Friday, 25 December 2020

 दर्शश्यामास्तुतिः


असावम्बा दीपयन्ती प्रकाशं

विमर्शिनी शम्भुमञ्चेद्धलक्ष्मी:।

प्रसन्नाऽन: सारदा शारदा स्याद्

भूयो भूयो प्रवदान्या परेशी॥१


रमा रामा भैरवी घोरघोरा

श्मशानस्था दक्षिणा भद्रकाली।

क्रीमाहुस्तां शवमालै: शिवाभि-

र्यामीशानं चेतयन्ती नुमस्ताम्॥२


क्रीङ्कारिणीं कालशक्तिं भरन्तीं

भजन्ति यां सर्वसिद्ध्यात्मरूपाम्।

भुक्त्या मुक्त्या मृळयन्तीं प्रपद्ये

समावेशात्मनि वन्द्यां वृणे ताम्॥३


साऽन्तर्बहिर्बहिरन्त: स्फुरन्ती

सा शून्याभा पूर्णिमा पूर्णबिम्बा।

विन्दौ विन्दौ सिन्धुरात्मा वरेण्या

पराम्बिका कापि साऽऽस्तां शरण्या॥४


पञ्चास्यमा पञ्चकृत्यं परेशं

पञ्चास्यं तं भोजयन्त्यर्णपूर्णा।

जीवे जीवे शिवसङ्कल्पजप्ता

जाया शम्भोर्जायतां दर्शदीप्ता॥५


श्यामिकां जगतो हन्त्री 

भद्रा भरतनन्दिनी।

नदन्ती नन्दयन्त्यम्बा 

सिद्धेन्द्राक्षी वृताऽवतात्॥६


वत्स देशराज शर्मा -हिमाचलप्रदेशः ।संपर्कसूत्रम् ८२१९३५९७०६


Thursday, 12 November 2020

 प्रार्थनागीतम् 

कविः – श्री. पन्तलं के. पि.

अखिलाण्डमण्डलं सुविधाय सज्जम्

आनन्ददीपं च तस्मिन् प्रज्वाल्य

परमाणुसारेपि स्फुरसि च नित्यं

परमप्रकाश! भोः शरणं त्वमेव ।

सुरगोललक्षाणि संयोज्य तेषाम्

अविकलसौहृदबन्धं विधाय

आधारमेतेषां परिकल्प्य सर्वं

विजयसे सत्य भोः शरणं त्वमेव ।

दुरितसङ्कुलितेस्मिन् भुवने त्वदीय

परिपूर्णतेजःप्रभावोस्तु नितराम्

एकोस्तु वर्णस्तथा धर्म ईश च

परिशुद्धवेदान्तः सफलोस्तु नित्यम् ।

अखिलाधिनायक! पुरतो वयं ते

प्रणमामः सादरं शरणाय नित्यम् ।

समरादितृष्णाः सकलाश्च त्यक्त्वा

समताञ्च शान्तिञ्च क्षेमञ्च देहि ।

जनता च जनता च हस्तं गृहीत्वा

तज्जातसौभाग्यगीतमुद्गीर्य

नरलोकस्यानन्दमहिमानं प्राप्य

विजयतां तव दिव्यनामानि स्तुत्वा ।। 

....................................

 

संस्कृतानुवादः – मुत्तलपुरं मोहनदासः

Friday, 23 October 2020

पञ्चतन्तन्त्रोपाख्यानम् 

- डा. गदाधरत्रिपाठी



(पञ्चतन्त्रकथाम् अधिकृत्य कविता)


शत्रुभिर्मित्रभिश्चैवोदासीनै: सह सर्वदा।

व्यवहारेण सम्बन्धा निर्धारितास्तथा च वै॥

 सम्बन्धैर्जीवनञ्चैव सुकरं सर्वथा सदा।

व्याख्या तथा च तेनैव प्रस्तुता ऋषिभिस्तथा॥


पञ्चतन्त्रं विशिष्टं हि प्रस्तुतं विष्णुशर्मणा।

विभक्तं पञ्चभागेषु  कविना गुम्फितं तथा॥

 नागनकुलयोश्चैव  सिंहवकुलयोर्हि वै।

मूर्खै:कार्यविपत्तिर्हि मर्कटस्य कथा यथा॥

 ग्रन्थस्यास्य च भेदो हि मित्रभेदश्च वर्तते।

पशवो मनुजाश्चैव  पात्राणि नु तथा हि वै॥

 सम्बन्धेषु सदा चैव मित्रभावः सुकोमलः।

मित्रसंप्राप्तिखण्डे तु मित्रभावः प्रदर्शितः॥

 कथासु पञ्चतन्त्रस्य पशवः पक्षिणस्तथा।

नियोजिता यथा तेन संदेशाः प्रहिता हि वै॥

काकोलूकप्रखण्डे तु  कथं राजा सुचिन्तनम्।

 काकश्चैव सुनीतिं हि स्थापयति यथा तथा॥

 लब्धप्रणाशखण्डे वै  संकेतो निहितस्तथा।

बुद्ध्या प्राप्नोति सर्वं हि बुद्धिहीना: पराजिता:॥

 पञ्चमे चैव खण्डेऽपि संकेतः प्राप्यते यथा।

सर्वं विचार्य कार्यं हि शास्त्राणां नु सुचिन्तनम्॥

 औत्सुक्येन तथा चैव कथा संवलिता हि वै।

तेनैव रम्यता चैव सर्वत्र परिदृश्यते ॥

 वदन्ति पशवश्चैव पक्षिणश्च तथा हि वै।

विज्ञा यथा तथा चैव रोमाञ्चमनुभूयते॥

 देशे चैव विदेशे च ग्रन्थोऽयञ्च समादृतः।

अनेकासु च भाषासु पठन्ति सुधियो जनाः ॥

 यद्यपि चैव ग्रन्थोऽयं बालानाञ्च कृते हि वै।

 तथाप्यस्य च संदेशा: सर्वेषां  नु कृते यथा॥

 सर्वं समादृतञ्चैव सर्वं विज्ञानसम्मतम्।

बालकेभ्यो यथा चैव वरिष्ठेभ्यस्तथा नु वै॥

 संपत्तौ किञ्च कार्यं वै  विपत्तौ किं न वै तथा।

संकेता: पञ्चतन्त्रे हि तेनायमद्भुतो यथा॥

            ---------------------------



Thursday, 3 September 2020

  ‘मनोगतम् [०२.१५] 

‘मनकीबात’प्रसारण-तिथि: ३०–अगस्त-मासः, २०२०  

       [भाषान्तरं – डॉ.श्रुतिकान्तपाण्डेयेन सम्भूय बलदेवानन्द-सागर-द्वारा]


     मम प्रियाः देशवासिनः, नमस्कारः | सामान्यतया कालोऽयम् उत्सवस्य भवति, नैकत्र मेलकानि आयोज्यन्ते, धार्मिक-पूजापाठाः विधीयन्ते | कोरोना-संकट-कालेsस्मिन्  जनेषु उल्लासस्तु अस्ति, उत्साहः अपि वर्तते, किञ्च,  अस्माकं मनान्सि संस्पृशेत्, तादृशम् अनुशासनम् अप्यस्ति |  सुबहु एकरूपेण पश्याम, चेत् नागरिकेषु दायित्वस्य अनुभूतिः अपि अस्ति | जनाः स्वीयावधानं सन्धारयन्तः, अपरेषाम् अवधानं

Friday, 14 August 2020

विघ्नहर्ता गजाननः

 [ऐषमः ऑगस्ट-मासे २२-दिनाङ्के ‘विनायक-चतुर्थी’ति विशेषावसरः | शुभावसरेsस्मिन्   भगवतो गणेशस्य विशिष्टार्चनां सर्वेऽपि भारतीयाः विदधति,  कथम्?  जानन्तु अस्याः कथायाः माध्यमेन ... ]

!!> विघ्नहर्ता गजाननः <!!         

           आदिदेवस्य गणेशस्य विस्मयकारिणः रूपान्तरस्य कथा! 

                   [ सरलया संस्कृत-गिरा वर्णिता ]

कथाकारः - बलदेवानन्द-सागरः

           देवाधिदेवः शिवः स्वीय-अर्धाङ्गिन्या पार्वत्या सार्धं कैलास-पर्वते निवसति। एकदा, महादेवः तत्र नासीत्, तदा भगवती पार्वती स्नानार्थं सज्जा भवन्ती सती सहसा विचारितवती यत् “कदाचित् स्नान-कर्मणि निरतायां मयि कश्चन भवनम् इदं समुपागच्छेत्!”   

           किञ्चित् कालं यावत् गहनं परिशील्य सा समुपायम् एकं निर्धारितवती। स्नानारम्भात् पूर्वं, सा स्वीय-देहे लेपितं हरिद्रावलेपम् अपसार्य तम् एकस्मिन् पात्रे न्यदधात्। ततः परम्, तल्लेप-कर्दमात् सा एकस्य किशोरस्य बालकस्य प्रतिमां निर्मितवती। तदनु, भगवती पार्वती तस्यां प्रतिमायां जीवनम् अस्थापयत्। सा प्रतिमा रमणीय-किशोर-बालकत्वेन रूपान्तरिता जाता। भगवती पार्वती सगौरवं शनैः च अवदत् यत् -  “त्वं मम सुतः! केवलं मामकीनः!!”

          “मात! केन प्रकारेण अत्रभवती सेवनीया?” तस्याः सुतोऽयम् अपृच्छत्। पार्वती तं बालं भवन-प्रवेश-द्वारं सन्नीय लौह-दण्डम् एकं प्रदाय निरदिशत् – “सुत! अत्र प्रहरित्वं विदधातु। मम अनुज्ञां विना न त्वया कश्चन अन्तःप्रवेशार्थम् अनुमन्तव्यः।” 

          तत्पश्चात्, भगवती पार्वती भवनान्तः प्रविष्टा। किञ्चित्-कालानन्तरं कश्चन तत्र आयातः। अनुमिनोतु, कोऽयं सम्भवेत्...? साक्षात् परम-शिवः! 

          यथैव परम-शिवः भवनं प्रवेष्टुं समुद्यतः, तत्रस्थेन किशोरेण असौ अवरोधितः। “मम माता, भगवती पार्वती न कमपि जनम् अन्तःप्रवेशार्थं माम् आज्ञप्तवती।”

         परम-शिवः स्वीय-हास्यम् अवरोद्धुं नैव अपारयत्। “हा...हा...हा... भगवती पार्वती साम्प्रतं पुत्रवती, तच्च, मम अवगमनं विना!”    

         बालकस्य तर्जनामयीं दृष्टिम् उपेक्ष्य परम-शिवः किञ्चित् अग्रेसृतः। तथा हि, अचिन्तनीयं किमपि घटितम्! बालकः लौह-दण्डेन भगवन्तं शिवम् अताडयत्। “अन्तः नैव प्रवेशार्थं मया पूर्वमेव प्रतिबोधितं नासीत् किम्...?”

        भगवान् शिवः अतितरां क्रुद्धः सञ्जातः। किञ्चित् कालं विचिन्त्य ततः निर्गन्तुम् असौ निरणैषीत्। ततः प्रस्थानात् प्राक्, भगवान् शिवः बालकम् अब्रवीत् - “एतादृशः अहङ्कारः! त्वादृशं लघु-बालम् अनुशास्तुं मम गणाः एव अलम्।”

        त्वरितमेव भगवान् शिवः स्वीय-गणान् आकारयत् आदिशत् च, “गच्छन्तु, भवन-द्वारि प्रहरित्वपरम् अहङ्कारिणं बालं सम्यक्तया शिक्षयन्तु।” 

        भगवतः शिवस्य सायुधाः गणाः स्वामिनः आज्ञां पूरयितुं द्रुतमेव भवन-प्रवेश-द्वारं प्रति धाविताः। पार्वत्याः सुतः अमुना बलप्रदर्शनेन न किञ्चिदपि भीतः। गण-प्रमुखः तार-स्वरेण अवदत् – “कथं त्वं भगवन्तं शिवं समाह्वयितुं प्रभवषि? वयं त्वां व्यापादयिष्यामः।” 

       विनैव कमपि उद्वेगम्, पार्वत्याः सुतः तान् अब्रवीत् – “मम मातुः भगवत्याः पार्वत्याः इच्छानुसारम् अहम्, भवतां स्वामिनः आज्ञानुसारेण च भवन्तः आदिष्टाः स्मः। नाहं मनागपि परावर्तिष्ये।”    

       “भगवत्याः पार्वत्याः सुते अस्मिन् आक्रमणमिदं किं समुचितम्?” - इति शिव-गणाः द्वन्दाभिभूताः जाताः। बालके अस्मिन् विनैव किमपि आक्रमणं ते परावर्तिताः। तत्रान्तरे, भगवती पार्वती यत् किमपि घटितमासीत्, तद् अभिज्ञातवती। 

      “परम-शिवस्तु मम पतिः अस्ति, तथ्यम् अपरीक्ष्य एव, सः मम सुतम् आक्रान्तुं प्रायतत, अहं मदीय-पुत्रस्य गौरवं रक्षिष्यामि”– इति सा निर्णीतवती।               

     गणाः भगवन्तं शिवम् उपगम्य सर्वं यत् घटितं तत् वर्णितवन्तः। तत् श्रुत्वा शिवः आदिशत् यत् “यदि वयं परावर्तामहे, सः अस्मान् भीतान् अवगमिष्यति, गच्छन्तु, तं पराजित्य प्रत्यागच्छन्तु।”

    भगवतः शिवस्य सद्यः आदेशं श्रुत्वा, नूतन-बल-सम्पन्नाः गणाः भवनं प्रति द्रुतं प्रयाताः। नन्दिकेशः गणानां प्रमुखः आसीत्। आत्मानं प्रति आगच्छतः गणान् दृष्ट्वा पार्वती-पुत्रः अवोचत् – “अहं तु केवलं मदीय-जनन्याः आज्ञां परिपालितवान्। न मया भवन्तः किञ्चिदपि बाधिताः, तर्हि कथं माम् आक्रमन्ते?” परञ्च गणाः न किञ्चिदपि सम्भाषितुम् उद्यताः आसन्। युद्ध-समाघोषान् घोषयन्तः ते आक्रान्तुम् आरभन्त। एवं हि, भीषणं युद्धं प्रवृत्तम्। यद् अनुवर्तितं तद् आश्चर्यकरं नासीत्! पार्वती-पुत्रस्य एकाकिनः युद्ध-वीरस्य समक्षं स्थातुम् अशक्ताः गणाः सपदि पराजयं स्वीकृतवन्तः। देवाधिदेवः शिवः स्वीयं भवनं प्रवेष्टुं नार्हत् – इति वार्ता देवलोके अपि प्रसृता। समस्येयं केन प्रकारेण समाधेया? पितामहः ब्रह्मा, स्वर्गाधिपः इन्द्रः च, गहनां विचारणां अकुरुताम्। अन्ततः भगवन्तं शिवम् उपगन्तुं तौ निर्णीतवन्तौ।

       पितामहः ब्रह्मा स्वर्गाधिपः इन्द्रः च, परमशिवम् उपगम्य निज-समवेदनां प्रकटितवन्तौ। शिवः तौ निगदितवान् यत् - “देवी-पार्वतीतः पराभवं न स्वीकरिष्यामि।” 

      “अहं स्वपक्षतः प्रयते।” - इति उक्त्वा ब्रह्मदेवः कैलाश-पर्वतं प्रति जगाम। अनेकैः महात्मभिः सहकृतः पितामहः ब्रह्मा ब्राह्मण-रूपेण पार्वती-पुत्रं मेलितुं प्रयातः। ते प्रवीरं बालम् उक्तवन्तः - “प्रियवत्स! त्वया परम-शिवस्य मार्गः नैव अवरोधनीयः आसीत्।”      

       बालकः अविचलितः एव स्थितः। “सम्प्रति भवान् प्रस्थातुं शक्नोति, अहं केवलं निजमातुः आज्ञाम् अनुपालयामि।” 

       बालकेन ब्रह्मदेवस्यापि वचनम् अन्यथाकृतं इति वृत्तम् आकर्ण्य परमशिवः अतिक्रुद्धः जातः। सः निज-सुतं कार्तिकेयं देवेन्द्रं च आकार्य न्यगदत् यत् – “कार्तिकेयः शिवगणान् सन्नयतु, देवेन्द्रः च देव-सेनाः सन्नेष्यति। तं व्यापादयन्तु।” एवं हि, शिवगणाः देवसेनाः च, भवन-प्रवेशं प्रति प्रयाताः।                               

       एतद्-घटना-जातस्य वृत्तम् अवगम्य देवी पार्वती भगवतीं महाकालीं देवीं दुर्गां च आकार्य निरदिशत् यत् – “मम सुतः एकाकी वर्तते। अत्रभवत्यौ द्वेSपि तस्मै साहाय्यं कुरुतात्।”

       यथैव महाकाली आदेशमेनम् अशृणोत्, सा युद्धभूमिं प्रति सपदि प्रयाता। तया देवसेनाः लक्ष्यीकृताः। देवानाम् आयुधानि तया ग्रसितुं आरब्धम्। भीताः सन्तः देवाः पलायिताः। तत्रान्तरे, भगवती दुर्गा शिव-गणानां सेनानां साम्मुख्यं व्यदधात्। तस्याः बलं सोढुम् अक्षमाः निःसहायाः गणाः स्व-जीवित-रक्षार्थम् इतस्ततः पलायिताः।

       एतत्-सर्वं घटितम् अवगम्य भगवान् विष्णुः परमशिवं परामर्शितवान् – “महादेव! न कश्चन सम्मुखात् बालमेनं पराजेतुं शक्नोति। वयं केवलं कपटेन एव तं पराजेतुं शक्ष्यामः।” 

       पार्वती-पुत्रम् आक्रान्तुं महाविष्णुः महादेवः च पृथक्-पृथक् दिशां प्रति प्रयातौ। एकतः, महाविष्णुः बालकस्य सम्मुखम् आक्रमणम् आरभत, अपरतः, महादेवः त्रिशूलेन पश्चभागात् बालकमेनम् आक्रमत। शिवस्य त्रिशूलेन बालकस्य शिरच्छेदः कृतः। युद्धं समाप्तम्। परञ्च परमशिवः दुःखी अभवत्। “अहं देव्याः पार्वत्याः पुत्रं मारितवान्। मम पत्न्याः कृते किञ्चिदपि पीडादायि कार्यं मया नैव करणीयमासीत्।”

       अपराध-बोधाविष्टः परमशिवः देवीं पार्वतीं मेलितुम् अगच्छत्। स्वीय-सुतस्य निधन-वार्तया सा अदम्यं क्रोधम् अनुभवति स्म। “अत्रभवता मम पुत्रस्य जीवनं परावर्तनीयम् - इत्यहं वाञ्छामि। नैतावन्मात्रम्! देवेषु सम्माननीयं गौरव-पदमपि अस्मै प्रदेयमित्यपि वाञ्छामि। ततः परमेव मम क्रोधः अपगमिष्यति” - इति देवी पार्वती चीत्कृतवती। एतत् आकर्ण्य परमशिवः भवनात् बहिः निर्गत्य देवान् आदिशत् – “कृपया उत्तरदिशां प्रति गत्वा प्रथमं सम्मुखीक्रियमाणस्य प्राणिनः शिरश्छेदं कृत्वा च पार्वत्याः सुतस्य जीवनार्थं तत्-शिरःसन्धानं कुर्वन्तु।” देवाः सपदि एव निर्गताः |

       ते सर्वप्रथमं दीर्घ-दन्तिनं गजम् अपश्यन्। ते गजस्य शिरोवधं कृत्वा भवनं प्रत्यागताः। पार्वत्याः सुतस्य जीवनार्थं तस्य देहोपरि ते गजस्य शिरः स्थापितवन्तः। ते गजाननं बालं पार्वतीं उपानीतवन्तः। सा प्रसन्ना जाता। सा तं गजाननं स्वीय-अङ्के उपावेश्य भगवन्तं शिवम् अकथयत् यत् – “अस्मै देवेषु किं पदम् उपायनीक्रियते?”       

       परमशिवः गजाननस्य शिरसि निज-करपल्लवस्य स्पर्श-पुरस्सरं तस्मै आशीराशिं प्रदाय अवदत् – “अद्य प्रभृति बालोऽयं गणान् सन्नेष्यति, अतः गणेशत्वेन अर्थात् गणानां स्वामित्वेन लोकेषु पूजयिष्यते।” 

       भगवती पार्वती अतितरां प्रसन्ना अभवत्। परमशिवः पुनरपि अवदत् यत् - “अस्मदीयोऽयं सुतः विघ्नानि अपाकर्तुम् उत्पादयितुं चापि शक्तिं सन्धारयति। अतः असौ विघ्नेश्वर-रूपेणापि ख्यापयिष्यते। विघ्नानि दूरीकर्तुं केवलं विघ्नेश्वस्य प्रसन्नता अपेक्ष्यते।”  

      एतत् श्रुत्वा देवाः सादरं गण-नायकं गणेशं नमस्कृतवन्तः। प्रसन्नः गजाननः गणेशः सर्वेभ्यः स्मितवदनः सञ्जातः।  

                                  ... डॉ. बलदेवानन्द-सागरः 

                                                   Email -  baldevanand.sagar@gmail.com

Monday, 10 August 2020

राष्ट्रभाषा हिब्रूभाषा” इति सङ्कल्पसाधकं स्वाभिमानि इजरायलम्।


-डा.भारती शर्मा 

-आचार्य: रामकृष्णशास्त्री  च (जयपुरम्)

       द्विसहस्रवर्षेभ्यः यावत् विश्वस्य विविधराष्ट्रेषु इतस्ततः भ्रमणशीलानां यहूदीनां न तु स्वराष्ट्रमासीत्  नापि भूमिः न च संस्कृतिः। परन्तु ते मातृभुवं प्रति दृढसंकल्पाः आसन् यत् यदापि पुनः मेलिष्यामः जेरुशेलमे एव। तस्मिन् काले तान्निकषा इजरायलदेशः यहूदीसंस्कृतिः हिब्रूभाषा च नासन् । स्वसङ्कल्पं साधयितुं ते उत्साहिनोऽस्यां पृथिव्यां भ्रमन्तः यदापि परस्परममिलन् स्वसङ्कल्पमस्मरन् यदस्माकं पुनः मेलनं जेरुशेलमे एव भविष्यति । सङ्कल्पः पूर्णतामयात् । यहूदयः इजरायलदेशं 1948 ई.तमे वर्षे प्राप्नुवन्। विश्वस्य लघुतमेषु राष्ट्रेष्वन्यतमः एष देशः चतसृषु दिक्षु अरबराष्ट्रैः आवृतः निर्जनमरुभूमिः आसीत् । 

मरुस्थलं मरुस्थलमिवासीत्, तथैव मृदा । कालान्तरे इजरायलवासिनां सोत्साहपरिश्रमेण मृदायामद्भुत-परिवर्तनमारब्धम् । मरुभूमेः कृषकराष्ट्रमिदं सम्प्रति विश्वाय उन्नतकृषितकनीकिं विक्रीणाति। प्रतिदिनं नैक 'टन' परिमितं शाकानि फलानि च यूरोपं प्रति प्रेषयति। अद्य या “ड्रिप इरिगेशन सिस्टम” इत्याख्या प्रथिता सेचनप्रणाली जगता उपयुज्यते सा इजरायलेनाविष्कृता। विश्वस्य शक्तिसम्पन्नासु गुप्तचरसंस्थासु इजरायलदेशस्य मोसाड इति नाम्नी गुप्तचरसंस्थान्यतमा वर्तते ।        

इजरायलं स्वाभिमानस्य आत्मविश्वासस्य आत्मसम्मानस्य च प्रतीकमस्ति । तस्य देशस्य जनसंख्या प्रायः अशीतिलक्षमात्रमस्ति । तत्र देशस्य एकायाः सीम्नः अपरां सीमानं गन्तुं घण्टात्रयं चतुष्टयं वा पर्याप्तमस्ति इत्यनेन तत्रत्याः  विकसितपरिवहनव्यवस्था ज्ञायते । पृथिव्याः जलराशेः द्विप्रतिशतं जलमेव तस्य जलसम्पत्तिः। प्राकृतिकसंसाधनानां प्रायोऽभावः। कदाचिद्  भगवतापि तद्राष्ट्रं प्रति समदृष्टिः न धृता यतोहि समीपस्थेषु अरबदेशेषु तैलस्य प्राचुर्यम्, इजरायले तदपि नास्ति। 

इजरायलं राजनीतिकजीवन्ततायाः बोधस्य च पराकाष्ठां धारयति । तस्मिन् लघुराष्ट्रे आहत्य द्वादशराजनीतिकदलानि वर्तन्ते । यद्यपि अद्यावधि न किमपि दलं पूर्णजनमतैक्येन सर्वकारं स्थापयितुं समर्थमभवत् । तथापि तत्र पूर्णतः ऐक्यं दृश्यते- राष्ट्रस्य सुरक्षायै सम्मानाय स्वाभिमानाय हिताय च । एतेषु विषयेषु न तु किमपि दलम् अनुचितपथा सन्धानं करोति न च सर्वकारस्य पतनाय सत्तारूढं संघं भीषयते । इजरायलस्य स्वकीया राष्ट्रियहितावली भवति या सर्वैः दलैः समाद्रियते । 

14 मई 1947 तमे वर्षे इजरायलस्य स्थापनायां सत्यां जगतः सर्वेभ्यः राष्ट्रेभ्यः यहूदयः तत्रागच्छन् । अस्माकं भारतदेशादपि सहस्राणि यहूदयः स्थानान्तरिताः अभूवन् । विविधेभ्यः देशेभ्यः आगन्तॄणां प्रवासिनां भाषाः भिन्नाः आसन् । अतः पश्नः उद्गतः यद्देशस्य भाषा का भवेत्? तेषां हिब्रूभाषा तु प्रायः द्विसहस्रवर्षेभ्यः मृतेवासीत् । अत्यल्पाः जनाः एव हिब्रूम् अजानन् । अनया भाषया रचितस्य प्राचीनसाहित्यस्यापि अल्पतासीत् । नूतनसाहित्यस्य तु सर्वथैव अभावः। अतः केनापि जनेन आङ्ग्लभाषां देशस्य सम्पर्कभाषां कर्तुं स्वमतं प्रकटितम् । परन्तु स्वाभिमानिनः इजरायलवासिनः कथमेतत् सहेरन् ? तैरुक्तम् अस्माकं हिब्रूभाषा एव जनभाषा भविष्यतीति निर्णीतम् । किन्तु व्यावहारिकदृष्ट्या नैकाः समस्याः विस्फारितमुखाः आसन् । अत्यल्पाः जनाः हिब्रूभाषया परिचिताः आसन् अत एव इजरायलसर्वकारेण हिब्रोः ज्ञानाय मासद्वयस्य पाठ्यक्रमः निर्धारितः। तेन  विश्वस्य महतः भाषाभियानस्य प्रारम्भः जातः। यस्य कालावधिः पञ्चवर्षाण्यासन् । एतस्याभियानस्यान्तर्गते सम्पूर्णे देशे ये केऽपि हिब्रूज्ञानिनः आसन् । ते नित्यं प्रातः एकादशवादनादाराभ्य एकवादनं यावत् स्वगृहस्य निकटस्थे विद्यालये  हिब्रूम् अपाठयन्। अनेन प्रकारेण बालाः तु पञ्चसु वर्षेषु हिब्रूं शिक्षिष्यन्ते परं प्रौढानां किमिति । एतस्य समाधानाय पाठशालासु अधीयानैः बालकैः प्रतिदिनं सायं काले पितरौ प्रतिवेशिनः प्रौढाः वृद्धाः च पाठिष्यन्ते इति व्यवस्था कल्पिता। तत्रापि बालाध्यापकानां पाठने त्रुटिः भवितुमर्हतीति स्वाभाविकम् । तन्निराकर्तुं 1947 ई.तमस्य वर्षस्य अगस्तमासतः आरभ्य 1953 ई. वर्षस्य मई मासं यावत् हिब्रूभाषायाः मानकपाठस्य रेडियोमाध्यमेन प्रसारणमभवत् । इत्थं बालेभ्यः पाठनकाले याः त्रुटयः विहिताः तासां त्रुटीनाम् अपाकरणं वयस्काः रेडियोपाठमाध्यमेन सम्यगवगम्य स्वयमेव करिष्यन्तीति निर्धारितम् । अनेन क्रमेण 1953 ई. वर्षेऽभियानस्य सम्पूर्तिकाले केवलं पञ्चसु वर्षेषु इजरायलं हिब्रूभाषायां शतप्रतिशतसाक्षरतामाप्नोत्।

अधुना हिब्रूभाषया नैके शोधप्रबन्धाः प्रकाशिताः। लघ्वस्मिन् राष्ट्रे समग्रराज्यकार्यम्, अभियान्त्रिकि-चिकित्साशास्त्रमित्याद्यः सर्वविधाः उच्चशिक्षाश्च हिब्रूभाषयैव सम्पाद्यन्ते । इजरायलदेशमवगन्तुं ज्ञातुञ्च  अपरेषां राष्ट्राणां छात्राः हिब्रूं पठितुमारब्धाः।

एतादृशं देशमस्ति इजरायलम् । जीवन्ततायाः जिजीविषायाः स्वाभिमानस्य च मूर्तिः।  

भाषासंस्कृत्योः विषयेऽस्माकं का स्थितिः? अद्यापि वयं दैन्येन आङ्ग्लं प्रति दत्तदृष्टयः स्मः। कथं संस्कृतं जनभाषां कर्तुं न क्षमाः वयमिति चिन्तनीयम् ।


Saturday, 4 July 2020


हिमगिरि-श्रृङ्गम् (देश भक्तिगीतम्)
रचयिता- अय्यम्पुष़ हरिकुमारः
गीतस्य यूट्यूब् सूत्रम् - https://youtu.be/33mdYpnlkUA

हिमगिरि-श्रृङ्गम् उत्तुङ्गम्
भारतमातुर्मणि मकुटम्।
गङ्गा-यमुना-सिन्धु-सरस्वती
प्रवहति मातुर्हृदयतटम् ॥

काश्मीरादि महोन्नतदेशे विकसन्त्यधुना कुसुमानि।
गायन्त्यचिरात् तानि सुमानि
वन्देमातरगानानि वन्दे-मातर-गानानि ॥

(वन्दे मातरम् ... मलयज-शीतलाम्)
(हिमगिरि ...)
आरब-वंङ्ग-महोदधिनायुत
हिन्दुसमुन्द्रो स्तौति चिरं ताम्।
तस्य तरङ्गकरेण हारेण
अर्च्यते मम भारतमात ... ॥
(हिमगिरि ... )
-----------------------------

Sunday, 24 May 2020

कोरोनाकाले 

-च मू कृष्णशास्त्री

spf
सम्पूर्णं भारतं विश्वं च कोरोनाग्रस्तम्। एतत् कोरोनाप्रकरणं कियत्कालं प्रचलेत् इति विषये कस्य अपि स्पष्टज्ञानं नास्ति। सर्वैः कोविदकोविदैः ऊह्यते यत् वर्षद्वयं यावत् एषा गम्भीरा चिन्ताजनिका स्थितिः अनुवर्तेत। कदाचित् ततोधिककालम् अपि स्यात् तथा च अस्माभिः कोरोनया सह जीवनस्य अभ्यासः करणीयः इति। सद्यः तु जून-जुलै-अगस्ट-मासेषु तु भारते कोरोनारोगवतां सङ्ख्या शिखरं प्राप्नुयात्। तदा अन्तिमवर्षीयाणां छात्राणां परीक्षाः कथं करणीयाः, नूतनशैक्षिकवर्षस्य आरम्भः केन प्रकारेण स्यात्, छात्राणां के क्लेशाः स्युः इति विषये बहवः

Friday, 17 April 2020

नीतिसारमवलम्ब्य कृतम् 
अभिनवनीतिसारम्
Muthalapuram Mohandas
-मुत्तलपुरं मोहन्दास्







प्रणम्य शैलजामाद्यम् आत्मविश्वासदायिनीं
नीतिसारं प्रवक्ष्यामि कोविदामयमुक्तये।।
Let me, at the outset, pay my due respects to Shailaja, who gives self confidence and then shall I describe the proper things to do in escaping the hardships rendered by Covid-19 the virus, in these days.

अपारे रोगसंसारे कोविदेकः प्रजापतिः
यथास्मै रोचते विश्वं तथेदं परिवर्तते।।
In this world of endless diseases Covid-19 is the undisputed emporer. This world has to change itself in accordance with its whims.

श्रूयतामद्य कर्तव्यं श्रृत्वा चैव समाचरेत्।
आत्मनः प्रतिकूलाणुं*  मा परेषु प्रसारयेत्।।
Listen to what is the proper things that should be done during this lockdown. It is important to translate these into deeds. Corana virus*  that you may have acquired should not be shared with others.

अपरीक्ष्य न कर्तव्या चिकित्सा स्वयमेव च।
कदाचित् भवति सन्देहः कोविदे ‘जलदोष’वत्।।
Don’t administer medicines to yourself, without proper diagnosis. Covid 19, through symptoms, may sometimes be misunderstood as Common Cold.

संसर्गेण हि सिद्ध्यन्ति कोरोणा तेन बाधितैः
नहि गुप्तस्य मर्त्यस्य प्रविशन्ति मुखेणुकाः।।
One contracts Corona only through close contact with another who already is affected. The virus can't just rush into the mouth of anybody wearing a mask.

किं कुलेन विशालेन विद्याभ्यासेन देहिनां
किं धनेन प्रतापेन कोरोणाणुरुपस्थिते।।
What use are family traditions, education, wealth and eminence in the wake of Corona?

मुखछदो* मुखे यस्य कोरोणा किं करिष्यति?
अस्थाने पतितोणुको स्वयमेवोपशाम्यति।।
What can a virus do to one who wears a *mask? Germs reaching wrong places perish gradually.

अवश्यमनुभोक्तव्यो कष्टकाल* इहागतः।
नास्ति गत्यन्तरं ह्यद्य कोरोणाणुविनाशनात्।।
We have to endure the hardships due to the current *Lock Down, as we have no other option except eliminating the Corona Virus.

धान्यपोषणशीलत्वं वत्सपोषः स्वयंकृषी
पित्रोस्सेवनमुत्तमं कोरोणामयकालिकम्।।
The good things that one can do during confinement to one’s home,  during the Lock Down include agricultural activities like growing crops and vegetables, caring for children and nursing parents etc.

सर्वकारो विजानाति जनोद्बोधनकष्टताम्।
नहि मूर्खा विजानन्ति कोरोणाणुकवैभवम्।।
Only those in the Government know the difficulty in building awareness among the public. Alas, many of the block-headed do not comprehend how fierce this virus situation actually is.

आरण्यरुदितं जातं सर्वकारप्रबोधनम्।
लीयते च जनारावे रक्षकाणां प्ररोदनम्।।
The forebodings of the Government becomes mere cries in the wild. The imploring of the police too are wasted in the public noise.

अनाच्छाद्य मुखं स्वस्य हसन्तं वा भषन्तं वा
ज्वरकफबाधितश्चेत् दूरतः परिवर्जयेत्।।
Those who laugh aloud, cough or sneeze without covering the mouth and nose, as well as those who are suffering from cold and/or fever should (compulsorily) be isolated.

अर्थाः गृहे निवर्तन्ते श्मशाने पुत्रबान्धवाः
नूतनं वासमन्विष्य निवर्तेताशु कोविदः*।।
At the call of death, wealth deserts at home, relatives at the graveyard. The covid germ* leaves a dead body and seeks a living one.

माता पिता वा शत्रुस्स्यात् कोविदेन तु बाधितः।
सभामध्ये धरेत्तस्मात् मुखावरणमुत्तमम्।।
Once one contracts Corona, even parents will be like enemies.
So make it a practice to wear a good face mask when you meet others.

एकधा च दशधा शतधा च सहस्रधा च
रणे पार्थशरोवृष्टिस्तथा कोविदव्यापनम्।।
The Covid spreads like the arrows from Arjun’s bow. One initially, multiplies into ten, then into hundred in flight and thousand while reaching the target.

हर्ताल् कदा भवति? कारणमस्य किं वा?
मृत्तैलमूल्यमधिकं बत! जायते वा?
सामूहिकं सपदिकोविदव्यापनञ्च
जानाति नैव जगदीश कुतो मनुष्यः?
The hike in petrol prices, outset of a hartal and its causes cannot be predicted. Similarly when Corona turning into pandemic proportions is not known
to the Almighty. What to say then about man’s helplessness!

शकटं पञ्चहस्तेषु दशहस्तेषु वाजिनं
गजं हस्तसहस्रेषु कोरोणां दूरतस्त्यजेत्।
One should keep oneself away by five palm length from vehicle, ten lengths from horse, thousand from elephant. The distance should be even greater from Covid-affected.

मानवस्य लघुतामुदाहरन्
राष्ट्रदुर्मदमपि च संहरन्।
कोविदस्य च समीक्ष्य ताण्डवं
ज्ञायतेह विधिरेव शक्तिमान्।।
Observing the way the virus is running riot, proving that  man is insignificant and suppressing the rudeness of the monopolies of the superpowers, feel after all destiny is omnipotent.

रूपयौवनसम्पन्ने विशालकुलसंभवे
विद्वज्जने च मूढे वा कोविदस्य नहि भेदः।
Covid-19 makes no partiality among the wise and foolish, elegant and ugly,  elite, lowly, young and old.

सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात्
वायसात् पञ्च शिक्षेच्च शतं कोविदसद्गुरोः।
We have to learn a lesson each from lion and stork, four from chicken , five from crow and hundreds from this eminent teacher called Covid 19.

अनित्यानि शरीराणि वैभवं नैव शाश्वतं
नित्यः सन्निहितो मृत्युः प्रलयकोविदादिभिः।
The body is destructible. One’s skills are perishable. The only sure and eternal thing is death, which is so close to all. It can come through Covid infection or deluge etc..

परोपि हितवान् बन्धुः बन्धुरप्यहितः परः
कोविदे मूर्च्छिते राष्ट्रैर्ज्ञायतेदं सुभाषितम्।
If an other person, though enemy , acts according to what is good for us, he is indeed the best friend. Foe is one who does what is not suited. Many countries
realized the essence of this saying, when Covid 19 spread.

पुस्तकस्थापिता विद्या परदेशगतः पुत्रः
परहस्तगतं वित्तं किं कृते कोविदागते?
Once Covid strikes, what use is there of the wisdom only in books, a son in a far away country or one’s money that is in other’s possession!

मरणान्तानि वैराणि प्रणतान्ता हि कोपिता
याचितान्तञ्च गौरवम् एवं वदति कोविदः।
Covid says: With death ends all enmity, Anger dies with humility, Self respect when forced to beg. (We have seen how many “cleverer than thou’ attitude of many monopoly nations turning into humble request)

अग्निःशेषं ऋणःशेषं शत्रुशेषं कोरोणाणुं।
पुनः पुनः प्रवर्धेत तस्मात् शेषं न कारयेत्।
It is not prudent to leave alone fire, debt and Corona parasite; however miniscule they be. Such an error may result in uncontrolled growth.


Tuesday, 31 March 2020

संसिद्धाः स्याम वयम्।                -शिशुगीतम्
भाषान्तरीकरणम् - षिबुकुमारः के            

 षिबुकुमारः के
संसिद्धाः स्याम वयं, संसिद्धाः स्याम वयं
संसिद्धाः स्याम वयम् एकदा।
ओहो! चित्ते खलु विश्वासः, पूर्णो हि विश्वास:
संसिद्धाः स्याम वयम् एकदा॥

स्वस्तिर्भूयात् सर्वेषां, स्वस्तिर्भूयात् सर्वेषां
स्वस्तिर्भूयात् सर्वेषां  सर्वदा।
ओहो! चित्ते खलु विश्वासः, पूर्णो हि विश्वासः
संसिद्धाः स्याम वयम् एकदा॥

वयं चलाम सम्मिल्य, वयं चलाम सम्मिल्य
वयं चलाम सम्मिल्य एकदा।
ओहो ! चित्ते खलु विश्वासः, पूर्णो हि विश्वासः
संसिद्धाः स्याम वयं एकदा॥

वयं न भीताः केभ्योऽपि, वयं न भीताः केभ्योऽपि
वयं न भीताः केभ्योऽपि साम्प्रतम्।
ओहो ! चित्ते खलु विश्वासः, पूर्णो हि विश्वासः
संसिद्धाः स्याम वयं एकदा॥
संसिद्धाः स्याम वयम्
--------------------------------------------------

Tuesday, 25 February 2020

॥ ज्योतिषामयनं चक्षुः॥
 (शास्त्रम्)
डा. ईश्वरन् ई एन्
Research Article No: 20200225
Dr. Eswaran E. N.
Asst. Professor.
Govt: Sanskrit College,
Thripunitura, Kerala.

       ज्योतींषि सन्ति अत्र विवचनीयत्वेन इति ज्योतिषम् अर्शादिगणपठितज्योतिश्शाब्दात् मत्वर्थीये अच्प्रत्यये ज्योतिषशब्दः निष्पन्नः भवति। ज्योतिश्सम्बन्धिशास्त्रम् इत्यर्थे ज्यौतिषम् इत्यपि व्यवहर्तुं शक्यते। ज्यौतिषम् ज्योतिषं ज्योतिश्शास्त्रम् इत्यादीनि पर्यायपदानिभवन्ति। अन्यथा ज्योतिषम् इत्युक्ते Astrology इति व्यवह्यियमाणम् ज्योतिश्शास्त्रम् इत्युक्ते Astronomy इति व्यवह्यियमाणम् च भवति इति केचन चिन्तयन्ति। तथा ज्योतिश्शास्त्रमेव शास्त्रम्ज्योतिषमन्धविश्वासः इति ते वदन्ति। तत्सर्वं सर्वथा असमञ्चसम्। Astrology इति वक्तव्ये ज्योतिषस्य फलभागः इति Astronomy प्रमाणभागः इति च शुद्धः व्यवहारः। प्रकाशकवस्तूनां शास्त्रमेव ज्योतिश्शास्त्रम्। अत्र प्रकाशः नामव्यक्तीभाव इत्यर्थः। व्यक्ततया मूर्ततया विद्यमानाः सकलपदार्थाः अपि ज्योतिश्शास्त्रविषयाः भवन्ति। तथा प्रकाशयितुं योग्यानामपि शास्त्रं ज्योतिश्शास्त्रं इत्यर्थः। इत्युक्ते प्रपञ्चे समस्तचराचरदृष्टादृष्टपदार्थाश्च ज्योतिश्शास्त्रप्रतिपाद्यविषयाः भवन्तीति भावः।

ज्योतिषम् वेदाङ्गशास्त्रम्
    भारतीयानां परमप्रामाणिको ग्रन्थः वेदः। स च वेदः ऋग्-यजुः-साम-अथर्वनाम्ना चतुर्था विभक्तः। एवं भूतस्य वेदस्य संज्ञानाय षट् शास्त्राणि प्रवर्तन्ते। तन्येव वेदाङ्गानि इति ज्ञायन्ते। उक्तञ्च प्रश्नमार्गे –
ज्योतिः कल्पो निरुक्तञ्च शिक्षा व्याकरणं तथा।
छन्दोविचितिरेतानिषडङ्गानि विदुः श्रुतेः॥1 इति।
ज्योतिषं कल्पः निरुक्तं शिक्षा व्याकरणं छन्दः इत्येतानि श्रुतेः वेदस्य षडङ्गानि जानन्ति इत्याशयः। अत एव षट्सु अङ्गेषु प्रधानभूतमङ्गं वेदपुरुषस्य नेत्रस्थानीयं च भवति ज्योतिश्शास्त्रम्। वेदस्य पादौ छन्दः मुखं व्याकरणं, हस्तौ कल्पः नेत्रे ज्योतिषं नासिका शिक्षा कर्णौ नरुक्तम् इत्याद्यङ्गविभागकल्पनां कृतवन्तः ऋषिश्रेष्ठः प्रयोजनमनुसृत्य।
उक्तमपि वर्तते यथा -
छन्दः पादौ शब्दशास्त्रं च वक्त्रं
कल्पः पाणी ज्योतिषं चक्षुषी च।
शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं
वेदस्याङ्गान्येवमाहर्मुनीन्द्राः॥ 2 इति।
प्रतिवेदं ज्योतिषमपि भिद्यते आर्चं याजुषमित्यादि। लगथाचार्यः वेदाङ्गज्योतिषे प्रसिद्धः आचार्यः।
ज्योतिषम् प्रत्यक्षशास्त्रम्
प्रत्यक्षं ज्योतिषं शास्त्रं
चन्द्रार्कौ यस्य साक्षिणौ॥
इति वचनात् सूर्यः चन्द्रः इत्यादि यथा तथैव प्रत्यक्षमिदं शास्त्रम्। तावद्व्यावहारिकं प्रायोगिकं चेति भावः। नित्यनैमित्तिकानुभवानां साक्षीभूतम् इत्यपि वक्तुं शक्यते। अन्तरिक्षं, ग्रहनक्षत्रादिस्थिति, तिथि इत्याद्यः ज्योतिश्शास्त्रसम्बन्धिविषयाः प्रत्यक्षमेव भवेत् ज्योतिष्कस्य। दृक्समतायाः प्रामुख्यमस्ति इति भावः।

ज्योतिषं सूचनाशास्त्रम्
  ज्योतिषं सूचकशास्त्रम् भवतीत्युक्ते एतेन एवमेव भवितव्यम् इति विधानं न करोति अपि तु एवं भवितुमर्हति इति सूचनाकरोतीत्येव। "सूचयन्ति ग्रहाः सर्वे'' इति आचार्याणामुक्तिः। अपि च परिहारेण कर्मणा वा अनुभोक्तव्यस्य भेदान् कर्तुं शक्नोतीत्यर्थः।

ज्योतिषं व्यञ्जकशास्त्रम् प्रकाशकशास्त्रम्
यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पंक्तिम्।
व्यञ्जयति शास्त्रमेतत् तमसि द्रव्याणि दीप इव॥ 4
इति वराहमिहिरोक्त्या पूर्वजन्मार्जित शुभ-अशुभ-शुभाशुभकर्मणां परिपाकम् अन्धकारे दीपः पदार्थान् इव प्रकाशयति शास्त्रमेतदिति भावः।

ज्योतिषं सर्वशास्त्रशिरोलङ्कारभूतम्
यथा शिखा मयूराणां नागानां मणयो यथा।
तथा वेदाङ्गशास्त्राणां ज्योतिषं मू्र्ध्नि संस्थितम्॥ 5/22
इति वचनात् सर्वशास्त्राणां शिरोलङ्कारभूतं भवति ज्योतिषम् इति ज्ञायते। इतरशास्त्राणामिव ज्योतिषस्यापि पुरुषार्थसाधनाप्रवृत्तिरस्ति। किन्तु फलप्रवचने सुव्यक्तं स्थापिता काचित् पद्धतिः ज्योतिषमात्रवैशिष्ट्यम्। इत्येवास्मै सर्वशास्त्रशिरोलङ्कारत्वं प्रददाति। आयुर्वेद-तन्त्र-मन्त्र-शिल्प-वास्त्वादि नानाशास्त्राणामपि आश्रयत्वम् ज्योतिषस्येति भावः।
टिप्पणी
1. प्रश्नमार्गः 1-10
2. प्र. मा., 1-11.
3. आर्चज्योतिषम्, 36
4. लघुजातकम्,1-3.
5. आर्चज्योतिषम् 35.
6. बृहत्संहिता 1-8.
7. प्रश्नमार्गः, 1-5,6.

Thursday, 20 February 2020

कविता
कुञ्जिका
- डा. गदाधरत्रिपाठी






प्रवृत्तिश्चैव जीवानामशुभा नु शुभा हि वै।
तया तेषाञ्च कार्याणि  सम्पादितानि सर्वदा ॥

जानन्नपि मनुष्या ह्यकृतकार्ये रतास्तथा।
हरन्ति परवस्तूनि प्रहरी तेन निर्मितः ॥

नरभिन्नाश्च जीवा ये ज्ञानहीनाश्च सर्वथा।
किं कुर्वन्ति न जानन्ति   प्रवृत्ति: सहजा सदा ॥

देववाण्यां तु तालं वै  प्रहरीत्युच्यते तथा।
विदेशादागतस्ताला गृहान् रक्षति सर्वदा ॥

यथा भर्ता समर्थो हि रक्षणे पालने तथा।
जायां विना निरीहः स दयनीयस्तु सर्वदा ॥

तालस्यानवरोधस्तु कुञ्जिकया च सर्वदा।
तालार्थे कुञ्जिका चैव यथा भार्या गृहे तथा ॥

कौशलं कुञ्जिका चैव  सैव भाग्यप्रवर्तिका।
हेतुश्चैव विकासस्य नाम्ना नु कुञ्जिका च वै॥

तथा समर्थता ताले रक्षणे सक्षमः सदा।
कुञ्जिकाया अभावे तु निरीहो विवशो हि वै॥

कुञ्जिका नु तथा चैव व्याप्नोत्यस्मान् हि सर्वथा।
जीवने या च प्राप्तिर्वै कौशलेनैव सम्भवा ॥

सुरक्षायै च तालस्य  भूमिका महती नु वै।
संचालनाय तालस्यानिवार्या कुञ्जिका सदा ॥

गोप्यमेकस्य चान्येभ्यः कुञ्जिकावच्च सर्वदा।
चतुरश्चालयत्यन्यं धूर्तैश्च पीडिता जनाः ॥

कुञ्जिका नु तथा चैव रोधयतीति सर्वदा।
इगिंतेनानेन चैव तालं रक्षति सर्वथा ॥
॥---------------------------------------------॥

Wednesday, 12 February 2020


आश्रमेषु सन्यासाश्रमस्य प्राधान्यम्


Smt. ANU K. S .



Research Article No: 20200112
Smt. ANU K. S 
Research Scholar 
Sree Sankaracharya University of Sanskrit, Kalady.

 
 
ब्रह्मचर्यं च गार्हस्थं वानप्रस्थं तथैव च
सन्यासश्चेतिभेदेन स्युः चत्वारस्ताश्रमाः।।
     आश्रम्यन्ते स्थियते यस्मिन् सः आश्रमः इति।  आश्रमाः चत्वारः भवन्ति, ब्रह्मचर्याश्रमः, गृहस्थाश्रमः, वानप्रस्थाश्रमः, सन्यासाश्रमः इति।  ब्रह्मचर्येण सदविद्याशिक्षा कर्तव्या। गृहस्थाश्रमादुत्तमाचरणं श्रेष्टानां च पदार्थानां ज्ञानं प्राप्नुयात्। वानप्रस्थाश्रमेणैकान्तिक-सेवनमात्मोपासनं विद्याफलविचारादि च करणीयम्। सन्यासाश्रमे तु परब्रह्ममोक्षपरमानन्दप्रापणं कुर्यात्। एतैः चतुर्भिः आश्रमैः धर्मार्थकाममोक्षकर्मणां सम्यक् सिद्धिः सम्पाद्यन्ते।
यथा च श्रुतिः-
तमेतं  वेदानुवचनेन ब्रह्मणाः विविदिषन्ति यज्ञेन दानेन तपसा।
यज्ञो दानं तपश्चैव मनीषिणाम्।
अत्याश्रमिभ्यः परमं पवित्रम्।
ब्रह्मचर्याश्रमः
    ब्रह्मणि वेदं चरितुं शीलं यस्य सः ब्रह्मचारि। एवं च ब्रह्मचर्याश्रमे “सं रात्रि स्त्रिसः उदरे बिभर्ति तं जातं द्रष्टमभिसंयन्ति देवाः।“  “इयं समित्पृथ्वीद्योद्वितीयोतान्तरिक्षं समिधा पृणाति। ब्रह्मचारि समिधा  मेखलया श्रमेण लोकस्पसा पिपर्ति।“  “पूर्वो जातो ब्रह्मणो ब्रह्मचारि धर्मं वसनास्पसावतिष्टत्।  तस्मात् जातं ब्राह्मणं ब्रह्मज्येष्टं देवाश्च सर्वे अमृतेन साकम्।“
    उपाध्यायः रात्रित्रयं उपनयमानो अनन्तरं  विद्यार्थिनं ईश्वरोपासनारूपधर्मस्य पठनविचारणादि पाठनार्थं उपनयमानं  आचार्यः अन्तः करोति। ब्रह्मचारिणं द्रष्टुं विद्वांसः आगच्छन्ति। तृतीये दिने उपाध्यायः होमं कृत्वा तं संकल्पबद्धं कारयति। सः विद्यार्थि तपसा  वा धर्मानुष्टानेन पृथ्वादीन्, सर्वान् भूतान् सर्वान् प्राणिनश्च प्रसन्नान् करिष्यन्ति।  बारह्मचारि धर्मानुष्टानेन अत्यन्तः पुरुषार्थी भूत्वा सर्वेषां जीवानां कल्याणं करोति। अतः सः विद्यया प्रकाशितः दीर्खकेशश्मश्रुभिः आच्छादितस्सन् दीक्षां गृहीत्वा तपसा विद्यां  लेभे।

गृहस्थाश्रमाः
   “यदाग्रामे यदारण्ये यत्सभायां यदिन्द्रिये यदग्नेश्च कृपा वयमिदं तदवयजामहे स्वाह"
    ब्रह्मचर्याश्रमानन्तरं  गृहस्थाश्रमे  कन्यया सह विवाहं कृत्वा दम्पतिना  नियमेव धर्मेण च स्थित्वा ग्रामवासिनां यथासाध्यं  समुन्नति कुर्यात्। यस्मिन् आश्रमे गुहस्थ भूत्वा जीवयापनं क्रियते  तम् आश्रमः गृहस्थाश्रमः उच्यते।

वानप्रस्थाश्रमः
     वने  प्रकर्षेण नियमेन तिष्ठति चरतीति वानप्रस्थः, वानप्रस्थ एव वानप्रस्थः इति व्युत्पत्तिः। त्रयो धर्मस्कन्धा यज्ञोध्ययनं  दानमिति। प्रथमस्पतः द्वितीयो  ब्रह्मचर्याचार्य कुलवासः तृतीयो∫त्यन्तमात्मानमाचार्यकुले∫वसादनं सर्वे एते पुण्यलोकाः भवन्ति।
    तत्र ऋग्वेदभाष्यभूमिकाभाष्ये अत्र सर्वेष्वाश्रमेषु धर्मस्य स्कन्धा अवयवशस्त्रयः सन्ति। अध्ययनम, यज्ञः, क्रियाकाण्डं, दानं च तत्र  प्रथमो  ब्रह्मचारि तपः सुशिक्षाधर्मानुष्टानेन आचार्य कुले  वसति। द्वितीयो गृहस्थाश्रमी। तृतीयो∫त्यन्तमात्मानवसादयन् हृदये विचारयन् एकान्तदेशं प्राप्य सत्यासत्ये निश्चिनुयात्। स  वानप्रस्थाश्रमीति।

सन्यासाश्रमः
    ब्रह्मसंस्थो∫मृतत्वमेवेति इत्यस्य श्रुतेः आचार्य शङ्करभाष्ये  विशदीक्रियते सर्वे  एते त्रयो∫प्याश्रमिणो  यथोक्तैः धर्मैः पुण्यलोका  भवन्ति।  पुण्यो लोकॊ येषां त इमे पुण्यलोकाः आश्रमिणो  भवन्ति। अवशिष्टस्त्वनुक्तः परिव्राङ् ब्रह्मसंस्थो व्रह्मणि सम्यक् स्थितः सो∫मृतत्वं पुण्यलोकविलक्षणमभरणभावमात्यन्तिकमेति नापेक्षिकं  देवाद्यमृतत्ववत् पुण्यलोकात् पृथग्मृतत्वस्य विभागकरणादिति।१०  अपि चान्यत्र-
तमेतं  वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण तपसा
श्रद्धया यज्ञेननाशकेन चैतमेव विदित्वा मुनिः भवत्येतमेव।
प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति।।११
शान्तोदन्ता उपरतः इत्यत्र उपरतः इति पदं  कर्मपरित्यागरूप सन्यासपरम्। सहकार्याधिकरण वाक्ये तद्वतः विद्यावतः सन्यासिनः बाल्यपाण्डित्यमपेक्षया तृतीयमिदं मौनं विधीयते।१२
    सिद्धान्तलेशसंग्रहप्रतिपादितं भिक्षाचार्यचरन्तीति श्रुत्या च सम्यासः साधनचतुष्टयसम्पन्नस्य विशेषणमिति वदन्ति।  तथा च यः वेदान्तश्रवणो∫धिकारि भवति सः सन्यासी इत्यर्थः।
“त्यक्ताशेषक्रियाश्यैव संसारं प्रणिहासतः
जिज्ञासोरेव चैकाम्यं त्रप्यन्तेष्वधिकारितः।।“१३
    विवरणकारः श्रवणाद्यङ्गतया आत्मज्ञानफलता सन्यासे सिद्धा इति उक्तम्। अनन्यव्यापारेण श्रवणाद्यनुष्टानं सन्यासेनैव सिद्ध्यन्ति। गृहस्थाश्रमेषु श्रुतिविहिताग्निहोत्रादि कर्मकामवश्यानुश्टेयत्वात् परित्यागे प्रत्यवयव श्रवणात् च निरन्तरं वेदान्तश्रवणं दुष्करम्। आतः दुष्टद्वारेणैव सन्यासस्योपयोगः। आश्रमान्तरेषु आर्थात् ब्रह्मचर्ये गुरुशुश्रूषादीनां गुहस्थे कुटुम्बवरणादीनां , वानप्रस्थे च तु इति वेदान्तश्रवणं न सुलभं साधनम्।  चतुर्थे सन्यासे कर्मान्तराणां अभावात्। तस्मात् ब्रह्मसंस्थो∫मृतत्वमेवेति, अपि च सिद्धान्तलेशसंग्रहे तथापि वार्तिके∫पि सन्यासस्य प्राधान्यं  प्रतिपादयन्ति।
गच्छतस्तिष्टता वा∫प जाग्रतः स्वपतो∫पि वा
न विचारपरं चेतो यस्या∫सौनृत उच्यते।
आसुप्तेरामृतेः कालं नयेत वेदानतचिन्तया।१४
आदि वाक्यैः सन्यासपयोग सिद्ध्यति। ब्रह्मणो व्युत्थाय, ब्रह्मण प्रव्रणेत इत्यादि सन्यासविधिवाक्येषु ब्राह्मण पदश्रवणात् तेषामेव सन्यास अधिकारः सिद्ध्यति। केचित् ब्रह्मणस्यैव सन्यासपूर्वक वेतान्दश्रवणं इतरयोस्तु तद्विना वेदान्तश्रवणे∫धिकार इति वदति। अपरे ब्रह्मणस्यैव सन्यासे∫धिकारः इतरयोः विद्वान्सन्यासे∫धिकारः इति च वदन्ति। दिने दिने तु वेदान्तश्रवणात् भक्तिसंयुतात् कृथ्थाशीतिफलं लभेत् इति सिद्धान्तलेशसंग्रहवचनात्  मुख्याधिकारिभिः क्रियमाण वेदान्तश्रवणात् प्रतिबन्धकनिवृत्तिरूपं दृष्टफलं, तधा अदृष्टफलेन आमुष्मिकः फल साधनत्वम्। तथा च भगवत्गीतायां उक्तो∫ यं श्लोकः-
आसक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः
नैष्कर्म्यसिद्धपरमां सन्यासेनाभिगच्छति।।१५
एतैः चतुर्भिः आश्रमैः धर्मार्थमोक्षाणां  सिद्धिः प्रतिपादयति।  अनेन  परमपुरुषार्थ अपि सिद्ध्यति।

BIBLIOGRAPHY
छान्दोग्योपनिषत् -धशोपनिषत्, अडयार्, 1984
ब्रह्मसूत्रम् -मोतिलाल बनारसीदास, दिल्लि, 1988
बृहदारण्यकोपनिषत् -धशोपनिषत्, अडयार्, 1984
  ऋग्वेदभाष्यभूमिका - व्या. श्रीमध्यानन्दसरस्वती, अजमेर, 1985.
 सिद्धान्तलेशसंग्रहः-श्रीमदप्पय्यदीक्षितः, चौखम्बा, वारणासि, 1989.
वेदान्तसिद्दान्तादर्शः - श्री मोहन्लाल, मेडिकालहलमुद्णयन्त्रालय, काशी.
 श्रीमद्भगवत्गीताभाष्य-श्री षङ्कराचार्य, श्रीरामकृष्णमठ, मेलापूर, 1983.
 

सुचितांशाः-

.वेदान्तसिद्धान्तादर्शं p.103
.बृहदारण्यकोपनिषद् 4.4.22
.भगवद्गीता 18.5
.Ibid
.ऋग्वेद भाष्य भूमिका 28.1
.तत्रैव 28.2
.तत्रैव 28.3

..वेभ.भू 28.9

. छ उ 2.23.1
१०. छा..शा.भा.2.23.1
११.शब्दकल्पद्रुमः 14.7.2.25
१२. ब्रह्मसूत्रं 3.4.46
१३. सिद्धान्तलेशसंग्रहः 444
१४.तत्रैव p.451
१५. भगवद्गीता 18.46

Saturday, 18 January 2020


ज्योतिषं कालविधानशास्त्रम्।
 (शास्त्रम्)
डा. ईश्वरन् ई एन्

Research Article No: 20200118
Dr. Eswaran E. N.
Asst. Professor.
Govt: Sanskrit College,
Thripunitura, Kerala.
    ज्योतिषस्य अपरं नाम कालविधानशास्त्रम् इति। "कलयति आयुः'' इति कालः। समयः इति चार्थः। वेदाः यज्ञार्थं प्रवर्तमानाः भवन्ति। यज्ञास्तु कालानुसृतं करणीयाश्च । अतः कालविधानशास्त्रं नाम ज्योतिषं जानाति चेत् सर्वान् वेदयज्ञान् ज्ञातवान् भवतीत्युक्तं वर्तते वेदाङ्गज्योतिषे यथा -
वेदा हि यज्ञार्थमभिप्रवृत्ताः
कालानुपूव्र्याः विहिताश्च यज्ञाः।
तस्मादिदं कालविधानशास्त्रं
यो ज्योतिषं वेद स वेदयज्ञान्।। इति। (आर्चज्योतिषम्, 36)
कालविधानं नाम शुभाशुभकालनिर्णयः। "कालः कलयतामहम्'' इति गीताकारवचनात् ईश्वरीयशास्त्रम् अध्यात्मशास्त्रम् इत्यपि। अथवा मोक्षशास्त्रम् इति।

ज्योतिश्शास्त्रस्वरूपम्
सर्वशास्त्रशिरोलङ्कारभूतं ज्योतिश्शास्त्रं भवति। प्रमाणफलभेदेन द्विधा भवति, तदेव पुनः गणितं संहिता होरा चेति स्कन्धत्रयात्मकं भवति। उक्तञ्च वाराह्राम् -
ज्योतिश्शास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितम्
तत्कास्र्नोपनयनस्य नाम मुनिभिः सङ्कीत्र्यते संहिता।
स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ
होराऽन्योङ्गविनिर्णयश्च कथितः स्कन्धतृतीयोऽपरः।। (बृहत्संहिता 1-8.)
अनेकभेदविषययुक्तं ज्योतिश्शास्त्रं गणितं संहिता होरा चेति त्रिषु विभागेषु कृतम्। अनेकविषयाणां कास्र्नोपनयं समग्रप्रतिपादनमेव संहिता इति मुनीनाम् मतम्। तन्त्रं नाम गणितस्कन्धे ग्रहाणां गतिविगत्यादि साधनमेव। तृतीये होरास्कन्धे अन्यैरङ्गैः निर्णीतस्य पूर्वजन्मार्जितकर्मफ लपरिपाकस्य कथनमेव। एवं त्रिस्कन्धभिन्नं ज्योतिषं वेदा इव षडङ्गयुक्तं वर्तते। जातकं प्रश्नः मुहूर्तः निमित्तं गोलः इति ज्योतिषस्य षडङ्गानि भवन्ति इति प्रश्नमार्गकारः। यथा-
स्कन्धत्रयात्मकं ज्योतिश्शास्त्रमेतत् षडङ्गवत्।
गणितं संहिता होरा चेति स्कन्धत्रयं मतम्।।
जातकगोलनिमित्तप्रश्नमुहूर्ताख्यगणितनामानि।
अभिदधतीह षडङ्गान्याचार्या ज्योतिषे महाशास्त्रे।। (प्रश्नमार्गः, 1-5,6.)
अत्र गोलः गणितञ्च गणितस्कन्धस्य निमित्तं संहिताहोरयोः जातकं प्रश्नः मुहूर्तश्च होरायाश्च अङ्गानि भवन्ति। अत्र गणितं पुनः सिद्धान्तः तन्त्रं करणश्चेति त्रिधोच्यते।
गोलः - गोलीयगणनं प्रतिपादयति।
गणितम् - बीजाङ्कक्षेत्रग्रहगणनं प्रतिपादयति।
निमित्तम् - ग्रहकेतूल्का पक्षिमृगादीनां लक्षणम् प्रतिपादयति।
जातकम् - पूर्वजन्मार्जित कर्मफ लपरिपाकं प्रतिपादयति।
प्रश्नः - इहजन्मार्जितकर्मफ लं प्रतिपादयति।
मुहूर्तः - शुभाशुभकालनिर्णयं प्रतिपादयति।
निमित्तम् - शुभाशुभनिमित्तं प्रतिपादयति।
सिद्धान्तः - राजमुद्रादिमान-कालमानादि युगादिग्रहगणितभेदं च प्रतिपादयति।
तन्त्रम् - कल्यादिगणितभेदं प्रतिपादयति।
करणम् - करणारम्भदिनतः गणनं प्रतिपादयति।
सङ्गृहः एवं भवति –






 
                                                       

Wednesday, 1 January 2020

दर्शनमालानुसारं योगदर्शनम्

शान्तिनी वि. एम्‌ .
(दर्शनम्)
Research Article No: 20200101

शान्तिनी वि. एम्‌.
शोधछात्रा,
श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयः, कालटी।



      दर्शनं नाम किमिति प्रश्ने सति सामान्यतया वक्तुं शक्यते "दृश्यते
   आधुनिकयुगॆ अद्वैताचार्यैण श्रीनारायणगुरुणा वेदान्तशास्त्र प्रतिबोधितं तत्वं अद्वैतं लोककल्याणाय प्रतिपाद्यते। गुरुदेवः क्रिस्त्वब्धे 1864  आगस्त् 26 तमे दिने तिरूवनन्तपुरे चेम्पषन्ति इति ग्रामे वयल्वारगृहे भूजातः।  तस्य पिता माटनाशान् माता कुट्टियम्मा च भवतः। न केवलं  केरलेषु किन्तु लोके सर्वत्रापि तस्य नाम सुपरिचितमेव।  अधःस्थितजनानां उन्नमनाय सः अतीव श्रद्धालुः आसीत्।  तदर्थं गुरुणा कैरली-तमिल्-संस्कृत भाषासु षष्ठी परकृतयः विरचितम्। ते स्तोत्रकृतयः, अनुशासनकृतयः, गद्यकृतयः, परिभाषाकृतयः दार्शनिककृतयः इति  विभक्ताः।  गुरोः दार्शनिककृतिषु अन्यतमा भवति दर्शनमाला।
मनः एव मनुष्याणां सर्वबन्धमोक्षयोः कारणं भवति।  मनसः बन्धनात् यावत् समयं अस्माकं बोधः मुक्तः भवति तावत् समयं वयं मुक्ताः भवन्ति। एवं मनः संकल्पविकल्पेभ्यः मोचयितुं उपयुक्तां सिद्धिं साधारणजनेषु संवेदयितुं आरभते गुरुदेवः।  तदर्थं गुरुदेवेन प्रोक्तानि दशदर्शनानि  दर्शनमालायां अन्तर्भवन्ति।  समस्तं वेदान्तशास्त्रं  दशदर्शनरूपेण विभज्य़ अस्मिन् ग्रन्थं सक्रमं प्रतिपातयति।
दर्शनशब्दस्य सामान्यार्थः वीक्षणं इति भवति।  सर्वमपि वस्तु सम्पूर्णतया वा द्रष्टुं शक्यते। सम्पूर्णं दर्शनं एव सत्यदर्शनं भवति। संपूर्ण दर्शनं तु मिथ्यादर्शनं भवति।  जीवितप्रतिभासगतं अपूर्णं  दर्शनं पूर्णेन वस्तुदर्शनेन मेलयित्वा जिज्ञासवे पुरुषाय विशदयति गुरुः अस्मिन् ग्रन्थे।
दर्शनमालायां गुरुः साधारण जनेभ्यः एव वक्तुं आरभ्यते। साधारणस्य  मानवस्य लोकदर्शमं तथा एव गुरुः प्रथमं अङ्कीकरोति।  सर्वे∫पि विश्वासिनः हिन्दुः वा क्रैस्तवः वा इस्लामिकः वा आदौ इदं लोकं न अस्ति पुनः स्पष्टा स्वसंकल्पेन इदं जगत् ससर्ज इति विश्वसन्ति।  अयं विश्वासः एव  गुरुदेवः प्रथमं विशकलनाय स्वीकरोति।
मानवमानसे संजाताः सर्वे∫पि मिथ्यबोधाः मिथ्या एव इति बोधः यदा जायते तदा तादृश अज्ञानजन्याः भयभीतयः अपकर्षताबोधः च तस्य मानसात् दूरीकर्तुं शक्यते। तस्मादेव बोधवत्करणस्य प्रथमसोपानत्वेन गुरुदेवः अध्यारोपदर्शनं  उपदिशति।  तदनन्दरं क्रमेण अपवाददर्शनं, असत्यदर्शनं, मायादर्शनं, भानदर्शनं, कर्मदर्शनं, ज्ञानदर्शनं, भक्तिदर्शनं, योगदर्शनं च उपदिश्यते। अन्ते निर्वाणदर्शनं उपदिशति। गुरुदेवः मोक्षमार्गं प्रापयितुं इच्छन् सर्वान् अपि मानुषान् तं लक्ष्यं साधयितुमेव अस्य ग्रन्थस्य रचनां निवर्तयामास।
योगदर्शनम्   
दर्शनमालायां नवम दर्शनं भवति योगदर्शनम्।  योगस्य़ निर्वचनं, स्वरूरं, साधनं, फलं च प्रकरणे∫स्मिन् गुरुणा स्पष्टुं निरूप्यते।
    यत् मनः चिदात्मनि सततं योजयति युनक्ति च, मनोनिरोधरूपः सः अयं योगःइति शंसितः। योगः इति पदस्य निर्वचनं द्विधा भवति। योजयतीति  योगः,युनक्ति इति योगः।1 चिदात्मनि अर्थात् ज्ञानस्वरूपे आत्मनि मनसः योजनं एव योग इति उच्यते।
    यत्र द्रष्टा, दर्शनं दृश्यं न विद्यते तत्र  वासना योजयेत्।2
    यः पश्यति सः द्रष्टा भवति। दर्शनक्रिययेव दर्शनं  भवति। यद् दृश्यते तदेव दृश्यम्। द्रष्टा दर्शनं दृश्यं च इति त्रयं त्रिपुटीत्युच्यते।  यत्र त्रिपुटी नास्ति स परमात्मा एव। तस्मिन् परमात्मनि मनसः योजनं कुर्यात्। एतते वासनानाशपर्यन्तं करणीयं भवति।
    अविद्यादशायां अनुभूयमानमिदं जगत् नामरूपात्मकं भवति।3 घटादीनि नामानि तेषां रूपाणि च वस्तुतः न सन्ति। तत्र सत्यं मृत्तिका एव तद्वत् नामरूपात्मकं जगदपि ब्रह्मणि आरोपितम्। अधिष्ठानभूतं ब्रह्मैव सत्यम्। एवं  नामरूपमिदं सर्वं ब्रह्म एव  इति मनः नित्यं ब्रह्मणि विलीयते इति यत् सः योगः भवति।
    तैलधारातुल्यतया चित्तस्य वृत्तिः नैरन्तर्येण आत्माभिमुखं प्रसरन्ति तत्रैव वाधं अवतिष्ठते। अयमेव योगः इति योगिभिः स्मृतः।4
    वासनाबलेन विक्षिप्तं मनःयं यं विषयं उद्दिश्य निरसरेत् तस्मात् विषयात् बलात् निवर्त्य चिदात्मनि योजयेत्। अयं य़ोगः इह युज्यताम्।5
जनानां सर्वानर्धकारणं सङ्कल्प एव।6 सङ्कल्पेन कल्पितं इदं जगत् असत्यं भवति। संकल्पस्य कारणं वासना भवति। वासनासहितस्य संकल्पस्य कारणं समुच्छेदः समोमिरोधनेन  करणीयः भवति। दृश्यं दृशः भिन्नं न भवति। दृश्यस्य अस्तित्वं नास्ति। दृशः अस्तित्वं भवति।7 अतः दृश्यं दृगात्मकं इति यः दृग्रूपे युञ्जीत, सः योगविदां वरः भवति।
    प्रकृत्या चञ्चलं मनः भ्रमरत्वेन रूप्यते। इमां मनो भृङ्गं विषयेभ्य़ः निवर्त्य आत्मनि एव योजनीयः।8 आत्मानन्दरूपमधुनः माधुर्यं पिबतः तस्य स्पन्तनलेशो∫पि न संभवति। तदा योगः स्यात्। एवं मनसः स्वास्थ्येन योगः संभवति।
    यदा भ्रुवोः अन्तः ध्यानं दृष्टिः च, लम्बिकोर्ध्वतः जिह्वाग्रं च स्यात् तदा निद्रालस्यादिनाशिनी खेचरीमुद्रा स्यात्।9
    संक्षेपेण योगस्य द्वौ प्रकारौ स्तः ज्ञानयोगः कर्मयोगः च इति।10 श्रवणमनननिदिध्यासनाभ्यां संपद्यमानः आत्मसाक्षात्कारः एव ज्ञानयोगेन उच्यते। तादृशस्य ज्ञानयोगस्य अधिकारिता सिद्ध्यर्थं चित्तशुद्धिप्रदायकं निष्कामकर्मानुष्ठानं कर्मयोगशब्देन निर्दिश्यते। अनयोः सर्वः य़ोगविस्तारः परिसमाप्यते।


Foot Notes
दर्शनमाला        9-1
Ibid              9-2
Ibid              9-3
Ibid              9-4
Ibid              9-5
Ibid              9-6
Ibid             9-7
Ibid             9-8
Ibid             9-9
Ibid             9-10
References
  • Darsanamala of Sree Narayanaguru, Sree Sankara Sanskrit Vidyapeedam Publication, Edakkadom, Quilon, 1982
  • Nityachaitanya Yati, Psychology of Darsanamala, Printworld Publication (p) Ltd, New Delhi, 2004
  • T. Bhaskaran, Sree Narayanaguruvinte Sampurnakruthikal, Mathrubhumi Publication, 2002.
  • Sreenivasan K, Sree Narayanaguru, Jayasreepublication, Thiruvananthapuram, 1989.
  • M.K Sanu, Narayanagugu, Bharatiyavidyabhavan, Bombay, 1978.