Wednesday, 28 December 2022

 हेमन्तः

-कविता

-डा. जि . गंङ्गाधरन् नायर्॥

हेमन्तऋतुकाले/स्मिन् शैत्यं तीक्ष्णं प्रवर्धते । 

ततो/पि जायते तीव्रं वातेन वहता / निशम् ॥

 आसारवर्षपातो∫स्ति ऋतावस्मिंस्तदा तदा । 

अल्पेन समयेनाथ वर्धन्ते शीकरास्तदा ।। 

धूलयः प्रसरन्तीव वान्तीह हिमशीकराः । 

कार्पासस्य तु तूलानि प्रसरन्तीव दर्शने ॥ 

भूमेरुपरि वातेन प्रेरिता हिमसीकराः ।

व्याप्नुवन्ति हि सर्वत्र भूमौ तु हिमवालुकाः ॥ 

क्रीडासक्तास्तदा बाला हिममानुषनिर्मितौ 

यतन्ते च प्रमोदेन कुर्वते हिमगोलकान् ॥ 

तानन्योन्यं प्रक्षिपन्ति बालका हृष्टमानसाः ।

नास्ति सीमा त तोषस्य तेषां बाल्यं मनोहरम् ॥ 

तु अनन्तरदिने वाथ द्वितीये वा तृतीयके । 

सान्द्रं भूत्वा घनीभूतं हिमं हिमशिला भवेत् ॥ 

पिच्छिला सा भवेत्तस्यां चलनं बहुदुष्करम् । 

अवधानं विना कश्चिच्चलेत् स स्खलितः पतेत् ॥ 

शिशिरर्तुर्भवेन्मासद्वयेन क्लेशवर्धनः । 

हिमपातस्य वृद्धिः स्यात् तीव्रं शैत्यं सहेमहि ॥

------------------------------------------


Thursday, 15 December 2022

 सत्यव्रतचरितम्

 


लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः


     व्यासदेवः सविस्तरं सत्यव्रतचरितं कथयति। पूर्वकाले एकदा मुनीनां समाजे विचारः अभूत्- यत् कः देवः सर्वश्रेष्ठः पूज्यतमश्च भवति। कः देवः विशेषरूपेण उपासनीयः। कः देवः अभीष्टफलं ददाति। एतस्य प्रश्नस्य उत्तरेण लोमशमुनिः उक्तवान् यत् सर्वेऽपि बुद्धिमन्तः कल्याणकामिनः पुरुषाः महाशक्तेः भगवत्याः अम्बिकायाः उपासनां कुर्युः। तस्मिन् प्रसङ्गे कथं ऐकारस्य उच्चारणेन ब्राह्मणः सत्यव्रतः देवीकृपातः लोकप्रसिद्धिं मोक्षञ्च प्राप्तवानिति एकमाख्यानमुक्तवान्। पुरा कोशलदेशे देवदत्तनामकः एकः विख्यातः ब्राह्मणः तिष्ठति स्म। तस्य कोऽपि सन्तानः नासीत्। पुत्रप्राप्त्यर्थं सः पुत्रेष्टियज्ञं कृतवान्। गोभिलमुनिः उद्गाता च आसीत्। मुनिवरः गोभिलः रथन्तरच्छन्दसा गानं करोति स्म । तदा तस्य स्वरभङ्गः अभूत्। ब्राह्मणः देवदत्तः मुनिवरं गोभिलं भर्त्सितवान्। महात्मा गोभिलः अपि कुपितः अभूत्। देवदत्तस्य भर्त्सनं श्रुत्वा सः तस्मै अभिशापं दत्तवान्। हे देवदत्त ! भवतः एकः मूर्खपुत्रः भविष्यति। तदा देवदत्तः मुनेः पादौ पतित्वा क्षमायाचनां कृतवान्। मुनिः शान्तः भूत्वा उक्तवान् यत् तव पुत्रः मूर्खः भूत्वा अपि अनन्तरं पण्डितः भविष्यति। अनन्तरं शुभकाले देवदत्तस्य पत्नी एकं पुत्रं जनयामास। तस्य नाम उतथ्य इति अभूत्। ब्राह्मणदेवदत्तस्य सः पुत्रः उतथ्यः पठितुं गुरुगृहं गतवान्। बहुवर्षं पठित्वा अपि तस्य किमपि ज्ञानं नाभूत्। एकशब्दमपि उच्चारयितुं सः समर्थः नाभूत्। सः किमपि शास्त्रं न जानाति स्म, सन्ध्यावन्दनादिकमपि न जानाति स्म। अतः सः मूर्ख इति सर्वत्र प्रचारितः अभूत्। सर्वे तस्य उपहासं कृतवन्तः। पितरौ अपि निन्दां कृतवन्तौ। यदा जनाः माता, पिता सर्वेऽपि च जनाः तस्य अत्यन्तनिन्दां कृतवन्तः, तदा तस्य मनसि वैराग्यमागतम्। सः वनं गतवान्। गङ्गातटे एकस्मिन् स्थाने कुटीरं निर्माय वन्यफलं मूलञ्च भुक्त्वा सः जीवनं यापयति स्म। सः इन्द्रियसंयमं स्थापयित्वा एकनियमं स्थापितवान् यत्- अहं कदापि मिथ्या न कथयिष्यामि। अतः तत्रत्याः जनाः तं ब्राह्मणं सत्यव्रत इति नाम्ना आह्वयन्ति स्म। एवम्प्रकारेण सः वने केवलं ब्रह्मचर्यधारणपूर्वकं फलमूलानि भुक्त्वा जीवनं यापयति स्म।     

    एकदा एकः निषादः तत्र हस्ते धनुर्बाणं धृत्वा आगतवान्। सः वने एकं शूकरं शरेण विद्धवान्। ततः भयभीतः सः शूकरः शीघ्रं धावन् उतथ्यमुनेः आश्रमे आगतवान्। तदा शूकरस्य शरीरं रक्ताक्तमासीत् एवं सः भयेन कम्पते स्म। तं दीनहीनं पशुम् उतथ्यमुनिः दृष्टवान्। ततः मुनेः हृदये दया आगता। एवं तस्य मुखात् भगवत्याः सारस्वतबीजमन्त्रः ऐं इति उच्चारितमभूत्। पूर्वं कदापि सः एनं मन्त्रं न जानाति स्म। कदापि न श्रुतवान् अपि आसीत्। कस्मादपि अदृष्टप्रेरणया शोकवशात् तस्य मुखे एषः मन्त्रः आगतः। तदा सः निषादः धनुर्बाणं नीत्वा तत्र उपस्थितः अभूत्। सः व्याधः मुनिम् उतथ्यं वारम्बारं पृष्टवान् यत् - हे मुने ! भवान् सत्यव्रती अस्ति। अतः भवान् कथयतु बाणविद्धः सः शूकरः कुत्र गतः। व्याधस्य वचनं श्रुत्वा मुनेः मनसि बहुविचारः आगतः। सः चिन्तितवान् यदि अहं सत्यं कथयिष्यामि तदा व्याधः शूकरं नेष्यति। असत्यं कथयामि चेत् मम व्रतहानिः भविष्यति। एवं किमपि कथयिष्यामि येन मम वाणी मिथ्या न भवेत् एवं शूकरस्य जीवनहानिरपि न भवेत्। प्रथमतः बाणविद्धं शूकरं दृष्ट्वा दयावशात् तस्य मुखात् सरस्वत्याः सारस्वतबीजमन्त्रः ऐं इति उच्चारितमासीत्। ऐं इति भवति वागबीजमन्त्रः। ततः तमेव मन्त्रं श्रुत्वा भगवती उतथ्यमुनेः उपरि प्रसन्ना अभूत्। अतः देवीकृपातः उतथ्यमुनेः कृते सम्पूर्णविद्या आगता। तस्य मनसि सर्वविद्याः स्फुरिताः अभवन्। सः एकः महान् कविरभूत्। तदेव तस्य मुखादेकः श्लोकः निर्गतः –

या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति।

अहो व्याधः स्वकार्यार्थी किं पृच्छसि पुनः पुनः॥

 तस्य तात्पर्यं भवति यत् हे व्याध ! यत् नयनं पश्यति तत् न कथयति, या वाणी कथयति सा न पश्यति। अतः हे व्याध ! भवान् पुनः पुनः मां किमर्थं पृच्छति। मुनिवरस्य कथनादनन्तरं सः व्याधः ततः निर्गतः अभूत्। एवं शूकरस्य जीवनरक्षा अभूत्। इदानीं देवीकृपातः उतथ्यमुनिः वाल्मीकि इव प्रकाण्डः विद्वान् अभूत्। समग्रभूमण्डले सत्यव्रत इति नाम्ना तस्य प्रसिद्धिरभूत्। तदनु अनन्तरं सारस्वतबीजमन्त्रः ऐं इति सः विधिवत् जपं कृतवान्। ततः जगति तस्य वैदुष्यं यशो च चर्तुदिक्षु प्रसारितमभूत्। ब्राह्मणजनाः उत्सवादिषु तस्य यशोगानं कृतवन्तः। सत्यव्रतस्य माहात्म्यं श्रुत्वा तस्य परिवारजनाः वनमागत्य बहुमानेन सत्कारेण च तं मुनिं गृहं नीतवन्तः। अतएव हे राजन् ! तस्याः एव आदिशक्तेः भगवत्याः जगदम्बिकायाः सदैव भक्तिपूर्वकतया उपासना करणीया भवति। भगवत्याः कृपातः जनस्य सर्वकल्याणं भवितुमर्हति। एवम्प्रकारेण पाठ्यक्रमेऽस्मिन् द्वितीयांशे सारांशरूपेण एते विषयाः उपन्यस्ताः सन्ति।


Monday, 21 November 2022

 हालोवीन् (कविता)

-डॉ जि. गङ्गाधरन् नायर् -



उत्सवोऽस्ति महान् कश्चिद् 
हालोवीनिति संज्ञितः।
शुद्धात्मदिन प्राक्सन्ध्या
शब्दार्थस्तस्य बुध्यताम् ॥
साम्प्रदायिकताप्राप्तेः
क्रिस्तुधर्मस्य प्राग्जनैः।
यूरोपीयैश्चिरं नीता
संस्कृतिः काचन स्थिता॥
क्रिस्तु धर्मप्रचारे तु
तद्धर्मस्य प्रचारकैः।
पागन्नित्याख्ययाहूता 
बहुदेवार्चनायुता॥
प्रेतात्मनां पितॄणां तु 
सभाजनपरायणाः।
पागना एकदा वर्षे
कुर्वन्ति पितृतर्पणम्॥
यथा हि भारते श्राद्धं
शिवरात्रौ प्रवर्तते।
तथैव पागने देशे
हालोवीने परेऽह्निच॥
पितॄणां तर्पणार्थाय
मिष्टान्नं रक्ष्यते गृहे।
श्रद्धालुभिस्तदा रात्रौ 
मांसवर्जनसुव्रतैः॥
स्वीकृत्य पागनाचार
माचरन्ति च क्रैस्तवाः।
तस्माल्लोके बहुत्रास्ति 
हालोवीनुत्सवः शुभः॥
उत्सवोऽयं नवे काले
सम्पन्नो बालकोत्सवः।
भीकरैः शोभनैर्वापि 
विचित्रैर्वेषभूषणैः
भ्रमन्ति बालकाः स्वेषां
प्रतिवेशगृहान् प्रति ॥
संवनन्ति च ते स्वादु
मधुरं खाद्यवस्तु यत् ।
मिठायादि च तद् द्त्त्वा
गृहस्थाः प्रीणयन्ति तान्॥
तुष्यतो बालकांश्चैव
बालिकाश्च शुभे दिने।
दृष्ट्वा चालौकिकं मोदं
लभेमहि सुहृद्वराः॥

Monday, 24 October 2022

 भगवतीमुद्दिश्य विष्णुस्तुत्योपस्थापनम्

   भगवत्याः नखकोणे ते देवाः समग्रभवनं विश्वञ्च दृष्टवन्तः। तदा विष्णुः उक्तवान् एषा एव भगवती आदिशक्तिः जगतः जननी भवति। तदा भगवान् विष्णुः भगवत्याः स्तुतिं कृतवान्। तद्यथा- प्रकृतिदेव्यै नमः। हे भगवति! भवती कल्याणस्वरूपिणी मनोरथञ्च पूरयति। भवती बुद्धिं ददाति सिद्धिस्वरूपा च अस्ति। त्वां वारम्बारं नमस्करोमि। भवती एव सृष्टि-स्थिति-संहारस्य मूलकारणं भवति। अतः त्वां भगवतीं भुवनेश्वरीं प्रणमामि। सर्वाभीष्टानां पूरणकारिणीं भगवतीं नमामि। मातः! अहं ज्ञातवान् यत् एतस्मिन् सम्पूर्णसंसारे त्वमेव विराजसे। भवती एतस्य जगतः सृष्टिसंहारस्य च तत्त्वं भवति। तव एव व्यापकमाया संसारे ममत्वं सज्जीकरोति। भवती एव अखिल-जगन्मयी माता अस्ति। भवती एव अखिलविश्वे व्यापकरूपेण विराजमाना वर्तते। देवि! प्रलयकाले भवती एव संसारं भक्षयति। भगवति! तव वैभवं चरित्रं वा कः ज्ञातुं शक्नुयात्। मातः! भवती एव मधुकैटभौ इति असुरद्वयात् अस्मान् रक्षितवती। भवानि! यदा अहं,शङ्करः, ब्रह्मा च भवत्याः विषये अज्ञाताः भवामः, तदा अन्यः कः तव विषये ज्ञातुं शक्नुयात्। समग्रविश्वमेव तव नखदर्पणे दृश्यते। देवि! तव एतत् विस्तृतं अचिन्त्यम् ऐश्वर्यं नराः कथं जानीयुः। मातृपुत्रैव आवयोः सम्बन्धः सर्वदा तिष्ठतु। जगदम्बे! भवती एव समग्रजगत्प्रपञ्चं जानाति। हे भवानि! तव इच्छातः एव शक्तिं प्राप्य ब्रह्मा सृजति, विष्णुः पालयति, महेशश्च संहरति। गिरिजानन्दिनि! त्वमेव सर्वेषां माता असि। जगत्सृजनं, पालनं संहरणञ्च तव स्वाभाविककार्यं भवति। भगवति! तव शक्तितः एव शक्तिं प्राप्य सूर्यः जगदिदं प्रकाशयति। भवती समग्रसंसारं उद्भासयति। अहं ब्रह्मा शङ्करश्च तव कृपातः एव भवामः। अस्माकं आर्विभावः तिरोभावश्च भवति। केवलं त्वं जगत्जननी असि । भवती बुद्धिमतां जनानां बुद्धिः, शक्तिमतां जनानां शक्तिश्च भवति। त्वं शुद्धस्वरूपा असि। मुक्तिदानं तव स्वाभाविककार्यं भवति। वेदस्य मुख्यविषयः गायत्री भवती एव भवति। स्वाहा, स्वधा एवं ऒम् भवत्याः रूपाणि भवन्ति। भवती देवानां रक्षणार्थं वेदशास्त्राणां रचनां कृतवती। जीवानाम् उदाहरणार्थं भवती अखिलजगदिदं रचितवती। देवि! भवती महाविद्या स्वरूपिणी अस्ति। तव रूपं कल्याणमयमस्ति। त्वं सम्पूर्णं मनोरथं पूरयसि । तव चरणयॊः वारम्बारं प्रणौमि । 

लेखकः - डा.रुरुकुमारमहापात्रः

अध्यापकः,पुराणेतिहासविभागः

राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः

Tuesday, 4 October 2022

 श्रीमद्देवीभागवतपुराणस्य संक्षिप्तपरिचयः  

मनुष्याणां जीवनं सुखमयं समृद्धिमयं तथा शान्तिमयं कर्तुं वेदानां रचनाभूत्। परन्तु साधारणमानवानामवगतये क्लिष्टकरवेदानां भाष्यभूतं पुराणसाहित्यं व्यासदेवेन विरचितम्। अष्टादश महापुराणानि, उपपुराणानि, औपपुराणानि च व्यासदेवेन रचितानि। तेषु अष्टादश संख्याकानि उपपुराणानि वर्तन्ते, तेषु देवीभागवतपुराणम् अन्यततम्। कलपभेदेन 'देवीभागवतम्' महापुराणत्वेनापि स्वीक्रियते । देवीभागवतपुराणे 318 अध्यायाः, 18,000 श्लोकाः,द्वादशस्कन्धाश्च सन्ति। पुराणवाङ्मये देवीभागवतं भुक्तिमुक्तिप्रदायकं पञ्चमपुराणमिति प्रोच्यते। अस्य पुराणस्य वक्ता महर्षिव्यासः श्रोता राजा जन्मेजयश्च भवति। पुराणमिदं वेदसम्मतं तद्धिया अर्थानुमोदितञ्चास्ति। अखिलशास्त्रस्य रहस्यस्रोतरूपमिदं पुराणम् आगमे स्वस्थानं प्रसिद्धं ख्यापयति। देवीभागवतस्यानुशीलनेन ज्ञायते यत् देवी एव परमतत्वमस्ति, या निर्गुणा,नित्या,सर्वव्यापिका,योगगम्या,जाग्रत्स्वप्नसुप्तिभ्यः परायां तुरीयावस्थायां विराजते। तस्याः तिस्त्र: शक्तयः, सात्त्विकी राजसी तामसी चेति क्रमशः लक्ष्मीः,सरस्वती,कालीरूपेण च प्रकटिताः सन्ति। अनयैव च दृष्ट्या पुराणेषु ब्रह्मविष्णुमहेश्वराः त्रिमूर्तिरूपेण वर्णिता: सन्ति।

 

निर्गुणा दुर्गमा शक्तिः निर्गुणश्च पर: पुमान्।

ज्ञानगम्यो मुनीनां तु भावनीयौ पुनः पुन:॥

अनादिनिधनौ विद्धि सदा प्रकृतिपुरुषौ।

एवञ्च देवीभागवतपुराणेषु प्रोक्तमस्ति यत्-

देवीभागवतं पुराणममलं यद् ब्राह्मणानां धनम्

धर्मो धर्मसुतेन यत्र गदितो नारायणेनामल:।

गायत्र्याश्च रहस्यमत्र च मणिदीपश्च संवर्णित:

   श्रीदेव्या हिमभूभृते भगवती गीता च गीता स्वयम् ॥

         तत्र देवीभागवतपुराणस्य द्वादशस्कन्धेषु विशेषतः तृतीयस्कन्धे ब्रह्माण्डोत्पत्ति-विषयकप्रश्नाः,  उत्तराणि तथा त्रिदेवानां ब्रह्माण्डदर्शनादिविषयाः यथा विवृताः सन्ति, तथैव भगवत्याः कृपामाहात्म्यत्वेन सत्यव्रतचरितं, शशिकलासुदर्शनयोः परिणयवृत्तान्तः, नवरात्रविधानत्वेन श्रीरामचरितादिविषयाः अपि सम्यगालोचिताः सन्ति । 

लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः।


Monday, 5 September 2022

 राराज्यते विज्ञो गुरुर्नमस्यः 

शिष्यः आचार्यं ब्रह्मा- विष्णु- महेश्वरः इति ज्ञानेन पूजयति। तं विधिपूर्वकं प्रणम्य, परिप्रश्नेन सेवया शुश्रूषया च तस्य सन्तोषं शुभाशिषञ्च अर्जयति। गुरोः आशीर्वादात् शिष्यस्य सिद्धिलाभः भवति। तस्मात् गीतायामुक्तम् “तद्विधिप्रणिपातेन परिप्रश्नेन सेवया”। अन्यत्रापि उक्तम् - “गुरुशुश्रूषया विद्या”। सन्दर्भेऽस्मिन् गल्पद्वयमुपस्थापयामः।

रामदासः आसीत् एकः सिद्धपुरुषः तथा लोकपूज्यसद्गुरुः। तस्य अनेके शिष्याः आसन्। परन्तु शुद्धतया, गुरुभक्त्या, चरित्रवत्तया, ज्ञानपिपासया, दृढतया, वीरत्वेन च शिवाजीमहाराजः इव तस्य एकोऽपि शिष्यः नासीत्। अतः सः आसीत् गुरोरत्यन्तप्रियपात्रम्।

अन्ये शिष्याः चिन्तयन्ति स्म। शिवाजी राजपुत्रः, धनिकश्च अतः गुरुः तस्मै अधिकं स्निह्यति। ईर्षापरायणानां शिष्यानाम् आलोचनमेतत् गुरुः रामदासः श्रुतवान्। गुरुः ज्ञातवान् कतिपयशिष्याणां तस्य निरपेक्षतायाः उपरि सन्देहः घनीभूतः अस्ति। अतः सः एकमुपायं कृतवान्। सः शिष्यान् आहूय उक्तवान् - अहम् अस्वस्थः। उत्थातुमपि बलं न भवति। जीवामि उत मरिष्यामि वक्तुं न शक्यते। यूयमेतदर्थं व्यस्ताः न भवथ।

एतच्छृत्वा शिष्याः क्रन्दितवन्तः। गुरुदेवः किं कृते भवान् रोगमुक्तः भविष्यति। वयं यत्परं नास्ति उद्यमं कृत्वा तदौषधमानेष्यामः।  

गुरुदेव उक्तवान् - यूयं किं मम औषधमानेतुं सक्षमाः भविष्यथ। सद्यप्रसविनीसिंहतः यूयं किं एककुम्भदुग्धमानेतुं शक्नुथ ? तदा अहं स्वस्थः भविष्यामि। 

एतच्छृत्वा शिष्याः चिन्तायामपतन्। तेषां धारणा अभवत् एतत् असम्भवकार्यं कोऽपि कर्तुं न शक्नोति। तदा युद्धे दिग्विजयी भूत्वा शिवाजीमहाराजः गुरुं कृतज्ञतां ज्ञापयितुं प्रत्यावर्तनं करोति स्म। सः गुरोः अनारोग्यं ज्ञात्वा कालविलम्बं न कृत्वा सद्यप्रसविन्याः सिंह्याः सन्धाने अरण्यं प्रति प्रस्थितवान्। सौभाग्यात् एकस्यां गुहायां सः एकां सद्यप्रसविनीं सिंहीं प्राप्तवान्। शिवाजीमहाराजस्य कृते दुर्गा भारतमाता। सिंही तस्याः वाहनः। अतः सः तां ‘मा’ इति आहुतवान्। शिवाजीमहाराजस्य प्रेम्णः संक्रमणमभवत्। सिंह्याः उपरि तस्य प्रभावः अपतत्। शिवाजी मातृभावेन सिंहीं एककुम्भदुग्धं याचितवान्। सिंही अपि पुत्रवात्सल्यतया शिवाजीराजं लेढि। शिवाजीराजः सिंहीतः एककुम्भदुग्धमानीय गुरोः समीपमागतवान्। परन्तु रामदासः हसन् उक्तवान् - मम दुग्धे किं प्रयोजनम्। अहं ज्ञातुमिच्छामि स्म- त्वम् एतत् कार्यं कर्तुमर्हसि न वा। यः भारतवर्षस्य शासकः भविष्यति, तस्य सिंहीतः दुग्धमानेतुं दृढमनोबलं तथा दुःसाहसं स्यात्। अहं पश्यामि यत् सर्वेषु शिष्येषु त्वमेतदर्थं योग्यतमोऽस्ति। अहं सम्पूर्णतया स्वस्थोऽस्मि। मम विषये चिन्ता मास्तु, केवलं प्रमाणी करोतु यत् मम तव विषये धारणा अमूलका नास्ति इति। शिवाजी प्रमाणितवान् यत् गुरोः आशीर्वादतः सः असाधारणकार्यं कर्तुमर्हति। एषः महावीरः देशभक्तस्य चरमपराकाष्ठां निजजीवने प्रदर्शितवान्। 

लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

Wednesday, 31 August 2022

 गणेशः तथा कुवेरस्य गर्वः

लेखकः - डा.रुरुकुमारमहापात्रः

धनस्य देवता कुवेरः लोकत्रयेऽपि सर्वश्रेष्ठो धनी आसीत्। एकदा तस्य एतदर्थं महान् गर्वः अजायत। त्रिभुवनस्य देवान् भोजयितुम् आमन्त्रयामि इति सः स्थिरीकृतवान्। कुवेरः भगवन्तं शङ्करं सपरिवारम् आमन्त्रयितुं कैलाशं प्राप्तवान्। सः शङ्करमवदत् भवतः अनुग्रहात् मम समीपे सर्वमस्ति। अहं लोकत्रयेष्वपि श्रेष्ठधनी भवामि। सर्वे मम गुणगानं कुर्वन्ति। कृपया मम गृहे भोजनाय भवान् स्वीकृतिं प्रयच्छतु।

भगवान् शङ्करः अवदत्, वत्स! अहं कुत्राऽपि न गच्छामि। देवी पार्वती अपि मां विना कुत्राऽपि न गच्छति। किन्तु यदि भवतः एतादृशाग्रहः वर्तते तर्हि अहं गणेशं प्रेषयामि। 

कुवेरः गोष्ठीभोजनस्य आयोजने अलगत्। सः अतिथिवृन्दस्य इत्थम् आप्यायनं करिष्यामि येन ते सर्वे चिरदिनं स्मरिष्यन्ति इति चिन्तयति स्म। भोजनस्य दिवसः आगतः। त्रिभुवनस्य देवदेव्यः तत्र उपस्थिताः अभवन्। कुवेरः तान् सर्वान् प्रसन्नतापूर्वकं भोजनकक्षम् आनयत्। भोजनकक्षः सुसज्जितः आसीत्। सुगन्धेन कक्षः सुगन्धितः भवति स्म। सेवकैः स्वर्णस्थालिकायाम् अगणितप्रकराणि व्यञ्जनानि परिवेषितानि। विन्घराजः गणेशः भोजनकक्षायामाऽऽसनं स्वीकृतवान्। कुवेरस्य भण्डारे यानि खाद्यानि आसन् गणेशः सर्वान् खादितवान्। तथापि तस्य क्षुधा न अपगता । सः कुवेरं पुनः किमपि खादितुं याचितवान्। किन्तु कुवेरः निरुपायः आसीत्। गणेशः कुवेरं खादितुं धावितवान्। कुवेरः भयभीतः सन् शङ्करस्य समीपं गत्वा तस्य चरणयोः अपतत् । तस्मिन् क्षणे गणेशः तत्र उपस्थितः भूत्वा पितरं शङ्करम् उक्तवान् यत् एषः कुवेरः मां भोजनाय आमन्त्रितवान्, किन्तु मह्यं भोजयितुं सः असमर्थः। किन्तु मे क्षुधा न अपगता। शङ्करः गणेशमवदत् त्वं स्वमातृतः याचित्वा खादतु। एतेन कुवेरस्य धनगर्वं नष्टं जातम्।     

 


Saturday, 13 August 2022

 मातृस्तवनदशकम्

त्वमेव पाठ्यञ्च पठ्यं त्वमेव,

त्वमेव नाट्यञ्च नृत्यं त्वमेव।

त्वमेव गीतञ्च गानं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।१।।

त्वमेव लक्ष्यञ्च चिन्त्यं त्वमेव,

त्वमेव सेव्यञ्च ध्येयं त्वमेव।

त्वमेव लेख्यञ्च काव्यं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।२।।

त्वमेव रक्तञ्च जीवस्त्वमेव,

त्वमेव बन्धुश्च मित्रं त्वमेव

त्वमेव विद्या च वेद्यं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।३।।

त्वमेव चित्तञ्च बुद्धिस्त्वमेव,

त्वमेव सत्त्वञ्च शक्तिस्त्वमेव।

त्वमेव कीर्तिश्च कान्तिस्त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।४।।

त्वमेव धर्मश्च कर्म त्वमेव

त्वमेव धार्यञ्च कार्यं त्वमेव।

त्वमेव पुण्यञ्च दृष्टं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।५।।

त्वमेव भक्ष्यञ्च भोज्यं त्वमेव,

त्वमेव पेयञ्च लेह्यं त्वमेव।

त्वमेव हृद्यञ्च हार्दं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।६।।

त्वमेव वित्तञ्च सम्पत्त्वमेव,

त्वमेव दत्तञ्च दानं त्वमेव।

त्वमेव शस्त्रञ्च शास्त्रं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।७।।

त्वमेव कामश्च मोक्षश्च त्वमेव,

त्वमेव माया च मोहस्त्वमेव।

त्वमेव जुष्यञ्च हव्यं त्वमेव

त्वमेव सर्वं मम मातर्मातः॥८॥

त्वमेव वस्त्रञ्च भूषा त्वमेव,

त्वमेव गन्धश्च रागस्त्वमेव।

त्वमेव गात्रञ्च रूपं त्वमेव

त्वमेव सर्वं मम मातर्मातः ॥९॥

त्वमेव पूज्यञ्च पुष्पं त्वमेव,

त्वमेव दीपश्च वर्त्तिस्त्वमेव।

त्वमेव दीव्यञ्च भव्यं त्वमेव

त्वमेव सर्वं मम मातर्मातः ॥१०॥

दीपकवात्स्यः बीहारम्
    "वात्स्यकोशः"

Friday, 12 August 2022

  विश्वसंस्कृतदिनम् ॥

निबन्धः

Article No: 20230812

लेखकः-अय्यम्पुष़ हरिकुमारः 

विश्वस्मिन् विद्यमानासु भाषासु अतिप्राचीना भाषा भवति संस्कृम्। एषा सुरभारती, अमृतभारती, देववाणी, अमरवाणी, इत्यादिभिः नामभिः प्रकीर्तिता। वैदिकं लौकिकम् इति अस्याः भेदद्वयं वर्तते। वेदाः वैदिके रामायणादि पुराणानि लौकिके च अन्तर्भवन्ति ॥ सर्वासां भारतीयाभाषाणां जननी संस्कृतभाषा इति मन्यते। 

  भारतस्य २२ राजभाषासु संस्कृतभाषा अन्यतमा भवति। १९६९ तमे भारतसर्वकारेण श्रावणपूर्णिमादिनं संस्कृतदिनत्वेन परिगण्यते। तदनन्तरं प्रतिसंवत्सरं श्रावणपूर्णिमादिनेन सह सप्तदिनानि संस्कृतसप्ताहत्वेन आचरामः।

   जगति विद्यमानासु भाषासु अत्याधुनिकता सम्पूर्णता च संवत्सरात् पूर्वं संस्कृतभाषया समार्जितम्। वैयाकरणदृष्ट्या वैज्ञानिकी भाषा च भवति संस्कृतम्। अत एव सङ्गणकयन्त्रे उपयोक्तुम् अत्यनुयोज्या इति सङ्गणकविद्वांसः अभिप्रयन्ति।

   आधुनिके अन्तर्जालयुगे अपि संस्कृतभाषायाः स्वकीयं विपुलप्रयोगसाधकं स्थानम् अस्ति। तादृशेषु स्थानेषु यू-नालिकावाहिन्यः संस्कृत-अन्तर्जालपत्रिकाः च संस्कृतस्य आधुनिकत्वम् उद्घोषयन्ति। सम्प्रतिवार्ता-पत्रिकायाः अन्तर्जालवार्ताप्रसारणपुटद्वारा यू-नालिका द्वारापि लघुवयस्काः बालिकाबालकाः अपि संस्कृतवार्ताप्रवाचकत्वेन सुप्रसिद्धाः इति संस्कृतस्य गरिमा तथा लखिमा च युगपदेव प्रमाणीक्रियते।

   संस्कृतस्य पोषणेन अस्माकं संस्कृतीनां पोषणं भविष्यति। अस्माकं मनोबलस्य पोषणं भविष्यति। विश्वमानवत्वस्य पोषणं च भविष्यति। अतः अस्माकं सुरक्षित-शान्तिमय-जीवनाय संस्कृतम् अध्येमः। संस्कृतेन चिन्तयामः। संस्कृतेन वदामः। संस्कृतं प्रसारयामः॥

Wednesday, 3 August 2022

 ब्रह्मचर्यम्

-डा.गदाधर त्रिपाठी


ऋषयो वेदवेत्तारो ज्ञाननिधयस्तथा च वै।

जीवनं तु मनुष्याणां योजितं तैस्तदा च हि॥1॥


आसीदाश्रमेषु विभक्तं हि ब्रह्मचर्यं सुखदं परम्।

ऊर्जायाः संरक्षणमभवद् ज्ञानार्जनं तथा च वै॥2॥


वेदार्थं यच्च विप्राणामाचरणं ब्रह्मचर्यं हि वै।

स्त्रीस्मरणशून्यत्वं सर्वथा विन्दो:परिरक्षणं तथा॥3॥


स्त्रीणां पुरुषस्मरणराहित्यं

नैव पुरुषान्तरमैथुनसेवनम्।

स्मरणं कीर्तनं केलि पुरुषैरष्टविधि

सर्वदा कामनिवर्तनम्।।4।।


प्राथमिकी चावस्था या रक्ते नायात्यशक्तता।

सामर्थ्यमायाति वीर्ये ह्योजसस्तु मुखमण्डले॥5॥


मरणं विन्दुपातेन जीवनं विन्दुरक्षणम्।

महत्वं ब्रह्मचर्यस्य ऋषिभिः कीर्तितं सदा॥6॥


त्याज्यं भवति गरिष्ठं वै शृंगारञ्चैव च वर्जितम्। 

ज्ञानार्जने गुरुसेवायां श्रद्धयया चैव समर्पणम्॥7॥ 

विनयश्चैव तपश्चैव दर्शनञ्चैव व्रतं हि वै।

मुक्ते:प्रदर्शकमस्ति ब्रह्मचर्यं सनातनम्॥8॥


वानप्रस्थो ब्रह्मचर्यञ्च कलौ नास्ति च स्वीकृतम्।

गृहस्था भिक्षुकाश्चैव भविष्यन्ति खल्वस्मिन् युगे॥9॥


Monday, 2 May 2022

गुरुरेव गरीयः

मम दिग्दर्शकः, गुरुः, सर्वस्वम्... श्री. प्रोफ. आर्. वासुदेवन् पोट्टी। 


-डा. मनोजः बी. (भावना)


   प्री-डिग्रीं समाप्य मया निर्णीतं यत् इतःपरं मम अर्हतानुगुणं यत्किमपि कर्म करोमीति। यतो हि यावदध्येतव्यं तावदधीतम् इत्यासीत्  मूर्खस्य मम विचारः। किन्तु मम पितुः अभिलाषः उच्चस्तरीयः आसीत्। सः साधारणः कश्चन मानवः आसीत् यः प्रतिदिनं अष्टादश किलोमीट्टर् पर्यन्तं द्विचक्रिकां चालयित्वा कर्म कृत्वा अस्माकं कुटुम्बं संरक्षति स्म। स्वस्य कार्याय कदापि त्रिचक्रिकया यात्रां न कृतवान् सः एकस्मिन् दिने त्रिचक्रिकया गृहमागत्य मां अवदत् – शीघ्रं सज्जो भव। तव कृते श्रीशङ्कराचार्यसंस्कृत-सर्वकलाशालायां बी. ए. अध्ययनाय अवसरः प्राप्यते इति। किंकर्तव्यतामूढः अभवम् अहम्। यतो हि तावत् पर्यन्तं संस्कृतम् इति पदं केवलं