवासिनः विश्वासयितुं वाञ्छामि यत् विधिं स्वायतीकर्तुं प्रयतमानः वा हिंसा-मार्ग-निरतः दमनशीलः वा, कश्चन अपि भवतु नाम व्यक्तिविशेषः वा समूहः, नायं देशः तं सहिष्यते न वा कश्चन सर्वकारः | प्रत्येकमपि जनः विधेः समक्षं नत-मस्तकः स्यात् | विधिरेव तत् उत्तरदायित्वं निश्चेष्यति | तथा च, दोषिणो नूनं   दण्डयिष्यन्ते |
मम प्रियाः देशवासिनः !
      अस्माकं देशः विविधताभिः सम्भरितः अस्ति, एताः विविधताः पानाशनयोः वासावासयोः परिधानादिषु एव सीमिताः  नैव सन्ति | जीवनस्य प्रत्येकमपि व्यवहारे वैविध्यमिदं द्रष्टुं शक्यते | एतावद् एव नैव, अस्मदीयाः उत्सवाः अपि वैविध्य-पूर्णाः सन्ति | सहस्रेभ्यः अपि वर्षेभ्यः प्राचीनम् अस्मदीयं सांस्कृतिकं रिक्थम् अतः,  पश्यन्तु नाम,  एताः सांस्कृतिक-परम्पराः वा सामाजिक-परम्पराः, अवलोकयन्तु वा ऐतिहासिक-घटनाः|