मातृवन्दनम् -गानम्
- अय्यंपुष हरिकुमारः , कोच्ची

भारतमातुर् मणिमकुटम्।
गङ्गा यमुना सिन्धु सरस्वति
प्रवहति मातुर्हृदयतटम्।।
काश्मीरादि महोन्नददेशे
विकसन्त्यधुना कुसुमानि।
गायन्त्यचिरात् तानि सुमानि
वन्दे-मातर-गानानि ।।
वन्दे मातरं........ वन्दे मातरम् ........।
आरब- वङ्ग-महोदधिनायुत
हिन्दु-समुद्रो स्तौति चिरं ताम् ।
तस्य तरङ्गकरेण हारेण
अर्च्यते मम भारत माता ।।
---------------------------