Thursday, 18 August 2016

!!!---☀: सुविचार्य विधातव्यम् :☀---


इयं कथा सोमदेवस्य कृतात् "कथासरित्सागरात्" उद्धृता अस्ति । तत्र "चतुर्व्यूहम्" एकं पाठं वर्तते । तत्रैव "गोदोहनम्" अस्ति । अस्यां कथायाम् समयस्य महत्त्वं प्रतिपादयति ।


आसीत् पुरा माधवो नाम कश्चिद् गोपालकः । तस्य गृहे नन्दिनी नाम एका गौः आसीत् । तस्याः दुग्धं विक्रीय सः सुखेन जीवनं यापयति स्म ।

एकदा तस्य भागिनेयः तत्रागत्य सूचितवान्---"मातुल ! प्रतिवेशिनः श्रेष्ठिनः गृहे मासानन्तरम् एकः यज्ञः संपत्स्यते । तस्मिन् उत्सवे पञ्चाशत् किलोमितस्य क्षीरस्य आवश्यकता भविष्यति ।"

इदमाकर्ण्य माधवः अचिन्यत्---"पञ्चाशत् किलोमितस्य पयः , अस्तु दास्यामि । एतावन्मात्रं पयः विक्रीय बहुधनं प्राप्स्यते, येन एकस्य भवनस्य निर्माणं करिष्यामि ।"
अथ प्रसन्नः माधवः स्वधेनुम् अहर्निशं सेवते । सः तस्याः रज्जुं धृत्वा तस्यै तृप्तिपर्यन्तं प्रभूतं घासादिकं ददाति, जलं पाययति, विषाणयोः तैलं करोति । प्रातः सायं च तां तिलकं करोति । यदा-कदा गुडादिकमपि भोजयति । स सर्वदा चिन्तयामास--"एकवारं ग्रहीष्यामि पयोSस्या प्राज्यम् उत्सवे ।"

इत्थं सेवानिरतस्य तस्य एकः मासः व्यतीतः । अस्मिन्नन्तरे तस्य भार्या मालती पितृगृहात् प्रत्यावर्तत । माधवः ताम् तत्सर्वं विस्तरेण अकथयत् । तौ सत्वरं कुम्भकारस्य गृहाद् घटदशकं क्रीतवन्तौ । तदैव प्रतिवेशी दुग्धाय तम् आकारयत् । माधवस्तु सपदि पञ्च-उपचारैः गाम् अपूजयत् । पात्रहस्तः दोहनाय गोः समीपम् अगच्छत् ।
मासैकपर्यन्तं दुग्धस्य अदोहनात् दुग्धहीना सा माधवहस्ते पात्रं दृष्ट्वा एव अकूर्दत् । माधवः पौनःपुन्येन प्रार्थयति---"नन्दिनि ! कथं मां व्याकुलयसि ? पञ्चाशत् किलोमितं क्षीरं सत्वरं यच्छ ।"

पौनः पुन्येन दोग्धुं प्रयतमानं माधवं सा पृष्ठपादाभ्यां ताडयित्वा रक्तरञ्जितम् अकरोत् । तं तादृशायाम् अवस्थायां वीक्ष्य मालती मूर्च्छिता जाता ।

बहुभिः उपचारैः तस्याः मूर्च्छाम् दूरीकृत्य माधवः ताम् अकथयत्---"मासान्तेSहं धनी भविष्यामि इति चिन्तयित्वा एव मासपर्यन्तं मया धेनुरेव न दुग्धा । अस्मात् कारणाद् इयं दुग्धहीनाSभवत् । देवि ! भविष्यचिन्तायां तु मया स्वकीयं वर्त्तमानमपि विनाशितम् । एभिः रक्तबिन्दुभिः मम चक्षुरुन्मीलितं यत् लघु-अपि कार्यं अविचार्य न कर्त्तव्यम्

यथा----
"यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ।।"
तथा च
"कालेन बिन्दुमात्रेण जलदानेन यत्सुखम् ।
न तथा सिन्धुदानेन गते कालेSस्ति संभवम् ।।"

🙏🏻🙏🏻🙏🏻

Tuesday, 16 August 2016

झार्खण्डे जलोपप्लवः - अष्ट सेतवः भग्नाः। 
राञ्ची > अतिवृष्ट्या सञ्जाते जलोपप्लवे झार्खण्डराज्ये विविधजनपदेषु अष्टसेतवः भग्नाः अपसृताश्च। चत्राजनपदे जयप्रकाश् नारायण् जलसम्भरण्यां छिद्रः जातः। जलधारा अनुभूता वर्तते।

ऐषमः  राष्ट्रपतिसम्मान-महर्षि-बादरायण-व्यास- सम्मानयोः उद्घोषणा सञ्जाता |

महामहिमराष्ट्रपति: संस्कृतभाषायाः  कृते  सहर्ष सम्मान-प्रमाणपत्रम् एभ्यः प्रदास्यते  तेषु

1. श्री आर. वेंकटरमन:
2. श्री विष्वनाथगोपालकृष्ण:
3. श्री जियालालकम्बोज:
5. डॉ. भवेन्द्रझा
6. प्रो. प्रियतमचन्द्रशास्त्री
7. प्रो. गुरूपाद. के.हेगडे
8. प्रो. एस.टी नगराज:
9. श्री सनातनमिश्र:
10. श्री एस.एल.पि.आज्जनेयशर्मा
11. प्रो. (श्रीमती) लक्ष्मीशर्मा
12. प्रो. विष्वनाथभट्टाचार्य:
13. प्रो. रामानारायणदास:
14. डॉ. रामशङ्करअवस्थी
15. श्री हृदयरंजनशर्मा
16. प्रो. (डॅा.) जानकीप्रसादद्विवेदी सम्मिलिताः सन्ति

संस्कृते अंताराष्ट्रियसम्मानाय श्री फरनांडोतोला प्रचितः |

संस्कृते महर्षिबादरायनव्याससम्मानम्
1. डॉ. महानन्दझा
2. डॉ. सुन्दरनारायणझा
3. डॉ. जि.एस.वि. दत्तात्रेयमूर्ति
4. डॉ. विष्वनाथधितालः
5. डॉ. शंकरराजारमनः

एतेषु प्रदास्यते |

Monday, 15 August 2016

ग्रामग्रामान्तरं प्रति 80000 लोकयानानि ।।    
                 नवदेहल्ली >  125000 ग्रामान् परस्परं बन्धितुं 60% केन्द्रविहितेन लोकयानानि आगमिष्यन्ति । ग्रामीणमार्गेण लोकयानचालनमेव पद्धत्याः लक्ष्यम् । गतागतमन्त्रालयः ग्रामविकसनमन्त्रालयेन सह  सम्मिल्य चाल्यमानायाः पद्धत्याः रूपरेखा आविष्कृता । प्रधानमन्त्री ग्रामीण परिवहन योजना इति नाम पद्धत्याः अस्याः।

 पलास्तिकदेशीयपताकायाः निरोधनम्। 
नवदिल्ली - पलास्तिकविमुक्तं स्वातन्त्र्यदिनाघोषं साक्षात्कर्तुं पलास्तिकनिर्मितानां देशीयपताकानाम् विक्रय-वितरण-उपभोगानि निरुद्धानि।
   देशीयपताकानाम् अन्तःसत्तां संरक्षितुं पलास्तिकपताकानाम् उपयोगं निराकर्तुं  च क्रियाविधिं स्वीकर्तुं राज्यसर्वकारान् प्रति केन्द्रसर्वकारः निरदिशत्। निरोधनोल्लङ्घनं संवत्सरत्रयं यावत् कारागारदण्डनम् अर्हति।

 भारतीय क्रिकेटदलेन वेस्ट- इंडीज़ दलं पराजितम् 

भारत वेस्ट इंडीजयोः तृतीय क्रिकेटनिकषद्वन्द्वे सेंटलूसियाटेस्ट क्रीडांगणे भारतेन वेस्ट इंडीजदलं 237 धावनांकैः पराजितम् . रविचन्द्रन अश्विनः 'मैन ऑफ़ द मैच' इति स्पर्धापुरुषपुरस्कारेण बहुमानितः | श्रृंखलायाः अन्तिमस्पर्धा  गुरुवासरात् प्रारप्स्यते |

 श्रीनगरे देशीयध्वजारोहणं करिष्यतीति त्रयोदशवयस्का बालिका। 
अहम्मदाबाद्‌ > स्वातन्त्र्यदिने काश्मीरस्य श्रीनगरे लाल् चौक् मध्ये देशीयध्वजारोहणं करिष्यतीति गुजरातस्वदेशिनी  बालिका। त्रयोदशवयस्का तन्सीं मेरानी एव एवमवदत्। सङ्घर्षपूरितेषु बहुषु काश्मीरमण्डलेषु बहोः कालादारभ्य आगस्त् १५, जनुवरी २६ इत्येतयोः देशीयप्राधान्यदिनयोः 'कर्फ्यू' प्रख्यापनं क्रियमाणं वर्तते। तत्तु अस्मिन् वर्षेऽपि भविष्यति। अतः ध्वजारोहणाय बालिकायै अनुमतिः नैव लप्स्यते इति विदग्धैः सूचितम्। माध्यमप्रवर्तकैः एतत्सूचिते सन्दर्भे 'स्व राष्ट्रे प्रवेशितुं कस्यापि अनुमतिः नावश्यकी' इत्येव बालिकायाः प्रतिवचनमासीत्।

 इरों शर्मिलायाः निराहारसमरम् अनुवर्त्य ३२ वयस्का वनिता।
  इंफाल् > षोडशवर्षपर्यन्तं दीर्घीकृतनिराहारसंग्रामं समापयित्वा गतसप्ताहे एव इरों शर्मिलया राष्ट्रीयमण्डलप्रवेशं सम्बन्ध्य स्वाभिप्रायः प्रकटितः। अफ्स्पा नियमं प्रतिनिवर्तयितुं इरों शर्मिलया कृतं निराहारसंग्रामम् अनुवर्तयितुं मणिप्पूर् स्वदेशिनी अरम्बांरोबितलीमा नामिका ३२ वयस्का सन्नद्धा अभवत् ।द्वयोः बालयोः माता अपि भवति इयं युवती । इंफाल् पश्चिमजिल्लायाः कम्यूणिटि अङ्‌गणे शनिवासरे प्रभाते दशवादनात् तया निराहारसंग्रामः आरब्धः।

वैमानिकयाेः कृते वर्षचतुष्टयस्य निरोधः।
  नवदहली > मद्यलहर्यां विदेशात् भारतं प्रति विमानचालनं कृतम् इति कारणेन द्वयोः वैमानिकयोः डि जि सि ए पक्षतः वर्षचतुष्टयस्य निरोधः। द्वयोः उपरि एफ् ऐ आर् पञ्चीकृत्य अन्वेषणाय अपि निर्देश: दत्तः। एतौ एयर् इन्ड्या संस्थायाः जेट् एयर्वेय्स् संस्थायाः च वैमानिकौ भवतः।विमानस्य प्रत्यागमनात्परं कृतायां परिशोधनायां एतौ मद्यपानमकुरुतां इति व्यक्तमासीत्। एतस्मिन्नेव विषये एयर् इन्ड्या संस्थायाः एकः कर्मकरः निरोधितः वर्तते । वैमानिकाभ्यां गुरुतरः कृत्यविलोपः एव कृतः इति व्योमयानमन्त्रालयेन सूचितमासीत्।
:
जम्मु - काश्मीर् समस्यां परिहाराय चर्चायै भारतसहयोगः आवश्यकः- पाकिस्थान्।  
नवदहली > काश्मीर् समस्यापरिहाराय चर्चा आवश्यकी,एतदर्थं भारतसहयोगः अपेक्षितः। एतत्सम्बन्ध्य भारतं प्रति आमन्त्रणपत्रिकां प्रेषयिष्यतीति पाक् प्रधानमन्त्रिणः विदेशकार्य उपदेष्टा सर्ताज् असीस् अवदत्। काश्मीर् समस्या परिहारः लक्ष्यं प्राप्स्यतीति विश्वासः वर्तते इत्यपि तेन सूचितम्।
Work In Progress

Wednesday, 10 August 2016

सर्वेभ्यः स्वातन्त्र्यदिनाशंसाः।



भारतस्येतिहासे  सुवर्णाक्षरैः लिखितमस्ति तत् दिनम्।
एकसहस्र-नवशत-सप्तचत्वारिंशत् -1947-आगस्त् पञ्चदश -15-
आम् .... शताब्दैः अस्मद् राष्ट्रेण अनुभूयमानात् अपमानात् अस्वातन्त्र्यात् दास्यात् तस्मिन् दिने एव मोचनं लब्धम्।
एकेन दिनेन न , बहूनां महात्मानां बहुभिः वर्षैः कृतानां अश्रान्तपरिश्रमाणां , त्यागानां , बलिदानानां च फलत्वेन एव तत् सम्पन्नम्।
अद्य वयं स्वतन्त्राः - कुत्रापि गच्छाम:, किमपि पठामः, किमपि लिखामः, किमपि कार्यं कुर्मः , किं बहुना अस्माकं नेतारः के इति निश्चेतुं शक्नुमः च।
तादृश प्रजातन्त्रराष्ट्रे जीवामः यत्र प्रजाः एव शासनं कुर्वन्ति।
अस्मिन् पवित्रे मुहूर्त्ते स्वीयत्यागैः अस्माकं कृते स्वातन्त्र्यं दत्तवतां महात्मनां स्मरणम् अनुचितं नैव।
न..... अवश्यं करणीयमेव।
आश्चचर्यस्य विषयः यत् - यस्मिन् देशे वेदाः दृष्टाः रामायणादि धार्मिककृतयः रचिताः विविधानि शास्त्राणि जातानि ..., तत् राष्ट्रं कथं विदेशीयानां करालहस्तेषु प्राप्य निष्पीडिता ? इति ।
तस्य उत्तरं तु अस्माकम्  इतिहासः कथयति , यस्मिन् देशे ".समानी व आकूतिः समाना हृदयानि नः " एवं जपः आसीत् तस्मिन्नेव देशे असमता प्रसृता।
वर्णन वर्गेण जात्या च भिन्नाः जनाः परस्परं कलहं कृतवन्तः।
यत्र भिन्नो वेषः भिन्ना भाषा भिन्नं रूपमपि सोदरत्वेन जीवनं कृतवन्तः तत्र परस्परं स्पर्धां जनयितुं परदेशीयैः अधिकप्रयत्नः न करणीयः जातः। अस्माकं संस्कृतेः संस्कृतस्य च दुर्व्याख्यानं कृत्वा जनानां अधिकारिणां च मनस्सु द्वेषविषं प्रसारयितुं ते शक्तवन्तः।
ये व्यापारं कर्तुं आगतवन्तः ते क्रमशः शासनम् आरब्धवन्तः ।
लघूणां राज्यानां प्रखण्डानां च उपरि ते कियता सारल्येन स्वीयाधिपत्यं स्थापितवन्तः।तेषां सकाशे भय ङ्कराणि आयुधानि स्यु: I
तथापि भारतस्य लघुतमराज्यादपि लघुतरस्य इङ्गलण्ड् देशस्य जनाः अस्मान् शताब्दान् यावत् शासनं कृतवन्तः इत्यत्र अस्माकं अनैक्यमे कमेव कारणम्।
यदा तेषां कापट्यं सर्वैः ज्ञातं तावता बहुविलम्बः जातः।
तथापि केषुचित् स्थानेषु विदेशीयान् विरुध्य समरा: जाताःएव।
झान्सी राणी, राजगुरु, इत्यादीन् आरभ्य बालगङ्गाधरतिलकः , महात्मागान्धी इत्यादीन् यावत् कति वीरपुरुषाः महिलाश्च स्वजीवनं तृणवत्कृत्वा ".इदं न मम राष्ट्राय स्वाहा इति जपन् स्वजीवनार्पणं कृतवन्तः  "।
       कालः परिवर्तितः । अधुना भारतं सशक्तं जातं । निष्कामकर्मिणां नेतृजनानां निरन्तर आत्मसमर्पणेन भारतं लोकस्य पुरतः उत्कर्षं आप्नोत् ।
भारतस्य लोकगुरुत्वं पुनरानयन्निव अधुना लोकाः अस्मान् वीक्षयन्तः  सन्ति।
योग -आयुर्वेद - वेदान्तादिशास्त्राणि संस्कृतभाषा सर्वं नवजागरणं प्राप्नुवत् अस्ति ।
समन्वयस्य... शान्तेः आत्मसाक्षात्कारस्य च शास्त्रं तदनुयुक्तां संस्कृतिं च लोकः अङगीकरोति अनुकरोति च।
आम्   ...महामनीषिणां क्रान्तदर्शनमिव अयं शताब्दः भारतस्य एव । वयं निश्चयेन अग्रे सरामः।
तदर्थं स्वर्गीय अब्दुल्कलामादि पथदर्शकानां दिग्दर्शम् अस्मभ्यं लब्धमेव।
किन्तु अस्माभिः जागरूकैः भाव्यम् । शताब्दानां दास्ये अस्मान् पातयन्ती वर्ग -वर्ण -भेदचिन्ता कुत्रचित् शक्तिम् आप्नुवन्ति किल ? अस्य निवारणं अस्माकं युवशक्तेः कर्तव्यं।
वयं तादृश वटवृक्षस्य शाखाः स्मः यस्य मूलानि सनातनतत्वानि काण्डं तु शास्त्रं च।
तद् कदापि न विस्मरेम। अनेकेषां बलिदानेन प्राप्तं स्वातन्त्र्यं संरक्षितुं वयं प्रतिज्ञां कुर्मः।
बाह्य- आभ्यन्तर आतङ्कान् विरुध्य राष्ट्रशरीरं संरक्षितुं वयं सन्नद्धाः भवेम।
तदर्थं ".इदं न मम 'राष्ट्राय स्वाहा इति मन्त्रं प्राणेषु स्वायत्तीकुर्मः ।
सङ्कुचितात् महत्तां प्रति वर्धयेम अस्माकं पुण्यजन्म । राष्ट्रपुनर्निमाणाय समर्पयेम स्वजीवान्।
जयतु भारतं .... वन्दे मातरम्....
नमस्ते।
लिबि पुरनाट्टुकरा

Wednesday, 27 July 2016

बालगीतम्

जागृहि भ्रातः 
अयि मम भ्रातः  

शुभप्रभातम्  
रजनी याता जागृहि 
सह खेलावः सह धावावः 
शीध्रं शीध्रं जागृहि 
नहि विलम्बय जागृहि
अयि मम भ्रातः जागृहि।।  

राजति गगने दीप्तभास्करः 
सुखयति सर्वं मन्दसमीरः 
पक्षिणां सुमधुरकलगानं 
श्रोतुं शीध्रं जागृहि 
नहि विलम्बय जागृहि 
अयि मम भ्रातः जागृहि ।।
-संपदानन्दमिश्रः-

Sunday, 19 June 2016


योगो भवति दुःखहा... ! [१]
 - बलदेवानन्द-सागरः
 [ आलेखेsस्मिन् योगसाधनायाः सैद्धान्तिक-पक्षाः संक्षिप्तम् इतिवृत्तञ्च वर्णितम् ]
 प्रस्तावना-
 २०१४-तमे वर्षे सेप्टेम्बर-मासे २७-तमे दिने संयुक्त-राष्ट्र-महासभायां [ UNGA ] ६९-तमम् अधिवेशनं सम्बोधयन् भारतस्य प्रधान-मन्त्री आदरणीयः श्रीनरेन्द्र-मोदी योगस्य अन्ताराष्ट्रिय-दिवसं स्वीकर्तुं विश्व-समुदायम् अध्यर्थितवान् | तेन उक्तमासीत् - “योगः प्राचीनायाः भारतीय-परम्परायाः अमूल्य-उपहारत्वेन वर्तते | अयं मनसः देहस्य च, विचारस्य कर्मणः च, संयमस्य पूर्णतायाः च, मध्ये ऐक्यं स्थापयति, मानवस्य प्रकृतेः च मध्ये समन्वयं साधयति, आरोग्यस्य सुखस्य च मध्ये पूर्णतान्वितायाः पद्धतेः सामञ्जस्यं विवर्धयति | योगः न केवलं शारीरिक-व्यायामत्वेन परिगणनीयः, परन्तु प्रकृत्या जगता च साकम् अस्मदीयम् ऐक्य-भावम् अन्वेष्टुम् अयं सम्प्रेरयति | अस्मदीयायाः जीवन-शैल्याः परिवर्तनेन चेतनायाः संरचनया च, जल-वायु-परिवर्तनम् अनुकूलियतुम् अयं साहाय्यं कर्तुं शक्नोति | अन्ताराष्ट्रिय-योग-दिवसस्य स्वीकरणार्थम् अस्माभिः सम्भूय कार्याणि आचरणीयानि” इति | प्रायेण सार्ध-द्वि-मासानन्तरम् अर्थात् २०१४-तमे वर्षे डिसेम्बर-मासे एकादशे दिने त्रिनवत्यधिक-शत-सदस्यात्मिका UNGA-इति संयुक्त-राष्ट्र-महासभा बहु-सम्मत्या जून-मासस्य २१-तमं दिवसम् अन्ताराष्ट्रिय-योग-दिनत्वेन प्रतिष्ठापियतुं प्रस्तावमेकम् अभ्युपागच्छत् यस्मिन् सप्त-सप्त्यधिक-शतस्य सह-प्रायोजक-देशानां सम्मतिः आभिलेख्यं भजते | स्वीये प्रस्तावे संयुक्त-राष्ट्र-महासभया अभिमानितं यत् योगाचरणं हि स्वास्थ्यं भद्रतां च प्रति समग्र-रूपात्मिकां प्रवृत्तिं प्रावधत्ते, अपि च, विश्व-जनसंख्यायाः आरोग्यार्थं योगाभ्यासस्य लाभ-प्रदायिनीं व्यापिनीं सूचनाम् उपपादयति | योगाभ्यासः जीवनस्य प्रत्येकं क्षेत्रे ऐक्यमपि साधयति, एवंरीत्या रोग-निवारणार्थम्, स्वास्थ्य-संवधनार्थम्, अनेकेषां जीवन-शैली-सम्बद्धानां विकाराणां प्रबन्धनार्थञ्च अयं प्रभवति |

 किं नाम योगाचरणम् ?

 योगाचरणं हि परमार्थत्वेन सूक्ष्मतम-विज्ञानाधृतम् आध्यात्मिकानुशासनं वर्तते यद्धि मनसः देहस्य च मध्ये ऐक्यभावं प्रतिष्ठापयितुं विशेषेण अवधत्ते | इदं हि स्वस्थ-जीवनस्य कला-विज्ञानत्वेन वर्तते | ‘योगः’- इति शब्दः संस्कृत-भाषायां ‘युजिर् युतौ’, ‘युज् समाधौ’- वेति धातोः योजने एकीभवने समन्वयने चेत्यादि-अर्थेषु व्युत्पन्नोsस्ति | योग-शास्त्रानुसारं, योगाभ्यासः व्यष्टि-चेतनायाः संयोजनं ब्रह्माण्डीय-चेतनया साकं विधातुं साधकान् सततं सन्नयति | आधुनिकानां वैज्ञानिकानाम् अनुसारेण, जगति प्रत्येकमपि वस्तु केवलं तुल्य-परिमाणात्मकस्य आकाशस्य अभिव्यक्तिः अस्ति | यः कश्चन अस्य अस्तित्वस्य इदम् ऐक्यम् अनुभवति, सः ‘योगस्थः’ इत्युच्यते, अपि च, सः योगी-इति ख्याप्यते, येन मुक्तावस्था अधिगतास्ति | एषा एव अवस्था - ‘निर्वाणम्’, ‘कैवल्यम्’, ‘मोक्षः’, ‘मुक्तिः’- इति सन्दर्भ्यते | ‘योगः’ अन्तर्विज्ञानत्वेन अपि सन्दर्भ्यते, यस्मिन् प्रविधि-वैविध्यं समाविष्टं वर्तते | अनेन प्रविध-वैविध्येन आत्म-साक्षात्कारम् अधिगन्तुं मानवाः देहस्य मनसः च मध्ये ऐक्यभावम् अवाप्तुं शक्नुवन्ति | सर्व-विधानां दुःखानां परिहारः एव योग-साधनायाः लक्ष्यमस्ति, एतच्च, सम्पूर्ण-स्वास्थ्य—प्रसन्नता-समन्विति-युतस्य जीवनस्य प्रत्येकमपि क्षेत्रे मुक्ति-भावम् उपपादयति |

योगस्य संक्षिप्तः इतिहासः विकासः च -

 प्रथम-धर्मस्य उत वा विश्वास-व्यवस्थानां प्रादुर्भावात् सहस्रशो वर्षेभ्यः प्राक् योग-विज्ञानम् आरब्धमासीत् | यौगिक-मान्यतानुसारेण, प्रथम-योगी, आदियोगी वा शिवः एव आमान्यते स्म | सः एव शिवः प्रथम-गुरुः वा आदिगुरुः- इति स्वीक्रियते | सहस्रशो वर्षेभ्यः प्राक्, हिमालये कान्ति-सरोवरस्य तटेषु, आदिगुरुः पुराण-प्रथितेभ्यः सप्तर्षिभ्यः स्वीयं गहनं ज्ञानं व्यतरत् | एते सप्तर्षयः एशिया-मध्यपूर्वैशिया उत्तरीयाफ्रिका–दक्षिणामेरिका-सहितेषु जगतः विविधेषु भागेषु प्रबलं योग-विज्ञानं प्रासारयन् | वृत्तमिदं रुचिकरं यद् अशेष-जगतः प्राचीन-संस्कृतीनां मध्ये अधिगतं घनिष्ठ-साम्यं परिभाव्य आधुनिकाः विद्वांसः विशेषावधानेन आश्चर्यम् अनुभूतवन्तः | परञ्च, भारते एव एषा योग-पद्धतिः पूर्णतया विकिसता जाता | सप्तर्षिषु अन्यतमः महर्षिः अगस्त्यः सम्पूर्णमपि भारतीयम् उपमहाद्वीपं परिभ्रम्य सार-भूतेन योगमार्गेण समन्वितस्य जीवनस्य एनां संस्कृतिं विरचयामास |
      योगाचरणमिदं प्रायेण २७००-खिष्ट्रिय-वर्षेभ्यः प्राक्, इण्डस्-सरस्वती-उपत्यका-सभ्यतायाः सनातन-सांस्कृतिक-परिणामत्वेन व्यापकतया परिभावितम्, अपि च, मानवतायाः भौतिक्याः आध्यात्मिक्याः च उन्नतेः कृते अमुना स्वीया सार्थकता सिद्धीकृता | इण्डस्-सरस्वती-उपत्यका-सभ्यतायाः अनेकाः मुद्राः, अवशिष्टाः जीवाश्माः, योग-साधना-निरताः आकृतयः, योग-चिन्हानि च प्राचीने भारते तदानीन्तनां प्रवर्तमानां योगोपस्थितिं द्योतयन्ति | मातृ-देव्याः प्रतिमाः मुद्राश्च तन्त्र-योगं सूचयन्ति | लोक-परम्परासु, वैदिके औपनिषदिके च रिक्थे, बौद्ध-जैन-परम्परासु, दर्शनेषु, श्रीमद्भगवद्गीता-समुपेतासु महाभारतीय-वीरकथासु, आदि-काव्ये रामायणे, शैवानां वैष्णवानां च आस्तिक-परम्परासु, तान्त्रिक-परम्परासु चापि योगोपस्थितिः प्राप्यते | यद्यपि प्राक्-वैदिक-काले योगाभ्यासः विधीयते स्म, परञ्च, महर्षिः पतञ्जलिः पातञ्जल-योगसूत्र-माध्यमेन तदानीन्तनानां यौगिक-क्रियाणां, योगार्थस्य, योगज्ञानस्य च, व्यवस्थापनं विधाय संहिताबद्धं कृतवान् |
        महर्षेः पतञ्जलेः अनन्तरं, अनेके ऋषयः योग-गुरवश्च समुचित-रीत्या अभिलेखितानां अभ्यासानां, वाङ्मयस्य च माध्यमेन योग-क्षेत्रस्य संरक्षणार्थं विकासार्थं च, महद्-योगदानं कृतवन्तः | प्राचीन-कालात् प्रवर्तमान-दिनं यावत, प्रतिष्ठितानां योगाचायार्णाम् उपदेशैः योगः संपूर्णे अपि विश्वे प्रसृतो जातः | साम्प्रतं प्रत्येकमपि जनः दृढतया विश्वसिति यत् योगाभ्यासेन रोगाणां परिहारो भवति, आरोग्यस्य संवधर्नं सन्धारणं च जायते | कृत्स्ने अपि जगति कोटिशो जनाः योगाभ्यासेन लाभान्विताः जाताः, अपि च, दिनानुदिनं योगाचरणमिदं जगति प्रसरति, जवीयस्या गत्या च समेधते |

 योगस्य मूल-स्वरूपम् -

 कस्यचन देहस्य, मनसः, भावनायाः, ऊजार्याः च स्तराधारेण योगः प्रभवति | अतएव कर्मयोगः, ज्ञानयोगः. भक्तियोगः, क्रियायोगः चेति योगस्य चतुर्धा व्यापकं वर्गीकरणं विहितम् | यत्र वयं देहस्य उपयोगं कुर्मः सः कर्मयोगः; यत्र वयं मनसः उपयोगं कुर्मः सः ज्ञानयोगः; यत्र वयं भावानाम् उपयोगं कुर्मः सः भक्तियोगः; अपि च, यत्र वयं ऊजार्याः उपयोगं कुर्मः सः क्रियायोगः कथ्यते | योगस्य प्रत्येकमपि विधिः, यस्याभ्यासं वयं कुर्मः; आसां श्रेणीनाम् एकाधिक-श्रेणी-विस्तरमेव अस्ति |
        प्रत्येकमपि व्यष्टिः एतेषां चतुर्णां कारकाणां अनुपमा संयुतिः अस्ति | केवलं गुरुरेव प्रत्येकमपि साधकाय आवश्यकं मूल-मार्ग-चतुष्टयस्य समुचित-संयुति-जातं अधिवक्तुम् अर्हति | “सर्वाण्यपि प्राचीनानि योग-भाष्याणि सविशेषं प्रतिपादितवन्ति यत् गुरोः निर्देशानुसारमेव योग-साधनानुष्ठानं नूनम् आवश्यकम् |”

  योगस्य पारम्परिक्यः विचार-धाराः -

 योगस्य विभिन्नानि दर्शनानि, परम्पराः, कुटुम्बाः, गुरु-शिष्य-परम्पराः च, नाना पारम्परिक-विचार-धाराणाम् उद्भव-कारणानि सन्ति | एतासु ज्ञानयोगः, भक्तियोगः, कर्मयोगः, पातञ्जलयोगः, कुण्डलिनीयोगः, हठयोगः, ध्यानयोगः, मन्त्रयोगः, लययोगः, राजयोगः, जैनयोगः, बौद्धयोगः चेत्यादयः अन्यतमाः सन्ति |
           प्रत्येकमपि एषा विचारधारा नैजान् आग्रहान् अभ्यासान् च धारयति ये नाम योगस्य परमं लक्ष्यं ध्येयञ्च प्रति सन्नयन्ति | आरोग्यस्य भद्रतायाश्च कृते यौगिकाभ्यासाः - यमः, नियमः, आसनानि, प्राणायामः, प्रत्याहारः, धारणा, समाधिः, बन्धाः मुद्राः च, षट्-कर्माणि, युक्ताहारः, मन्त्रजापः, युक्तकर्म-प्रभृतीनि योगसाधनायाः अभ्यस्यमानानि व्यापकानि अङ्गानि सन्ति |
              प्रतिबन्ध-युतम् आचरणं नाम यमः, अनुपालनात्मकम् आचरणं हि नियमः | एतौ इतः परमपि योगाभ्यासार्थं प्राग्-अपरिहार्यत्वेन परिगण्येते |
          देहस्य मनसश्च स्थैर्यमापादियतुम् आसनानि सुतरां क्षमन्ते; “कुर्यात् तदासनं स्थैर्यम्”- मनोनिग्रह-पुरःसरं देहस्य नानावस्थानां स्थैर्य-सम्पादकम् आसनं करणीयम् इति, अपि च, एतेषाम् आसनानाम् अभ्यासेन सुदीर्घकालं यावत् देहस्य स्थिरां स्थितिं [ कस्यचिद् देहस्य स्वरूपात्मकस्य अस्तित्वस्य स्थिर-प्रबोधनम् ] सन्धारियतुं शक्यते |
        प्राणायामो हि श्वसन-प्रक्रियायाः स्वेच्छया निग्रहणार्थम्, स्थिति-प्रबोधनार्थञ्च अभ्यस्यते, यतो हि, कस्यचिदपि जीवनस्य कृते प्राण-वायोः श्वसन-प्रश्वसनं परमावश्यकम् | अमुना प्राणायाम-विधिना साधकः मनसो जागर्तिं विकासयितुं साहाय्यम् अवाप्नोति, अपि च, अयं मनसो निग्रहणं प्रतिष्ठापयितुं सहायको भवति | आरम्भे नासिकाभ्यां मुखेन शरीरस्य अन्यैः रन्ध्रैः च श्वसन-प्रश्वसन-प्रवाहस्य अभिज्ञान-विकास-पुरःसरम् अनुष्ठीयते | अनन्तरञ्च, पूरक-कुम्भक-रेचक-इति प्रक्रिया-त्रयेण अयं श्वसन-प्रश्वसन-प्रवाहः नियमन-नियन्त्रण-निभालन-द्वारा परिष्क्रियते, यथा – पूरकावस्थायां श्वासः नियमन-नियन्त्रण-निभालन-द्वारा शरीराभ्यन्तरे पूर्यते, कुम्भकावस्थायां शरीराभ्यन्तरे एव स्थिरीक्रियते, अपि च, रेचकावस्थायां नियमन-नियन्त्रण-निभालन-द्वारा प्राण-वायुः प्रश्वस्यते [ देहाद् बहिः निष्कास्यते ] |
           प्रत्याहारः साधकस्य ज्ञानेन्द्रियेभ्यः चेतनायाः पृथक्करणं सङ्केतयति, एतानि च ज्ञानेन्द्रियाणि बाह्य-विषयैः सह चेतनां संयोजयन्ति | धारणा नाम देहे मनसि च अवधानस्य व्यापकाधार-युतं क्षेत्रं सङ्केतयति, यद्धि, सामान्यतया ‘एकाग्रता’ इत्यवगम्यते | ध्यानं नाम देहे मनिस च अतितरां चिन्तनैकाग्रता, तदवस्थायामेव एकीभवनं हि समाधिः इत्युच्यते | बन्धाः मुद्राश्च प्राणायामावसरे अनुष्ठीयन्ते | एते एताश्च उच्चतर-योगाभ्यासार्थं स्वीक्रियन्ते, मुख्यतया अनेके योग-साधकाः श्वसन-प्रक्रियायाः नियन्त्रणपुरस्सरं काश्चन शारीरिक-मुद्राः अङ्गीकुर्वन्ति | अमुना विधिना उच्चतर-योग-स्थितिं सुलभायितुं मनोनिग्रहणार्थम् इतःपरमपि साहाय्यम् अवाप्यते | परञ्च, ध्यानाभ्यासः योग-साधकम् आत्म-साक्षात्कारं प्रति अग्रेसारयति, योग-साधनायाः परम-लक्ष्यं ध्यानातीतं सच्चिदानन्द-भावं प्रति सन्नयति | षट्-कर्माणि विषापनोदन-प्रक्रियात्वेन प्रवर्त्यन्ते, यानि प्रकृत्या निदानरूपाणि सन्ति, अपि च, देहे समवेतानां विषाणां दूरीकरणार्थं सहायकानि भवन्ति | युक्ताहारः स्वस्थ-जीवनस्य कृते समुचित-खाद्यं समीचीनाञ्च खाद्य-प्रवृत्तिं समर्थयति |
             विशालम् अनन्तञ्च योग-विज्ञानं मन्दधिया मया अत्र सुधीनां विबुधानां च मनोविनोदाय योग-जिज्ञासूनाञ्च प्रबोधाय संक्षेपेण संकलितमस्ति | जगति साम्प्रतं जून-मासे एकविंशतौ दिनाङ्के “अन्ताराष्ट्रिय-योग-दिवसः” आयोज्यते इत्यस्ति शुभोदय-वार्ता | एतदर्थं सर्वेऽपि योग-पथानुयायिनः वन्द्याः वर्धनीयाश्च | श्रीमद्भगवद्गीतायां तु उक्तमेव – “योगो भवति दुःखहा|” ... डॉ.बलदेवानन्द-सागरः Cell- 09810562277 Email- baldevanand.sagar@gmail.com


योगो भवति दुःखहा... ! [२] 

 [ आलेखेsस्मिन् योगसाधनायाः व्यावहारिक-पक्षाः आसनादीनि च वर्णितानि ]
प्रस्तावना-
 योगाभ्यासः हि आवश्यकरूपेण आध्यात्मिकानुशासनं वर्तते यद्धि विशेषतः परिष्कृत-विज्ञानाधृतम् अस्ति | इदं तु स्वस्थ-जीवनस्य कृते कला-विज्ञान-रूपं वर्तते |
    योग-शब्दः संस्कृतस्य ‘युग’-शब्देन निष्पन्नः यः संयोजनं वा समन्वितिं वा द्योतयति। यौगिक-लेखाधारेण योगाभ्यासः साधकस्य व्यष्टि-चेतनां समष्टि-चेतनया संयोजयितुम् अग्रेसारयति येन मनसः शरीरस्य च, मानवस्य प्रकृतेश्च मध्ये भद्रतरं सन्तोलनं सम्भवेत् |
      धर्मस्य विश्वासस्य वा प्राथमिक-व्यवस्थानां प्रादुर्भावात् अपि सहस्रशो वर्षेभ्यः प्राक् योग-विज्ञानम् समुत्पन्नमासीत्| यौगिक-लेखाधारेण, प्रथम-योगी, आदियोगी वा शिवः एव आमान्यते स्म | सः एव शिवः पुराण-प्रथितेभ्यः सप्तर्षिभ्यः स्वीयं गहनं ज्ञानं व्यतरत् | प्राक्-वैदिक-कालादेव योगाभ्यासः अनुष्ठीयते स्म परञ्च आधुनिक-योगस्य जनकः महर्षिः पतञ्जलिः एव प्रथमः आचार्यः आसीत्, यः तदानीन्तनान् अभ्यासान् सूत्राधारेण व्यवस्थाप्य संहिताबद्धं कृतवान् | अनन्तरम्, अनेके योग-गुरवः अस्याः योग-विद्यायाः विकास-संरक्षणयोः कृते स्व-योगदानम् अर्पितवन्तः, अपि च, लोकोपकारकम् आश्चर्यजनकञ्च अभ्यासमेनं प्रसारितवन्तः |
         सम्प्रति योगस्य नाना विद्यालयाः सन्ति येषु ज्ञानयोगः, भक्तियोगः, कर्मयोगः, पातञ्जल-योगः, हठ-योगः, कुण्डलिनी-योगः, ध्यानयोगः, मन्त्रयोगः लययोगः, जैनयोगः, बौद्धयोगः चेत्यादयः समाविष्टाः सन्ति | योगसाधनायाः प्रामुख्येन अभ्यस्यमानासु प्रक्रियासु यमः, नियमः, आसनानि, प्राणायामः, प्रत्याहारः, धारणा, ध्यानम्, समाधिः, बन्धः मुद्रा च, षट्-कर्म, युक्ताहारः, मन्त्रजपः, युक्तकर्म अन्यतमाः सन्ति| योगाभ्यासावसरे योगाभ्यास-कर्ता अत्र निर्दिश्यमान् कांश्चन निर्देशक-सिद्धान्तान् नूनम् अनुपालयेत् |

       अभ्यासात् पूर्वं किं करणीयम् ?

        शान्तिमये आनन्दप्रदे च परिवेशे निश्चिन्तेन शरीरेण मस्तिष्केण च सह योगाभ्यासं कुर्यात् | रिक्तेन वा लघ्वाहारयुतेन उदरेण योगाभ्यासं कुर्यात्, यदि भवता दुर्बलता अनुभूयते चेत्, मधुयुतं ईषदुष्णं जलं पेयम् | शरीरस्य सहज-चेष्टानुष्ठानार्थं भार-रहितानां सौविध्य- युतानां च कार्पास-वस्त्राणां कृते प्राथम्यं प्रदेयम् | कश्चन प्राक्तनः रोगः, पीडा वा हृदय-सम्बद्धा समस्या अस्ति चेत् योगाभ्यासात् प्राक्, कश्चन चिकित्सकः योगचिकित्सकः वा नूनं परामर्शनीयः |

 योगाभ्यासावसरे किं करणीयम् ?
 अभ्यास-सत्राणाम् आरम्भः प्रार्थनया वा वन्दनैः करणीयः यतो हि एवंकरणेन मनसः शान्त्यर्थं सहायि-परिवेशः निर्मीयते| योगाभ्यासः शनैः शनैः, उद्वेग-रहित-पद्धत्या शरीरस्य प्रश्वसनस्य च अवधानेन सहैव करणीयः | -
श्वासः तावदवधि न अवरोधनीयः यावदवधि एवंकरणे सारल्यं नानुभूयते |
 शरीरं आतति-पूर्णं वा आवेगेन साकं नैव धारणीयम् |
 अभ्यासः निज-क्षमतानुसारं करणीयः |
सत्राणां समापनं गहन-मौनेन वा शान्तिपाठेन करणीयम् |
 अभ्यास-सत्रस्य २०-३०-मिनिट्-कालानन्तरम् एव भोजनं स्नानं वा समुचितं भविष्यति |

 साम्प्रतं योग-साधनायाः शुभारम्भः –
 योगज्ञानस्य अनुपमे जगति भवतां स्वागतम् | सहस्रशो वर्षेभ्यः पूर्वं योगाभ्यासः यथा प्रासङ्गिकः लाभप्रदः चासीत् , तथैव साम्प्रतमपि वर्तते | सम्प्रति वयं चलन-क्रियाभिः अर्थात् शिथिलता-अभ्यासैः साकं योग-साधनायाः आरम्भं कुर्मः, एवंकरणेन शरीरे सूक्ष्मरूपेण रक्त-सञ्चारः विवर्धते |

 ग्रीवायाः व्यायामः -
 पुरः पृष्ठे च ग्रीवायाः अवनमनम् |
अतन्द्रित-मुद्रायां उत्तिष्ठेत् |
पादौ अभीष्ट-स्थितौ विस्तार्य [यथाशक्यम् अन्तरालं यावत् ] हस्तौ च कटौ स्थापयेत् |
 श्वासं निष्कासयेत्, अपि च, शिरं शनैः शनैः पुरः अवनमयेत् तथा चिबुकेन वक्षःस्थलं स्प्रष्टुं प्रयतेत |
श्वासम् अन्तः आदाय शिरं यथाशक्यं सौख्येन पृष्ठ-भागं सन्नयेत् , श्वासम् अन्तः सन्धारयन् शिरं पुनः पुरः आनयेत् |
 वामं दक्षिणं च भागं प्रति ग्रीवायाः अवनमनम् | श्वासं निष्कासयेत्, अपि च, शिरं शनैः शनैः दक्षिण-भागं अवनमयेत् तथा कर्णं स्कन्धस्य निकटं यथाशक्यं सन्नयेत् | श्वासम् अन्तः आदद्यात् तथा शिरं सामान्य-स्थितौ आनयेत् | श्वासं निष्कासयेत्, अपि च, शिरं वाम-भागम् अवनमयेत् | श्वासम् अन्तः आदद्यात् तथा शिरं पुनः सामान्य-स्थितौ आनयेत् | श्वासं निष्कासयेत्, अपि च, शिरं सुगमतया दक्षिण-भागं तावत् विपरिवर्तयेत् येन चिबुकं स्कन्धस्य समवर्ति भवेत् | श्वासम् अन्तः आदद्यात् तथा शिरं पुनः सामान्य-स्थितौ आनयेत् | श्वासं निष्कासयेत्, अपि च, शिरं वाम-भागम् विपरिवर्तयेत् | श्वासम् अन्तः आदद्यात् तथा शिरं पुनः सामान्य-स्थितौ आनयेत् | ग्रीवायाः विपरिवर्तनम् | शिरं पुरः अवनमय्य चिबुकेन वक्षःस्थलं स्प्रष्टुं प्रयतेत | श्वासम् अन्तः आनयेत् तथा शिरं घटिकायंत्रस्य सूची-दिशायां विपरिवर्तयेत् , शिरः यदा नीचैः गच्छति तदा श्वासं त्यजेत् | शिरं घटिकायंत्रस्य सूची-दिशायाः विपरीतं परिवर्तयेत् | ग्रीवां परितः आकुञ्चनस्य, ग्रीवायाः सन्धीनां मांस-कोशिकानां च शिथिलितायाः, ग्रीवायाः आततेः च अपाकरणम् अनुभवेत् | ग्रीवा-पीडा-युताः स्पोण्डिलाइटिस-परिदेवकाः च व्यायामम् एनं सौकर्येण कुर्युः | शिरसः अधोभागस्य विपरिवर्तनम् | पादौ अन्योन्यं द्वि-फुट-मितान्तरालेन स्थापयेत् | हस्तौ वक्षसः उच्छ्रिततां यावत् तेन प्रकारेण उत्त्थापयेत् येन हस्त-तल-द्वयं परस्परम् अभिमुखं स्यात् | श्वासं निस्सारयेत्, शरीरं दक्षिण-भागं प्रति तावत् परिवर्तयेत् येन वाम-हस्त-तलं दक्षिण-स्कन्धं स्पृशेत्, श्वासम् अन्तः आददेव परावर्तयेत् | पुनरावृत्तिं विदध्यात् | श्वासं आददेव मन्दं मन्दं विदध्यात् | मेरुदण्डस्य डिस्क-इत्यस्य च सत्यायां समस्यायाम्, मासिक-धर्मावसरे च, व्यायाममेनं नाचरेत् | उत्त्थान-मुद्रायां विश्रमेत् | जान्वोः संचालनम् | श्वासम् अन्तः आदद्यात्, स्वीय-बाहू स्कन्धौ यावत् उत्त्थापयेत् | श्वासं निष्कासयेत्, जानुनी पिदध्यात् तथा च,स्वीय-शरीरं शून्य-मुद्रायां नीचैः आनयेत् | श्वासम् अन्तः आदद्यात् अपि च, शरीरम् आकुञ्चेत् | द्विवारम् आवृत्तिं विदध्यात् | अमुना व्यायामेन जान्वोः नितम्बयोः च सन्धिः दृढतरो भवति | सत्यां विकटायाम् आर्थराइटस्-समस्यायां व्यायाममेनं परित्यजेत् | हस्तयोः नीचैः आनयनावसरे श्वासं निस्सारयेत् |

साम्प्रतं योगासनानि प्रति अग्रेसरामः |
 तालासनम् [ताडासनम्] तालम्” नाम एकः वृक्षः पादौ अन्योन्यं द्वि-इञ्च-मितान्तरालेन स्थापयेत् | अङ्गुल्यः परस्परं दृढतया संयोज्य मणिबन्धान् बहिः विवर्तयेत् | श्वासम् अन्तः सन्नयेत् तथा स्वीय-बाहू उपरि उत्त्थापयत् स्कन्धयोः समवर्तिनौ विधेयौ | पादान्त-भागौ भूमितः उपरि उत्त्थापयेत् अङ्गुष्ठाभ्यां च सन्तोलनं सन्धारयेत् | अस्यामेव स्थितौ १०-तः १५-सेकेण्ड-मितं कालं यावत् सन्तिष्ठेत् | आसनमिदं शरीरं दृढतरं विदधाति, पृष्ठ-भागस्य च अस्थिना संयुक्तानां तन्त्रिकाणां संकुलनं समीचीनं कर्तुं साहाय्यम् उपपादयति, अनुचित-मुद्राः च सम्यक् करोति | श्वासं निस्सारयेत्, पादान्त-भागौ नीचैः स्थापयेत् | अङ्गुलीनां दृढतरं संयोजनं वियोजयेत् , हस्तौ शिरसः अधःभागस्य समानान्तरं नीचैः आनयेत् तथा उत्त्थान-मुद्रायां पुनः सन्तिष्ठेत् |
वृक्षासनम्
 वृक्षः अर्थात् तरुः पादौ अन्योन्यं द्वि-इञ्च-मितान्तरालेन स्थापयित्वा उत्तिष्ठेत् | पुरतः बिन्दुमेकं संलक्ष्य ध्यानं केन्द्रितं कुर्यात्| श्वासं निस्सारयेत्, दक्षिण-पादं पिदध्यात् , अपि च, पादं वाम-जङ्घायाः मध्ये स्थापयेत् | पादान्त-भागः मूलाधारं नैव संस्पर्शेत् | श्वासम् अन्तः सन्नयेत् , बाहू उपरि सन्नयेत् तथा हस्त-तले परस्परं संयोजयेत् | अस्यां स्थितौ १०-तः १५-सेकेण्ड-मितं कालं सन्तिष्ठेत् , तथा सामान्यरूपेण श्वसेत् | अमुना आसनेन तन्त्रिकाणां मांस-कोशिकानां च सामञ्जस्यं समीचीनं भवति, दृढत्वं चैतन्यं च विवर्धेते | अर्थराइटिस्-रोगः स्थूलत्वं वा अस्ति चेत् नायम् अभ्यासः करणीयः | श्वासं निस्सारयेत् हस्तौ दक्षिण-पादं च अधः आनयेत् | आसनं पुनः आवर्तयेत् | वाम-पादं पिदध्यात् तथा पादं दक्षिण-जङ्घायाः मध्ये स्थापयेत् | पादान्त-भागः मूलाधारं नैव संस्पर्शेत् | श्वासम् अन्तः सन्नयेत् , बाहू उपरि सन्नयेत् तथा हस्त-तले परस्परं संयोजयेत् | विश्रम्यताम् |
पाद-हस्तासनम्
 पादः अर्थात् चरणः , हस्तः अर्थात् पाणिः शनैः शनैः श्वासम् अन्तः आदद्यात्, स्वीय-बाहू च उपरि उत्त्थापयेत् | शरीरं कटेः उपरि-भागं प्रति आकर्षयेत् | श्वासं निस्सारयेत् तथा पुरस्तात् तावदवधि नमेत् यावदवधि पूर्णं हस्त-तलं पृथ्वीं नैव स्पृशेत् | एनाम् अन्तिमां स्थितिं १०-तः ३०-सेकेण्ड-कालं यावत् सन्धारयेत् | ये जनाः पृष्ठावरोध-समस्यावन्तः तैः स्वीय-क्षमतानुरूपम् सन्नमनीयम् | साम्प्रतम् अन्तः श्वसेत्, शनैः शनैः अतिर्यक्-स्थितौ सन्तिष्ठेत् , अपि च, बाहू शिरस्य उपरि नीत्वा संकर्षयेत् | निःश्वसेत् तथा शनैः शनैः प्रक्रियाः विपरीतक्रमेण कुर्वन् प्रारम्भिक-स्थितौ आगच्छेत् | विश्रम्यताम् |
  अर्ध-चक्रासनम्
 पृष्ठाय कटेः साहाय्यम् आदद्यात् | निःश्वसेत् , शिरं पश्चभागे अवनमयेत्, ग्रीवायाः मांस-कोशिकाः आकर्षयेत् तथा क्रोड-रज्जोः अधःभागात् पश्च-भागं प्रति सन्नमेत् | सामान्यतया श्वसत् विश्रम्यताम् | अस्यां स्थितौ १०-तः ३०-सेकेण्ड-मितं कालं यावत् सन्तिष्ठेत् | अर्ध-चक्रासनं क्रोड-रज्जुं [मेरुदण्डं] नमनीयं विदधाति, तथा मेरु-तन्त्रिकाः दृढतराः विदधाति | अन्तः श्वसेत् , शनैः शनैः प्रत्यागच्छेत् तथा विश्रम्यताम् | उच्च-रक्त-चाप-रोगिणः सावधानं सन्नमेयुः |
त्रिकोणासनम्
 त्रिकोणः अर्थात् त्रिभुजः पादौ अन्योन्यं सौकर्यरीत्या दूरे स्थापयित्वा सन्तिष्ठेत् | हस्तौ शनैः शनैः प्रान्त-भागात् तावदवधि उत्त्थापयेत् यावदवधि क्षैतिजौ न भवतः | निःश्वसेत् , शनैः शनैः दक्षिण-भागं प्रति सन्नमेत् तथा दक्षिण-हस्तं दक्षिण-पादस्य पश्चादेव स्थापयेत् | वाम-हस्तं दक्षिण-हस्तस्य समवर्तिनं संस्थापयेत् | सामान्य-श्वासैः सह अस्यां स्थितौ १०-तः ३०-सेकेण्ड-मितं कालं सन्तिष्ठेत् | आसनमिदं समतल-पादं वारयति, पिण्डलीः, जङ्घाः, कटेः मांस-कोशिकाः च दृढतराः करोति तथा मेरुदण्डं नमनीयं करोति | अन्तः निःश्वसनेन सहैव शनैः शनैः प्रत्यागच्छेत् | वाम-भागार्थं पुनरावृत्तिं विदध्यात् | स्लिप-डिस्क्-साइटिका-इत्यनयोः उदरस्य च शल्य-चिकित्सानन्तरं नेदम् आसनम् अभ्यसनीयम् | स्वीय-शारीरिक-क्षमतायाः अतिक्रमणं नैव विधेयम् |
भद्रासनम्
 सम्प्रति उपवेशन-युतानां मुद्राणां कृते सन्नद्धाः भवन्तु | भद्रम् अर्थात् दृढम् पादौ अग्रतः विस्तार्य ऋजु-रीत्या [straight] उपविशेत् | हस्तौ नितम्बयोः पार्श्वे स्थापयेत् | इदं दण्डासनम् | साम्प्रतं स्वीय-पादयोः तल-भागं युगपत् स्थापयेत् | निःश्वसेत् तथा स्वीय-हस्तौ पादाङ्गुष्ठाभ्यां दृढतया संयोजयेत् | स्वीय-पादान्तं यथासम्भवं मूलाधारं निकषा समानयेत् | एषा अन्तिमा स्थितिः अस्ति | अस्यां स्थितौ किञ्चित्-कालं यावत् सन्तिष्ठेत् | भद्रासनं शरीरं दृढतरं करोति मस्तिष्कं च स्थिरयति | सम्प्रति स्व-पादौ आकर्षयेत् विश्रमावस्थायां च आगच्छेत् | सत्यां विकटायाम् आर्थराइटस्-साइटिका-समस्यायां अभ्यासोऽयं नैव विधेयः |
वज्रासनम्
 दण्डासनेन भाव्यम् | स्वीय-पादौ आवेष्टयेत् तथा पादमूलयोः उपविशेत् | जङ्घे समीपमेव कृत्वा पादयोः अङ्गुष्ठौ च अन्योन्यं संस्पृशेत् | हस्तौ जान्वोः स्थापयेत् | एतदस्ति- वज्रासनम् | सम्प्रति
अर्ध-उष्ट्रासनं
प्रारभामहे | अर्ध-उष्ट्रासनम् उष्ट्रः अर्थात् क्रमेलः अन्तः श्वसेत् , उत्तिष्ठेत् स्व-जान्वोः आधारेण सन्तिष्ठेत् | निःश्वसेत् , स्व-करतलौ नितम्बयोः तादृक्-रीत्या स्थापयेत् येन अङ्गुलयः अधोमुखं तिष्ठेयुः | कूर्परौ स्कन्धौ च समानान्तरमेव स्थापयेत् | शिरं पश्चभागे अवनमयेत् ग्रीवायाः मांस-कोशिकाः च आकर्षयेत् | अन्तः श्वसेत् , देहं यथाशक्यं सारल्येन पश्चभागे अवनमयेत् | निःश्वसेत् विश्रमेत च | एषा अन्तिमा मुद्रास्ति | साम्प्रतं अन्तः श्वसेत् प्रत्यागच्छेत् च | निःश्वसेत् | स्वहस्तौ अधः स्थापयेत् वज्रासनेन च उपविशेत् | उदरव्रणेषु सत्सु, मूर्च्छावस्थायां गर्भावस्थायां च आसनमिदं नैव करणीयम् |
  शशासनम्
 शशः अर्थात् शशकः [ खरगोश इति भाषायाम् ] जानुद्वयं विस्तारयेत् परञ्च अङ्गुष्ठ-द्वयं परस्परं संस्पर्शयेत् | हस्त-तलौ जान्वोः मध्ये स्थापयेत् | निःश्वसेत् तथा शनैः शनैः सुदीर्घतया प्रश्वसेत् | पुरः अवनमेत् चिबुकञ्च भूमौ स्थापयेत् | भुजौ समानान्तरं सन्धारयेत् | पुरतः अवलोकयेत् मुद्राञ्च सततं सन्धारयेत् | आसनमेतत् उद्वेगं क्रोधञ्च न्यूनीकर्तुं सहायकमस्ति | अन्तः श्वसेत् उत्तिष्ठेत् च | निःश्वसेत् व्रज्रासनेन च प्रत्यागच्छेत् | स्व-पादौ पुनः विश्रामासने स्थापयेत्| ओस्टियो-आर्थराइटिस्-रोगिणः सावधानमिदं कुर्वन्तु | 
वक्रासनम्
वक्रः अर्थात् तिर्यक् वा कुञ्चितम् दक्षिण-जङ्घाम् अवनमयेत् तथा दक्षिण-पादं वाम-जानुना संयोजयेत् | वाम-बाहुं दक्षिण-जानौ आवेष्टयेत् तथा हस्त-तलं दक्षिण-पादं निकषा स्थापयेत् | निःश्वसेत् शरीरं ग्रीवां च दक्षिण-भागं प्रति आवर्तयेत् | अस्यां मुद्रायां विश्रमेत | स्व-शिरं पश्चभागम् आवर्तयेत्, निःश्वसत् स्व-हस्तौ बहिः निष्कासयेत् , पादौ आकर्षयेत् | साम्प्रतं प्रत्यागच्छेत् अपि च,
विश्रमासने
विश्रमेत | आसनमिदं मेरुदण्डस्य नमनीयतां विवर्धयति | एतत् च मलावरोधम् अजीर्णताञ्च दूरीकरोति मधुमेह-प्रबन्धने सहायि भवति | अपर-पक्षार्थम् अस्य पुनरावृत्तिं कुर्यात् | स्व-शिरं पश्चात् आवर्तयेत् , निःश्वसन् स्व-हस्तौ बहिः निष्कासयेत् | पादौ आकर्षयेत् | सम्प्रति प्रत्यागच्छेत् तथा विश्रमासने विश्रम्यताम् | इदानीम् अधोमुखि-मुद्राणां कृते सन्नद्धाः भवेयुः |
भुजङ्गासनम्
 भुजङ्गः अर्थात् सर्पः वा व्यालः उदराधारेण शयनावस्थायां तिष्ठेत् | शीर्षं हस्तयोः स्थापयेत् तथा शरीरं सौख्येन सन्धारयेत् | इदानीं जङ्घे परस्परं संयोजयेत् तथा बाहू आकर्षयेत् | शीर्षं भूमौ स्थापयेत् | इदानीं स्व-हस्त-तले वक्षसः पार्श्वे धारयेत् तथा कूर्परौ उत्त्थापयेत् | अन्तः श्वसेत् तथा चिबुकस्य नाभेः च भागं यावत् उरुम् उत्त्थापयेत् | इदं भुजङ्गासनं वर्तते | आसनमिदं उद्वेगं प्रबन्धयितुं सर्वोत्तमं वर्तते | इदं पृष्ठ-पीडां श्वसन-समस्यां च निवारयितुं सहायकं भवति | निःश्वसेत् , स्व-शिरं भूमौ स्थापयित्वा बाहू चाकर्षयेत् | स्व-जङ्घे विस्तारयेत् , हस्त-तले उच्चैः कुर्यात् तथा स्व-शिरं करतलयोः धारयेत् विश्रमेत च |
शलभासनम्
 शलभः अर्थात् पतङ्गः वा चिश्चिरः उदराधारेण शयनावस्थायां तिष्ठेत् | जङ्घे परस्परं संयोजयेत् | चिबुकं भूमौ स्थापयेत्, हस्तौ शरीरोपान्तं एवंरीत्या धारयेत् येन हस्त-तले उपरि-स्थिते स्याताम् | अन्तः श्वसेत् , जान्वोः आवर्तनं विनैव, स्व-जङ्घे भूमितः उत्त्थापयेत् | बाहू जङ्घे च तादृशेन विधिना विस्तारयेत् येन शरीरं सारल्येन भूमितः उत्त्थापितं स्यात् | अस्यां स्थितौ विश्रमेत | आसनमिदं साइटिका-पीडां पृष्ठस्य अधोभाग-वर्तिनीं वेदनां च परिहरति | एतत् नितम्बयोः मांस-कोशिकाः समीचीनम् आकारयति | इदानीं निःश्वसेत् , जङ्घे च अधः भूमिं प्रति आनयेत् | स्व-बाहू निष्कासयेत् तथा भूमौ विश्रमेत | हृदय-रोगिणः मुद्रामेनां नैव कुर्युः | 
 मकरासनम्
मकरः अर्थात् ग्राहः उदराधारेण शयनावस्थायां एवंरीत्या तिष्ठेत् येन जङ्घे परस्परं वियोजितं स्यातां पादौ च बहिः भवेताम्| बाहू आवर्तयेत् दक्षिण-हस्तं वाम-हस्तोपरि स्थापयेत् | स्व-शिरं हस्तयोः धारयेत् विश्रमेत च | इदं मकरासनं वर्तते | आसनमिदं सर्वास्वपि अधोमुखि-मुद्रासु विश्रमार्थं क्रियते | एतत् पृष्ठस्य अधोवर्ति-भागं विश्रामयति | इदानीं काश्चन उदासीन-मुद्राः प्रति अग्रेसरामः | सेतुबन्धासनम् सेतुबन्धः अर्थात् सेतोः निर्माणम् | जङ्घे परस्परं संयोजयेत् , बाहू च शरीरोपान्तं स्थापयेत् | जङ्घा-द्वयं जान्वोः उपरि आवर्तयेत् पादमूले च नितम्बयोः पार्श्वे आनयेत् | पादमूल-द्वयं दृढतया सन्धारयेत् | अन्तः श्वसेत्,शनैः शनैः च नितम्बौ देहञ्च सेतोः निर्माणार्थं यथाशक्यम् उत्त्थापयेत् | सौख्येन स्थीयेत | एषा एव अन्तिमा मुद्रा अस्ति | आसनमिदं अवसादं व्यग्रताञ्च परिहरति | एतत् पृष्ठस्य अधोवर्ति-भागस्य मांस-कोशिकाः दृढतराः करोति | सम्प्रति निःश्वसेत् , शनैः शनैः मूल-स्थितौ आगच्छेत् विश्रमेत च | पृष्ठाधारेण शयनावस्थायां तिष्ठेत् | कृपया अवधीयताम् ... गर्भावस्थायाः अनन्तरं मासत्रयात्मकावधि-युताः महिलाः आसनमेतत् नैव कुर्युः |  
पवन-मुक्तासनम्
 जानु-द्वयम् आवर्तयेत् जङ्घे च वक्षसः पार्श्वे आनयेत् | अङ्गुल्यः परस्परं दृढतया पिहिताः स्युः तथा जान्वोः नीचैः जङ्घात्राणे सम्यक्तया अभिधारणीये | शिरं स्कन्धौ च उत्त्थापयेत् तथा चिबुकेन जानू स्प्रष्टुं प्रयतेत | इदं पवन-मुक्तासनम् | इदं मलावरोधं दूरीकरोति, उदरवायुं नियमयति तथा पश्चभागस्य मांस-कोशिकाः मेरु-तन्त्रिकाः च सम्यक्-करोति | स्व-शिरं पश्चभागे आनयेत् , निःश्वसेत् च | स्व-जङ्घे आकर्षयेत् विश्रमेत च | उदर-व्रणेषु सत्सु हार्निया-साइटिका-गर्भावस्थासु च सतीषु आसनमिदं नैव अभ्यसेत् |
  शवासनम्
शवः अर्थात् मृत-शरीरम् | आसनमिदं पूर्ण-विश्रामार्थं अभ्यस्यते | स्व-बाहू जङ्घे च विस्तार्य सुखेन पृष्ठाधारेण शयनावस्थायां स्थीयेत | हस्त-तले उपरि स्याताम् | नयने पिधीयताम् | पूर्णमपि शरीरं जागृत-भावेन विश्रामयेत् | प्राकृतिक-श्वसनेन परिचितः स्यात् , श्वसनं लयबद्धं मन्दं च कुर्यात् | उल्लासस्य निश्चिन्ततायाः च अनुभूतिं यावत् अस्यामेव अवस्थायां स्थीयेत | आसनमिदं सर्व-विधम् उद्वेगं परिहरति तथा शरीरं मस्तिष्कं च विश्रामयति | इदं उद्वेगं तत्-परिणामान् च प्रबन्धयितुम् अतितरां सहायकम् अस्ति |
  कपालभाती-
क्रिया एषा क्रिया मस्तिष्कस्य अग्रभागस्य श्वसन-केन्द्राणि उत्तेजयति | ध्यानस्य कस्यामपि मुद्रायां उपविशेत् | नयने पिधातव्ये तथा पूर्णमपि शरीरं विश्रामयेत् | गभीरम् अन्तः श्वसेत् , उरुम् आध्मापयेत् | उदरस्य मांस-कोशिकानां बलवत्-संकुञ्चनेन श्वासं बहिः निष्कासयेत् | शान्त-रूपेण अन्तः श्वसेत् तथा सक्रियं सततं [बहिः] निःश्वसेत् | पुनः एकवारं गभीरं श्वसेत् , शनैः शनैः बहिः निःश्वसेत् तथा विश्रमेत | एतत् कपालभाती-क्रियायाः एकं चक्रं वर्तते | प्रत्येकमपि चक्रान्ते गहनतया श्वसेत् | इदानीं अपरमपि चक्र-द्वयं कुर्यात् | कपालभाती-क्रिया पुरतः स्थिताः वायुनालिकाः स्वच्छीकरोति | अनया कफ-सम्बद्धानां समस्यानां समुपचाराय साहाय्यं लभ्यते | एषा क्रिया शैत्य-रायनाइटिस-साइनोसाइटिस-अस्थामा-श्वसन-सम्बद्धानां रोगाणाम् उपचारार्थं सहायिनी भवति | कृपया एतद् ध्यातव्यमस्ति यत् सत्सु हृदय-सम्बद्ध-उत्पीडनेषु सत्सु च उच्च-रक्तचाप-भ्रामरित्व-माइग्रेन-स्ट्रोक-हार्निया-गैस्ट्रिक्-अल्सरादिषु नैषा अभ्यसनीया |  
प्राणायामः
 नाडीशोधनम् वा अनुलोम-विलोम-प्राणायामः , क्रमशः वाम-नासिकातः वा दक्षिण-नासिकातः श्वसनम्... ध्यान-मुद्रायाम् उपविशेत् | मेरुदण्डः उन्नतः स्यात् , शिरं उच्छ्रितं तथा नयने पिहिते स्याताम् | गहन-श्वसन-पुरस्सरं शरीरं विश्राम-स्थितौ आपादयेत् | वाम-हस्त-तलं वाम-जानौ ज्ञान-मुद्रया स्थापयेत् | दक्षिण-हस्तः नासाग्र-मुद्रायां भवेत् | दक्षिण-अङ्गुष्ठः दक्षिण-नासिका-छिद्रोपरि स्थापयेत् | वाम-नासिका-छिद्रात् अन्तः श्वसेत्, ततःपरं एतत् पिदध्यात्, दक्षिण-नासिका-छिद्रात् निःश्वसेत् | क्रमेण दक्षिण-नासिका-छिद्रात् अन्तः श्वसेत् | दक्षिण-नासिका-छिद्रम् पिदध्यात् तथा वाम-नासिका-छिद्रात् बहिः निःश्वसेत् | इदं नाडीशोधनम् उत वा अनुलोम-विलोम-प्राणायामस्य एकं चक्रं वर्तते | अन्य-पञ्च-चक्राणि पूर्णतां नयेत् | ये अनुलोम-विलोम-प्राणायाम-प्रारम्भकेषु नूतनाः सन्ति ते प्रश्वसन-निःश्वसन-कालं तुल्यमेव धारयन्तु , शनैः शनैः एतेषां कालानुपातं वर्धयित्वा एकस्मात् द्विगुणितो विधेयः | श्वसनं मन्दं स्थिरं नियन्त्रितं च स्यात् | प्राणायामोऽयं उर्जायाः सर्वान् अपि प्रमुख-मार्गान् शुद्धीकर्तुं संलक्षयति, अयञ्च पूर्णमपि शरीरं पोषयति | अयं चित्तं शमयति, एकाग्रताञ्च वर्धयितुं सहायी भवति | अयं प्राण-शक्तिं वर्धयति , आततिं व्यग्रता-स्तरञ्च न्यूनीकरोति | अयं कफ-सम्बद्धान् दोषान् अपि निवारयति |
 भ्रामरी-प्राणायामः
 भ्रमरः अर्थात् भृङ्गः [ अस्मिन् प्राणायामे निःश्वसन-काले यः ध्वनिः भवति, सः भृङ्गस्य भुन्-भुन्-ध्वनि-सदृशो भवति |] नासा-छिद्र-द्वयेन गहनम् अन्तः श्वसेत् | नियन्त्रित-रीत्या गहनं स्थिरञ्च भ्रमरवत् भुन्-भुन्-सदृश-ध्वनिना बहिः निःश्वसेत्| एतच्च, भ्रामरी-प्राणायामस्य एकं चक्रं वर्तते | पुनः आवृत्ति-द्वयं विदधातु | अयं अनिद्रायाः उत्तमौषधिः वर्तते| उद्वेग-सम्बद्धान् विकारान् दूरीकर्तुम् अयं प्रभाव्युपायत्वेन वर्तते | इदानीं भ्रामरीं शन्मुखी-मुद्रया करोतु | स्व-कर्णौ अङ्गुष्ठाभ्यां पिधातव्यौ| इदानीं तर्जनीं स्व-नयनयोः, मध्यमां नासापुटयोः , तथा अनामिकां कनिष्ठिकां च अङ्गुलीं स्व-ओष्ठयोः उपरि स्थापयेत्| स्व-नासा-पुट-द्वयस्य उद्घाटन-पुरस्सरं द्वाभ्यामपि छिद्राभ्यामन्तः निःश्वसेत् | नियन्त्रित-गत्या शनैः शनैः भ्रमरस्य भुन्-भुन्-ध्वनिं कुर्वन् निःश्वसेत् | अयम् एकाग्रतायाः ध्यानस्य च आरम्भार्थं सज्जतायाः प्राणायामः अस्ति|
ध्यानम्
इदानीं ध्यानार्थं सज्जाः भवन्तु | ध्यानं हि अनारतं चिन्तनस्य प्रक्रिया अस्ति | ध्यानस्य कस्याञ्चिदपि मुद्रायां उपविशन्तु | स्वीय-मेरु-दण्डं सुखप्रदायां स्थितौ साक्षात् सन्धारयेत् | ज्ञान-मुद्रां सन्धारयेत् | स्व-हस्तमूले जङ्घयोः उपरिकृत्वा स्थापयेत् | बाहू स्कन्धौ च शिथिलितौ सुखपूर्ण-स्थितौ च स्याताम् | स्व-नयने पिधाय मुखञ्च किञ्चित् उपरि उत्थाप्य उपविशेत् | भवता एकाग्रेण नैव भाव्यम् , केवलं स्व-भ्रुवोः मध्ये किञ्चित् अवधानं करोतु, तथा स्व-श्वसनं प्रति जागरूकेण भाव्यम् | ध्यानं मस्तिष्कं शान्तम् आनन्दमयं च करोति | इदम् एकाग्रतां स्मृतिं विचार-स्पष्टताम् इच्छाशक्तिं च वर्धयति | इदं पूर्णं शरीरं मस्तिष्कं च समुचित-रीत्या विश्राम्य तच्च चैतन्यपूर्णं विदधाति | एतत् रचनात्मक-भावान् जागरयितुं सहायकं भवति | ध्यानं हि अस्मान् आत्मानुभूतिं प्रति अग्रेसारयति | सच्चिदानन्दं चानुभावयति | विशालम् अनन्तञ्च योग-विज्ञानं मन्दधिया मया अत्र सुधीनां विबुधानां च मनोविनोदाय योग-जिज्ञासूनाञ्च प्रबोधाय संक्षेपेण संकलितमस्ति | जगति साम्प्रतं जून-मासे एकविंशतौ दिनाङ्के “अन्ताराष्ट्रिय-योग-दिवसः” आयोज्यते इत्यस्ति शुभोदय-वार्ता | एतदर्थं सर्वेऽपि योग-पथानुयायिनः वन्द्याः वर्धनीयाश्च | श्रीमद्भगवद्गीतायां तु उक्तमेव – “योगो भवति दुःखहा|” ...
 डॉ.बलदेवानन्द-सागरः Cell- 09810562277 Email- baldevanand.sagar@gmail.com

Saturday, 4 June 2016

भगवती गङ्गा
दिव्यमुक्तेः पवित्रतायाः च अनन्तः प्रवाहः”
-लेखनम्
भगवतः विष्णोः ज्ञानरूपा भावरूपा क्रियारूपा च तिस्रः शक्तयः वर्तन्ते, ताश्च भगवती लक्ष्मी, भगवती सरस्वती, भगवती गङ्गा चेति विद्वद्भिः निगद्यते
 
एकदा भगवान् विष्णुः भगवतीं गङ्गाम् अकथयत् – “त्वं पृथिव्यां पवित्र-नदीत्वेन भवितासि या हि वसुधा-वासिनाम् अखिलानां प्राणिनां पापानि अपाकरिष्यति सूर्य-वन्शावतन्सः भगीरथः नाम राजा त्वां पृथ्वीं सन्नेष्यति अनन्तरं त्वं भगवतः शिवस्य पत्नीरूपेण कैलास-पर्वतं प्रतिष्ठिता भवितासि
सूर्यवन्शे सगरः नाम नृपतिः अभवत्, स च अश्वमेध-यागस्य अनुष्ठानम् अकरोत् यज्ञ-सम्पूर्ति-हेतोः सगरस्य षष्टि-सहस्रं पुत्राः यागस्य अश्वेन सह पूर्णस्य विश्वस्य पर्यटनं कृतवन्तः परञ्च यथैव ते सागर-तटस्य समीपम् आगताः, यज्ञ-अश्वः सहसा विलुप्तः जातः

कुत्र गतोऽयम् अश्वः ? नृपतेः सगरस्य पुत्राः विलुप्तम् अश्वं सर्वत्र अन्विष्टवन्तः अश्वस्य अन्वेषणार्थं यदा पृथिव्यां न किमपि स्थानम् अवशिष्टम्, तदा ते अन्ततः पाताल-लोकं प्रयाताः तत्र ते अश्वं दृष्टवन्तः अयम् अश्वः गूढ-ध्यानस्थं महर्षिं कपिलं निकषा बद्धः आसीत् वस्तुतस्तु, देवेन्द्रः अमुम् अश्वं चोरितवान् सगर-पुत्राः तथ्यमिदम् अजानन्तः महर्षिं कपिलम् आक्रान्तुं सन्नद्धाः जाताः क्रोधेन आविष्टः महर्षिः स्वीय-नेत्रे उन्मील्य दृष्टि-मात्रेण तान् भस्मीसात् चकार
नृपतिः सगरः विलुप्तान् राजकुमारान् अन्वेष्टुं स्वीयं पौत्रम् ‘अन्शुमन्तं’ प्रेषितवान् अन्शुमान् यदा महर्षिं दृष्टवान् , सादरम् असौ तं नमस्कृतवान् अन्शुमतः विनम्रताम् अवलोक्य प्रसन्नः तपोमूर्तिः कपिलः अश्वं परावर्तितवान् , अवादीत् च, यत् “ सगर-पुत्राणां मुक्तये त्वया भगवती गङ्गा धरातलम् आनेतव्यापरञ्च अन्शुमान् तस्य पुत्रः दिलीपः वा एतत् कार्यं कर्तुं नैव अपारयताम् | तत्रान्तरे, दिलीपस्य आत्मजः भगीरथः राजा अभवत्
भगीरथः भगवतीं गङ्गां धरातलम् अवतारयितुं समैहत सः स्वीय-राज्य-कार्य-भारं निज-मन्त्रिभ्यः दत्वा तपश्चर्याम् आचरितुं हिमालयं प्रति अगच्छत् भगीरथस्य अनेक-वर्षीय-कठोर-तपश्चर्यायाः अनन्तरम् , भगवती गङ्गा तस्य समक्षं प्रत्यक्षीभूता भगीरथस्य श्रद्धया समर्पणेन च तुष्टा भगवती गङ्गा अवोचत् – “ भो भगीरथ ! अहं धरातलम् आगन्तुं सन्नद्धा अस्मि परन्तु भगवान् शिवः एव मम अवतरण-वेगं धारयितुं शक्ष्यति
कृतनिश्चयः भगीरथः भगवन्तं शिवं प्रसादयितुं पुनः तपः आचरितवान् अनेकेषां वर्षाणाम् अन्तरालानन्तरं भगवान् शिवः प्रत्यक्षीभूतः भगीरथस्य कामनां प्रपूरयन् भगवान् शिवः अवादीत् – “स्वर्गतः अवतरन्त्याः गङ्गायाः प्रवाह-वेगं धारयितुं शक्ष्यामि
एवं प्रकारेण, भगवान् शिवः निज-जटा-कलापे स्थातुं भगवतीं गङ्गां सत्कृतवान् तदनु, भगवती गङ्गा कौतुकेन विचारितवती- “मन्ये, भगवान् शिवः सुदीर्घ-कालं यावत् मम प्रवाह-वेगं धारयितुं नैव शक्ष्यति कथं नाहं भगवन्तं शिवम् आत्मना साकमेव पाताल-लोकं नयेयम् ?” परन्तु सर्वज्ञः भगवान् शिवः भगवतीं गङ्गां स्वीय-जटा-कलापे आबद्धवान् अनेक-वर्षाणि यावत् भगवती गङ्गा ततः निष्क्रान्तुं निरर्थकं प्रायतत भगीरथः पुनः भगवन्तं शिवं प्रसादयितुं तपस्याम् अकरोत् भगवान् शिवः स्वीयं जटा-कलापं उन्मोचितवान्, ततः गङ्गा-प्रवाहं पृथ्वीम् अस्पृशत्
पृथिव्यां अवतरितस्य गङ्गा-जलस्य सप्त-धाराः अभूवन् तासु धारा-त्रयं प्राचीं प्रति, अपरं धारा-त्रयं प्रतीचीं प्रति प्रावहत् सप्तमः प्रवाहः भगीरथम् अन्वगच्छत् , अपि च, अन्तिमत्वेन महात्मनः जह्नोः आश्रमं प्राप्तवान् अहङ्कार-पूर्णा भगवती गङ्गा सोत्साहं स्वीय-शक्ति-प्रदर्शनार्थं आश्रमं जलाप्लावितम् अकरोत् अनेन विक्षोभेण क्रुद्धः महात्मा जह्नुः गङ्गायाः अपान्सि पीतवान् , गङ्गां च शोषितवान् भगीरथः महर्षेः पादारविन्दयोः निपत्य याचितवान् यत् – “कृपया गङ्गा-देवीं क्षम्यताम्, हे महात्मन् ! भवान् यदि एनां विमोक्ष्यसि चेत्, मम पूर्वजाः मुक्ताः भवितारः
महात्मा जह्नुः भगीरथे करुणान्वितः सन् गङ्गा-प्रवाहं निज-कर्ण-कुहरात् बहिः निष्कासितवान् ततः प्रभृति देवी गङ्गा जाह्नवी- इति नाम्ना अपि प्रख्याता जाता जाह्नवी अर्थात् जह्नु-मुनेः जाता सरित् वा कन्या
ततः परम्, भगीरथः गङ्गां पाताल-लोकम् अनयत् | यथैव देवी गङ्गा सगर-पुत्राणां भस्मावशेष-स्थलीम् आप्लावितवती, ते सर्वे अपि मुक्ताः सञ्जाताः एवं रीत्या, भगीरथः यत् कार्य-लक्ष्यं निश्चितवान् , तत् पूर्णताम् अनयत् ततः परम्, भगीरथः देवीं गङ्गां सागरं प्रति नीतवान्

अनेक-वर्षाणि व्यतीतानि एकदा नृपतिः शन्तनुः गङ्गा-नद्याः तीरे सुन्दरीं रमणीमेकाम् अपश्यत् वस्तुतः एषा मानव-रूपधारिणी भगवती गङ्गा आसीत्
भो परम-सौन्दर्य-शालिनि महाभागे, ममेदं सौभाग्यम् अभविष्यत्, यदि भवती मम अर्धाङ्गिनी अभविष्यत्”, - शन्तनुः स्वीयां समीहां प्राकटयत् भगवती गङ्गा प्रसन्ना सती उदतरत् –“ससमयं भवता सह विवाहं करिष्यामि कदाचिदपि भवान् मम कार्य-विषयिणीं पृच्छां नैव करिष्यति - इति
राजा शन्तनुः समयमेनं स्वीकृतवान् , अपि च, अनयोः विवाहः महता समारम्भेण वैभवेन च सम्पन्नः किञ्चित्-कालानन्तरम्, ताभ्याम् एकः पुत्रः अजायत भगवती गङ्गा च किम् अकरोत्...? सा तं पुत्रं नद्याम् अक्षिपत् राजा शन्तनुः स्तब्धः एवातिष्ठत् यतो हि तेन स्वीय-पत्न्या सह कृतः समयः परिपालनीयः आसीत् पत्न्याः आश्चर्यकारिणः कार्यस्य विषये स न किमपि प्रष्टुम् अपारयत्
एतावत्-पर्यन्तमेव पर्याप्तं नासीत् सा अपरान् अपि नव-जातान् षट् पुत्रान् नद्याम् अक्षिपत् राजा शन्तनुः स्वीय-दुःखं नियन्त्रितवान् परं निज-पत्नीं न किमपि प्रष्टुम् अपारयत् परञ्च, भगवती गङ्गा यथैव स्वीयम् अष्टमं पुत्रं नद्याम् प्रक्षेप्तुम् उद्यता, राजा शन्तनुः ताम् अवरोधितवान्, प्रार्थितवान् च - “कृपया आत्मजम् एनं जीवितुम् आज्ञापयतस्मिन् क्षणे एव भगवती गङ्गा स्वीय-पुत्रेण साकं तिरोहिता बभूव
अनेक-वर्षाणि व्यतीतानि राजा शन्तनुः यदा मृगयार्थं गतः आसीत्, सः अनुपममेकं दृश्यम् अपश्यत् कश्चन परस्सहस्रं शरौघैः भित्तिं निर्मीय गङ्गा-प्रवाहम् अवरोधितवान् शन्तनुः किञ्चित् अग्रे गत्वा अपश्यत् यत् तत्र एकः बालकः स्थितोSस्ति अयमेव बालकः परस्सहस्रं शरौघैः भित्तिं निर्मीय गङ्गा-प्रवाहम् एवम् अवरोधितवान् शन्तनुः सन्निकटं गत्वा तं द्रष्टुम् ऐच्छत् परञ्च सः तिरोहितः तस्मिन्नेव क्षणे शन्तनुः अन्वभवत् यद् - “ कदाचित् एषः मम पुत्रः सम्भवेत् ?
शन्तनुः सौत्सुक्यं देवीं गङ्गां प्रार्थितवान् भगवती गङ्गा निज-पुत्रेण साकं स्वयमेव उपस्थिता अजायत न्यगादीच्च यत् “अयमेव अस्मदीयः अष्टमः पुत्रः देवव्रतः अस्तिभगवती गङ्गा एतदपि न्यगादीत् यत् “अष्टसु वसुषु अन्यतमः अयं द्यौः अस्ति यः अस्माकं पुत्र-रूपेण पुनर्जातोSस्ति कृपया एनं स्वीकरोतुभगवती गङ्गा शन्तनवे देवव्रतं दत्वा कैलासम् आरूढवती, महाविष्णोः वचनञ्च सत्यापितवती
[३२] एषा अस्ति कथा यत् भारतस्य पवित्रा नदी गङ्गा केन प्रकारेण धरातलम् अवतीर्णा गङ्गायाः पवित्रता-विषये महाभारत-ग्रन्थे लिखितमस्ति यत् “दुष्कर्म-निवृत्यर्थं गङ्गा-जलावगाहनं परमावश्यकम् गङ्गा-जलावगाहनं शत-यागानाम् अनुष्ठान-तुल्यं वर्तते भारतवासिनां कृते गङ्गा केवलं नदी एव नैवास्ति परमेषास्ति – “दिव्य-मुक्तेः पवित्रतायाः च अनन्त-प्रवाहः बलदेवानन्दसागरः....