Thursday, 11 April 2019

महात्मा फुले
(दिनविशेषः)
 -  प्रो.दर्शना वरगंटीवारः
 डि एम् एम्   आयुर्वेद महाविद्यालयः, यवतमाल, महाराष्ट्रम्
     ज्योतिरावः गोविन्दरावः फुलेवर्यः भारतीयसमाजसेवकः लेखकः दार्शनिकः विचारकः तथा च क्रान्तिकारकः  आसीत्। महात्माफुले नाम्ना विख्यातः असौ महाभागानां अद्य जन्मदिनं वर्तते।
फुलेवर्यानां जन्मः एप्रिल 11दिनाङ्के 1827 तमे महाराष्ट्रप्रान्ते पुण्यपतनमण्डले खानवाडी ग्रामे अभवत्।
  समाजे विद्यमाने समस्तवर्गाणां कृते शिक्षा प्रदानाय तेषां महत्वपूर्णं दायित्वमासीत्। तदानिन्तन समाजे वर्णव्यवस्थायां  प्रचलिताः भेदभावं प्रति तेषां महान्तमसंतोषं आसीत्। तदर्थं किमपि करणीयमिती मनसि निधायः समाजकार्यं कृतमासीत् महोदयेन। समाजविघातकाः अनिष्टाः प्रथापरम्पराः मार्जितुं सततं प्रयत्नरताः भूत्वा समाजोन्नत्यर्थं आजीवनं कार्यं कृतम् आसीत्। स्त्रीशिक्षणार्थं सर्वप्रथमं विद्यायस्य निर्माणं पुण्यपतने  कृतम्। तेषां धारणासीत् यत्  स्त्रीयः शिक्षिताः भवन्ति चेत् समाजपरिवर्तनं अवश्यमेव भविष्यति अतः पत्नीसावित्र्यासह स्त्रीशिक्षणार्थं कार्यरतः जातः। अस्पृश्यजनानां कृते शिक्षणार्थं विद्यालयः स्थापितः। सत्यशोधकसमाजस्य स्थापनापि कृता महोदयेन। जनाः तान् समाजसुधारकः इत्योपाधिना सम्मानीताः। तेषां उक्तिरियं प्रसिद्धा अस्ति.......मराठीभाषायां

*विद्येविना मती गेली
*मतीविना नीती गेली
*नीतीविना गती गेली
*गतीविना वित्त गेले
*वित्ताविना शूद्र खचले
 *इतका अनर्थ एका अविद्येने केले
    तात्पर्योस्ति
*विद्यां विना मतिनष्टः
*मतिं विना नीतिनष्टः
 *नीतिं विना गतिकुणठितः
 *गतिं विना धनं नष्टः
 *धनं विना शूद्रः व्यथितः
*केवलं अविद्यया एतावतनर्थः जातःI
      अतः समाजोन्त्यर्थं शिक्षणं महत्वपूर्णमस्ति तदर्थं आजीवनं  महान्तं प्रयासं अकरोत् फुलेवर्यः।
तेषां जन्मदिनस्योपलक्ष्ये विनम्राभिवादनम्।
________________________

Sunday, 17 March 2019

मातृवात्सल्यम् 
-डा. गदाधर त्रिपाठी

अहेतुकी च करुणा या श्रीशः संवलितस्तया।
वत्सान् प्रति तथा माता वत्सलभावेन रक्षति।।2।।

स्तनदात्री गर्भधात्री च मान्या माता महीयसी।
गर्भधारणपोषाभ्यां सवित्री जनयित्री तथा।। 3।।

कोऽपि देवो न सृष्टौ हि मातृसदृशस्तथा च वै।
मातृसेवा परो धर्मःसफलं तेनैव जीवनम्।।4।।

पतितःपिता भवति त्याज्यो ननु माता नैव कदाचन।
प्रत्युपकारो भवति नैव कर्तुं केनापि न शक्यते।5।।

गर्भपीडा प्रसवपीडासह्या यस्य जीवने।
आत्मजस्य मुखं दृष्ट्वा तु न स्मरति कदाचन।।6।।

उदरपूर्तिर्न पुत्राणां यावत्तेषां जीवने।
सुखं शक्रसमं त्याज्यं जीवनं मातुर्निरर्थकम्।।7।।

मुखानां या चाक्लान्तिर्हि पुत्राणां यत्सुखञ्च तत्।
तदेव जीवनं मातुर्हि वात्सल्यमिदमेव हि वै।।8।।
                       ---------------

Monday, 11 March 2019

हनुमतः भक्तिकथा               -नीतिकथा
  
   - पुनर्लेखनम् - सन्तु घोष्।
                         
        भगवतः श्रीरामचन्द्रस्य सभामण्डले ये सेवकाः आसन्।  तेषु सेवकेषु दलद्वयं वर्तते। एकस्मिन् दले भरत-लक्ष्मण- शत्रुघ्न- जाम्वुवानादयः सन्ति। अन्यस्मिन् दले केवलं स्वयं महावलशाली अञ्जनीपुत्रः हनुमान् वर्तते। एकदा भरतादयः सेवकाः चिन्तयन् सन्ति हनुमति किमस्ति यत् अस्सासु नास्ति। यस्मात् कारणात् भगवते रामचन्द्राय हनुमान् अधिकं रोचते। एकस्मिन्नहनि भरतादयः सेवकाः भक्ताश्च सर्वे मिलित्वा एकां तालिकां निर्मितवन्तः आसन्। तस्यां तालिकायां विविधानि सेवाकार्यानि आसन् एवं च तेषां सेवाकार्यानां कार्यकर्तारः अपि आसन्। यथा लक्ष्मणभ्राता प्रभोः पादसेवनं करिष्यति। एवं क्रमेण कोऽपि प्रभोः हस्तं प्रक्षालयिष्यति, कोऽपि मुखमण्डलं प्रक्षालयिष्यति, कोऽपि पिष्ठं मर्दयिष्यति। परन्तु तालिकायां कुत्रापि हनुमतः नाम नासीत्। मारुतः कृते किमपि कार्यमवशिष्टं नासीत्। वण्टितानां सेवाकार्यानां  तां तालिकां भरतादयः सेवकाः प्रभुं दर्शयन्ते। तां तालिकां दृष्ट्वा प्रभुनापि उक्तं - तथास्तु। अनन्तरं  सम्यकतया तां तालिकां दृष्ट्वा हनुमता उक्तं-  अस्यां तालिकायां कुत्रापि मम नाम न दृश्यते। किं मम कृते किमपि कार्यमवशिष्टं नास्ति वा? हनुमान् न केवलं महावलशाली अपि तु वुद्धिमानपि भवति। तदा अतीव चातुर्यतया हनुमता सस्मितेन उक्तं - अधुनापि कार्यमेकमवशिष्टमस्ति। परिषदि विद्यमानाः  लक्ष्मणादयः सर्वे सेवकाः चिन्तयन्ति-  अधुनापि किं कार्यमवशिष्टमस्ति? तदा मारुता उक्तं- यदा मम प्रभुः आलस्यमनुभूय मुखमुन्मुच्य वायुं निष्कासयिष्यति तदा अहं चुटकिं वादयिष्यामि।  केशरीनन्दनस्य कथां श्रुत्वा प्रभुना रामचन्द्रेनापि उक्तं- सत्यं कार्यमेकम् अधुनापि अवशिष्यते। तथास्तु। सभायामुपस्थितैः  सर्वैः जनैः पृष्टं- सेवाकार्यमेतत् कदा करिष्यति हनुमान्? तदा भगवता रामचन्द्रेनोक्तं- कदा अहं क्लान्तम् अनुभूय मुखमुन्मुच्य वायुं निष्कासयिष्यामि। एतत् तु अहं न जानामि। शयनकाले भोजनकाले प्रजाभिः सह आलापनकाले च यदा तदा कार्यमेतत् भवितुं शक्यते। तर्हि एतस्मै सेवाकार्यायै हनुमान् सदैव मया सह स्थास्यति। एतत् श्रुत्वा हनुमन्तं प्रति विद्वेषिनः सर्वे सेवकाः भक्ताश्च हताशाः अभवन्।
            

Wednesday, 27 February 2019

न्यायशास्त्रे पदार्थविचारः
रजीष् के. वि
(दर्शनम्)
Research Article No: 20190227

रजीष् के वि, 
संस्कृताध्यापकः, त्रिश्शूर्।



      दर्शनं नाम किमिति प्रश्ने सति सामान्यतया वक्तुं शक्यते "दृश्यते अनेन इति दर्शनम्" इति। अर्थात् प्रपञ्चस्यास्य सर्वविधानां रहस्यानांll तत्वानां वा अवबोधः येन सम्भवति तदेव दर्शनम्। दर्शितानां विषयाणां वैजात्यात् विभिन्नत्वात् वा दर्शनानामपि वैविध्यं सम्पन्नम्। वेदानां प्रामाण्याप्रामाण्यग्रहणेन दर्शनमपि विभक्तम् आस्तिकं नास्तिकं चेति। तत्र च वेदप्रामाण्यम् अङ्गीकुर्वतां दर्शनम् आस्तिकदर्शनं, वेदप्रामाण्यम् अनङ्गीकुर्वतां दर्शनं नास्तिकदर्शनम् इतिभेदः। तत्र आस्तिक-दर्शनानि षट्विधानि प्रसिद्धानि सांख्यदर्शनं, योगदर्शनं, वैशेषिकदर्शनं, न्यायदर्शनं, पूर्वमीमांसादर्शनं, उत्तरमीमांसादर्शनं चेति।

  षट्सु आस्तिकदर्शनेषु प्रमुखं भवति महर्षिगौतमप्रणीतं न्यायदर्शनम्। सिद्धान्तानुरोधेन दार्शनिकानां मध्ये मतभेदे सत्यपि सर्वेऽपि दार्शनिकाः धर्मार्थकाममोक्षात्‍मकेषु चतुर्विधेषु पुरुषार्थेषु मोक्षस्यैव प्राधान्यम् आद्रितं दृश्यते। एतन्मोक्षप्राप्त्यर्थम् उपायाः अनेके वर्तन्ते च। तत्र च न्यायवैशेषिकप्रवर्तकैः पदार्थानां तत्त्वज्ञानमेव मोक्षोपायत्वेन परिगण्यते। न्यायसूत्रप्रवर्तकेन गौतममहर्षिणा तु प्रमाणप्रमेयादीनां षोढशविधानां पदार्थानां तत्त्वज्ञानेन मोक्षप्राप्तिरिति अभिमतम्। तथाहि न्यायसूत्रे एवम्-"प्रमाणप्रमेयसंशय-प्रयोजनदृष्टान्त-सिद्धान्ताऽवयवतर्क-निर्णयवादजल्प-वितण्डाहेत्वाभासाच्छल-जातिनिग्रहस्थानानां तत्त्वज्ञानान्नि:श्रेयसाधिगमः" इति। सूत्रकारेणोक्तानां षोढशपदार्थानां सविस्तरप्रतिपादनं भाष्यवार्तिककारादिभिः नैय्यायिकैः कृतं वर्तते। प्रत्येकं पदार्थस्यापि व्याख्यानादिकमपि द्रष्टुं शक्यते च। षोढशपदार्थेषु प्रथमः पदार्थः भवति प्रमाणम्। प्रमाकरणं प्रमाणं प्रमीयते अनेन इति वा प्रमाणशब्दस्य व्युत्पत्तिः वक्तुं शक्यते। तच्च प्रमाणं, प्रत्यक्षं, अनुमानं, उपमानं, शब्दः चेति चतुर्विधं वर्तते।

   प्रमायाः विषयः एव प्रमेयः अर्थः वा भवति। प्रमा नाम ज्ञानम् इत्यर्थः। एतत् ज्ञानविषयात्मकः प्रमेयपदार्थः द्वादशविधः दर्शितः वर्तते। तं प्रमेयाख्यं पदार्थं निरूपयति सूत्रकारः एवम्-"आत्मशरीरेन्द्रियार्थ-बुद्धिमनःप्रवृत्तिदोषप्रेत्यभाव-फलदुःखापवर्गास्तु प्रमेयम्" इति।

     विरुद्घनाना-धर्मप्रतिपादक-वाक्यात् विप्रतिपत्तिवाक्यात् वा जायमानः भवति संशयः। वस्तुतः अयं संशयः चतुर्विधकारणेभ्यः उत्पद्यते। तदुक्तं सूत्रकारेण एवम् -"समानाऽनेकधर्मोपपत्ते-र्विप्रतिपत्तेरुपलब्ध्य-व्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः" इति।

  प्रयोजनात्मकः पदार्थः निरूप्यते सूत्रकारः महर्षिगौतमः एवम् - "यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनम्" इति। अर्थात् यं पदार्थमभिलक्ष्य पुरुषस्य प्रवृत्तिः दृश्यते यथा ज्ञानमुद्दिश्य अध्ययनादौ प्रवृत्तिः संम्भवति, तद् ज्ञानमेव तत्र अध्ययनस्य प्रयोजनंभवति।

 शास्त्रज्ञानरहितानां लौकिकानां शास्त्रज्ञानवतां परीक्षकाणां च यस्मिन्नर्थे बुद्धिसाम्यं दृश्यते स एव दृष्टान्तः। तदुच्यते एवम् -" लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्विसाम्यं स दृष्टान्तः" इति।

  सिद्धस्य संस्थितिः अन्तः वा सिद्धान्त इत्युच्यते। संस्थितिः नाम धर्मनियमः। तथा च सिद्धस्य धर्मनियमः एव सिद्धान्तः इतिस्पष्टम्। तं सिद्धान्ताख्यं पदार्थं निरूपयत्येवम् - "तन्त्राधिकरणाभ्युपगम -संस्थितिः सिद्धान्तः" इतिI तन्त्रं नाम शास्त्रमित्यर्थः।

  स्वार्थानुमान-परार्थानुमानयोः मध्ये परार्थानुमाने परस्य बोधनाय क्रियमाणे वा अनुमाने अवयवाः प्रयुज्यन्ते। ते च अवयवाः प्रतिज्ञा, हेतुः, उदाहरणं, उपनयः, निगमनं चेति पञ्चधा वर्तन्ते।

  ऊहः तर्कः। अर्थात् यस्य कस्यापि पदार्थस्य यथार्थज्ञानाभावे सति कारणप्रदर्शनेन अथवा हेतुप्रदर्शनद्वारा वा तत्पदार्थस्य तत्त्वज्ञानार्थं क्रियमाणः ऊह एव तर्कशब्देन व्यवह्रियते। उक्तं च सूत्रमेवम् -" अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितः तत्त्वज्ञानार्थमूहस्तर्कः" इति।

  पदार्थानां यथार्थज्ञानमेव निर्णयः इत्युच्यते। संशयिते अर्थे विमृश्य सन्देहविषयस्य खण्डनात्मकव्यापारेण पक्षप्रतिपक्षाभ्यां यदर्थावधारणं क्रियते तदेव निर्णयः। तदुक्तं न्यायसूत्रे एवम् -"विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयः" इति।

  कथा इति नाम्ना प्रसिद्धेषु वादजल्पवितण्डासु अन्यतमः भवतिवादः। अर्थात् पक्षप्रतिपक्षपरिग्रहः एव वादः। उच्यते तत् सूत्रकारेण यथा -" प्रमाणतर्क-साधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः" इति।

  "यथोक्तोपपन्नश्छल - जातिनिग्रहस्थान - साधनोपालम्भो जल्पः" इति जल्पं निरूपितं सूत्रकारेण। अर्थात् वादलक्षणविशेषणयुक्तः प्रमाणैः स्वपक्षस्थापनयुक्तः तर्केण प्रतिपक्षखण्डनयुक्तः च यः सिद्धान्ताविरुद्धः पञ्चावयववाक्योपपन्नः छलजातिनिग्रहस्थानोपालंभः च पक्षप्रतिपक्षपरिग्रहः स एव जल्पः इत्युच्यते।

   "सपक्षस्थापनाहीनो वितण्डा" इति वितण्डां निरूपितम्। अर्थात् यत्र जल्पः प्रतिपक्षस्थापनया स्वपक्षस्थापनाहीनः सन् परपक्षखण्डनमात्रपरः प्रवर्तते सा वितण्डा भवति।

  हेतुवदाभासन्ते इति हेत्वाभासाः इति हेत्वाभासशब्दस्य व्युत्पत्तिः। स च हेत्वाभासः पञ्चधा वर्तते सव्यभिचारः, विरुद्धः, प्रकरणसमः, साध्यसमः, कालातीतः चेति।

  वक्त्रा अनभिप्रेतस्य अर्थान्तरस्य प्रदर्शनेन यत् वाक्यविरोधप्रदर्शनं क्रियते तदेव छलम् इत्युच्यते। तदुक्तं न्यायसूत्रे एवम्-"वचनविघातो अर्थविकल्पोपपत्या छलम्" इति।

  समानविरुद्धाभ्यां धर्माभ्यां वाक्ये दोषमुद्भाव्य यः प्रतिषेधः क्रियते तदेव जातिरित्युच्यते। तद्यथा सूत्रेण-" साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः" इति।
   विप्रतिपत्तिः अथवा विपरीतज्ञानं, अप्रतिपत्तिः अर्थात् अज्ञानं च निग्रहस्थानशब्देन लक्ष्यते। तदुक्तं सूत्रकारेण यथा-"विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्" इति।

   उपर्युक्तान् षोढशपदार्थानाधारीकृत्य व्याख्यानादिकम् अन्यैः नैय्यायिकैः कृतं वर्तते। गौतममहर्षिणा प्रोक्तानां सूत्राणामुपरि वात्स्यायनप्रभृतिभिः नैय्यायिकैः भाष्यवार्तिकादयः ग्रन्थाः प्रणीताः वर्तन्ते। न्यायदर्शनाभिमतानां तत्त्वानां विषयाणां वा सहकारितया वैशेषिकदर्शनसूत्राणामपि प्रणयनं कृतं भवति नैय्यायिकैः। न्यायदर्शनपरम्परायाः नवीनकालपरम्परायां विद्यमानैः गङ्गेशोपाध्यायादिभिः पण्डितैः न्यायवैशेषिकदर्शनयोः तत्त्वानां प्रतिपादनं सम्यगेव कृतं दृश्यते। पदार्थविषये तु एतैः वैशेषिकाभिमताः द्रव्यादयः  सप्तपदार्थाः, तथैव प्रकारता, विशेष्यता, विशेषणता, अनुयोगिता, प्रतियोगिता, अवच्छेदकता, कार्यता, कारणता, प्रकारता निरूपकता, निरूप्यता चेति अन्ये पारिभाषिकपदार्थाः अपि दर्शिताः। ते च गौतममहर्षिणा सूत्रैः निरुपितानां षोढशपदार्थानाम् अन्तर्भावः द्रव्यादिषु सप्तसु पदार्थेषु सम्भवति इति स्थापयन्ति।

  न्यायसूत्रदिशा प्रथमः पदार्थः भवति प्रमाणम्। तत्र च प्रत्यक्षस्य इन्द्रियात्मकत्वात् द्रव्ये, अनुमानादीनां त्रयाणां ज्ञानात्मकत्वात् गुणे च अन्तर्भावः भवति। द्वादशविधात्‍मकस्य प्रमेयस्य द्रव्ये, गुणे, अभावे च अन्तर्भावः सम्भवति। संशयस्य ज्ञानात्मकत्वात् गुणे, प्रयोजनस्य ध्वंसात्मकत्वात् अभावे, दृष्टान्तसिद्धान्‍तयोः द्रव्ये, अवयवस्य वाक्यात्मकतया शब्दात्मकत्वात् गुणे, तर्क-निर्णय-वाद-जल्प-वितण्डादीनां ज्ञानात्मकत्वात् गुणे, हेत्वाभासानां द्रव्यादिषु च अन्तर्भावः कल्पितः। छलजात्‍योः शब्दात्मकत्वात् गुणे अन्तर्भावः उचितः। द्वादशविधानां निग्रहस्थानस्य द्रव्ये गुणे च अन्तर्भावः सम्भवति।

  एवंरीत्या षोढशपदार्थानां द्रव्यादिषु सप्तसु पदार्थेषु अन्तर्भावमुक्त्वा वैशेषिकाभिमताः पदार्थाः एव नव्यनैय्यायिकैः अभिमताः। पदार्थविज्ञानेनैव न्यायशास्त्रस्यास्य सर्वशास्त्रोपकारकत्वं सुप्रसिद्धं भवति।
‘मनोगतम्’ – ५३’   
        ‘मन की बात’ (५३-वीं कड़ी)   प्रसारणतिथि: - २४-०२-२०१९                                 
                    - संस्कृत-भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः 

        मम प्रियाः देशवासिनः, नमस्कारः| ‘मन की बात’-इति प्रसारणम् आरभमाणोsहम् अद्य मनसि भावाकुलतामनुभवामि | दश-दिनेभ्यः प्राक्, भारत-माता स्वीयान् वीर-सुपुत्रान् वियुक्तान् अन्वभवत् | एते पराक्रमशीलाः वीराः, अस्माकं सपाद-शतकोटि-भारतीयानां रक्षायै हुतात्मनः सञ्जाताः |  देशवासिनः सुखेन शयीरन्,  अत एव, एते अस्मदीयाः वीर-सुपुत्राः, अहर्निशम् अनारतञ्च सेवन्ते | पुलवामा-क्षेत्रे आतङ्काक्रमणे,  वीर-सैनिकानाम् आत्म-बलिदानानन्तरं अशेष-देशे जनेषु, जनमानसेषु च, आघातः आक्रोशश्च प्रवर्तेते | हुतात्मनः तेषाञ्च कुटुम्बानि प्रति, परितः सम्वेदनाः समुद्भवन्ति | अस्याः आतङ्कहिंसायाः विरोधार्थम्, यः आवेगो भवतां मदीये च मानसे वर्तते, सः एव भावः, प्रत्येकमपि देशवासिनाम् अन्तर्मनस्सु वर्तते तथा च, मानवतायां विश्वासकर्तुः विश्वस्य अपि मानवतावादिषु समुदायेषु अस्ति | भारत-मातुः रक्षायै,  निज-प्राणार्पकान्, देशस्य सर्वान् वीर-सुपुत्रान्, नमामि | इदं बलिदानम्, आतङ्कं समूलं प्रणाशयितुम् अस्मान् निरन्तरं प्रेरयिष्यति, अस्मदीयं सङ्कल्पम् इतःपरमपि दृढतरं विधास्यति | देशस्य सम्मुखं समापतितस्य अस्य समाह्वानस्य प्रतीकारः, अस्माभिः सर्वैः जातिवादं, सम्प्रदायवादं, क्षेत्रवादं सर्वान् अपि मतभेदान् च विस्मृत्य करणीयः येन आतङ्कं विरुद्ध्य अस्मदीयः पदक्षेपः पूर्वकालापेक्षया अधिकं दृढतरः स्यात्, अधिकतरः शक्तः निर्णायकश्च भवेत् | अस्मदीयं सशस्त्र-बलं सर्वदैव अद्वितीय-साहसस्य पराक्रमस्य च प्रदर्शनं कुर्वदस्ति | शान्तेः स्थापनायै अमुना यत्र अद्भुता क्षमता प्रदर्शिता, तत्रैव च आक्रमण-कर्तॄन् अपि तेषामेव भाषया प्रत्युत्तरितुमाचरितम् | भवन्तो दृष्टवन्तः स्युः यत् आक्रमणस्य शत-होरावधावेव केन प्रकारेण समुपायाः अनुष्ठिताः | सेनाः आतङ्कवादिनः तेषाञ्च सहायकान् समूलं नाशयितुं सङ्कल्पं धृतवत्यः | वीर-सैनिकानां बलिदानानन्तरम्, सञ्चारमाध्यमानां माध्यमेन तेषां कुटुम्ब-जनानां यानि प्रेरणादायीनि तथ्यानि प्रकाशितानि, तानि अशेष-देशस्य साहसम् इतःपरमपि बलवत्तरं व्यदधात् | बिहारस्य भागलपुरस्य हुतात्मनः रतनठाकुरस्य पिता रामनिरंजन-महोदयः,  दुःखस्य अस्मिन् क्षणेsपि यं दृढभावं प्रादर्शयत्, सः अस्मान् सर्वान् सततं प्रेरयति |  तेनोक्तं यदसौ नैजम् अपरं पुत्रमपि शत्रून् प्रतीकर्तुं प्रेषयिष्यति, तथा चावश्यकतायां

Monday, 25 February 2019


संस्कृतं विना नहि भारतम्।

-रामकृष्णशस्त्री-जयपुरम्
      वन्तो जानन्ति एव भारत-नामेदं राष्ट्रम् अतिविशालम् | भारते राष्ट्रे वर्तन्ते अनेकानि राज्यानि तेषु केरळम् अन्यतमम् | एषा पावना समृद्धा च केरळ-भूमिः सर्वैरपि वन्द्यते अभिनन्द्यते च | भारतस्य वर्णनं कुर्वन् कवि-कुल-गुरुः कालिदासः स्वीये रमणीये महाकाव्ये “कुमार-सम्भवम्”- इत्यत्र आद्ये श्लोके निगदति-
     “अस्त्युत्तरस्यां दिशि देवतात्मा, हिमालयो नाम नगाधिराजः |
       पूर्वापरः तोय-जलावगाह्यः, स्थितः पृथिव्याः इव मानदण्डः  ||
देवाः अपि अस्य राष्ट्रस्य यशोगीतकानि गायन्ति | भवद्भिः श्रुतं स्यात् यद्धि  विष्णुपुराणे प्रोक्तम् –
      “गायन्ति देवाः किल गीतकानि, धन्यास्तु ते भारत-भूमि-भागे|
       स्वर्गापवर्गास्पदमार्गभूते, भवन्ति भूयः पुरुषाः सुरत्वात् ||
अस्याः भारत-भूमेः रात्रिः रम्या, दिवसः दिव्य-कर्म-प्रेरकः, सन्ध्या सौन्दर्यमयी, प्रभातश्च प्रमोदकः | अत एव, प्रतिदिनं प्रभाते भवन्तः शृण्वन्ति ...  इयम् आकाशवाणी, सम्प्रति वार्त्ताः श्रूयन्ताम्... प्रवाचकः- ... अयमेव सः सुरभारती-सेवकः | जगति विदिततरमिदं यत्  “भारतस्य   प्रतिष्ठे   द्वे संस्कृतं संस्कृतिस्तथा” “संस्कृतं विना नहि भारतम्।"

 किं नाम संस्कृतम् ? का नाम संस्कृतिः च ?
 एतद् अवगम्य एव सांस्कृतिक-पुनर्जागरणे वयं संस्कृतस्य महत्त्वम् आवश्यकतां  चावगन्तुं शक्ष्यामः |
 कानिचित् एतानि लघु-लघूनि सूत्राणि भवद्भिः श्रुतानि स्युः  ..... “भूमा वै सुखं नाल्पे सुखमस्ति”, “तेन त्यक्तेन भुञ्जीथाः”, “चरन् वै मधु विन्दति”, “चरैवेति चरैवेति”, “रूपं रूपं प्रतिरूपो बभूव”, “सह वीर्यं करवावहै”, “संगच्छध्वं संवदध्वम्”, “वसुधैव कुटुम्बकम्”, --- एतानि सूत्राणि भारतीय-प्रज्ञायाः वैदिक-मनीषायाः च हार्दं भावं प्रकटयन्ति|  एषा अस्ति भारतीया संस्कृतिः|  उत वा वक्तुं शक्यते यत् एतदस्ति भारतीय-संस्कृतेः आभ्यन्तरीणं रूपम् |

 अपि च, “मातृदेवो भव”, “पितृदेवो भव”, “आचार्यदेवो भव”, “अतिथिदेवो भव”, “स्वाध्याय-प्रवचनाभ्यां न प्रमदितव्यम्”, “यानि अस्माकं सुचरितानि तानि त्वया उपास्यानि नेतराणि”।

 एतदस्ति भारतीय-संस्कृतेः बाह्य-स्वरूपम् यत्र वयं सर्वमपि शिक्षणं प्रशिक्षणं च संस्कारत्वेन परिभावयामः | अत एव सर्वे वदन्ति- “संस्कृतं संस्कारयति विश्वम् |”  अत एव, भारतीयः ऋषिः उद्घोषयति
      -    “एतद्देश-प्रसूतस्य, सकाशादग्रजन्मनः|
            “स्वं स्वं चरित्रं शिक्षेरन्, पृथिव्यां सर्व-मानवाः ||
                                                        - [मनुस्मृतिः]

 अद्वितीयायाः अस्याः भारतीय-संस्कृतेः प्रकाशिका संवाहिका च अभिव्यक्ति-रूपा अस्ति- “संस्कृत-भाषा”...“सुरभारती”...“गैर्वाणी”...“देववाणी” “देवभाषा”......!!!
 न केवलम् एषा भाषा,  अपि तु “ध्वनि-विज्ञानम्”- इति आधुनिकाः अपि भौतिक-विज्ञानिनो वदन्ति | अत एव संगणक-शास्त्र-विशारदाः भणन्ति यत् संगणक-विज्ञानार्थं अतितरां समुचिता, समुपयोगिनी वर्तते- संस्कृत-भाषा।
 एवम् अस्ति चेत् कथं नैषा, विद्यालयेषु  आरम्भाद् एव पाठनीया शिक्षणीया च ? ज्ञानं विज्ञानं कला शिल्पं साहित्यं चेत्यादि-विषयाः न कदापि कस्यापि वर्ग-विशेषस्य जाति-विशेषस्य चाधिकार-क्षेत्रे प्रवर्तन्ते,  अत्र तु “स्वयमेव मृगेन्द्रता” इति विभावनीयम् | काले काले शुभासु स्वस्थासु दिव्यासु च परम्परासु विकारः भवति,  काल-प्रभावात् युग-प्रभावात् चैवं भवत्येव | गीतायां प्रोक्तम् –
            काम एष क्रोध एष रजोगुण-समुद्भवः .... अत एव रजोगुणमयं परिदृश्यं   प्रतीकर्तुं सत्वगुणं-मयं च परिवेशं विवर्धयितुं सुदृढीकर्तुं चापि संस्कृतस्य शिक्षणं प्रशिक्षणं प्रचारप्रसारः संरक्षणं संवर्द्धनं चावश्यकम् |
------------------

Thursday, 31 January 2019

‘मनोगतम्’ – ५२  
‘मन की बात’ (५२-वीं कड़ी)   प्रसारणतिथि: - २७-o१-२०१९     
          [“मन की बात” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                  
                                 - भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः 
                मम प्रियाः देशवासिनः, नमस्कारः | मासेsस्मिन् एकविंशे दिने देशः गहन-शोकस्य वृत्तम् अध्यगच्छत् | कर्णाटके टुमकुर-जनपदे श्रीसिद्धगङ्गामठस्य डॉक्टर-श्री-श्री-श्रीशिवकुमार-स्वामि-पादः ब्रह्मणि लीनः| शिवकुमारस्वामिपादः नैजं सम्पूर्णमपि जीवनं समाज-सेवायै समर्पितवान् | भगवान् बसवेश्वरः अस्मान् अशिक्षयत् – ‘कायकवे कैलास’– अर्थात् कठोर-परिश्रमं कुर्वन् स्वीय-दायित्व-निर्वहणं हि,  भगवतः शिवस्य निवास-स्थाने, कैलाशधाम्नि स्थेय-तुल्यमस्ति| शिवकुमारस्वामिपादः अस्यैव दर्शनस्य अनुयायी आसीत्, तथा चासौ स्वीये एकादशोत्तर-शत-वर्षमिते निजे जीवन-काले परस्सहस्र-मितानां जनानां शैक्षिकार्थिक-सामाजिकोत्थान-कार्याणि अकरोत् | तस्य ख्यातिः तादृक्-विद्वद्वर्यरूपेणासीत्, यो हि आङ्ग्ल- संस्कृत-कन्नड़-भाषासु अप्रतिहत-गतिः अवर्तत | असौ समाज-परिष्कारकः आसीत् | सः नैजं पूर्णमपि जीवनं अस्मिन्नेव कर्मणि अनैषीत् यत् जनाः शिक्षां भोजनमाश्रयम् आध्यात्मिक-ज्ञानञ्चावाप्नुयुः| कृषकाः सर्वविधं कल्याणमवाप्नुयुः, - इयमेव स्वामिपादस्य जीवनस्य प्राथमिकता अवर्तत | सिद्धङ्गा-मठं नियमितरूपेण पशु-मेलां कृषिमेलाञ्चायोजयति स्म | नैकवारमहं परमपूज्य-स्वामि-पादस्य आशीर्वादावाप्तेः सौभाग्यम् अवाप्नवम् | सप्तोत्तर-द्विसहस्र-तमे वर्षे, श्री-श्री-श्रीशिवकुमारस्वामि-वर्यस्य शताब्दवर्षसमुत्सव-समारोहावसरे अस्माकं पूर्व-राष्ट्रपतिः डॉ.ए.पी.जे

Saturday, 12 January 2019

चोरभयम्
कर्मणा भाग्यबलेनैव सर्वेषामंशः सुनिश्चितः।
अनधिकारात् पराशं यो गृह्णाति सैव चोरः ॥१॥
धर्मांगेष्वस्तेयः प्राक्कालाद्धि स्वीकृतः।
चोरकर्म  अधर्म इति शास्त्रेषूपवर्णितः ॥२॥
येषामभिरुचिर्मद्ये द्यूतकर्मणि तथा च वै।?
क्रियास्वभिरुचिर्नास्ति हि ते चोरा भयकारकाः ॥३॥
संयोगाद् विधिवशाच्चैव केचन चोरा हि जीवने।
आश्रयहीनाश्च ये सन्ति वृत्याभावास्तथा च वै ॥४॥
संचिता यैः सम्पत्ति: सर्वे भयभीतास्तथा।
रक्षकै:सुरक्षिता:केचनान्ये जाग्रता:सदा ॥५॥
हिंसका भवन्ति केचन वा  सर्वदा भयकारकाः।
कामक्रोधादिकाश्चैव सद्वृत्तीनाञ्च चोरका: ॥६॥
सर्वे भयदायका नैव प्रिया हृदयहारकाः।
इच्छा भवति सर्वेषां तथा चोरास्तु जीवने ॥७॥
आसीन्नवनीतचोरस्तु  गोपीनां हृदयहारकः।
हरत्वीशो मम हृदयञ्चैव जीवानामिच्छा सदा ॥८॥

                     -------------------

Tuesday, 1 January 2019

मनोगतम्’ – ५१   
        ‘मन की बात’ (५१-वीं कड़ी)   प्रसारणतिथि: - ३०-१२-२०१८                                   
                      - संस्कृत-भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः 
         मम प्रियाः देशवासिनः, नमस्कारः | अष्टादशोत्तर-विंशतिशततमं वर्षं पूर्णतामेति |वयं नवदशोत्तर-विंशतिशततमं वर्षं प्रवेक्ष्यामः| स्वाभाविक- रूपेण एतादृशे काले, विगत-वर्षस्य विषयाः चर्च्यन्ते, युगपदेव आगामिवर्षस्य संकल्पस्यापि चर्चा श्रूयते| भवतु नाम व्यष्टिजीवनम्, समाजजीवनम्, राष्ट्र- जीवनं वा – प्रत्येकमपि जनस्य कृते सिंहावलोकनं भवत्यनिवार्यम्, तथा च, यथादूरमपि शक्यं तावद् दूरं भविष्यति द्रष्टुमपि प्रयतनीयम्, तदैव अनुभवानां लाभोsपि प्राप्यते, तथा च, किमपि नूतनमाचरितुम् आत्मविश्वासोsपि लभ्यते | वयम् एतादृशं किं करवाम येन निज-जीवनं परिवर्तयितुं शक्नुम ? युगपदेव देशं समाजञ्च अग्रेसारयितुं स्वीयं योगदानं कर्तुं शक्नुम ? भवतां सर्वेषां कृते  नवदशोत्तर-विंशतिशततमं वर्षं शुभं भवेदिति कृत्वा कोटिशः शुभकामनाः व्याहरामि |  भवन्तः सर्वेsपि कदाचित् विचारितवन्तः यत् अष्टादशोत्तर-विंशतिशततमं वर्षं केन प्रकारेण स्मरणीयम्? अष्टादशोत्तर-विंशतिशततमं वर्षं हि भारतमेकदेशरूपेण, स्वीयानां त्रिंशदुत्तरशत-कोटि-जनानां सामर्थ्यरूपेण च, केन प्रकारेण स्मरिष्यते – एतत् स्मरणमपि महत्वपूर्णमस्ति | अस्माकं सर्वेषां कृते गौरवप्रदं वर्तते | 
           अष्टादशोत्तर-विंशतिशततमे वर्षे,  विश्वस्य बृहत्तमा स्वास्थ्यागोप-योजना ‘आयुष्मान् भारतम्’इत्यारभत | देशस्य प्रत्येकमपि ग्रामः विद्युत्-सौविध्यमलभत| विश्वस्य गणमान्याः संस्थाः स्वीकृतवत्यः यत् भारतं आलेख्य-गत्या,  देशं निर्धनतातो मुक्तिं प्रयच्छति | देशवासिनां दृढसंकल्प-कारणात् स्वच्छता-कार्याणि एधित्वा प्रतिशतं पञ्चनवतितोsप्यधिकानि भूत्वा तद्दिशि अग्रेसरन्ति |
          स्वाधीनता-प्राप्तेः अनन्तरं रक्त-दुर्गात् प्रथमवारं, ‘आज़ाद-हिन्द-सरकार’-इत्यस्य पञ्च-सप्तति-वर्षपूर्त्यवसरे त्रिवार्णिको ध्वजः उत्तोलितः | देशम् एकतासूत्रेण सन्नद्धकस्य, सरदारवल्लभभाईपटेलस्य सम्माननार्थं विश्वस्य उच्छ्रिततमा प्रतिमा 

Monday, 17 December 2018

तुलसीपत्रम्
 -डा गदाधर त्रिपाठी
-कविता
अन्यैस्तुलना नास्त्यतुल्या ननु तुलसी सदा।
अक्षमास्तुलनां दातुं  तेन तुलसी  स्मृता।।1।।
भूतघ्नी भूतपत्री च सुभगा तीव्रा तथा।
वैष्णवी पावनी वृन्दा कथिता सर्वथा सदा।।2।।
गौरी श्यामा ननु तुलसी तु खरपत्रा तथा च वै।
क्षुद्रपत्रा विल्वगन्धा गन्धतुलसी कथिता सदा।।3।।
कटुत्वञ्चैव तिक्तत्वमुष्णत्वञ्च वै सदा।
सुरभित्वं रुचिकरत्वञ्च गुणाः कथितास्तथा।।4।।
एका तुलसी गोपी राधाशापाद्  भूमिमागता।
पत्नी शंखचूडस्यापरा गण्डकी तुलसी मता।।5।।
आख्यानमस्ति द्वितीयं हि वृन्दाया: कथितं तथा।
त्रिषु देवीषु तुलसी वै तदा भूमिं समागता।।6।।
ओषधिर्मूलं बीजञ्च पत्रमस्या: सर्वदा।
हृदयस्य भवति पुष्टिर्हि ज्वरनाशस्तथा च वै।।7।।
चक्षुरोगञ्च दद्रुं वै मसकान्नपवारयति।
आरोपिता यत्र तुलसी लक्ष्मीर्वसति सर्वथा।।8।।
धन्या:शालग्रामस्य तुलस्या कुर्वन्ति पूजनम्।
तीर्थानि चैव देवाश्च तुलस्यां वसन्ति सर्वदा।।9।।
भोजनं तुलसीपत्रेण त्वीशस्य स्मरणं सदा।
अन्ते गंगाजलञ्चैव पुनरागमनं नैव च हि।।10।।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°