Tuesday, 8 October 2019

गणेशोत्सवः             -लघुनिबन्धः
-डाॅ. दर्शना वरगंटीवारः
यवतमाल, महाराष्ट्रम्

 





 हैन्दवीयानाम् आराध्यदैवतमस्ति गणेशः। प्रतिपूजायां प्रथमं वन्दनं पूजनं च गणेशाय भवति। धार्मिककार्यः निर्विघ्नं भवेत् तदर्थं सर्वे गणेशं पूजयन्ति।

वक्रतुंडमहाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरू मे देव सर्वकार्येषु सर्वदा।।
श्लोकोऽयम् प्रसिद्धः।
गणेशं विघ्नहर्ता अपि वदन्ति जनाः। गणेशः बुद्धेः देवतास्ति । प्रतिहिन्दुजन-हृदयेषु गणेशं  प्रति अत्यादरो वर्तते। भाद्रपदमासस्य शुद्धचतुर्थ्यां तिथौ गणेशोत्सवं प्रारभते। हैन्दवाः   आनन्देन सोत्साहेन चैतन्येन च अयमुत्सवस्यायोजनं  सम्पूर्णभारतवर्षे  कुर्वन्ति। गणेशागमनस्य सज्जता जनाः बहूनां दिनानां पूर्वमेव कुर्वन्ति। स्व स्व प्रान्तानुसारं तस्य पूजनं देशे प्रचलति। क्व एकार्धदिवसस्य क्व  पञ्चदिवसस्य क्व दशदिनात्मकं च  पार्थिव गणेशस्य प्रतिष्ठापनं कुर्वन्ति जनाः।


गणेशमूर्तिः

   
गणेशस्य मूर्तिः मृत्तिकायाः स्यात् एषो नियमः।  कृष्णमृत्तिका भवेत् चेत् वरम्।अधुना प्लॅस्टर् ऑफ् पॅरिस् इती वस्तुम् उपयुज्य कृत्रिमरीत्या अत्यंतमनोहरं  मूर्तिनिर्माणं कुर्वन्ति कलाकाराः। किन्तु तत्तु पर्यावरणपूरकं नास्ति अतः सर्वथा त्यजनीयम् खलु। पर्यावरणस्य रक्षणं तु अस्माभिः करणीयमेव। तदर्थं मृत्तिकायाः पार्थिवगणेशपूजनं भवेत् इति अस्माकमपि आग्रहं स्यात्।

प्रतिष्ठापना पूजनं च

    प्रतिष्ठापनासमये पार्थिवगणेशमूर्तेः आवाहनं पूजनम् अभिषेकं  च कृत्वा सुगन्धितद्रव्येन दूर्वादलं कलहारिपुष्पं जपाकुसुममं च अर्पयन्ति। गणेशाय मोदकं  रोचते अतः नैवेद्यं विशेषत्वेन मोदकानां वर्तते। अन्ते धूपदीपारतीं  कृत्वा मन्त्रपुष्पाञ्जलीं  समर्पयन्ति। अयं क्रमो वर्तते  गणेशपूजनस्य।

पुराणेषु कथा
   माता पार्वती एकदा  स्नार्थं गच्छति। तदा स्नानगृहस्य बहिर् मृत्तिकया रक्षकं कृत्वा तन्मध्ये प्राणान् प्रक्षिप्य वदति च कोऽपि अन्तः नागन्तव्यम् इति। तदैव शंकरः आगच्छति रक्षकः तमवरुण्धि। शंकरः तस्मै क्रुध्यति तथा च शिरच्छेदमपि करोति। अत्रान्तरे मातापार्वती स्नानं कृत्वागच्छति। एतद् दृश्यं दृष्ट्वा सा बहु कुप्यति। तस्याः कोपशमनार्थं शंकरः सेवकान् वदति गच्छन्तु तथैव मार्गे यः कोऽपि प्राप्स्यते तस्य शिच्छेदं कृत्वा शीघ्रमेवानयथ। गच्छन्तः सेवकाः गजं पश्यन्ति तस्यैवशिरच्छेदं कृत्वा आनयन्ति। शंकरः गजशिरः मृतरक्षकस्य शरीरे रोपणं करोति। तद्दिनमासीत् भाद्रपदमासस्य शुक्लचतुर्थी ।

सार्वत्रिकः गणेशोत्सवः
   लोकमान्य बालगङ्गाधर तिलकेन तदानीन्तन् समस्त भारतीयान् सम्मिलिताः कर्तुं तथैव विचाराणाम् आदानप्रदानार्थं अस्योत्सवस्य प्रारम्भः कृतः आसीत्। अद्यापि महाराष्ट्रे विशेषरूपेण गणेशोत्सवस्यायोजनं कुर्वन्ति जनाः। किन्तु इदानीन्तनकाले अस्योत्सवस्य स्वरूपपरिवर्तनं जातं खलु। मूलोद्देशैव आघातः जातः वा इति आशङ्कते मनः। ध्वनिप्रक्षेपकाणाम् उच्चध्वनिः बीभत्सं विकृतम् अङ्गविक्षेपणं कृत्वा नर्तनं एतत् सर्वं नास्ति उचितम्। मूलोद्देशं विस्मृत्य केवलं प्रदर्शनमेव कुर्वन्ति जनाः। अयमेव दुःखस्य विषयोऽस्ति। अतः अस्माभिरेव प्रयेतनीयम् यत् तिलकेन येन्नोद्देशेन अस्योत्सवस्यः प्रारम्भः कृतोऽस्ति सः सफलं भवेदिति।

विसर्जनम्
   पार्थिवगणेशमूर्तेः विसर्जनं दशदिनानन्तरम् अन्तचतुर्थीं कुर्वन्ति जनाः। तदा प्रायः भावपूर्णहृदयेन प्राणप्रियगणेशम् आपृच्छनं कुर्वन्ति। पुनः अग्रिमवर्षे शीघ्रमेव आगच्छतु  इति गणेशम् उक्त्वा जनाः पार्थिवगणेशं जले निमज्जयन्ति। महाराष्ट्रे जनाः वदन्ति 'गणपतीबाप्पा मोरया पुढच्यावर्षी लवकर या' इति।
 *गणेशाय नमः*

Tuesday, 6 August 2019

संस्कृताभियानम्।
-प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः
महाराष्ट्रम्।
नमांसि!  संस्कृतं कठिनम्, व्याकरणभूयिष्ठम्(अभ्यसितुं न शक्यते), निर्जीवम्, एषा विशिष्टजातीयानां भाषा,संस्कृतपठनं नाम ' राम: रामौ रामा: ......',  ' गच्छति गच्छत: गच्छन्ति....' इत्यादीनां - शब्दरूपाणां धातुरूपाणां च कण्ठस्थीकरणम्, संस्कृतं नाम पूजादिकर्मकाण्डम्, संस्कृतं नाम पुरातनम्, (कालबाह्यं out-of-date)- इत्येवं प्रकारेण जनानां मनसि या: मिथ्याभावना:, ये च पूर्वाग्रहा: वा सन्ति ते जनानां भाषाभ्यासस्य प्रवर्तने अवरोधा: भवन्ति।मित्राणि,  तेषां निवारणोपाया: चिन्तनीया:, तदनुकूला: कार्यक्रमा: आयोजनीया: च । तदर्थम् अस्माकं जीवनात् अल्पं कालं संस्कृतमात्रे समर्पयाम: ।
  जयतु संस्कृतम् जयतु भारतम्। 
भट्‌टलोल्लटस्य रसोत्पत्तिवादः 
(कार्यकारणभावविषयकाः वादाः)
-प्रो. आर् वासुदेवन् पोट्टि 
तिरुवनन्तपुरम् 
भट्‌टलोल्लटः उत्पत्तिवादी आचार्यः इति उपगम्यते। अचार्योऽयं भामह-दण्डी- उद्भटादिषु आचार्यपम्परासु अन्तर्भवतिI उत्पत्तिवादः यद्यपि भट्टलोल्लटेन इदं प्रथमतया नोद्भावितः तथापि उत्पत्तिवादस्य समुचित-व्यवस्थापकत्वेन लोल्ट एव सर्वैरङ्गीक्रियते। लोके कारण कार्य सहकारिकारणपदैः व्यपदिश्यमानाः एव काव्ये अलौकितया प्रतीयमानाः विभावानुभावव्यभिचारिभाव पदव्यपदेश्याः भवन्ति। शकुन्तलादिभिः आलम्बन विभावैः, चन्द्रिकादिभिः  उद्‌दीपन विभावैः रोमाञ्चादिभिः अनुभावैः औत्सुक्यचिन्दादिभिश्च व्यभिचारिभावैः निष्पादितः परिपोषमुपगतः दुष्यन्तादिनिष्ठः रत्यादि स्थायीभावो रसः इत्युच्यते। रसविषये त्रयोदशाः विद्यन्ते- अनुकार्यं रामादिकथापात्रम्, अनुकर्ता नटः, दर्शक सामाजिकश्चेति। एषु कुत्र रसः इति प्रश्नः तावत् समाधेयः। लोल्लटस्तु मुख्यतया वृत्या रामादावनुकार्ये तद्रूपतानुसन्धानात् नटेऽपि प्रतीयमानः रसः इति अभिप्रैति। रसगङ्गाधरेऽपि इदमुक्तम् 'मुख्यतया दुष्यन्तादिगत एव रसो रस्यादि कमनीय विभावाद्यभिनय प्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य साक्षात् फ्रियते इत्येके ' इति। अस्य अयमभिप्रायः- वस्तुतः शकुन्तलादि विषयकरतिः दुष्यन्तादावेव वर्तते। नाटकादौ विभावादीनां समुचित कमनीयाभिनयेन  दुष्यन्तादीनाम् अनुकर्तरिनटे सा रत्यादिरारोप्यते । सामाजिकस्तु  नटे दुष्यन्तादि रूपता'मनुसन्धत्ते। तेन अनुकर्तृ- अनुकार्ययोः भेदप्रतीतिः तिरोहितो भवति। इमाम् अभेदप्रतीतिम् आश्रित्यैव रसाभिव्यक्तिः तिष्टति। नटस्तु स्वयं रामाद्यनुकार्यभिन्नतया आत्मानम् अभिमन्येत। 
भट्ट लोल्लटस्य रसविषयकाः मुख्याः विचाराः
१. रसः अनुकार्ये रामादावेव उत्पद्यते। विभावानुभावसञ्चारिभावद्वारा उपचितः उद्बुद्धो वास्थायीभावः एव रसतां प्रतिपद्यते।
२. अयं च रसः रामादीनाम् अनुकर्तरि नटेऽपि तद्रूपानुसन्धानवशात् अवतिष्ठते।
३. सामाजिके तु रसस्तु नोत्पद्यते। परन्तु सोऽपि तद्रूपानुसन्धानवशात् अनुकार्यरामादिरूपं गृह्णाति। ततः स रसमास्वदते। तन्मते 'विभावानुभावसञ्चारिसंयोगात् रस निष्पतिः' इति रससूत्रं तु एवं व्याख्येयम्। विभावानुभावसञ्चारिभिः संयोगात् सम्बन्धात् रत्यादेः उत्पत्तिः इति। अत्र 'दुष्यन्तोऽयं शकुन्तलाविषयक-रतिमान्' इत्यादि साक्षात्कारः धर्मिणि दुष्यन्ते अंशे लौकिकेन सन्निकर्षेण नायकयोः परस्पर स्मावलोकनस्थले सम्भोगेन तयोः परस्परं काटाक्ष-विक्षेपणे संयुक्त समवायत्वेन जन्यत्वात् लौकिकः साक्षात्कारः। आरोप्ये नटादावंशे ज्ञानलक्षणप्रत्यासक्त्या अलौकिकः शास्त्रीयानुभवमात्रकल्प्यः भवति। एवं मीमांसा-दर्शनानुयायी भट्टलोल्लटः रसस्य निष्‌पत्तिमेव अभिप्रैति।

Monday, 5 August 2019

देवशयनैकादशी
-डा. गदाधर त्रिपाठी
देवेषु चैव विष्णुर्हि ज्येष्ठः पूज्यस्तथा च वै।
लीला तस्य विशिष्टा चरम्या त्वाह्लादिका तथा ॥१॥
सूर्यो मिथुनराशौ च भवत्यद्यैव  प्रायशः।
गमनञ्चैव विष्णोर्हि शयनाय च सर्वथा ॥२॥
शयनैकादशी तेन पुराणेषु हि वर्णिता।
विरक्तापि चतुर्मासायोत्सुका :सर्वथा तथा ॥३॥
पद्भनाभेति नाम्ना वै विश्रुतेति च श्रूयते।
शुक्लपक्षे तथा चैवाषाढमासे च सर्वदा ॥४॥
दानवृत्या बलेश्चैव बद्धआसीद्धरिश्च वै।
अद्यैव स च मुक्तो वा एकादशी तथा हि वै ॥५॥
सूर्यस्य हि तथा चैव चन्द्रस्यापि च रश्मयः।
क्षीणतां यान्ति तेनैव देवयो:शयनं तथा ॥६॥
'हरिशयनम्' वै नाम्ना पुराणेषूद्धृता तथा।
भागवते तथा चैव भविष्ये लिखिता यथा ॥७॥
सत्प्राप्त्यै तु यथा चैव वृत्तिर्येषां हि जीवने।
मान्या हि सज्जनाश्चैव जीवनं सफलं सदा ॥८॥
मृतः शंखासुरश्चैव  विष्णुना शयनं कृतम्।
अयने दक्षिणे तूत्तरायणस्य फलञ्च वै।।8।।
कुर्वन्ति शयनञ्चैव त्रिदेवा:सुतले सदा।
अनेन च बलेरिच्छा पूर्णा भवति सर्वदा ॥९॥
विवाहश्चैव दीक्षा वै तथोपनयनं हि वै।
पुण्यकार्याणि चान्यानि वर्जितानि हि सर्वथा ॥१०॥
जागरणञ्च देवानामेकादश्यां तथा हि वै।
कार्तिके चैव मासे वै पुण्यकार्याणि सर्वथा ॥११॥
उपवासं च कुर्वन्ति रात्रेर्जागरणं तथा।।
राजसूयस्य यज्ञस्याश्वमेधस्यतथा च वै ॥१२॥
स्वर्गं गच्छन्ति सर्वे मुक्तेरधिकारिणस्तथा।
अवर्षणाच्च मान्धात्रा राज्यञ्च रक्षितं तदा ॥१३॥
श्रेष्ठा  चैकादशी चैवाद्येयञ्च स्वीकृता तथा।
संवत्सरस्य चारम्भः केषाञ्चिन्नु मते च वै ॥१४॥

Sunday, 30 June 2019

नरेन्द्रमोदिनः 'मनोगतम् ' इति कार्यक्रमः पुनरारब्धः
जनप्रियः कार्यक्रमः आसीत् नरेन्द्रमोदिनः मन की बात। आकाशवाणिद्वारा प्रसारितः अयं कार्यक्रमः विगतसर्वकारस्य (एन् डि ए) अभिमानात्‍मक -कार्यक्रमः आसीत्|  विपक्षदलीयैरपि श्लाघितः बहुवारम्।  भारतस्य विविधासु भाषासु अनूद्य कार्यक्रमः आकाशवाणि द्वारा प्रसारितः अस्ति। संस्कृतभाषायां भाषिकानुवादं कृत्वा भारतस्य वरिष्ठवार्तावतारकः डा. बलदेवानन्दसागरः स्वस्य शब्दमाधुर्येण अस्मान् श्रावितवान् च। अस्य दृश्यरूपम् अन्तर्जाजालवाहिनिद्वारा सम्प्रतिवार्तायाः दृश्यवहिन्यां प्रसारयति। सर्वेषां संस्कृतप्रेमिणां पुरतः सादरं समर्पये  'मनोगतम् २.०१'
संस्कृतमातरं नत्वा
सम्पापादकः

'मनोगतम्’ –  २.०१ [प्रथमः भागः]  
   ‘मन की बात’ (२.o१)               प्रसारण-तिथि: - ३०-६-२०१९                               
                  - संस्कृत-भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः
            मम प्रियाः देशवासिनः, नमस्कारः | दीर्घान्तरालानन्तरं, पुनरेकवारं, भवतां सर्वेषां मध्ये, ‘मन की बात’-मनोगतम्, जन-वृत्तम्, प्रत्येकमपि जनस्य मनोगतम्, जन-मनोगतम्’- अस्य सातत्यं वयं प्रारभामहे | प्रपञ्च-बहुलेषु निर्वाचनेषु, सत्यपि कार्यबाहुल्ये, ‘मन की बात’-इत्यस्य प्रसार्य-कार्यक्रमस्य यः आनन्दः अस्ति, सः विलुप्तः आसीत् | किञ्चित् नैयून्यम् अनुभवामि स्म | आत्मीयानां मध्ये उपविश्य

Tuesday, 25 June 2019

 दुःखेष्वनुद्विग्नमनाः                 -लेखनम्
 बाला चिर्रावूरी
"दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।
वीतरागभयक्रोधः स्थितधीः मुनिरुच्यते।।"
   --भगवद्गीता

    सुखदुःखेषु भ्रमणंमेव जीवनस्य सारं भवति। सुखेषु उपस्थितिं वयं नाभिजानीमः।यथा सुषुप्त्यां अहं स्वपिमि इति न भावयामः। परन्तु दुःखसमये अहं अतयन्तं दुःखमनुभवामीति लोके यः कोऽपि मत्समान दुःखभूयिष्टो नास्तीति च स्वात्मानं आधिक्येन विभाव्य बाधाग्रस्थाः भवामः।

   वयं चिन्तयामश्चेत् श्रीरामादि सर्वेष्वतारेषु पुराणपुरुषेषु च बाधापूरितवृत्तान्तानि पठामः श्रुण्मश्च। तेऽपि अस्मादपि अत्यधिकं दुःखं अप्राप्नुवन्। किन्तु तस्मिन् समये एव मनःस्थैर्यमवलम्ब्य धर्ममार्गमवलम्ब्य उत्तमचरिताः अभूवन्।
   श्रीरामःसर्वसद्गणोपेतः सर्वेषामपि प्रजानां पूजनीयः सकलानां देवमहर्षीणां वन्दनीयश्च।तथापि कैकेय्याः कारणात् राज्यबहिष्कृतः वनवासवासिश्च अभवत्। सः एव न सीतालक्षमणयोरपि। किन्तु ते विधिं न निन्द्य दुःखं नानुभूय च कैकेयीवचनपालिताः बभूवुः। तद्व्याजेन समूलराक्षससंहारं कृतवान् रामः। तदर्थमेव पुरुषोत्तमः भवति श्रीरामः ।सीता साध्वीति कीर्तिता।

   कुन्ती महाराजस्य शूरसेनस्य पुत्री। पित्रा कुन्तिभोजाय दत्तकारणात् तस्य पुत्री अभवत्। तथापि कुन्तिभोजस्य गेहे सुशिक्षिता। महाराजस्य पुत्री कुरुवंशस्य पुत्रवधू सा। किन्तु उद्वाहस्यानन्तरं पाण्डुना सह अरण्ये एव निवासम्, अनन्तरं तस्य अकालमृयुः, पाण्डवानां पालने उत्तरदायित्वम्, ईर्ष्यापूरितधृतराष्ट्रस्य धार्तराष्ट्राणां कारणाच्च पुत्रैः सह अत्यन्तक्लोशानि अन्वभवत्। तथापि कृष्णे मनः निधाय स्थैर्यमवलम्ब्य दुःखं नास्पृशत्। तस्याः स्थैर्येणैव युधिष्ठिरादयः धर्मप्रवर्तकाः सत्यनिष्ठाः शौर्यसम्पन्नाः अभूवन्।

   दुःखसमयेषु गुरुपदिष्टमार्गप्रचोदकाः‌भवेमश्चेत् मनोपशमनं लप्स्यते। एवं क्षेत्रतीर्थाटनम्, महात्मानां दर्शनम् , जपस्तोत्राद्यनुष्ठानम् च कर्तव्यम्।

   कदाचित् दुःखं नास्ति चेत् सुखस्यानुभूतिं न गणयामः खलु!
-----------------------

Tuesday, 28 May 2019

वेदरक्षणोपायाः अनुष्टुप् छन्दसि विरचितम्
-डॉ गदाधर त्रिपाठी -

मनुष्यः सर्वजीवेषु देशस्यास्य विशेषतः।
विशिष्टोऽस्ति महान्ननु पूज्यो ऋषिवत् सर्वदा ॥1॥

वेदा अस्मिन्नु देशे त्वनुपमेया हि सर्वदा।
वयं धन्या धरेयञ्च रक्षणीयास्तु सर्वथा। ॥2॥

विप्राणां निधयश्चैव वेदा आसन्तु सर्वदा।
पठितव्यं तु विप्रैर्वै  रक्षणीयं हि निष्ठया। ॥3॥

युवकाःशिक्षिता:सन्तु  निष्ठा वै यज्ञकर्मणि।
सम्मान्या संस्कृतिश्चैव संस्कृभाषा तथा हि वै। ॥4॥

विप्राणां संस्कृतज्ञानां तु निष्ठा विप्रकर्मणि।
 आचार्याः सन्तु विज्ञास्तु स्वपुत्रान्पाठयन्तु हि ॥5॥

अनिवार्या च शिक्षा वै वेदशिक्षा विशेषत:।
शासका विवशा: सन्त्वाचरणीयं सर्वैः सदा। ॥6॥

यज्ञानां पूजनञ्चैव देवानामर्चनं तथा।
संस्काराश्चैव जीवानां वेदै:सम्पादिता:सदा। ॥7॥

तेनैवार्थकरी विद्या मुक्तेर्लाभस्तु सर्वथा।
अवगच्छन्त्विदं विप्रा वेदास्तेषां हि जीवनम्। ॥8॥

विप्रा यावद्धि वेदज्ञाःपूज्या मान्याश्च सर्वथा।
यावत् पूज्यास्तु विप्रा वै संस्कृतिश्च सुरक्षिता।॥9॥

इदं सत्यञ्च देशोऽयं वेदैरस्ति च मण्डितः।
तावदेव प्रतिष्ठा हि विश्वे भारतवासिनाम्। ॥10॥

रक्षा तथा प्रचारश्च सर्वैःकरणीय: सदा।
विशिष्टश्चैव धर्मोऽयं सर्वेषां देशवासिनाम्। ॥11॥


Thursday, 11 April 2019

महात्मा फुले
(दिनविशेषः)
 -  प्रो.दर्शना वरगंटीवारः
 डि एम् एम्   आयुर्वेद महाविद्यालयः, यवतमाल, महाराष्ट्रम्
     ज्योतिरावः गोविन्दरावः फुलेवर्यः भारतीयसमाजसेवकः लेखकः दार्शनिकः विचारकः तथा च क्रान्तिकारकः  आसीत्। महात्माफुले नाम्ना विख्यातः असौ महाभागानां अद्य जन्मदिनं वर्तते।
फुलेवर्यानां जन्मः एप्रिल 11दिनाङ्के 1827 तमे महाराष्ट्रप्रान्ते पुण्यपतनमण्डले खानवाडी ग्रामे अभवत्।
  समाजे विद्यमाने समस्तवर्गाणां कृते शिक्षा प्रदानाय तेषां महत्वपूर्णं दायित्वमासीत्। तदानिन्तन समाजे वर्णव्यवस्थायां  प्रचलिताः भेदभावं प्रति तेषां महान्तमसंतोषं आसीत्। तदर्थं किमपि करणीयमिती मनसि निधायः समाजकार्यं कृतमासीत् महोदयेन। समाजविघातकाः अनिष्टाः प्रथापरम्पराः मार्जितुं सततं प्रयत्नरताः भूत्वा समाजोन्नत्यर्थं आजीवनं कार्यं कृतम् आसीत्। स्त्रीशिक्षणार्थं सर्वप्रथमं विद्यायस्य निर्माणं पुण्यपतने  कृतम्। तेषां धारणासीत् यत्  स्त्रीयः शिक्षिताः भवन्ति चेत् समाजपरिवर्तनं अवश्यमेव भविष्यति अतः पत्नीसावित्र्यासह स्त्रीशिक्षणार्थं कार्यरतः जातः। अस्पृश्यजनानां कृते शिक्षणार्थं विद्यालयः स्थापितः। सत्यशोधकसमाजस्य स्थापनापि कृता महोदयेन। जनाः तान् समाजसुधारकः इत्योपाधिना सम्मानीताः। तेषां उक्तिरियं प्रसिद्धा अस्ति.......मराठीभाषायां

*विद्येविना मती गेली
*मतीविना नीती गेली
*नीतीविना गती गेली
*गतीविना वित्त गेले
*वित्ताविना शूद्र खचले
 *इतका अनर्थ एका अविद्येने केले
    तात्पर्योस्ति
*विद्यां विना मतिनष्टः
*मतिं विना नीतिनष्टः
 *नीतिं विना गतिकुणठितः
 *गतिं विना धनं नष्टः
 *धनं विना शूद्रः व्यथितः
*केवलं अविद्यया एतावतनर्थः जातःI
      अतः समाजोन्त्यर्थं शिक्षणं महत्वपूर्णमस्ति तदर्थं आजीवनं  महान्तं प्रयासं अकरोत् फुलेवर्यः।
तेषां जन्मदिनस्योपलक्ष्ये विनम्राभिवादनम्।
________________________

Sunday, 17 March 2019

मातृवात्सल्यम् 
-डा. गदाधर त्रिपाठी

अहेतुकी च करुणा या श्रीशः संवलितस्तया।
वत्सान् प्रति तथा माता वत्सलभावेन रक्षति।।2।।

स्तनदात्री गर्भधात्री च मान्या माता महीयसी।
गर्भधारणपोषाभ्यां सवित्री जनयित्री तथा।। 3।।

कोऽपि देवो न सृष्टौ हि मातृसदृशस्तथा च वै।
मातृसेवा परो धर्मःसफलं तेनैव जीवनम्।।4।।

पतितःपिता भवति त्याज्यो ननु माता नैव कदाचन।
प्रत्युपकारो भवति नैव कर्तुं केनापि न शक्यते।5।।

गर्भपीडा प्रसवपीडासह्या यस्य जीवने।
आत्मजस्य मुखं दृष्ट्वा तु न स्मरति कदाचन।।6।।

उदरपूर्तिर्न पुत्राणां यावत्तेषां जीवने।
सुखं शक्रसमं त्याज्यं जीवनं मातुर्निरर्थकम्।।7।।

मुखानां या चाक्लान्तिर्हि पुत्राणां यत्सुखञ्च तत्।
तदेव जीवनं मातुर्हि वात्सल्यमिदमेव हि वै।।8।।
                       ---------------

Monday, 11 March 2019

हनुमतः भक्तिकथा               -नीतिकथा
  
   - पुनर्लेखनम् - सन्तु घोष्।
                         
        भगवतः श्रीरामचन्द्रस्य सभामण्डले ये सेवकाः आसन्।  तेषु सेवकेषु दलद्वयं वर्तते। एकस्मिन् दले भरत-लक्ष्मण- शत्रुघ्न- जाम्वुवानादयः सन्ति। अन्यस्मिन् दले केवलं स्वयं महावलशाली अञ्जनीपुत्रः हनुमान् वर्तते। एकदा भरतादयः सेवकाः चिन्तयन् सन्ति हनुमति किमस्ति यत् अस्सासु नास्ति। यस्मात् कारणात् भगवते रामचन्द्राय हनुमान् अधिकं रोचते। एकस्मिन्नहनि भरतादयः सेवकाः भक्ताश्च सर्वे मिलित्वा एकां तालिकां निर्मितवन्तः आसन्। तस्यां तालिकायां विविधानि सेवाकार्यानि आसन् एवं च तेषां सेवाकार्यानां कार्यकर्तारः अपि आसन्। यथा लक्ष्मणभ्राता प्रभोः पादसेवनं करिष्यति। एवं क्रमेण कोऽपि प्रभोः हस्तं प्रक्षालयिष्यति, कोऽपि मुखमण्डलं प्रक्षालयिष्यति, कोऽपि पिष्ठं मर्दयिष्यति। परन्तु तालिकायां कुत्रापि हनुमतः नाम नासीत्। मारुतः कृते किमपि कार्यमवशिष्टं नासीत्। वण्टितानां सेवाकार्यानां  तां तालिकां भरतादयः सेवकाः प्रभुं दर्शयन्ते। तां तालिकां दृष्ट्वा प्रभुनापि उक्तं - तथास्तु। अनन्तरं  सम्यकतया तां तालिकां दृष्ट्वा हनुमता उक्तं-  अस्यां तालिकायां कुत्रापि मम नाम न दृश्यते। किं मम कृते किमपि कार्यमवशिष्टं नास्ति वा? हनुमान् न केवलं महावलशाली अपि तु वुद्धिमानपि भवति। तदा अतीव चातुर्यतया हनुमता सस्मितेन उक्तं - अधुनापि कार्यमेकमवशिष्टमस्ति। परिषदि विद्यमानाः  लक्ष्मणादयः सर्वे सेवकाः चिन्तयन्ति-  अधुनापि किं कार्यमवशिष्टमस्ति? तदा मारुता उक्तं- यदा मम प्रभुः आलस्यमनुभूय मुखमुन्मुच्य वायुं निष्कासयिष्यति तदा अहं चुटकिं वादयिष्यामि।  केशरीनन्दनस्य कथां श्रुत्वा प्रभुना रामचन्द्रेनापि उक्तं- सत्यं कार्यमेकम् अधुनापि अवशिष्यते। तथास्तु। सभायामुपस्थितैः  सर्वैः जनैः पृष्टं- सेवाकार्यमेतत् कदा करिष्यति हनुमान्? तदा भगवता रामचन्द्रेनोक्तं- कदा अहं क्लान्तम् अनुभूय मुखमुन्मुच्य वायुं निष्कासयिष्यामि। एतत् तु अहं न जानामि। शयनकाले भोजनकाले प्रजाभिः सह आलापनकाले च यदा तदा कार्यमेतत् भवितुं शक्यते। तर्हि एतस्मै सेवाकार्यायै हनुमान् सदैव मया सह स्थास्यति। एतत् श्रुत्वा हनुमन्तं प्रति विद्वेषिनः सर्वे सेवकाः भक्ताश्च हताशाः अभवन्।