Sunday, 5 October 2025

Harikumar O S
 हिमगिरि-श्रृङ्गम् (देशभक्तिगीतम्)

रचयिता- अय्यम्पुष़ हरिकुमारः


हिमगिरि-श्रृङ्गम् उत्तुङ्गम्
भारतमातुर्मणि मकुटम्।
गङ्गा-यमुना-सिन्धु-सरस्वती
प्रवहति मातुर्हृदयतटम् ॥

काश्मीरादि महोन्नतदेशे विकसन्त्यधुना कुसुमानि।
गायन्त्यचिरात् तानि सुमानि
वन्देमातरगानानि वन्दे-मातर-गानानि ॥

(वन्दे मातरम् ... मलयज-शीतलाम्)
(हिमगिरि ...)
आरब-वंङ्ग-महोदधिनायुत
हिन्दुसमुन्द्रो स्तौति चिरं ताम्।
तस्य तरङ्गकरेण हारेण
अर्च्यते मम भारतमात ... ॥
(हिमगिरि ... )
-----------------------------