Thursday, 31 August 2023

 

संस्कृतदिनम् - श्रावणपूर्णिमा

महामहोपाध्यायः डा. गो. गङ्गाधरनायर:






      सर्वे संस्कृतज्ञाः जानन्ति श्रावणपूर्णिमा संस्कृतदिनं भवति इति। 1969 तमे वर्षे संस्कृतदिनाचरणस्य आरम्भः कृतः यदा श्रीमती इन्दिरा गान्धी भारतस्य प्रधानमन्त्री आसीत् तदानींतनकाले भारतस्य राजनैतिक नेता तथा शिक्षाविचक्षणाः प्रायेण संस्कृतं प्रति आदरवन्तः, इतरभाषापेक्षया संस्कृतस्य प्राचीनतमत्वं भारतीयसंस्कृतेः संस्कृताश्रितत्वं च जानन्तश्च आसन्। भाषाविज्ञानिनः जानन्ति स्म यद् भारतस्य अधिकाः भाषाः सांस्कृताद् जाताः सर्वाः भारतीयभाषाः संस्कृतेन पोषिताः, तथा बहवः विदेशभाषाः अपि तेन सम्बद्धाश्च इति। परन्तु आधुनिककाले आङ्गलभाषा प्राशासनिक-भाषात्वेन शिक्षामाध्यमत्वेन च स्वीकृता इति कारणेन संस्कृतस्य पठने पाठने च भारतीयानाम् उत्साहः क्षीणः अभवत्। प्रादेशिक भाषाणां विकासः सम्पादनीयः इति, तदर्थं नूतनानां वस्तूनां नामकरणार्थम् आधुनिकानाम् आशयानां प्रतिपादनाय शब्दनिर्माणार्थं च संस्कृतस्य आश्रयणम् अत्यन्तम् अपेक्षितमिति च सर्वे भारतीयाः चिन्तकाः जानन्ति स्म। स्वातन्त्र्यप्राप्तेः अनन्तरं जनाधिपत्यम् अङ्गीकृत्य गणतन्त्रराष्ट्रत्वेन भारतस्य परिणामे क्रियमाणे सति भारतस्य राजभाषा (प्राशासनिकभाषा) का भवतु इति विचारे तदर्थसमित्यां मतग्रहणेन निर्णयावसरे हिन्दी- संस्कृताभ्यां समसङ्ख्यानि मतानि प्राप्तानि। तत्समितेः अध्यक्षस्य विशेषमतेन हिन्दी राजभाषास्थाने चिता। किन्तु संस्कृतशब्दप्रधाना हिन्दी (Sanskritized Hindi) एव अखिलभारतस्तरे राजभाषा भवेत् इति तत्र निर्णीतम् आसीत्। एतत् सर्वं जानतां राष्ट्रहितचिन्तकानां प्रेरणा एव संस्कृतदिनाचरणस्य प्रकल्पनं भारतीयसर्वकारेण मानितं तदर्था व्यवस्था कृता च। बाजपेयी महोदयः यदा प्रधानमन्त्री आसीत् तदा श्रावणपूर्णिमायाः पूर्वाणि त्रीणि दिनानि पराणि त्रीणि दिनानि च योजयित्वा प्रतिवर्षं संस्कृतसप्ताहः विपुलकार्यक्रमैः सह आचरणीयः इति च निर्देशः प्रचालितः॥


श्रावणपूर्णिमा कस्मात् ?

    अस्माकं सनातनसंस्कृतौ शिशूनाम् अक्षरशिक्षणस्य आरम्भाय विद्यारम्भः इति संस्कारः विहितः आसीत्| केरळराज्ये विजयदशमीदिने इदानीम् अपि जाति सम्प्रदायधर्मभेदं विना विद्यारम्भः आचर्यते। पुरातनकाले अधुनातनविद्यालयप्रवेशः इव बालानां शिक्षणस्य सदारम्भाय गुरुकुलं)

 प्रति प्रेषणम् आसीत्। गुरुः बालकं शिष्यत्वेन स्वीकरोति स्म तस्य संस्कारस्य उपनयनम् इति नाम उपनीय शिष्यं गुरुः वेदानां दर्शनानां च प्रथमवाक्यं पाठयति स्म। उपनयनस्य दिनम् आसीत् श्रावणपूर्णिमा। इदानीम् अपि द्विजाः प्रतिवत्सरम् उपनयनस्य अनुकरणरूपेण तस्मिन् दिने (श्रवणनक्षत्रे) वा अनन्तरदिने (धनिष्ठानक्षत्रे) वा उपवीतस्य परिवर्तनं कुर्वन्ति वेदादीनाम् आरम्भवाक्यानि उच्चारयन्ति च। अतः एव मङ्गला तिथिरिति श्रावणपूर्णिमा संस्कृतदिनत्वेन घोषिता । अस्मिन् संवत्सरे आगस्तमासस्य एकत्रिंशः दिनाङ्कः एव।

अस्माकं कार्यम्

   संस्कृतस्य प्रचारणाय विकासाय च जनानाम् उत्साहवर्धनम् एव संस्कृतदिनाचरणेन उद्दिष्टम्। एकदिनस्य वा एकस्य सप्ताहस्य वा उत्सवेन अस्माकं कार्यं सम्यक् सपन्नम् इति वयं निर्वृताः न भवेम। एकवर्षस्य संस्कृतकार्यार्थं वयम् अनेन आवरेण उत्तेजिताः इत्येव संस्कृतसेव अस्माभिः चिन्तनीयम्। संस्कृतसेवकाः इत्युक्ते संस्कृतस्य अध्यापकाः, प्रौढच्छात्राः, संस्कृतसङ्घटनानां सदस्याः, विविधानां संस्कृतपत्रिकाणां चालकाः, संस्कृतलेखकाः, संस्कृतप्रेमिणश्च मया अभिप्रेताः। एकस्मिन् काले भारते तथा समीपराष्ट्रेषु च राज्यानां मिथः व्यवहाराय संस्कृतमेव माध्यमम् आसीत्। सा अवस्था पुनरपि आनेतुं न शक्यते चेदपि भारते सर्वेषु राज्येषु संस्कृतभाषिणां संस्कृतच्छात्राणां संस्कृतसंस्थानां च सङ्ख्यावर्धने अस्माकं सम्भूय प्रयत्नः अपेक्षितः। तेन साकम् अस्माकं परम्परागते ज्ञाने विज्ञानेषु च उपयोगीनि यानि तत्त्वानि सन्ति तानि प्रकाशं नीत्वा सर्वलोकोपकाराय उपयोक्तव्यानि च। विदेशेषु अपि बहवः जनाः सन्ति येषाम् तादृशविषयेषु रुचिः अस्ति। बहुषु विदेशराष्ट्रेषु इदानीम् अपि संस्कृतप्रचारकार्यम् अस्ति। तदपि बहुगुणं करणीयम् ।


     संस्कृतसेवकेषु परस्परविश्वासस्य सहयोगस्य च वातावरणम् अवश्यं निर्मातव्यम्। इदानीं मम प्रतिभाति कानिचन संघटनानि अन्यानि सदृशानि संघटनानि द्वेषस्य दृष्ट्या पश्यन्ति। समानमेव संस्कृतकार्यं कुर्वतां मध्ये द्वेषस्य कः अवकाशः। यदि किञ्चित् संघटनं केवलं कागदे एव अस्ति अध्यक्षादिपदाभिमानार्थम् अथवा किञ्चित् संघटनं देशविरोधि समाजविरोधि वा कार्यं करोति तर्हि तत् संघटनं निश्चयेन विरोद्धव्यम्। तद्भिन्नानां सहयोगेन अस्माकमेव बलं वर्धिष्यते, संस्कृतस्य पुरोगति अपि भविष्यति ।


दुरदर्शनादिमाध्यमानां दायित्वम्

      आधुनिककाले सम्भाषणान्दोलनेन संस्कृतभाषायाः प्रचारः महता प्रमाणेन प्रवृद्धम् इति विषये सन्देहः एव नास्ति। भाषाशुद्धे: स्तरः अधस्तात् गच्छति इति दृश्यते। प्रादेशिकानां भाषाणाम् प्रभावेण भारते एकैकस्मिन् राज्ये कदाचित् तत्रत्य लघुप्रदेशे अपि वर्णानाम् उच्चारणं विकृतं भवति। मम युवावस्थायाम् एवम् एव नास्ति इति मम अनुभवः। तदानीं पञ्जाबस्था वा केरळीयः वा पश्चिमबङ्गस्थः वा उत्कलस्था वा संस्कृतोच्चारणं यथावत् सम्यक् करोति स्म। एकस्मिन् अवसरे पञ्चाशतः वर्षेभ्यः पूर्वं पञ्चाबविश्वविद्यालयस्य संस्कृतप्राचार्यः यज्ञदत्तशर्मा महोदयः मां यदुक्तवान् तद् इदानीमपि अहं स्मरामि- ''विदेशियभाषाणां प्रभावेण अस्माकम् उत्तरभारतीय-भाषासु पदानाम् अन्ते, क्वचित् मध्ये च अकारः लुप्तः। शषसानाम् उच्चारणं मिश्रं भवति। अस्माकं भाग्यं मम भवतः च संस्कृतम् अविष्कृतम्" इति अधुना अहं पश्यामि उत्तरभारते बहवः महान्तः अपि ञ् ङ् इत्यनयोः उच्चारणं न जानन्ति। भारते क्वचित् क्वचित् ऋ इत्यस्य उच्चारणम् अज्ञानेन केचित् रु इति कुर्वन्ति केचित् भाषा इत्यस्य भासा इति उच्चारणं कुर्वन्ति। केरळराज्यस्य उत्तरभागे पण्डिताः अपि तस्मात् प्रचोदयात् इत्यादीनां स्थाने तस्माल्, प्रचोदयाल् इत्यादि वदन्ति। प्रादेशिकभेदे दोषो नास्ति इति वादं कुर्वन्तः वा अन्ये अज्ञानेन वा प्रादेशिकतया प्रसिद्धेषु अर्थेषु संस्कृतशब्दान् प्रयुञ्जते यदि दूरदर्शने वार्तादीनां प्रस्तोताराः तथा आकाशवाण्याम् अवतारकाश्च उच्चारणदृष्ट्या व्याकरणदृष्ट्या च शुद्धान् सरलान् शब्दान् प्रयुञ्जीरन् तर्हि प्रमाणभूतं संस्कृतम्) सर्वत्र समानरूपतया प्रसरेत्। यथा मम बाल्यकाले जनाः बी.बी.सी. इत्यस्य आङ्गलं "मानकम् आङ्गलम्” इति स्वीकृतवन्तः तथा भारतीयाः अपि मानकं संस्कृतम् अङ्गीकरिष्यन्ति। दूरदर्शनस्य आकाशवाण्याः वार्तादीनाम् अवतारकाः कुशलैः अखिलभारतीयदृष्टिमद्भिः संस्कृताभिज्ञैः प्रशिक्षणीयाः। सहस्रेभ्यः वर्षेभ्यः पूर्वं जाता संस्कृतभाषा इदानीम् अपि जनैः अवगम्यमाना जीवति। सा ऊर्जस्वला चिरं जीव्यात्।

संस्कृतेन संस्कृतिस्तया च राष्ट्रनिर्मितिः ॥

Monday, 17 April 2023

 राष्ट्र-वन्दना 

-कविता

-बलदेवनन्द-सागरः

विश्व-वन्द्यं सुरम्यं परं भारतम्, नौमि पुण्यप्रदं पावनं भारतम् |

सर्व-सन्देह-सन्दोह-संहारकम् स्तौमि माङ्गल्य-मानादरैः भूरिशः॥१॥

अद्भुतं भारतं कल्पितं वै पुरा, पूर्वजैरत्र भावि-प्रजानां कृते।
मित्र ! संश्रूयतां नूतनं जीवनम् दर्शितं भारती-सेवकैः सन्ततम्॥२॥

यत्र सर्वे जनाः सादरं निर्भयम्, जीवनं यापयेयुः विना कल्मषम्।

नापराधो भवेत् कुत्रचित् सज्जने, दुर्जने सन्मतिः सर्वदा सम्भवेत् ॥३॥

सामरस्यादि-भावैः भवेत् साधितम्, विश्व-बन्धुत्व-सन्देशकैः पावितम्।
शान्तिरेधीति- मन्त्रैः समाराधितम्, सम्विधानाधिकारैश्च सम्वर्धितम् ॥४॥

प्राविधीत्यादि-संस्कार-शोभान्वितम्, अन्तरिक्षेऽनुसन्धान-कार्यादिभिः।
ज्ञान-विज्ञान-साहित्य-संसाधनैः, भक्ति-शक्ति-द्वयेनोन्नतिं प्राप्नुयात्॥५॥ 


विग्रहे निग्रहों नाग्रहः संग्रहे यत्र सामाजिकाः राष्ट्र-कार्ये रताः।
लेखकाः बोधकाः शोधकाः शासकाः, ते च प्रामाणिकत्वं भजेरन् सदा॥६॥


प्रीति-रीति-प्रतीति-प्रमाणैः परम्, वेद-वाणी-वितानैः सदा साधितम्
शौर्य-धैर्यादि-भावैः मुदा भावितम्, सर्वदा स्त्रीकुलं रक्षितं सम्भवेत्॥७॥


बालवृन्दं समस्तं विकासं व्रजेत्, प्रोन्नतं शिक्षणं स्याच्च यूनां कृते।
सर्व-धर्मान्वितौ सत्वरं तत्परम्, नागरः सागरः सम्भवेत् सर्वदा॥८॥

----------------------

Monday, 3 April 2023

 पद्मम्

चौ दुन्यि  (Zhou Dunyi 1017-1073 ) चीनकविः । 

अनुवादक:- महामहोपाध्याय गो. गङ्गाधरनायरः

बहूनि पुष्पाणि जले स्थले च 

रोहन्ति सर्वाणि प्रियाणि नूनम् । 

जिन्- राजवंशे बत लब्धजन्मा 

ताओयुवान् मिङ् युवराजवर्यः ॥1॥ 

सेवन्तिपुष्पे नितरां हि प्रीतो 

नान्यत्सुमं कामयते स्म प्रीत्या । 

ताङ् वंशकालात् परमत्र सर्वे 

पियोनिपुष्पे रुचिमावहन्ति ॥2॥

एकान्ततः पङ्कजमात्रकामी 

भवाम्यहं राजकुमारभिन्नः । 

पङ्कात्तु निष्क्रान्तमिदं तु पुष्पं 

निष्पङ्कमास्ते स्नपितं जलेन ॥3॥ 


दुष्काममेतन्न करोति चित्ते 

मनोहरं तिष्ठति शोभते च । 

एतस्य वृन्तं तु ऋजु स्वयं त-

च्छून्यान्तरङ्गं न च तत्र पङ्कः ॥ 4 ॥ 

न तस्य शाखास्ति न च प्ररोहः 

सन्तिष्ठते पूर्णशुचि स्वयं तु । 

प्रसारयत् सौरभमेव पुष्पं 

समन्ततः सर्वहितं मनोज्ञम् ॥5॥ 

हस्तेन तद् लालयितुं न शक्यं 

दूरे स्थितास्तु प्रवदेम शंसाम् । 

सेवन्तिका पुष्पमहो मतं मे 

सन्न्यासि पुष्पेष्विति नात्र शङ्का ॥6॥ 

पियोनिपुष्पं खलु राजकीय-

माढ्यं च तद्वद् धनिनां प्रियं च । 

पद्मं तु पुष्पं सुजनः सुमेषु 

मदन्य एतर्हि नु कस्तदिच्छेत् ॥7॥ 


ताओ कुमारात् परमस्ति नैव 

सेवन्तिकायां रतमानसोऽन्यः 

मत्तः परः कोऽस्ति सरोजपुष्ये 

सुप्रीतिमान् वस्तुत एव देशे ॥8॥ 

पियोनिपुष्पाणि समस्तलोके 

समाद्रियन्ते न हि तत्र शङ्का ।

इतःपरं किं न वदामि कष्टं 

सेवन्तिका कुत्र च कुत्र पद्मम् ॥9॥ 

    [भारते इव चीनमहाराज्येऽपि प्राचीनकाले धर्माश्रिता जीवनचर्या एव आद्रियते स्म। चीनदार्शनिक: कोङ्त्सिये (Confucius) महोदय: एव चीनसंस्कृतौ धार्मिकतायाः प्रतिष्ठायां कारणभूतः गुरुः। तस्य उपदेशेषु महता आदरेण पण्डितः कविः दार्शनिकः चौ दुन्यिमहोदयः नव्यकोङ्त्सियेदर्शनं प्रचार्य जनानां जीवनवृत्ते सामाजिकव्यवहारे च धार्मिकनीतिं पुनः स्थापयितुं महान्तं प्रयासं कृतवान्। चीनसंस्कृतौ धार्मिकतायाः चिह्नं भवति पद्मपुष्पम्। धार्मिकतायाः अपचये वैयक्तिकदुर्वृत्तं यद् व्याप्रोति तद् जनप्रियं स्यात् न तु जनहितम्। एषा कविता तु अन्यापदेशरीत्या सांस्कृतिकापचयं सूचयति।)

Friday, 10 March 2023

 ज्ञानवीथी कल्पाती।

डा. गोविन्दः एन्

संस्कृताध्यापक:

सर्वकारविद्यालय:

इरिङालक्कुटा, तृश्शूर्

     मानवजीवनस्य समुन्नतये जीवनमूल्यवर्धनाय च अविभाज्याः अंशाः भवन्ति ग्रन्था इत्यत्र सन्देहो नास्ति। यद्यपि ग्रन्थानां प्राधान्यं वर्णयितुम् अनेकाः सन्दर्भाः सन्ति तथापि ग्रन्थालयानां तथा ग्रन्थविक्रयालयानां विवरणम् अल्पमेव इति भाति। वस्तुतः यथा ग्रन्थाः तथा ग्रन्थालयाः अपि प्रधानाः, विशिष्य संस्कृतवाङ्मये। अनेकैः ग्रन्थरत्नैः परिलालितो भवत्यस्माकं संस्कृतलोकः। परं विशिष्टाः ग्रन्थालयाः ग्रन्थविक्रयालयाः के इत्यत्र अधुनापि जनानां ज्ञानं नास्तीति मत्वा विशिष्टा एका ग्रन्थविक्रयशला   अत्र प्रतिपाद्यते।

    केरलराज्येषु प्रकृतिसौन्दर्ये तथा सांस्कृतिकमण्डले अग्रिमस्थानमावहति पालक्काट् जनपदः। तत्रस्थे कल्पाती इत्यग्रहारे विद्यमाना अतिविशिष्टा विशाला  ग्रन्थविक्रयशाला भवति आर्. एस्. वाध्यार् ग्रन्थशाला। पुरा केरलराज्येषु संस्कृतशिक्षायाः प्रथमं सोपानम् इतः आसीत्। वाध्यार् महोदयेन संस्कृतशिक्षां सरलीकर्तुं तथा बालानां सुखबोधाय च आरब्धा इयं ग्रन्थशाला। अत्र  ग्रन्थप्रकाशनं ग्रन्थविक्रयणं च प्रचलति। शब्दमञ्जरी, धातुरूपमाला, श्रीरामोदन्तं काव्यम्, श्रीकृष्णविलासकाव्यम् इत्यादीनां प्राथमिकग्रन्थानां सङ्ग्रहः अत्र वर्तते। एतैः पुस्तकैरेव पूर्वस्मिन् काले आचार्याः छात्रान् संस्कृतं पाठयन्ति स्म। ललितरीत्या संस्कृतकथनं, तस्य आङ्गलेयव्याख्यानम्, शुद्धाक्षराणि इत्येते अंशाः पुस्तकानां वैशिष्ट्यं प्रसारयन्ति। 

    गच्छता कालेन ग्रन्थविक्रयशालायाः अभिवृद्धिः जाता। विदेशेषु अपि अस्याः ग्रन्थशालायाः प्रसिद्धिः व्यापृता। जगति विद्यमानाः सर्वे संस्कृतानुरागिणः इमां ग्रन्थशालामन्विष्य कल्पातीपुरमागन्तुम् आरब्धवन्तः। तेषु संस्कृतछात्राः, अध्यापकाः, शोधछात्राः किमधिकं संस्कृतं पठितुमिच्छुकाः जनाः अपि अन्तर्भवन्ति। अत्र न केवलं लघुसंस्कृतग्रन्थाः अपि तु स्तोत्रग्रन्थाः, शास्त्रग्रन्थाः, साहित्यग्रन्थाः इत्यादीनां समाहारोपि वर्तते। 

    सर्वैः संस्कृतानुरक्तैः अवश्यं गन्तव्या ग्रन्थशाला भवति इयम्। अधुनापि बहवः अत्र आगत्य पुस्तकानि स्वीकुर्वन्ति।

   कदाचित् अभूतपूर्वः सम्मर्दः अत्र अनुभूयते। अन्तर्जाले अस्य सम्पर्कसंख्या उपलभ्यते। अपेक्षानुगुणं दूरवाणीं कृत्वा पुस्तकानि स्वीकर्तुं शक्यन्ते। डिजीटेल् माध्यमेन अधुनात्र प्रसिद्धीकरणं चलति इति हेतोः पुस्तकानामुपलब्धिः विना प्रयासेन जायते। वाध्यार् महोदयस्य अनुवर्तिनः सम्प्रति ग्रन्थालयं चालयन्ति। दूरवाणी - RS Vadhyar & Sons 9496245066


            सर्वे आगच्छन्तु, ज्ञानमधुरमनुभवन्तु॥

Thursday, 26 January 2023

 "वसन्तपञ्चमी"  

         निबन्धकारः - दीपककुमारचौधरी


  वसन्तो ग्रीष्मो वर्षा: शरद् हेमन्तः शिशिरश्चेति षडृतवो भवन्ति। एतेषु षट्सु ऋतुषु वसन्तस्य अन्यतमं स्थानं वर्तते "वसन्ति सर्वे ऋतवो यस्मिन् स वसन्तः"इति विग्रहात्। अत एव वसन्तः "ऋतुराज:"इति नाम्नाऽपि सम्बोध्यते।अस्मिन् ऋतौ क्षेत्रेषु नवसस्यानि प्रजायन्ते।तैः क्षेत्रसौन्दर्यम् अतीव मनोहरं प्रतिभाति।हृदयावर्जकानि विविधपुष्पाणि विकसन्ति।पुष्पाणि परितः भ्रमरा गुञ्जायमाना भ्रमन्तो वसन्तस्य माहात्म्यं ख्यापयन्ति।आम्रवृक्षेषु नवमञ्जराणि समायान्ति।वृक्षेषु पिका मधुरं कूजन्त: वसन्तमहत्त्वं कीर्तयन्ति। यथोक्तम्- ऋतुसंहारनामके खण्डकाव्ये कविकुलशिरोमणिना कालिदासेन वसन्तर्तुवर्णनप्रसङ्गे-

द्रुमाः सपुष्पा: सलिलं सपद्मं,

स्त्रिया: सकामा: पवनः सुगन्धि:।

सुखा: प्रदोषा दिवसाश्च रम्या:,

सर्वं प्रियं चारुतरं वसन्ते।।

       (ऋतुसंहार:-६/२)

असौ वसन्तो "मधुमास:,माधवमास:,ऋतुराज: पिकानन्दश्च"इत्याख्यै: कीर्त्यते।एतेन वसन्तस्य प्रामुख्यं स्पष्टं भवति।

           अस्मिन्(वसन्ते) ऋतौ निखिलेऽपि देशे अनेकानि पर्वाणि आयोज्यन्ते।तेषु अन्यतमं भवति "वसन्तपञ्चमी" इति। वसन्तस्य पञ्चमी वसन्तपञ्चमीति।इयमेव केषाञ्चन मते " ऋषिपञ्चमी श्रीपञ्चमी"इत्याख्याभ्यामपि कीर्त्यते। वसन्तपञ्चमी माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ आयोज्यते।अस्यां तिथौ मिथिलाप्रदेशे सोल्लासेन नृत्यगीतस्तोत्रघोषादिपुरस्सरं वाग्देव्या: सरस्वत्या आराधनं क्रियते,यतोहि अस्यामेव तिथौ विद्याप्रदायिन्या वीणापाणे: सरस्वत्या: प्रादुर्भावोऽभवद् इति पौराणिककथामाश्रित्य पौराणिका आमनन्ति। विद्याया वाण्याश्च अधिष्ठातृदेवी सरस्वती वर्तते।इयं विद्या-बुद्धिप्रदात्री वर्तते।

अतो "वागीश्वरी, वाग्देवी,विद्यादात्री,विद्या-बुद्धिप्रदायिनी, शारदा,भगवती,वीणापाणिः,

वीणावादिनी" इति नामभिः पूज्यते।सङ्गीतम् अस्या एव समुद्भूतम् अतः सङ्गीतदेवी इत्यपि उच्यते।ऋग्वेदेऽपि सरस्वतीस्तुति: प्राप्यते-

"प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामणित्रवतु" इति।शिक्षाविद: सङ्गीतनृत्यादिकलाविद: शिल्पिनः समेऽपि "विद्या-बुद्धि-वागधिष्ठातृदेवताया भगवत्या: श्रीसरस्वत्या आराधनां कुर्वन्ति।यथैव सैनिकाः क्षत्रियाश्च विजयदशम्यां शस्त्रपूजां कुर्वन्ति तथैव शिक्षकाः छात्रा अन्ये अध्येतारश्च शास्त्राणां ग्रन्थानां पुस्तकानाञ्च तदधिष्ठातृदेव्या: सरस्वत्याश्च पूजां कुर्वन्ति।यथोक्तम्-

"माघस्य शुक्लपञ्चम्यां महापूजां समाचरेत्।

नवै: प्रवालै: कुसुमैरनुलेपैर्विशेषत:।।

नीराजनोत्सवं कृत्वा भक्त्या संमान्य वैष्णवान्।

वसन्तरागं जनयन् गीतनृत्यादि कारयेत्।।"

              इयं पञ्चमी मानवान् समस्तपापान् मोचयित्वा तेभ्यः सदसद्विवेकबुद्धिं प्रददाति।यथोक्तं मत्स्यसूक्ते-

"वसन्तपञ्चमी नाम सर्वपापप्रमोचनी।"

             अस्यां तिथौ केचन लघुबालकानां विद्यारम्भम्(अक्षरारम्भम्) कारयन्ति।यतोहि विद्यारम्भनिमित्तं वसन्तपञ्चमी तिथिरतीव पवित्रतमा मन्यत इति शम्।

 लेखकः-दीपककुमारचौधरी

(संस्कृतशोधार्थी-दीपकवात्स्य:)

Wednesday, 28 December 2022

 हेमन्तः

-कविता

-डा. जि . गंङ्गाधरन् नायर्॥

हेमन्तऋतुकाले/स्मिन् शैत्यं तीक्ष्णं प्रवर्धते । 

ततो/पि जायते तीव्रं वातेन वहता / निशम् ॥

 आसारवर्षपातो∫स्ति ऋतावस्मिंस्तदा तदा । 

अल्पेन समयेनाथ वर्धन्ते शीकरास्तदा ।। 

धूलयः प्रसरन्तीव वान्तीह हिमशीकराः । 

कार्पासस्य तु तूलानि प्रसरन्तीव दर्शने ॥ 

भूमेरुपरि वातेन प्रेरिता हिमसीकराः ।

व्याप्नुवन्ति हि सर्वत्र भूमौ तु हिमवालुकाः ॥ 

क्रीडासक्तास्तदा बाला हिममानुषनिर्मितौ 

यतन्ते च प्रमोदेन कुर्वते हिमगोलकान् ॥ 

तानन्योन्यं प्रक्षिपन्ति बालका हृष्टमानसाः ।

नास्ति सीमा त तोषस्य तेषां बाल्यं मनोहरम् ॥ 

तु अनन्तरदिने वाथ द्वितीये वा तृतीयके । 

सान्द्रं भूत्वा घनीभूतं हिमं हिमशिला भवेत् ॥ 

पिच्छिला सा भवेत्तस्यां चलनं बहुदुष्करम् । 

अवधानं विना कश्चिच्चलेत् स स्खलितः पतेत् ॥ 

शिशिरर्तुर्भवेन्मासद्वयेन क्लेशवर्धनः । 

हिमपातस्य वृद्धिः स्यात् तीव्रं शैत्यं सहेमहि ॥

------------------------------------------


Thursday, 15 December 2022

 सत्यव्रतचरितम्

 


लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः


     व्यासदेवः सविस्तरं सत्यव्रतचरितं कथयति। पूर्वकाले एकदा मुनीनां समाजे विचारः अभूत्- यत् कः देवः सर्वश्रेष्ठः पूज्यतमश्च भवति। कः देवः विशेषरूपेण उपासनीयः। कः देवः अभीष्टफलं ददाति। एतस्य प्रश्नस्य उत्तरेण लोमशमुनिः उक्तवान् यत् सर्वेऽपि बुद्धिमन्तः कल्याणकामिनः पुरुषाः महाशक्तेः भगवत्याः अम्बिकायाः उपासनां कुर्युः। तस्मिन् प्रसङ्गे कथं ऐकारस्य उच्चारणेन ब्राह्मणः सत्यव्रतः देवीकृपातः लोकप्रसिद्धिं मोक्षञ्च प्राप्तवानिति एकमाख्यानमुक्तवान्। पुरा कोशलदेशे देवदत्तनामकः एकः विख्यातः ब्राह्मणः तिष्ठति स्म। तस्य कोऽपि सन्तानः नासीत्। पुत्रप्राप्त्यर्थं सः पुत्रेष्टियज्ञं कृतवान्। गोभिलमुनिः उद्गाता च आसीत्। मुनिवरः गोभिलः रथन्तरच्छन्दसा गानं करोति स्म । तदा तस्य स्वरभङ्गः अभूत्। ब्राह्मणः देवदत्तः मुनिवरं गोभिलं भर्त्सितवान्। महात्मा गोभिलः अपि कुपितः अभूत्। देवदत्तस्य भर्त्सनं श्रुत्वा सः तस्मै अभिशापं दत्तवान्। हे देवदत्त ! भवतः एकः मूर्खपुत्रः भविष्यति। तदा देवदत्तः मुनेः पादौ पतित्वा क्षमायाचनां कृतवान्। मुनिः शान्तः भूत्वा उक्तवान् यत् तव पुत्रः मूर्खः भूत्वा अपि अनन्तरं पण्डितः भविष्यति। अनन्तरं शुभकाले देवदत्तस्य पत्नी एकं पुत्रं जनयामास। तस्य नाम उतथ्य इति अभूत्। ब्राह्मणदेवदत्तस्य सः पुत्रः उतथ्यः पठितुं गुरुगृहं गतवान्। बहुवर्षं पठित्वा अपि तस्य किमपि ज्ञानं नाभूत्। एकशब्दमपि उच्चारयितुं सः समर्थः नाभूत्। सः किमपि शास्त्रं न जानाति स्म, सन्ध्यावन्दनादिकमपि न जानाति स्म। अतः सः मूर्ख इति सर्वत्र प्रचारितः अभूत्। सर्वे तस्य उपहासं कृतवन्तः। पितरौ अपि निन्दां कृतवन्तौ। यदा जनाः माता, पिता सर्वेऽपि च जनाः तस्य अत्यन्तनिन्दां कृतवन्तः, तदा तस्य मनसि वैराग्यमागतम्। सः वनं गतवान्। गङ्गातटे एकस्मिन् स्थाने कुटीरं निर्माय वन्यफलं मूलञ्च भुक्त्वा सः जीवनं यापयति स्म। सः इन्द्रियसंयमं स्थापयित्वा एकनियमं स्थापितवान् यत्- अहं कदापि मिथ्या न कथयिष्यामि। अतः तत्रत्याः जनाः तं ब्राह्मणं सत्यव्रत इति नाम्ना आह्वयन्ति स्म। एवम्प्रकारेण सः वने केवलं ब्रह्मचर्यधारणपूर्वकं फलमूलानि भुक्त्वा जीवनं यापयति स्म।     

    एकदा एकः निषादः तत्र हस्ते धनुर्बाणं धृत्वा आगतवान्। सः वने एकं शूकरं शरेण विद्धवान्। ततः भयभीतः सः शूकरः शीघ्रं धावन् उतथ्यमुनेः आश्रमे आगतवान्। तदा शूकरस्य शरीरं रक्ताक्तमासीत् एवं सः भयेन कम्पते स्म। तं दीनहीनं पशुम् उतथ्यमुनिः दृष्टवान्। ततः मुनेः हृदये दया आगता। एवं तस्य मुखात् भगवत्याः सारस्वतबीजमन्त्रः ऐं इति उच्चारितमभूत्। पूर्वं कदापि सः एनं मन्त्रं न जानाति स्म। कदापि न श्रुतवान् अपि आसीत्। कस्मादपि अदृष्टप्रेरणया शोकवशात् तस्य मुखे एषः मन्त्रः आगतः। तदा सः निषादः धनुर्बाणं नीत्वा तत्र उपस्थितः अभूत्। सः व्याधः मुनिम् उतथ्यं वारम्बारं पृष्टवान् यत् - हे मुने ! भवान् सत्यव्रती अस्ति। अतः भवान् कथयतु बाणविद्धः सः शूकरः कुत्र गतः। व्याधस्य वचनं श्रुत्वा मुनेः मनसि बहुविचारः आगतः। सः चिन्तितवान् यदि अहं सत्यं कथयिष्यामि तदा व्याधः शूकरं नेष्यति। असत्यं कथयामि चेत् मम व्रतहानिः भविष्यति। एवं किमपि कथयिष्यामि येन मम वाणी मिथ्या न भवेत् एवं शूकरस्य जीवनहानिरपि न भवेत्। प्रथमतः बाणविद्धं शूकरं दृष्ट्वा दयावशात् तस्य मुखात् सरस्वत्याः सारस्वतबीजमन्त्रः ऐं इति उच्चारितमासीत्। ऐं इति भवति वागबीजमन्त्रः। ततः तमेव मन्त्रं श्रुत्वा भगवती उतथ्यमुनेः उपरि प्रसन्ना अभूत्। अतः देवीकृपातः उतथ्यमुनेः कृते सम्पूर्णविद्या आगता। तस्य मनसि सर्वविद्याः स्फुरिताः अभवन्। सः एकः महान् कविरभूत्। तदेव तस्य मुखादेकः श्लोकः निर्गतः –

या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति।

अहो व्याधः स्वकार्यार्थी किं पृच्छसि पुनः पुनः॥

 तस्य तात्पर्यं भवति यत् हे व्याध ! यत् नयनं पश्यति तत् न कथयति, या वाणी कथयति सा न पश्यति। अतः हे व्याध ! भवान् पुनः पुनः मां किमर्थं पृच्छति। मुनिवरस्य कथनादनन्तरं सः व्याधः ततः निर्गतः अभूत्। एवं शूकरस्य जीवनरक्षा अभूत्। इदानीं देवीकृपातः उतथ्यमुनिः वाल्मीकि इव प्रकाण्डः विद्वान् अभूत्। समग्रभूमण्डले सत्यव्रत इति नाम्ना तस्य प्रसिद्धिरभूत्। तदनु अनन्तरं सारस्वतबीजमन्त्रः ऐं इति सः विधिवत् जपं कृतवान्। ततः जगति तस्य वैदुष्यं यशो च चर्तुदिक्षु प्रसारितमभूत्। ब्राह्मणजनाः उत्सवादिषु तस्य यशोगानं कृतवन्तः। सत्यव्रतस्य माहात्म्यं श्रुत्वा तस्य परिवारजनाः वनमागत्य बहुमानेन सत्कारेण च तं मुनिं गृहं नीतवन्तः। अतएव हे राजन् ! तस्याः एव आदिशक्तेः भगवत्याः जगदम्बिकायाः सदैव भक्तिपूर्वकतया उपासना करणीया भवति। भगवत्याः कृपातः जनस्य सर्वकल्याणं भवितुमर्हति। एवम्प्रकारेण पाठ्यक्रमेऽस्मिन् द्वितीयांशे सारांशरूपेण एते विषयाः उपन्यस्ताः सन्ति।


Monday, 21 November 2022

 हालोवीन् (कविता)

-डॉ जि. गङ्गाधरन् नायर् -



उत्सवोऽस्ति महान् कश्चिद् 
हालोवीनिति संज्ञितः।
शुद्धात्मदिन प्राक्सन्ध्या
शब्दार्थस्तस्य बुध्यताम् ॥
साम्प्रदायिकताप्राप्तेः
क्रिस्तुधर्मस्य प्राग्जनैः।
यूरोपीयैश्चिरं नीता
संस्कृतिः काचन स्थिता॥
क्रिस्तु धर्मप्रचारे तु
तद्धर्मस्य प्रचारकैः।
पागन्नित्याख्ययाहूता 
बहुदेवार्चनायुता॥
प्रेतात्मनां पितॄणां तु 
सभाजनपरायणाः।
पागना एकदा वर्षे
कुर्वन्ति पितृतर्पणम्॥
यथा हि भारते श्राद्धं
शिवरात्रौ प्रवर्तते।
तथैव पागने देशे
हालोवीने परेऽह्निच॥
पितॄणां तर्पणार्थाय
मिष्टान्नं रक्ष्यते गृहे।
श्रद्धालुभिस्तदा रात्रौ 
मांसवर्जनसुव्रतैः॥
स्वीकृत्य पागनाचार
माचरन्ति च क्रैस्तवाः।
तस्माल्लोके बहुत्रास्ति 
हालोवीनुत्सवः शुभः॥
उत्सवोऽयं नवे काले
सम्पन्नो बालकोत्सवः।
भीकरैः शोभनैर्वापि 
विचित्रैर्वेषभूषणैः
भ्रमन्ति बालकाः स्वेषां
प्रतिवेशगृहान् प्रति ॥
संवनन्ति च ते स्वादु
मधुरं खाद्यवस्तु यत् ।
मिठायादि च तद् द्त्त्वा
गृहस्थाः प्रीणयन्ति तान्॥
तुष्यतो बालकांश्चैव
बालिकाश्च शुभे दिने।
दृष्ट्वा चालौकिकं मोदं
लभेमहि सुहृद्वराः॥

Monday, 24 October 2022

 भगवतीमुद्दिश्य विष्णुस्तुत्योपस्थापनम्

   भगवत्याः नखकोणे ते देवाः समग्रभवनं विश्वञ्च दृष्टवन्तः। तदा विष्णुः उक्तवान् एषा एव भगवती आदिशक्तिः जगतः जननी भवति। तदा भगवान् विष्णुः भगवत्याः स्तुतिं कृतवान्। तद्यथा- प्रकृतिदेव्यै नमः। हे भगवति! भवती कल्याणस्वरूपिणी मनोरथञ्च पूरयति। भवती बुद्धिं ददाति सिद्धिस्वरूपा च अस्ति। त्वां वारम्बारं नमस्करोमि। भवती एव सृष्टि-स्थिति-संहारस्य मूलकारणं भवति। अतः त्वां भगवतीं भुवनेश्वरीं प्रणमामि। सर्वाभीष्टानां पूरणकारिणीं भगवतीं नमामि। मातः! अहं ज्ञातवान् यत् एतस्मिन् सम्पूर्णसंसारे त्वमेव विराजसे। भवती एतस्य जगतः सृष्टिसंहारस्य च तत्त्वं भवति। तव एव व्यापकमाया संसारे ममत्वं सज्जीकरोति। भवती एव अखिल-जगन्मयी माता अस्ति। भवती एव अखिलविश्वे व्यापकरूपेण विराजमाना वर्तते। देवि! प्रलयकाले भवती एव संसारं भक्षयति। भगवति! तव वैभवं चरित्रं वा कः ज्ञातुं शक्नुयात्। मातः! भवती एव मधुकैटभौ इति असुरद्वयात् अस्मान् रक्षितवती। भवानि! यदा अहं,शङ्करः, ब्रह्मा च भवत्याः विषये अज्ञाताः भवामः, तदा अन्यः कः तव विषये ज्ञातुं शक्नुयात्। समग्रविश्वमेव तव नखदर्पणे दृश्यते। देवि! तव एतत् विस्तृतं अचिन्त्यम् ऐश्वर्यं नराः कथं जानीयुः। मातृपुत्रैव आवयोः सम्बन्धः सर्वदा तिष्ठतु। जगदम्बे! भवती एव समग्रजगत्प्रपञ्चं जानाति। हे भवानि! तव इच्छातः एव शक्तिं प्राप्य ब्रह्मा सृजति, विष्णुः पालयति, महेशश्च संहरति। गिरिजानन्दिनि! त्वमेव सर्वेषां माता असि। जगत्सृजनं, पालनं संहरणञ्च तव स्वाभाविककार्यं भवति। भगवति! तव शक्तितः एव शक्तिं प्राप्य सूर्यः जगदिदं प्रकाशयति। भवती समग्रसंसारं उद्भासयति। अहं ब्रह्मा शङ्करश्च तव कृपातः एव भवामः। अस्माकं आर्विभावः तिरोभावश्च भवति। केवलं त्वं जगत्जननी असि । भवती बुद्धिमतां जनानां बुद्धिः, शक्तिमतां जनानां शक्तिश्च भवति। त्वं शुद्धस्वरूपा असि। मुक्तिदानं तव स्वाभाविककार्यं भवति। वेदस्य मुख्यविषयः गायत्री भवती एव भवति। स्वाहा, स्वधा एवं ऒम् भवत्याः रूपाणि भवन्ति। भवती देवानां रक्षणार्थं वेदशास्त्राणां रचनां कृतवती। जीवानाम् उदाहरणार्थं भवती अखिलजगदिदं रचितवती। देवि! भवती महाविद्या स्वरूपिणी अस्ति। तव रूपं कल्याणमयमस्ति। त्वं सम्पूर्णं मनोरथं पूरयसि । तव चरणयॊः वारम्बारं प्रणौमि । 

लेखकः - डा.रुरुकुमारमहापात्रः

अध्यापकः,पुराणेतिहासविभागः

राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः

Tuesday, 4 October 2022

 श्रीमद्देवीभागवतपुराणस्य संक्षिप्तपरिचयः  

मनुष्याणां जीवनं सुखमयं समृद्धिमयं तथा शान्तिमयं कर्तुं वेदानां रचनाभूत्। परन्तु साधारणमानवानामवगतये क्लिष्टकरवेदानां भाष्यभूतं पुराणसाहित्यं व्यासदेवेन विरचितम्। अष्टादश महापुराणानि, उपपुराणानि, औपपुराणानि च व्यासदेवेन रचितानि। तेषु अष्टादश संख्याकानि उपपुराणानि वर्तन्ते, तेषु देवीभागवतपुराणम् अन्यततम्। कलपभेदेन 'देवीभागवतम्' महापुराणत्वेनापि स्वीक्रियते । देवीभागवतपुराणे 318 अध्यायाः, 18,000 श्लोकाः,द्वादशस्कन्धाश्च सन्ति। पुराणवाङ्मये देवीभागवतं भुक्तिमुक्तिप्रदायकं पञ्चमपुराणमिति प्रोच्यते। अस्य पुराणस्य वक्ता महर्षिव्यासः श्रोता राजा जन्मेजयश्च भवति। पुराणमिदं वेदसम्मतं तद्धिया अर्थानुमोदितञ्चास्ति। अखिलशास्त्रस्य रहस्यस्रोतरूपमिदं पुराणम् आगमे स्वस्थानं प्रसिद्धं ख्यापयति। देवीभागवतस्यानुशीलनेन ज्ञायते यत् देवी एव परमतत्वमस्ति, या निर्गुणा,नित्या,सर्वव्यापिका,योगगम्या,जाग्रत्स्वप्नसुप्तिभ्यः परायां तुरीयावस्थायां विराजते। तस्याः तिस्त्र: शक्तयः, सात्त्विकी राजसी तामसी चेति क्रमशः लक्ष्मीः,सरस्वती,कालीरूपेण च प्रकटिताः सन्ति। अनयैव च दृष्ट्या पुराणेषु ब्रह्मविष्णुमहेश्वराः त्रिमूर्तिरूपेण वर्णिता: सन्ति।

 

निर्गुणा दुर्गमा शक्तिः निर्गुणश्च पर: पुमान्।

ज्ञानगम्यो मुनीनां तु भावनीयौ पुनः पुन:॥

अनादिनिधनौ विद्धि सदा प्रकृतिपुरुषौ।

एवञ्च देवीभागवतपुराणेषु प्रोक्तमस्ति यत्-

देवीभागवतं पुराणममलं यद् ब्राह्मणानां धनम्

धर्मो धर्मसुतेन यत्र गदितो नारायणेनामल:।

गायत्र्याश्च रहस्यमत्र च मणिदीपश्च संवर्णित:

   श्रीदेव्या हिमभूभृते भगवती गीता च गीता स्वयम् ॥

         तत्र देवीभागवतपुराणस्य द्वादशस्कन्धेषु विशेषतः तृतीयस्कन्धे ब्रह्माण्डोत्पत्ति-विषयकप्रश्नाः,  उत्तराणि तथा त्रिदेवानां ब्रह्माण्डदर्शनादिविषयाः यथा विवृताः सन्ति, तथैव भगवत्याः कृपामाहात्म्यत्वेन सत्यव्रतचरितं, शशिकलासुदर्शनयोः परिणयवृत्तान्तः, नवरात्रविधानत्वेन श्रीरामचरितादिविषयाः अपि सम्यगालोचिताः सन्ति । 

लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः।