Tuesday, 31 March 2020

संसिद्धाः स्याम वयम्।                -शिशुगीतम्
भाषान्तरीकरणम् - षिबुकुमारः के            

 षिबुकुमारः के
संसिद्धाः स्याम वयं, संसिद्धाः स्याम वयं
संसिद्धाः स्याम वयम् एकदा।
ओहो! चित्ते खलु विश्वासः, पूर्णो हि विश्वास:
संसिद्धाः स्याम वयम् एकदा॥

स्वस्तिर्भूयात् सर्वेषां, स्वस्तिर्भूयात् सर्वेषां
स्वस्तिर्भूयात् सर्वेषां  सर्वदा।
ओहो! चित्ते खलु विश्वासः, पूर्णो हि विश्वासः
संसिद्धाः स्याम वयम् एकदा॥

वयं चलाम सम्मिल्य, वयं चलाम सम्मिल्य
वयं चलाम सम्मिल्य एकदा।
ओहो ! चित्ते खलु विश्वासः, पूर्णो हि विश्वासः
संसिद्धाः स्याम वयं एकदा॥

वयं न भीताः केभ्योऽपि, वयं न भीताः केभ्योऽपि
वयं न भीताः केभ्योऽपि साम्प्रतम्।
ओहो ! चित्ते खलु विश्वासः, पूर्णो हि विश्वासः
संसिद्धाः स्याम वयं एकदा॥
संसिद्धाः स्याम वयम्
--------------------------------------------------

Tuesday, 25 February 2020

॥ ज्योतिषामयनं चक्षुः॥
 (शास्त्रम्)
डा. ईश्वरन् ई एन्
Research Article No: 20200225
Dr. Eswaran E. N.
Asst. Professor.
Govt: Sanskrit College,
Thripunitura, Kerala.

       ज्योतींषि सन्ति अत्र विवचनीयत्वेन इति ज्योतिषम् अर्शादिगणपठितज्योतिश्शाब्दात् मत्वर्थीये अच्प्रत्यये ज्योतिषशब्दः निष्पन्नः भवति। ज्योतिश्सम्बन्धिशास्त्रम् इत्यर्थे ज्यौतिषम् इत्यपि व्यवहर्तुं शक्यते। ज्यौतिषम् ज्योतिषं ज्योतिश्शास्त्रम् इत्यादीनि पर्यायपदानिभवन्ति। अन्यथा ज्योतिषम् इत्युक्ते Astrology इति व्यवह्यियमाणम् ज्योतिश्शास्त्रम् इत्युक्ते Astronomy इति व्यवह्यियमाणम् च भवति इति केचन चिन्तयन्ति। तथा ज्योतिश्शास्त्रमेव शास्त्रम्ज्योतिषमन्धविश्वासः इति ते वदन्ति। तत्सर्वं सर्वथा असमञ्चसम्। Astrology इति वक्तव्ये ज्योतिषस्य फलभागः इति Astronomy प्रमाणभागः इति च शुद्धः व्यवहारः। प्रकाशकवस्तूनां शास्त्रमेव ज्योतिश्शास्त्रम्। अत्र प्रकाशः नामव्यक्तीभाव इत्यर्थः। व्यक्ततया मूर्ततया विद्यमानाः सकलपदार्थाः अपि ज्योतिश्शास्त्रविषयाः भवन्ति। तथा प्रकाशयितुं योग्यानामपि शास्त्रं ज्योतिश्शास्त्रं इत्यर्थः। इत्युक्ते प्रपञ्चे समस्तचराचरदृष्टादृष्टपदार्थाश्च ज्योतिश्शास्त्रप्रतिपाद्यविषयाः भवन्तीति भावः।

ज्योतिषम् वेदाङ्गशास्त्रम्
    भारतीयानां परमप्रामाणिको ग्रन्थः वेदः। स च वेदः ऋग्-यजुः-साम-अथर्वनाम्ना चतुर्था विभक्तः। एवं भूतस्य वेदस्य संज्ञानाय षट् शास्त्राणि प्रवर्तन्ते। तन्येव वेदाङ्गानि इति ज्ञायन्ते। उक्तञ्च प्रश्नमार्गे –
ज्योतिः कल्पो निरुक्तञ्च शिक्षा व्याकरणं तथा।
छन्दोविचितिरेतानिषडङ्गानि विदुः श्रुतेः॥1 इति।
ज्योतिषं कल्पः निरुक्तं शिक्षा व्याकरणं छन्दः इत्येतानि श्रुतेः वेदस्य षडङ्गानि जानन्ति इत्याशयः। अत एव षट्सु अङ्गेषु प्रधानभूतमङ्गं वेदपुरुषस्य नेत्रस्थानीयं च भवति ज्योतिश्शास्त्रम्। वेदस्य पादौ छन्दः मुखं व्याकरणं, हस्तौ कल्पः नेत्रे ज्योतिषं नासिका शिक्षा कर्णौ नरुक्तम् इत्याद्यङ्गविभागकल्पनां कृतवन्तः ऋषिश्रेष्ठः प्रयोजनमनुसृत्य।
उक्तमपि वर्तते यथा -
छन्दः पादौ शब्दशास्त्रं च वक्त्रं
कल्पः पाणी ज्योतिषं चक्षुषी च।
शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं
वेदस्याङ्गान्येवमाहर्मुनीन्द्राः॥ 2 इति।
प्रतिवेदं ज्योतिषमपि भिद्यते आर्चं याजुषमित्यादि। लगथाचार्यः वेदाङ्गज्योतिषे प्रसिद्धः आचार्यः।
ज्योतिषम् प्रत्यक्षशास्त्रम्
प्रत्यक्षं ज्योतिषं शास्त्रं
चन्द्रार्कौ यस्य साक्षिणौ॥
इति वचनात् सूर्यः चन्द्रः इत्यादि यथा तथैव प्रत्यक्षमिदं शास्त्रम्। तावद्व्यावहारिकं प्रायोगिकं चेति भावः। नित्यनैमित्तिकानुभवानां साक्षीभूतम् इत्यपि वक्तुं शक्यते। अन्तरिक्षं, ग्रहनक्षत्रादिस्थिति, तिथि इत्याद्यः ज्योतिश्शास्त्रसम्बन्धिविषयाः प्रत्यक्षमेव भवेत् ज्योतिष्कस्य। दृक्समतायाः प्रामुख्यमस्ति इति भावः।

ज्योतिषं सूचनाशास्त्रम्
  ज्योतिषं सूचकशास्त्रम् भवतीत्युक्ते एतेन एवमेव भवितव्यम् इति विधानं न करोति अपि तु एवं भवितुमर्हति इति सूचनाकरोतीत्येव। "सूचयन्ति ग्रहाः सर्वे'' इति आचार्याणामुक्तिः। अपि च परिहारेण कर्मणा वा अनुभोक्तव्यस्य भेदान् कर्तुं शक्नोतीत्यर्थः।

ज्योतिषं व्यञ्जकशास्त्रम् प्रकाशकशास्त्रम्
यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पंक्तिम्।
व्यञ्जयति शास्त्रमेतत् तमसि द्रव्याणि दीप इव॥ 4
इति वराहमिहिरोक्त्या पूर्वजन्मार्जित शुभ-अशुभ-शुभाशुभकर्मणां परिपाकम् अन्धकारे दीपः पदार्थान् इव प्रकाशयति शास्त्रमेतदिति भावः।

ज्योतिषं सर्वशास्त्रशिरोलङ्कारभूतम्
यथा शिखा मयूराणां नागानां मणयो यथा।
तथा वेदाङ्गशास्त्राणां ज्योतिषं मू्र्ध्नि संस्थितम्॥ 5/22
इति वचनात् सर्वशास्त्राणां शिरोलङ्कारभूतं भवति ज्योतिषम् इति ज्ञायते। इतरशास्त्राणामिव ज्योतिषस्यापि पुरुषार्थसाधनाप्रवृत्तिरस्ति। किन्तु फलप्रवचने सुव्यक्तं स्थापिता काचित् पद्धतिः ज्योतिषमात्रवैशिष्ट्यम्। इत्येवास्मै सर्वशास्त्रशिरोलङ्कारत्वं प्रददाति। आयुर्वेद-तन्त्र-मन्त्र-शिल्प-वास्त्वादि नानाशास्त्राणामपि आश्रयत्वम् ज्योतिषस्येति भावः।
टिप्पणी
1. प्रश्नमार्गः 1-10
2. प्र. मा., 1-11.
3. आर्चज्योतिषम्, 36
4. लघुजातकम्,1-3.
5. आर्चज्योतिषम् 35.
6. बृहत्संहिता 1-8.
7. प्रश्नमार्गः, 1-5,6.

Thursday, 20 February 2020

कविता
कुञ्जिका
- डा. गदाधरत्रिपाठी






प्रवृत्तिश्चैव जीवानामशुभा नु शुभा हि वै।
तया तेषाञ्च कार्याणि  सम्पादितानि सर्वदा ॥

जानन्नपि मनुष्या ह्यकृतकार्ये रतास्तथा।
हरन्ति परवस्तूनि प्रहरी तेन निर्मितः ॥

नरभिन्नाश्च जीवा ये ज्ञानहीनाश्च सर्वथा।
किं कुर्वन्ति न जानन्ति   प्रवृत्ति: सहजा सदा ॥

देववाण्यां तु तालं वै  प्रहरीत्युच्यते तथा।
विदेशादागतस्ताला गृहान् रक्षति सर्वदा ॥

यथा भर्ता समर्थो हि रक्षणे पालने तथा।
जायां विना निरीहः स दयनीयस्तु सर्वदा ॥

तालस्यानवरोधस्तु कुञ्जिकया च सर्वदा।
तालार्थे कुञ्जिका चैव यथा भार्या गृहे तथा ॥

कौशलं कुञ्जिका चैव  सैव भाग्यप्रवर्तिका।
हेतुश्चैव विकासस्य नाम्ना नु कुञ्जिका च वै॥

तथा समर्थता ताले रक्षणे सक्षमः सदा।
कुञ्जिकाया अभावे तु निरीहो विवशो हि वै॥

कुञ्जिका नु तथा चैव व्याप्नोत्यस्मान् हि सर्वथा।
जीवने या च प्राप्तिर्वै कौशलेनैव सम्भवा ॥

सुरक्षायै च तालस्य  भूमिका महती नु वै।
संचालनाय तालस्यानिवार्या कुञ्जिका सदा ॥

गोप्यमेकस्य चान्येभ्यः कुञ्जिकावच्च सर्वदा।
चतुरश्चालयत्यन्यं धूर्तैश्च पीडिता जनाः ॥

कुञ्जिका नु तथा चैव रोधयतीति सर्वदा।
इगिंतेनानेन चैव तालं रक्षति सर्वथा ॥
॥---------------------------------------------॥

Wednesday, 12 February 2020


आश्रमेषु सन्यासाश्रमस्य प्राधान्यम्


Smt. ANU K. S .



Research Article No: 20200112
Smt. ANU K. S 
Research Scholar 
Sree Sankaracharya University of Sanskrit, Kalady.

 
 
ब्रह्मचर्यं च गार्हस्थं वानप्रस्थं तथैव च
सन्यासश्चेतिभेदेन स्युः चत्वारस्ताश्रमाः।।
     आश्रम्यन्ते स्थियते यस्मिन् सः आश्रमः इति।  आश्रमाः चत्वारः भवन्ति, ब्रह्मचर्याश्रमः, गृहस्थाश्रमः, वानप्रस्थाश्रमः, सन्यासाश्रमः इति।  ब्रह्मचर्येण सदविद्याशिक्षा कर्तव्या। गृहस्थाश्रमादुत्तमाचरणं श्रेष्टानां च पदार्थानां ज्ञानं प्राप्नुयात्। वानप्रस्थाश्रमेणैकान्तिक-सेवनमात्मोपासनं विद्याफलविचारादि च करणीयम्। सन्यासाश्रमे तु परब्रह्ममोक्षपरमानन्दप्रापणं कुर्यात्। एतैः चतुर्भिः आश्रमैः धर्मार्थकाममोक्षकर्मणां सम्यक् सिद्धिः सम्पाद्यन्ते।
यथा च श्रुतिः-
तमेतं  वेदानुवचनेन ब्रह्मणाः विविदिषन्ति यज्ञेन दानेन तपसा।
यज्ञो दानं तपश्चैव मनीषिणाम्।
अत्याश्रमिभ्यः परमं पवित्रम्।
ब्रह्मचर्याश्रमः
    ब्रह्मणि वेदं चरितुं शीलं यस्य सः ब्रह्मचारि। एवं च ब्रह्मचर्याश्रमे “सं रात्रि स्त्रिसः उदरे बिभर्ति तं जातं द्रष्टमभिसंयन्ति देवाः।“  “इयं समित्पृथ्वीद्योद्वितीयोतान्तरिक्षं समिधा पृणाति। ब्रह्मचारि समिधा  मेखलया श्रमेण लोकस्पसा पिपर्ति।“  “पूर्वो जातो ब्रह्मणो ब्रह्मचारि धर्मं वसनास्पसावतिष्टत्।  तस्मात् जातं ब्राह्मणं ब्रह्मज्येष्टं देवाश्च सर्वे अमृतेन साकम्।“
    उपाध्यायः रात्रित्रयं उपनयमानो अनन्तरं  विद्यार्थिनं ईश्वरोपासनारूपधर्मस्य पठनविचारणादि पाठनार्थं उपनयमानं  आचार्यः अन्तः करोति। ब्रह्मचारिणं द्रष्टुं विद्वांसः आगच्छन्ति। तृतीये दिने उपाध्यायः होमं कृत्वा तं संकल्पबद्धं कारयति। सः विद्यार्थि तपसा  वा धर्मानुष्टानेन पृथ्वादीन्, सर्वान् भूतान् सर्वान् प्राणिनश्च प्रसन्नान् करिष्यन्ति।  बारह्मचारि धर्मानुष्टानेन अत्यन्तः पुरुषार्थी भूत्वा सर्वेषां जीवानां कल्याणं करोति। अतः सः विद्यया प्रकाशितः दीर्खकेशश्मश्रुभिः आच्छादितस्सन् दीक्षां गृहीत्वा तपसा विद्यां  लेभे।

गृहस्थाश्रमाः
   “यदाग्रामे यदारण्ये यत्सभायां यदिन्द्रिये यदग्नेश्च कृपा वयमिदं तदवयजामहे स्वाह"
    ब्रह्मचर्याश्रमानन्तरं  गृहस्थाश्रमे  कन्यया सह विवाहं कृत्वा दम्पतिना  नियमेव धर्मेण च स्थित्वा ग्रामवासिनां यथासाध्यं  समुन्नति कुर्यात्। यस्मिन् आश्रमे गुहस्थ भूत्वा जीवयापनं क्रियते  तम् आश्रमः गृहस्थाश्रमः उच्यते।

वानप्रस्थाश्रमः
     वने  प्रकर्षेण नियमेन तिष्ठति चरतीति वानप्रस्थः, वानप्रस्थ एव वानप्रस्थः इति व्युत्पत्तिः। त्रयो धर्मस्कन्धा यज्ञोध्ययनं  दानमिति। प्रथमस्पतः द्वितीयो  ब्रह्मचर्याचार्य कुलवासः तृतीयो∫त्यन्तमात्मानमाचार्यकुले∫वसादनं सर्वे एते पुण्यलोकाः भवन्ति।
    तत्र ऋग्वेदभाष्यभूमिकाभाष्ये अत्र सर्वेष्वाश्रमेषु धर्मस्य स्कन्धा अवयवशस्त्रयः सन्ति। अध्ययनम, यज्ञः, क्रियाकाण्डं, दानं च तत्र  प्रथमो  ब्रह्मचारि तपः सुशिक्षाधर्मानुष्टानेन आचार्य कुले  वसति। द्वितीयो गृहस्थाश्रमी। तृतीयो∫त्यन्तमात्मानवसादयन् हृदये विचारयन् एकान्तदेशं प्राप्य सत्यासत्ये निश्चिनुयात्। स  वानप्रस्थाश्रमीति।

सन्यासाश्रमः
    ब्रह्मसंस्थो∫मृतत्वमेवेति इत्यस्य श्रुतेः आचार्य शङ्करभाष्ये  विशदीक्रियते सर्वे  एते त्रयो∫प्याश्रमिणो  यथोक्तैः धर्मैः पुण्यलोका  भवन्ति।  पुण्यो लोकॊ येषां त इमे पुण्यलोकाः आश्रमिणो  भवन्ति। अवशिष्टस्त्वनुक्तः परिव्राङ् ब्रह्मसंस्थो व्रह्मणि सम्यक् स्थितः सो∫मृतत्वं पुण्यलोकविलक्षणमभरणभावमात्यन्तिकमेति नापेक्षिकं  देवाद्यमृतत्ववत् पुण्यलोकात् पृथग्मृतत्वस्य विभागकरणादिति।१०  अपि चान्यत्र-
तमेतं  वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण तपसा
श्रद्धया यज्ञेननाशकेन चैतमेव विदित्वा मुनिः भवत्येतमेव।
प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति।।११
शान्तोदन्ता उपरतः इत्यत्र उपरतः इति पदं  कर्मपरित्यागरूप सन्यासपरम्। सहकार्याधिकरण वाक्ये तद्वतः विद्यावतः सन्यासिनः बाल्यपाण्डित्यमपेक्षया तृतीयमिदं मौनं विधीयते।१२
    सिद्धान्तलेशसंग्रहप्रतिपादितं भिक्षाचार्यचरन्तीति श्रुत्या च सम्यासः साधनचतुष्टयसम्पन्नस्य विशेषणमिति वदन्ति।  तथा च यः वेदान्तश्रवणो∫धिकारि भवति सः सन्यासी इत्यर्थः।
“त्यक्ताशेषक्रियाश्यैव संसारं प्रणिहासतः
जिज्ञासोरेव चैकाम्यं त्रप्यन्तेष्वधिकारितः।।“१३
    विवरणकारः श्रवणाद्यङ्गतया आत्मज्ञानफलता सन्यासे सिद्धा इति उक्तम्। अनन्यव्यापारेण श्रवणाद्यनुष्टानं सन्यासेनैव सिद्ध्यन्ति। गृहस्थाश्रमेषु श्रुतिविहिताग्निहोत्रादि कर्मकामवश्यानुश्टेयत्वात् परित्यागे प्रत्यवयव श्रवणात् च निरन्तरं वेदान्तश्रवणं दुष्करम्। आतः दुष्टद्वारेणैव सन्यासस्योपयोगः। आश्रमान्तरेषु आर्थात् ब्रह्मचर्ये गुरुशुश्रूषादीनां गुहस्थे कुटुम्बवरणादीनां , वानप्रस्थे च तु इति वेदान्तश्रवणं न सुलभं साधनम्।  चतुर्थे सन्यासे कर्मान्तराणां अभावात्। तस्मात् ब्रह्मसंस्थो∫मृतत्वमेवेति, अपि च सिद्धान्तलेशसंग्रहे तथापि वार्तिके∫पि सन्यासस्य प्राधान्यं  प्रतिपादयन्ति।
गच्छतस्तिष्टता वा∫प जाग्रतः स्वपतो∫पि वा
न विचारपरं चेतो यस्या∫सौनृत उच्यते।
आसुप्तेरामृतेः कालं नयेत वेदानतचिन्तया।१४
आदि वाक्यैः सन्यासपयोग सिद्ध्यति। ब्रह्मणो व्युत्थाय, ब्रह्मण प्रव्रणेत इत्यादि सन्यासविधिवाक्येषु ब्राह्मण पदश्रवणात् तेषामेव सन्यास अधिकारः सिद्ध्यति। केचित् ब्रह्मणस्यैव सन्यासपूर्वक वेतान्दश्रवणं इतरयोस्तु तद्विना वेदान्तश्रवणे∫धिकार इति वदति। अपरे ब्रह्मणस्यैव सन्यासे∫धिकारः इतरयोः विद्वान्सन्यासे∫धिकारः इति च वदन्ति। दिने दिने तु वेदान्तश्रवणात् भक्तिसंयुतात् कृथ्थाशीतिफलं लभेत् इति सिद्धान्तलेशसंग्रहवचनात्  मुख्याधिकारिभिः क्रियमाण वेदान्तश्रवणात् प्रतिबन्धकनिवृत्तिरूपं दृष्टफलं, तधा अदृष्टफलेन आमुष्मिकः फल साधनत्वम्। तथा च भगवत्गीतायां उक्तो∫ यं श्लोकः-
आसक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः
नैष्कर्म्यसिद्धपरमां सन्यासेनाभिगच्छति।।१५
एतैः चतुर्भिः आश्रमैः धर्मार्थमोक्षाणां  सिद्धिः प्रतिपादयति।  अनेन  परमपुरुषार्थ अपि सिद्ध्यति।

BIBLIOGRAPHY
छान्दोग्योपनिषत् -धशोपनिषत्, अडयार्, 1984
ब्रह्मसूत्रम् -मोतिलाल बनारसीदास, दिल्लि, 1988
बृहदारण्यकोपनिषत् -धशोपनिषत्, अडयार्, 1984
  ऋग्वेदभाष्यभूमिका - व्या. श्रीमध्यानन्दसरस्वती, अजमेर, 1985.
 सिद्धान्तलेशसंग्रहः-श्रीमदप्पय्यदीक्षितः, चौखम्बा, वारणासि, 1989.
वेदान्तसिद्दान्तादर्शः - श्री मोहन्लाल, मेडिकालहलमुद्णयन्त्रालय, काशी.
 श्रीमद्भगवत्गीताभाष्य-श्री षङ्कराचार्य, श्रीरामकृष्णमठ, मेलापूर, 1983.
 

सुचितांशाः-

.वेदान्तसिद्धान्तादर्शं p.103
.बृहदारण्यकोपनिषद् 4.4.22
.भगवद्गीता 18.5
.Ibid
.ऋग्वेद भाष्य भूमिका 28.1
.तत्रैव 28.2
.तत्रैव 28.3

..वेभ.भू 28.9

. छ उ 2.23.1
१०. छा..शा.भा.2.23.1
११.शब्दकल्पद्रुमः 14.7.2.25
१२. ब्रह्मसूत्रं 3.4.46
१३. सिद्धान्तलेशसंग्रहः 444
१४.तत्रैव p.451
१५. भगवद्गीता 18.46

Saturday, 18 January 2020


ज्योतिषं कालविधानशास्त्रम्।
 (शास्त्रम्)
डा. ईश्वरन् ई एन्

Research Article No: 20200118
Dr. Eswaran E. N.
Asst. Professor.
Govt: Sanskrit College,
Thripunitura, Kerala.
    ज्योतिषस्य अपरं नाम कालविधानशास्त्रम् इति। "कलयति आयुः'' इति कालः। समयः इति चार्थः। वेदाः यज्ञार्थं प्रवर्तमानाः भवन्ति। यज्ञास्तु कालानुसृतं करणीयाश्च । अतः कालविधानशास्त्रं नाम ज्योतिषं जानाति चेत् सर्वान् वेदयज्ञान् ज्ञातवान् भवतीत्युक्तं वर्तते वेदाङ्गज्योतिषे यथा -
वेदा हि यज्ञार्थमभिप्रवृत्ताः
कालानुपूव्र्याः विहिताश्च यज्ञाः।
तस्मादिदं कालविधानशास्त्रं
यो ज्योतिषं वेद स वेदयज्ञान्।। इति। (आर्चज्योतिषम्, 36)
कालविधानं नाम शुभाशुभकालनिर्णयः। "कालः कलयतामहम्'' इति गीताकारवचनात् ईश्वरीयशास्त्रम् अध्यात्मशास्त्रम् इत्यपि। अथवा मोक्षशास्त्रम् इति।

ज्योतिश्शास्त्रस्वरूपम्
सर्वशास्त्रशिरोलङ्कारभूतं ज्योतिश्शास्त्रं भवति। प्रमाणफलभेदेन द्विधा भवति, तदेव पुनः गणितं संहिता होरा चेति स्कन्धत्रयात्मकं भवति। उक्तञ्च वाराह्राम् -
ज्योतिश्शास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितम्
तत्कास्र्नोपनयनस्य नाम मुनिभिः सङ्कीत्र्यते संहिता।
स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ
होराऽन्योङ्गविनिर्णयश्च कथितः स्कन्धतृतीयोऽपरः।। (बृहत्संहिता 1-8.)
अनेकभेदविषययुक्तं ज्योतिश्शास्त्रं गणितं संहिता होरा चेति त्रिषु विभागेषु कृतम्। अनेकविषयाणां कास्र्नोपनयं समग्रप्रतिपादनमेव संहिता इति मुनीनाम् मतम्। तन्त्रं नाम गणितस्कन्धे ग्रहाणां गतिविगत्यादि साधनमेव। तृतीये होरास्कन्धे अन्यैरङ्गैः निर्णीतस्य पूर्वजन्मार्जितकर्मफ लपरिपाकस्य कथनमेव। एवं त्रिस्कन्धभिन्नं ज्योतिषं वेदा इव षडङ्गयुक्तं वर्तते। जातकं प्रश्नः मुहूर्तः निमित्तं गोलः इति ज्योतिषस्य षडङ्गानि भवन्ति इति प्रश्नमार्गकारः। यथा-
स्कन्धत्रयात्मकं ज्योतिश्शास्त्रमेतत् षडङ्गवत्।
गणितं संहिता होरा चेति स्कन्धत्रयं मतम्।।
जातकगोलनिमित्तप्रश्नमुहूर्ताख्यगणितनामानि।
अभिदधतीह षडङ्गान्याचार्या ज्योतिषे महाशास्त्रे।। (प्रश्नमार्गः, 1-5,6.)
अत्र गोलः गणितञ्च गणितस्कन्धस्य निमित्तं संहिताहोरयोः जातकं प्रश्नः मुहूर्तश्च होरायाश्च अङ्गानि भवन्ति। अत्र गणितं पुनः सिद्धान्तः तन्त्रं करणश्चेति त्रिधोच्यते।
गोलः - गोलीयगणनं प्रतिपादयति।
गणितम् - बीजाङ्कक्षेत्रग्रहगणनं प्रतिपादयति।
निमित्तम् - ग्रहकेतूल्का पक्षिमृगादीनां लक्षणम् प्रतिपादयति।
जातकम् - पूर्वजन्मार्जित कर्मफ लपरिपाकं प्रतिपादयति।
प्रश्नः - इहजन्मार्जितकर्मफ लं प्रतिपादयति।
मुहूर्तः - शुभाशुभकालनिर्णयं प्रतिपादयति।
निमित्तम् - शुभाशुभनिमित्तं प्रतिपादयति।
सिद्धान्तः - राजमुद्रादिमान-कालमानादि युगादिग्रहगणितभेदं च प्रतिपादयति।
तन्त्रम् - कल्यादिगणितभेदं प्रतिपादयति।
करणम् - करणारम्भदिनतः गणनं प्रतिपादयति।
सङ्गृहः एवं भवति –






 
                                                       

Wednesday, 1 January 2020

दर्शनमालानुसारं योगदर्शनम्

शान्तिनी वि. एम्‌ .
(दर्शनम्)
Research Article No: 20200101

शान्तिनी वि. एम्‌.
शोधछात्रा,
श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयः, कालटी।



      दर्शनं नाम किमिति प्रश्ने सति सामान्यतया वक्तुं शक्यते "दृश्यते
   आधुनिकयुगॆ अद्वैताचार्यैण श्रीनारायणगुरुणा वेदान्तशास्त्र प्रतिबोधितं तत्वं अद्वैतं लोककल्याणाय प्रतिपाद्यते। गुरुदेवः क्रिस्त्वब्धे 1864  आगस्त् 26 तमे दिने तिरूवनन्तपुरे चेम्पषन्ति इति ग्रामे वयल्वारगृहे भूजातः।  तस्य पिता माटनाशान् माता कुट्टियम्मा च भवतः। न केवलं  केरलेषु किन्तु लोके सर्वत्रापि तस्य नाम सुपरिचितमेव।  अधःस्थितजनानां उन्नमनाय सः अतीव श्रद्धालुः आसीत्।  तदर्थं गुरुणा कैरली-तमिल्-संस्कृत भाषासु षष्ठी परकृतयः विरचितम्। ते स्तोत्रकृतयः, अनुशासनकृतयः, गद्यकृतयः, परिभाषाकृतयः दार्शनिककृतयः इति  विभक्ताः।  गुरोः दार्शनिककृतिषु अन्यतमा भवति दर्शनमाला।
मनः एव मनुष्याणां सर्वबन्धमोक्षयोः कारणं भवति।  मनसः बन्धनात् यावत् समयं अस्माकं बोधः मुक्तः भवति तावत् समयं वयं मुक्ताः भवन्ति। एवं मनः संकल्पविकल्पेभ्यः मोचयितुं उपयुक्तां सिद्धिं साधारणजनेषु संवेदयितुं आरभते गुरुदेवः।  तदर्थं गुरुदेवेन प्रोक्तानि दशदर्शनानि  दर्शनमालायां अन्तर्भवन्ति।  समस्तं वेदान्तशास्त्रं  दशदर्शनरूपेण विभज्य़ अस्मिन् ग्रन्थं सक्रमं प्रतिपातयति।
दर्शनशब्दस्य सामान्यार्थः वीक्षणं इति भवति।  सर्वमपि वस्तु सम्पूर्णतया वा द्रष्टुं शक्यते। सम्पूर्णं दर्शनं एव सत्यदर्शनं भवति। संपूर्ण दर्शनं तु मिथ्यादर्शनं भवति।  जीवितप्रतिभासगतं अपूर्णं  दर्शनं पूर्णेन वस्तुदर्शनेन मेलयित्वा जिज्ञासवे पुरुषाय विशदयति गुरुः अस्मिन् ग्रन्थे।
दर्शनमालायां गुरुः साधारण जनेभ्यः एव वक्तुं आरभ्यते। साधारणस्य  मानवस्य लोकदर्शमं तथा एव गुरुः प्रथमं अङ्कीकरोति।  सर्वे∫पि विश्वासिनः हिन्दुः वा क्रैस्तवः वा इस्लामिकः वा आदौ इदं लोकं न अस्ति पुनः स्पष्टा स्वसंकल्पेन इदं जगत् ससर्ज इति विश्वसन्ति।  अयं विश्वासः एव  गुरुदेवः प्रथमं विशकलनाय स्वीकरोति।
मानवमानसे संजाताः सर्वे∫पि मिथ्यबोधाः मिथ्या एव इति बोधः यदा जायते तदा तादृश अज्ञानजन्याः भयभीतयः अपकर्षताबोधः च तस्य मानसात् दूरीकर्तुं शक्यते। तस्मादेव बोधवत्करणस्य प्रथमसोपानत्वेन गुरुदेवः अध्यारोपदर्शनं  उपदिशति।  तदनन्दरं क्रमेण अपवाददर्शनं, असत्यदर्शनं, मायादर्शनं, भानदर्शनं, कर्मदर्शनं, ज्ञानदर्शनं, भक्तिदर्शनं, योगदर्शनं च उपदिश्यते। अन्ते निर्वाणदर्शनं उपदिशति। गुरुदेवः मोक्षमार्गं प्रापयितुं इच्छन् सर्वान् अपि मानुषान् तं लक्ष्यं साधयितुमेव अस्य ग्रन्थस्य रचनां निवर्तयामास।
योगदर्शनम्   
दर्शनमालायां नवम दर्शनं भवति योगदर्शनम्।  योगस्य़ निर्वचनं, स्वरूरं, साधनं, फलं च प्रकरणे∫स्मिन् गुरुणा स्पष्टुं निरूप्यते।
    यत् मनः चिदात्मनि सततं योजयति युनक्ति च, मनोनिरोधरूपः सः अयं योगःइति शंसितः। योगः इति पदस्य निर्वचनं द्विधा भवति। योजयतीति  योगः,युनक्ति इति योगः।1 चिदात्मनि अर्थात् ज्ञानस्वरूपे आत्मनि मनसः योजनं एव योग इति उच्यते।
    यत्र द्रष्टा, दर्शनं दृश्यं न विद्यते तत्र  वासना योजयेत्।2
    यः पश्यति सः द्रष्टा भवति। दर्शनक्रिययेव दर्शनं  भवति। यद् दृश्यते तदेव दृश्यम्। द्रष्टा दर्शनं दृश्यं च इति त्रयं त्रिपुटीत्युच्यते।  यत्र त्रिपुटी नास्ति स परमात्मा एव। तस्मिन् परमात्मनि मनसः योजनं कुर्यात्। एतते वासनानाशपर्यन्तं करणीयं भवति।
    अविद्यादशायां अनुभूयमानमिदं जगत् नामरूपात्मकं भवति।3 घटादीनि नामानि तेषां रूपाणि च वस्तुतः न सन्ति। तत्र सत्यं मृत्तिका एव तद्वत् नामरूपात्मकं जगदपि ब्रह्मणि आरोपितम्। अधिष्ठानभूतं ब्रह्मैव सत्यम्। एवं  नामरूपमिदं सर्वं ब्रह्म एव  इति मनः नित्यं ब्रह्मणि विलीयते इति यत् सः योगः भवति।
    तैलधारातुल्यतया चित्तस्य वृत्तिः नैरन्तर्येण आत्माभिमुखं प्रसरन्ति तत्रैव वाधं अवतिष्ठते। अयमेव योगः इति योगिभिः स्मृतः।4
    वासनाबलेन विक्षिप्तं मनःयं यं विषयं उद्दिश्य निरसरेत् तस्मात् विषयात् बलात् निवर्त्य चिदात्मनि योजयेत्। अयं य़ोगः इह युज्यताम्।5
जनानां सर्वानर्धकारणं सङ्कल्प एव।6 सङ्कल्पेन कल्पितं इदं जगत् असत्यं भवति। संकल्पस्य कारणं वासना भवति। वासनासहितस्य संकल्पस्य कारणं समुच्छेदः समोमिरोधनेन  करणीयः भवति। दृश्यं दृशः भिन्नं न भवति। दृश्यस्य अस्तित्वं नास्ति। दृशः अस्तित्वं भवति।7 अतः दृश्यं दृगात्मकं इति यः दृग्रूपे युञ्जीत, सः योगविदां वरः भवति।
    प्रकृत्या चञ्चलं मनः भ्रमरत्वेन रूप्यते। इमां मनो भृङ्गं विषयेभ्य़ः निवर्त्य आत्मनि एव योजनीयः।8 आत्मानन्दरूपमधुनः माधुर्यं पिबतः तस्य स्पन्तनलेशो∫पि न संभवति। तदा योगः स्यात्। एवं मनसः स्वास्थ्येन योगः संभवति।
    यदा भ्रुवोः अन्तः ध्यानं दृष्टिः च, लम्बिकोर्ध्वतः जिह्वाग्रं च स्यात् तदा निद्रालस्यादिनाशिनी खेचरीमुद्रा स्यात्।9
    संक्षेपेण योगस्य द्वौ प्रकारौ स्तः ज्ञानयोगः कर्मयोगः च इति।10 श्रवणमनननिदिध्यासनाभ्यां संपद्यमानः आत्मसाक्षात्कारः एव ज्ञानयोगेन उच्यते। तादृशस्य ज्ञानयोगस्य अधिकारिता सिद्ध्यर्थं चित्तशुद्धिप्रदायकं निष्कामकर्मानुष्ठानं कर्मयोगशब्देन निर्दिश्यते। अनयोः सर्वः य़ोगविस्तारः परिसमाप्यते।


Foot Notes
दर्शनमाला        9-1
Ibid              9-2
Ibid              9-3
Ibid              9-4
Ibid              9-5
Ibid              9-6
Ibid             9-7
Ibid             9-8
Ibid             9-9
Ibid             9-10
References
  • Darsanamala of Sree Narayanaguru, Sree Sankara Sanskrit Vidyapeedam Publication, Edakkadom, Quilon, 1982
  • Nityachaitanya Yati, Psychology of Darsanamala, Printworld Publication (p) Ltd, New Delhi, 2004
  • T. Bhaskaran, Sree Narayanaguruvinte Sampurnakruthikal, Mathrubhumi Publication, 2002.
  • Sreenivasan K, Sree Narayanaguru, Jayasreepublication, Thiruvananthapuram, 1989.
  • M.K Sanu, Narayanagugu, Bharatiyavidyabhavan, Bombay, 1978.

Sunday, 29 December 2019

मनोगतम्’ [०२.०७]   ‘मन की बात’ 
प्रसारण-तिथि : २९-दिसम्बरः,२०१९
- [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-गवीश-द्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
मम प्रियाः देशवासिनः, नमस्कारः | ऊनविंशोत्तर-द्विसहस्र-तमस्य वर्षस्य प्रस्थान-पलम् अस्माकं समक्षं विराजते | दिन-त्रये एव वर्षमिदं प्रस्थास्यते तथा च वयं, न केवलं विंशोत्तर-द्विसहस्र-तम-वर्षे प्रवेक्ष्यामः, नवीने सम्वत्सरे प्रवेक्ष्यामः, नूतने दशके प्रवेक्ष्यामः, एकविंश-शताब्दस्य तृतीये दशके प्रवेक्ष्यामः | अहं, सर्वेषां देशवासिनां कृते विंशति-विंशतीति विंशोत्तर-द्विसहस्र-तम-वर्ष-हेतोः हार्दिकीः शुभकामनाः व्याहरामि | अस्य दशकस्य विषये वृत्तमिदं सुनिश्चितम्, अस्मिन्, देशस्य विकासं गतिमत्तरं विधातुं ते जनाः सक्रियां भूमिकां निर्वक्ष्यन्ति ये एकविंश-शताब्दे जनिम् अलभन्त – ये नाम अस्य शताब्दस्य महत्वपूर्णान् विषयान् अवगच्छन्तः एधन्ते | एतादृशः युवानः, साम्प्रतम्, बहुभिः

Saturday, 16 November 2019

 -डा गदाधर त्रिपाठी
कालदर्शिनी
 -डा गदाधर त्रिपाठी।
  सीमा निर्धारिता नैव कालो हि दुरतिक्रमः।
सीमा निर्धारिता नैव सर्वेषां भक्षकश्च वै।।1।।
 कालश्च कलयत्यायुर्हि सर्वान् सर्वथा तथा।
जनकश्चैव कालो हि सर्वेषामाश्रयः सदा।।2।।
 ब्रह्मणश्च स्वरूपो$यं नित्यो हि व्यापकस्तथा।
आसीदस्ति भविष्यच्च कल्पना च कृता यथा।।3।।
 दिवसेषु च मासेषु वर्षभागे तथा हि वै।
पक्षेषु च क्षणांशेषु क्षणेषु नु तथा हि वै।।4।।
 स्वीकृतं हि तथाचैवासीद् व्यवहारकल्पनम्।
प्रकारैर्विविधैर्जातं कालस्य ज्ञापनं परम्।।5।।
 छायया तु कृतञ्चैव कालज्ञानं तदा हि वै।
घटिका निर्मिता नैव तस्मिन् काले यथा तथा।।6।।
 षड्ऋतुषु तथा चैव त्रिष्वथवा विभाजनम्।
कालस्य चैव ज्ञानाय  व्यवस्था नु कृता हि वै।।7।।
 एवमेव च सूर्येण कालज्ञानं कृतं हि वै।
अग्नेश्च ज्वलनं द्रष्ट्वा प्रतिबिम्बेन चैव हि।।8।।
 संचालने च हेतुर्वै मुख्या चावर्तकक्रिया।
  तयैव घटिकाश्चैव चलन्ति सर्वथा सदा।।9।।
 'सेल'द्रव्येण प्रायश्च विद्युच्छक्त्या तथा हि वै।
चलन्ति घटिका:सर्वा: कण्ठे हस्ते च धारणम्।10।।
 996चैव वर्षे ह्यांग्लदेशे खलु निर्मिता।
सा परमाणुशक्त्या च  चलति सर्वथा यथा।।11।।
 भित्तिकासु च यानेषु घटिकारोपणं यथा।
दूरभाषणयन्त्रेष्वधुना संयोजनं तथा।।12।।
 आकृतिभिरनेकैर्वै  चलन्ति घटिका यथा।
ज्ञापनाय हि कालस्य प्रदर्शनाय  वा तथा।।13।।
                 ------------------

Sunday, 27 October 2019

मनोगतम्’ [०२.०५]   ‘मन की बात’ (5वीं कड़ी)
प्रसारण-तिथि : २७-ओक्टोबर’२०१९ 
- [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-पुरुषोत्तम-शर्मभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]   

     मम प्रियाः देशवासिनः,  नमस्कारः | अद्य दीपावल्ल्याः पावन पर्व अस्ति | भवद्भ्यः सर्वेभ्यः दीपावल्ल्याः भूयस्यः शुभकामनाः | अस्मदीये वाङ्मये निगदितम् -
       शुभं करोति कल्याणम् आरोग्यं धनसम्पदाम् |
       शत्रु-बुद्धि-विनाशाय दीपज्योतिर्नमोsस्तु ते ||

कियान् उत्तमः सन्देशः अस्ति | अस्मिन् श्लोके कथितं – प्रकाशः जीवने सुखं, स्वास्थ्यं समृद्धिञ्च आपादयति, तथा च, विपरीत-बुद्धिं विनाश्य, सद्बुद्धिं विकासयति | एतादृशाय दिव्यज्योतये नमान्सि | दीपावलीमेनां स्मरणीयां विधातुं किमितः परं भद्रतरः विचारः भवेत् यत् वयं प्रकाशं विस्तारयेम, रचनात्मिकां प्रवृत्तिं प्रसारयेम, शत्रुतायाः भावनाम् एव च प्रणाशयितुं प्रार्थयेम! अद्यत्वे जगतः अनेकेषु देशेषु दीपावली-पर्व आयोज्यते | अत्र वैशिष्ट्यम् इदमेव यत् अत्र केवलं भारतीय-समुदायः एव भवति, इति नैव, अपि तु, साम्प्रतं अनेकेषां देशानां प्रशासनानि, तत्रत्याः नागरिकाः,  तत्रत्यानि च सामाजिक-सङ्घटनानि दीपावलीं पूर्ण-हर्षोल्लासेन आयोजयन्ति | एवं हि ते तत्र ‘भारतम्’ विरचयन्ति | 
 सखायः, जगति ‘festival tourism’-इति उत्सव-

Saturday, 19 October 2019

अर्च्यच्यते मम भारतमाता
-राष्ट्रभक्तानां गीतम्
हिमगिरि-श्रृङ्गं उत्तुङ्गम्
भारतमातुर् मणिमकुटम्
गङ्गा यमुना सिन्धु-सरस्वति
प्रवहति मातुर् हृदयतटम्॥
(हिमगिरि)

काश्मीरादि महोन्नतदेशे
विकसन्त्यधुना कुसुमानि
गायन्त्यचिरात् तानि सुमानि
वन्देमातर-गानानि ॥
वन्दे मातरं.....वन्दे मातरं.....
सुजला सुफलां मलयजशीतलाम् ॥
(हिमगिरि)


आरब वङ्ग महोदधिनायुत
हिन्दुसमुद्रो स्त्तौति चिरं ताम्
तस्य तरङ्गकरेण हारेण
अर्च्यते मम भारत माता ॥
(हिमगिरि)
---------------------------
गान रचयिता - अय्यम्पुष़ हरिकुमारः