Monday, 5 September 2022

 राराज्यते विज्ञो गुरुर्नमस्यः 

शिष्यः आचार्यं ब्रह्मा- विष्णु- महेश्वरः इति ज्ञानेन पूजयति। तं विधिपूर्वकं प्रणम्य, परिप्रश्नेन सेवया शुश्रूषया च तस्य सन्तोषं शुभाशिषञ्च अर्जयति। गुरोः आशीर्वादात् शिष्यस्य सिद्धिलाभः भवति। तस्मात् गीतायामुक्तम् “तद्विधिप्रणिपातेन परिप्रश्नेन सेवया”। अन्यत्रापि उक्तम् - “गुरुशुश्रूषया विद्या”। सन्दर्भेऽस्मिन् गल्पद्वयमुपस्थापयामः।

रामदासः आसीत् एकः सिद्धपुरुषः तथा लोकपूज्यसद्गुरुः। तस्य अनेके शिष्याः आसन्। परन्तु शुद्धतया, गुरुभक्त्या, चरित्रवत्तया, ज्ञानपिपासया, दृढतया, वीरत्वेन च शिवाजीमहाराजः इव तस्य एकोऽपि शिष्यः नासीत्। अतः सः आसीत् गुरोरत्यन्तप्रियपात्रम्।

अन्ये शिष्याः चिन्तयन्ति स्म। शिवाजी राजपुत्रः, धनिकश्च अतः गुरुः तस्मै अधिकं स्निह्यति। ईर्षापरायणानां शिष्यानाम् आलोचनमेतत् गुरुः रामदासः श्रुतवान्। गुरुः ज्ञातवान् कतिपयशिष्याणां तस्य निरपेक्षतायाः उपरि सन्देहः घनीभूतः अस्ति। अतः सः एकमुपायं कृतवान्। सः शिष्यान् आहूय उक्तवान् - अहम् अस्वस्थः। उत्थातुमपि बलं न भवति। जीवामि उत मरिष्यामि वक्तुं न शक्यते। यूयमेतदर्थं व्यस्ताः न भवथ।

एतच्छृत्वा शिष्याः क्रन्दितवन्तः। गुरुदेवः किं कृते भवान् रोगमुक्तः भविष्यति। वयं यत्परं नास्ति उद्यमं कृत्वा तदौषधमानेष्यामः।  

गुरुदेव उक्तवान् - यूयं किं मम औषधमानेतुं सक्षमाः भविष्यथ। सद्यप्रसविनीसिंहतः यूयं किं एककुम्भदुग्धमानेतुं शक्नुथ ? तदा अहं स्वस्थः भविष्यामि। 

एतच्छृत्वा शिष्याः चिन्तायामपतन्। तेषां धारणा अभवत् एतत् असम्भवकार्यं कोऽपि कर्तुं न शक्नोति। तदा युद्धे दिग्विजयी भूत्वा शिवाजीमहाराजः गुरुं कृतज्ञतां ज्ञापयितुं प्रत्यावर्तनं करोति स्म। सः गुरोः अनारोग्यं ज्ञात्वा कालविलम्बं न कृत्वा सद्यप्रसविन्याः सिंह्याः सन्धाने अरण्यं प्रति प्रस्थितवान्। सौभाग्यात् एकस्यां गुहायां सः एकां सद्यप्रसविनीं सिंहीं प्राप्तवान्। शिवाजीमहाराजस्य कृते दुर्गा भारतमाता। सिंही तस्याः वाहनः। अतः सः तां ‘मा’ इति आहुतवान्। शिवाजीमहाराजस्य प्रेम्णः संक्रमणमभवत्। सिंह्याः उपरि तस्य प्रभावः अपतत्। शिवाजी मातृभावेन सिंहीं एककुम्भदुग्धं याचितवान्। सिंही अपि पुत्रवात्सल्यतया शिवाजीराजं लेढि। शिवाजीराजः सिंहीतः एककुम्भदुग्धमानीय गुरोः समीपमागतवान्। परन्तु रामदासः हसन् उक्तवान् - मम दुग्धे किं प्रयोजनम्। अहं ज्ञातुमिच्छामि स्म- त्वम् एतत् कार्यं कर्तुमर्हसि न वा। यः भारतवर्षस्य शासकः भविष्यति, तस्य सिंहीतः दुग्धमानेतुं दृढमनोबलं तथा दुःसाहसं स्यात्। अहं पश्यामि यत् सर्वेषु शिष्येषु त्वमेतदर्थं योग्यतमोऽस्ति। अहं सम्पूर्णतया स्वस्थोऽस्मि। मम विषये चिन्ता मास्तु, केवलं प्रमाणी करोतु यत् मम तव विषये धारणा अमूलका नास्ति इति। शिवाजी प्रमाणितवान् यत् गुरोः आशीर्वादतः सः असाधारणकार्यं कर्तुमर्हति। एषः महावीरः देशभक्तस्य चरमपराकाष्ठां निजजीवने प्रदर्शितवान्। 

लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

Wednesday, 31 August 2022

 गणेशः तथा कुवेरस्य गर्वः

लेखकः - डा.रुरुकुमारमहापात्रः

धनस्य देवता कुवेरः लोकत्रयेऽपि सर्वश्रेष्ठो धनी आसीत्। एकदा तस्य एतदर्थं महान् गर्वः अजायत। त्रिभुवनस्य देवान् भोजयितुम् आमन्त्रयामि इति सः स्थिरीकृतवान्। कुवेरः भगवन्तं शङ्करं सपरिवारम् आमन्त्रयितुं कैलाशं प्राप्तवान्। सः शङ्करमवदत् भवतः अनुग्रहात् मम समीपे सर्वमस्ति। अहं लोकत्रयेष्वपि श्रेष्ठधनी भवामि। सर्वे मम गुणगानं कुर्वन्ति। कृपया मम गृहे भोजनाय भवान् स्वीकृतिं प्रयच्छतु।

भगवान् शङ्करः अवदत्, वत्स! अहं कुत्राऽपि न गच्छामि। देवी पार्वती अपि मां विना कुत्राऽपि न गच्छति। किन्तु यदि भवतः एतादृशाग्रहः वर्तते तर्हि अहं गणेशं प्रेषयामि। 

कुवेरः गोष्ठीभोजनस्य आयोजने अलगत्। सः अतिथिवृन्दस्य इत्थम् आप्यायनं करिष्यामि येन ते सर्वे चिरदिनं स्मरिष्यन्ति इति चिन्तयति स्म। भोजनस्य दिवसः आगतः। त्रिभुवनस्य देवदेव्यः तत्र उपस्थिताः अभवन्। कुवेरः तान् सर्वान् प्रसन्नतापूर्वकं भोजनकक्षम् आनयत्। भोजनकक्षः सुसज्जितः आसीत्। सुगन्धेन कक्षः सुगन्धितः भवति स्म। सेवकैः स्वर्णस्थालिकायाम् अगणितप्रकराणि व्यञ्जनानि परिवेषितानि। विन्घराजः गणेशः भोजनकक्षायामाऽऽसनं स्वीकृतवान्। कुवेरस्य भण्डारे यानि खाद्यानि आसन् गणेशः सर्वान् खादितवान्। तथापि तस्य क्षुधा न अपगता । सः कुवेरं पुनः किमपि खादितुं याचितवान्। किन्तु कुवेरः निरुपायः आसीत्। गणेशः कुवेरं खादितुं धावितवान्। कुवेरः भयभीतः सन् शङ्करस्य समीपं गत्वा तस्य चरणयोः अपतत् । तस्मिन् क्षणे गणेशः तत्र उपस्थितः भूत्वा पितरं शङ्करम् उक्तवान् यत् एषः कुवेरः मां भोजनाय आमन्त्रितवान्, किन्तु मह्यं भोजयितुं सः असमर्थः। किन्तु मे क्षुधा न अपगता। शङ्करः गणेशमवदत् त्वं स्वमातृतः याचित्वा खादतु। एतेन कुवेरस्य धनगर्वं नष्टं जातम्।     

 


Saturday, 13 August 2022

 मातृस्तवनदशकम्

त्वमेव पाठ्यञ्च पठ्यं त्वमेव,

त्वमेव नाट्यञ्च नृत्यं त्वमेव।

त्वमेव गीतञ्च गानं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।१।।

त्वमेव लक्ष्यञ्च चिन्त्यं त्वमेव,

त्वमेव सेव्यञ्च ध्येयं त्वमेव।

त्वमेव लेख्यञ्च काव्यं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।२।।

त्वमेव रक्तञ्च जीवस्त्वमेव,

त्वमेव बन्धुश्च मित्रं त्वमेव

त्वमेव विद्या च वेद्यं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।३।।

त्वमेव चित्तञ्च बुद्धिस्त्वमेव,

त्वमेव सत्त्वञ्च शक्तिस्त्वमेव।

त्वमेव कीर्तिश्च कान्तिस्त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।४।।

त्वमेव धर्मश्च कर्म त्वमेव

त्वमेव धार्यञ्च कार्यं त्वमेव।

त्वमेव पुण्यञ्च दृष्टं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।५।।

त्वमेव भक्ष्यञ्च भोज्यं त्वमेव,

त्वमेव पेयञ्च लेह्यं त्वमेव।

त्वमेव हृद्यञ्च हार्दं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।६।।

त्वमेव वित्तञ्च सम्पत्त्वमेव,

त्वमेव दत्तञ्च दानं त्वमेव।

त्वमेव शस्त्रञ्च शास्त्रं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।७।।

त्वमेव कामश्च मोक्षश्च त्वमेव,

त्वमेव माया च मोहस्त्वमेव।

त्वमेव जुष्यञ्च हव्यं त्वमेव

त्वमेव सर्वं मम मातर्मातः॥८॥

त्वमेव वस्त्रञ्च भूषा त्वमेव,

त्वमेव गन्धश्च रागस्त्वमेव।

त्वमेव गात्रञ्च रूपं त्वमेव

त्वमेव सर्वं मम मातर्मातः ॥९॥

त्वमेव पूज्यञ्च पुष्पं त्वमेव,

त्वमेव दीपश्च वर्त्तिस्त्वमेव।

त्वमेव दीव्यञ्च भव्यं त्वमेव

त्वमेव सर्वं मम मातर्मातः ॥१०॥

दीपकवात्स्यः बीहारम्
    "वात्स्यकोशः"

Friday, 12 August 2022

  विश्वसंस्कृतदिनम् ॥

निबन्धः

Article No: 20230812

लेखकः-अय्यम्पुष़ हरिकुमारः 

विश्वस्मिन् विद्यमानासु भाषासु अतिप्राचीना भाषा भवति संस्कृम्। एषा सुरभारती, अमृतभारती, देववाणी, अमरवाणी, इत्यादिभिः नामभिः प्रकीर्तिता। वैदिकं लौकिकम् इति अस्याः भेदद्वयं वर्तते। वेदाः वैदिके रामायणादि पुराणानि लौकिके च अन्तर्भवन्ति ॥ सर्वासां भारतीयाभाषाणां जननी संस्कृतभाषा इति मन्यते। 

  भारतस्य २२ राजभाषासु संस्कृतभाषा अन्यतमा भवति। १९६९ तमे भारतसर्वकारेण श्रावणपूर्णिमादिनं संस्कृतदिनत्वेन परिगण्यते। तदनन्तरं प्रतिसंवत्सरं श्रावणपूर्णिमादिनेन सह सप्तदिनानि संस्कृतसप्ताहत्वेन आचरामः।

   जगति विद्यमानासु भाषासु अत्याधुनिकता सम्पूर्णता च संवत्सरात् पूर्वं संस्कृतभाषया समार्जितम्। वैयाकरणदृष्ट्या वैज्ञानिकी भाषा च भवति संस्कृतम्। अत एव सङ्गणकयन्त्रे उपयोक्तुम् अत्यनुयोज्या इति सङ्गणकविद्वांसः अभिप्रयन्ति।

   आधुनिके अन्तर्जालयुगे अपि संस्कृतभाषायाः स्वकीयं विपुलप्रयोगसाधकं स्थानम् अस्ति। तादृशेषु स्थानेषु यू-नालिकावाहिन्यः संस्कृत-अन्तर्जालपत्रिकाः च संस्कृतस्य आधुनिकत्वम् उद्घोषयन्ति। सम्प्रतिवार्ता-पत्रिकायाः अन्तर्जालवार्ताप्रसारणपुटद्वारा यू-नालिका द्वारापि लघुवयस्काः बालिकाबालकाः अपि संस्कृतवार्ताप्रवाचकत्वेन सुप्रसिद्धाः इति संस्कृतस्य गरिमा तथा लखिमा च युगपदेव प्रमाणीक्रियते।

   संस्कृतस्य पोषणेन अस्माकं संस्कृतीनां पोषणं भविष्यति। अस्माकं मनोबलस्य पोषणं भविष्यति। विश्वमानवत्वस्य पोषणं च भविष्यति। अतः अस्माकं सुरक्षित-शान्तिमय-जीवनाय संस्कृतम् अध्येमः। संस्कृतेन चिन्तयामः। संस्कृतेन वदामः। संस्कृतं प्रसारयामः॥

Wednesday, 3 August 2022

 ब्रह्मचर्यम्

-डा.गदाधर त्रिपाठी


ऋषयो वेदवेत्तारो ज्ञाननिधयस्तथा च वै।

जीवनं तु मनुष्याणां योजितं तैस्तदा च हि॥1॥


आसीदाश्रमेषु विभक्तं हि ब्रह्मचर्यं सुखदं परम्।

ऊर्जायाः संरक्षणमभवद् ज्ञानार्जनं तथा च वै॥2॥


वेदार्थं यच्च विप्राणामाचरणं ब्रह्मचर्यं हि वै।

स्त्रीस्मरणशून्यत्वं सर्वथा विन्दो:परिरक्षणं तथा॥3॥


स्त्रीणां पुरुषस्मरणराहित्यं

नैव पुरुषान्तरमैथुनसेवनम्।

स्मरणं कीर्तनं केलि पुरुषैरष्टविधि

सर्वदा कामनिवर्तनम्।।4।।


प्राथमिकी चावस्था या रक्ते नायात्यशक्तता।

सामर्थ्यमायाति वीर्ये ह्योजसस्तु मुखमण्डले॥5॥


मरणं विन्दुपातेन जीवनं विन्दुरक्षणम्।

महत्वं ब्रह्मचर्यस्य ऋषिभिः कीर्तितं सदा॥6॥


त्याज्यं भवति गरिष्ठं वै शृंगारञ्चैव च वर्जितम्। 

ज्ञानार्जने गुरुसेवायां श्रद्धयया चैव समर्पणम्॥7॥ 

विनयश्चैव तपश्चैव दर्शनञ्चैव व्रतं हि वै।

मुक्ते:प्रदर्शकमस्ति ब्रह्मचर्यं सनातनम्॥8॥


वानप्रस्थो ब्रह्मचर्यञ्च कलौ नास्ति च स्वीकृतम्।

गृहस्था भिक्षुकाश्चैव भविष्यन्ति खल्वस्मिन् युगे॥9॥


Monday, 2 May 2022

गुरुरेव गरीयः

मम दिग्दर्शकः, गुरुः, सर्वस्वम्... श्री. प्रोफ. आर्. वासुदेवन् पोट्टी। 


-डा. मनोजः बी. (भावना)


   प्री-डिग्रीं समाप्य मया निर्णीतं यत् इतःपरं मम अर्हतानुगुणं यत्किमपि कर्म करोमीति। यतो हि यावदध्येतव्यं तावदधीतम् इत्यासीत्  मूर्खस्य मम विचारः। किन्तु मम पितुः अभिलाषः उच्चस्तरीयः आसीत्। सः साधारणः कश्चन मानवः आसीत् यः प्रतिदिनं अष्टादश किलोमीट्टर् पर्यन्तं द्विचक्रिकां चालयित्वा कर्म कृत्वा अस्माकं कुटुम्बं संरक्षति स्म। स्वस्य कार्याय कदापि त्रिचक्रिकया यात्रां न कृतवान् सः एकस्मिन् दिने त्रिचक्रिकया गृहमागत्य मां अवदत् – शीघ्रं सज्जो भव। तव कृते श्रीशङ्कराचार्यसंस्कृत-सर्वकलाशालायां बी. ए. अध्ययनाय अवसरः प्राप्यते इति। किंकर्तव्यतामूढः अभवम् अहम्। यतो हि तावत् पर्यन्तं संस्कृतम् इति पदं केवलं

Thursday, 25 November 2021

॥ दूरभाषकासुर:॥



रचयिता - युवराजभट्टराई

(शैशवे महदस्ति दूरभाषकस्य संकटम्। तदेव आलक्ष्य अद्य प्रस्तूयते नूतना बालबोधनपरा एका सुललिता कविता )


मुहुर्मुहु: विलोक्यते किमर्थमत्र कार्टुनम्, 
कदा तु पुस्तकस्य दर्शनाय चापि यत्यताम्। 
त्वदीयहस्तगं न भाति दूरभाषयन्त्रकम्, 
सुते! परामृशामि ते न पश्य दूरभाषकम्।।१ 


न वेत्सि दूरभाषकं तु नेत्ररोगजं भृशम्, 
तथास्ति तस्य दर्शनं स्वचेतना विलोपकम्। 
करोषि केवलं वृथा स्वकालयापनं कथम्? 
पुन: पुनः प्रबोधितापि नेच्छसीह वेदितुम्।।२


अनारतं हि दूरभाषयन्त्रकेण खेलनम्,  
स्वभाव एव तेऽभवत् शृणोषि नैव मातरम्।
तत: कदापि मुक्तये प्रिये! सुते! प्रयत्यताम्, 
त्वया न मन्यते किमर्थमत्र मे प्रबोधितम्।।३ 

यथा यथा स्वभाव एष वर्धते तथा तथा, 
विमर्शितुं न शक्यतेऽत्र साध्वसाधुपथ्यता। 
न तिष्ठ दूरभाषकेण सर्वदापि योजिता,
हितं भवेत् सुते! यतो भणाम्यहं सदिच्छया।।४ 

यदात्र दूरभाषयन्त्रवागुरासु पत्यते, 
सुबुद्धिरत्र लुप्यते भृशं मनोऽपि भ्रश्यते। 
मति: न निश्चिनोति किं त्वयाधुना विधीयते, 
त्यजे: स्वदूरभाषकं प्रणोदयामि हे सुते! ।।५

चिकित्सकै: प्रमाण्यते मृषा न वच्मि साम्प्रतम्, 
बहुत्र बोधितापि मन्यते न तद्गभीरताम्।
समस्तलोकत: समागतं समग्रकल्मषम्, 
तदत्र दूरभाषकेण नीयते स्व-मानसम्।।६ 

हृदा सुधारये: सदा ददामि सन्मतिं शुभे! 
न चात्र दूरभाषकेण खेल सर्वदा शुभे!।
प्रयत्यते शुभाय ते न लक्ष्यते कथं सुते?, 
विवश्यतां गतासि केन दूरभाषके सुते।।७ 

निरुद्धदृष्टिरस्ति ते सदैव दूरभाषके, 
तदेव रोधने रतोऽस्मि न त्वया निशम्यते।
निपातितासि दूरभाषकासुरेण शैशवे, 
निरस्य तत्र रञ्जनं मन: करोतु पुस्तके।।८ 

समग्रविश्वदर्शकं कराङ्गुलीविहारकम्, 
नृणां मनोविकारकं विलासवस्तुपूरकम्। 
लयस्वरेण गायकं पवित्रचित्तदूषकम्, 
सुते! जहीहि तादृशं द्रुतं हि दूरभाषकम्।।९

तदेव लोकनेन वै गतासि चिन्तनीयताम्,
न रोचते सुतेऽत्र ते स्वदूरभाषरोधनम्।
अलं सुदूरभाषखेलनेन ते वदाम्यहम्,
कथं न बुध्यते त्वया मदाशय: प्रबुध्यताम्।।१०

Monday, 16 August 2021

 वर्षाकाले भोज्यवस्तूनि संरक्षितुम् एताः विद्याः परीक्ष्यन्ताम्- 

ज्योतिलक्ष्मी जे.
 वेदपूर्णपुरी -



          वर्षाकाले स्वास्थ्यसंरक्षणे श्रद्धा न  दीयते चेत् निलीयमानाः रोगप्रसारकाः अणवः अस्माकं शरीरं नाशयेत्। वर्षाकाले महानससंरक्षणे दत्तश्रद्धाःभवेयुः। तदर्थं कानिचन कार्याणि सूच्यन्ते।
           भोज्यवस्तूनि यावन्ति अवश्यकानि  तावन्ति पक्तव्यानि । नूतनभोज्यवस्तून्येव खादव्यानि। शाकादीनि लवणजले शुद्धीकृत्य उपयोक्तव्यानि। आपणाद् क्रेतानि तैलयुक्त- भोज्यवस्तूनि परिवर्जनीयानि। भोज्यवस्तूनि शुद्धवस्त्रेण आवरणं कृत्वा संरक्षितव्यानि। शीतीकरणयन्त्रम् मलिनविमुक्ततया संरक्षितव्यम् ।।

Sunday, 15 August 2021

 वास्तविकं स्वातन्त्र्यम् 


  लेखकः-  दीपककुमारचौधरी (दीपकवात्स्य:)

     अस्मदीयं राष्ट्रं भारतं सप्तचत्वारिंशदुत्तरनवदशतमाब्दस्य अगस्तमासस्य पञ्चदशके दिनाङ्के स्वातन्त्र्यमलभत।स्वतन्त्रताप्राप्त्यर्थं नैके राष्ट्रैसेवाव्रतिनो भारतीसपुत्रा नैजान् प्राणान् अत्यजन्। तेषां राष्ट्राय हुतात्मनां त्यागशौर्यबलिदानादिकं नितरां स्मृतिपटले सदास्मदीयहृच्चेतनासु "इदं राष्ट्राय इदं न मम"इति श्रुतिवचनं स्मारयेत्तथा राष्ट्राय समर्पणभावं जागरयेदित्यादिकं लक्ष्यीकृत्य भारतसर्वकारेण तद्दिनं राष्ट्रियपर्वत्वेनोद्घुष्टमथ च समग्रभारते "स्वतन्त्रतादिवस:" "स्वातन्त्र्योत्सव:" समायोज्यते।अनेन लक्ष्यीक्रियते महत्काठिन्येन यल्लब्धं स्वातन्त्र्यं तत्पुन: पारतन्त्र्ये परिवर्तितं न स्यात्।अत्र मनसि नैका: जिज्ञासा: समुद्भवन्ति।  तद्यथा-
१.किं नाम स्वातन्त्र्यम्?
२.किमर्थं स्वातन्त्र्यम्?
३.स्वातन्त्र्यस्य वास्तविकं स्वरूपं किम्?
४.कथं वा परिरक्षितं स्याद्भारतीयं स्वातन्त्र्यम्?
                   तत्र सर्वादौ विचारयामो वयं "किन्नाम स्वातन्त्र्यम्"।स्वातन्त्र्यमिति पदं स्वतन्त्रपदान्निष्पद्यते। यत्कृते आङ्गलभाषायाम् "Freedom"इति पदं प्रयुज्यते।इदञ्च स्वातन्त्र्यपदं "स्वम् (आत्मीयम्),तन्त्रं( प्रधानं सिद्धान्तो विस्तारो वा)इति द्वाभ्यां पदाभ्यां नैकविधव्युत्पत्तिद्वारा व्युत्पादयितुं शक्यते।स्वस्य तन्त्रमिति षष्ठीसमासव्युत्पत्त्या आत्मन: प्राधान्यमित्यर्थ:" तन्त्रं प्रधानं सिद्धान्त"इति  कोशवचनात्।स्वं तन्त्रं यत् तत् स्वतन्त्रम् इति  कर्मधारायसमासव्युत्पत्त्या आत्मीयशासनमात्मशासनं वेत्यर्थ:"तन्त्रं शासनम्"इति वचनात्। स्वं तन्त्रं यस्येति बहुव्रीहिसमासव्युत्पत्त्या स्वतन्त्रोऽर्थात् स्वाधीन: प्रमुखो जनविशेष इत्यर्थ:।इत्थं स्वस्य प्राधान्यं यस्मिन् शासने राष्ट्रे वा तत् शासनं राष्ट्रं वा स्वतन्त्रम्। यस्य प्राधान्यं स जन: सिद्धान्तो वा स्वतन्त्र:।स्वतन्त्रस्य भाव: स्वातन्त्र्यम् इति।
            साम्प्रतं "किमर्थं स्वातन्त्र्यम्" इति विचारयाम:-कस्यचिद्व्यक्ते: शारीरिक-मानसिक-आध्यात्मिक-शैक्षिक-धार्मिक-नैतिक-भौतिकादिविकासान् अभिवर्धयितुं तथा कस्यचिदपि राष्ट्रस्य सर्वविधौन्नत्यर्थसम्पादनार्थं राष्ट्रगौरवसंस्कृतिसभ्यतादीनां संरक्षणार्थञ्च स्वातन्त्र्यं नितरामावश्यकम्।यतोहि पारतन्त्र्ये (बन्धने पराधीनतायां वा) कस्यचिज्जीवाय राष्ट्राय च स्वोन्नतिविकासावसरो नोपलभ्यते। अतो जीवमात्रस्य राष्ट्रस्य च उन्नत्यै स्वातन्त्र्यमतीवावश्यकम्।
                    अधुना भारतीयपरिप्रेक्ष्ये  स्वातन्त्र्यस्य वास्तविकं स्वरूपं परिशीलयाम:। भारते स्वातन्त्र्यस्य वास्तविकं स्वरूपं विश्ववन्द्या भारतीया संस्कृतिर्वर्तते।तत्रैते मुख्यबिन्दवो मन्मतौ अन्तर्भवन्ति
१.सर्वेषामधिकार: स्वतन्त्रता।
२.सर्वधर्मसमादर:।
३.जीवनशैली आचारव्यवहार: लौकिकपरम्पराश्च।
४.भाषा-वेशभूषा-भोजनादिकम्।
५.सभ्यता शाशनव्यवस्था च।
६.आध्यात्मिकैतिहासिकभौतिकसमृद्धय:।
७.समृद्धसाहित्यम् ।
८.विश्वबन्धुत्व-लोकहितचिन्तन-जनकल्याणादिभावना।
       एते समेऽप्यंशा: स्वातन्त्रस्य वास्तविकं स्वरूपं बोधयन्ति। 
                   साम्प्रतं विचारयाम:" कथं वा परिरक्षितं स्यात्  स्वातन्त्र्यम्" इति।
१.वेदबोधिताचारलक्षणधर्मपुरस्सरं नैतिकव्यवहारेण स्वातन्त्र्यं परिरक्षितं स्यात्।२.कामक्रोधलोभमोहादिवर्जनपुरस्सरं मनसानिशं स्वहितपरहितचिन्तनेन।येन स्वप्नेऽपि कस्यचिज्जीवस्याहितं न स्यात्।यत: तस्य स्वातन्त्र्यं नश्येदिति चिन्तनेन।
३.निजस्य स्वातन्त्र्यरक्षणाय अन्येषां स्वातन्त्र्यं न हन्यात्। अर्थात् निजस्वातन्त्र्यरक्षणक्रमेअपरेषामपि स्वातन्त्र्यं परिरक्षणीयम्।येन एषा व्यवस्था परिरक्षिता स्यात्।
                  महद्दौर्भाग्यं वर्तते यदद्यत्वे वयं भारतीया: निजप्राणभूतत्त्वं विश्ववन्द्यां भारतीयां संस्कृतिं सन्त्यजन्त: पुन: पारतन्त्र्यपथे नित्यं वर्धमाना नित्यं पाश्चात्यसंस्कृतिम् अनुकुर्म:।तत्र चिन्त्या अंशा:-
१.सर्वप्राचीनभारतीयसभ्यतां विस्मृत्य  पाश्चात्यसभ्यताया: गुणगानं कुर्म:।
२. परधर्मं निन्दाम:।
३. स्वजीवनशैलीं विस्मरन्त: पाश्चात्यजीवनशैलीमाचाराम:।तद्यथा-
अर्धनग्नवस्त्रं धराम:, स्नानपूजादिकं विनैव भोजनं कुर्म:,मदिरादिपानं कुर्म:,परस्परं विद्विषामहे,
मातृपित्रादिकं सन्त्यजाम:, वारम्वारं निजपत्नीं सन्त्यज्य परपत्न्या सहामर्शनं कुर्म:,विवाहात्पूर्वमेव स्त्रीसंसर्गं कुर्म:, प्रेमदिवसादिकमायोजयामश्च।
४.निजभाषां विहाय पाश्चात्यभाषां भाषमाणा गौरवमनुभवामः।
५.आध्यात्मिकैतिहासिकभौतिकसमृद्धी: न गणयाम:।
६.निजशासनव्यस्थाया विखण्डनं कुर्म:।
७.निजसाहित्यसम्पदायां दोषं दर्शयाम:।
८.विश्वबन्धुत्वादिभावं न स्मराम:।
९.स्वार्थसिद्धौ पराहितं कुर्म:। 
              इत्थं वक्तुं शक्यते यद् वयं स्वतन्त्रा: सन्तोऽपि वस्तुतो मानसिकरूपेण परतन्त्रा अद्यापि। अनिशं वयं पारतन्त्र्यपथे वर्धमाना: स्म:। यदा भारतीयनागरिका मानसिकरूपेण स्वतन्त्रा: भविष्यन्ति तदैव वस्तुतो नागरिका:  स्वतन्त्रा:, अस्मदीया शासनव्यवस्था स्वतन्त्रा अस्मदीयं राष्ट्रञ्च स्वतन्त्रम् इति शम्।
    __________________________

Wednesday, 4 August 2021

अज्ञानतः प्रिये पुरतोऽनुगते
(Sanskrit Version of Hindi Film Song—बेखुदी मे सनम् उठ गये जो कदम)
भाषिकानुवादः – डा.रुरुकुमारमहापात्रः
अध्यापकः,पुराणेतिहासविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः।

अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे
आयातौ आयातौ
आयातौ समीपे (2)
कामतापो हृदये किमेवम्
हृदयात् भूयः शरीरे/शरीरेषु लग्नः/सुलग्नः
ज्वाला नैषा हृदः सम्भाषा
प्रयत्नात् चापि लुप्ता नैषा
प्रेमाश्रवं/प्रेमाश्रवात् विना/ऋते जनिः भोः किं स्यात्
सङ्गमिते मयि दूरतापि गता
आयातौ आयातौ
   आयातौ समीपे (2)
अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे
मृगयेहं वै दृश्यं शयितम्
वीक्ष्य त्वां वै बोधितसर्वम्/विदितं सर्वम्
मनसा जाते हृदयेऽङ्गिते/हृदयाङ्किते/हृदये अङ्किते
गच्छान्यहं त्वया साकम्
सद्यः प्रीतो मे हृदयो ब्रूते
तवाऽऽसन्ने गते विरताप्रेमते
आयातौ आयातौ
आयातौ समीपे (2)
अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे
हृदः वै भाषा रसनोपेता
ज्ञायते नो क्वाऽप्युप्येत/कुत्रोप्येत
प्रेम्णः यात्री आगत एतावत्/अटित्वाऽद्य यावत्
यास्येत तावत् हृदयं हि यावत्/हृदयसीमान्तम्
साकं न्वहं त्वया यास्ये नाकम्
हृदि नीता/नीत्वा स्फृहा/स्फृहां बहुवात्याधिया
आयातौ आयातौ
आयातौ समीपे (2)
अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे