Monday, 5 September 2016

 कथा


प्रतीक्षा
सुजा के पी
जिविएस् एस् चर्प तृश्शिवपेरूर्


भवता आहूयमाना संख्या परिधौ नास्ति......। दिनद्वयतः पुत्रस्य दूरवाण्या इयमेव आयाति इति विषादपूर्णया वाचा सगद्गदं प्रलपन्ती शारदा मम वक्षसि मुखं निहितवती। किं वक्तव्यमिति ममापि भ्रान्तिः जाता।

एक पुत्रः सुन्दरः गुणवान् च। बाल्ये सर्वे वदन्ति स्म यत्  " एतादृश पुत्रलाभार्थं तपः करणीयम्  " इति....। तस्य अष्टमजन्मवार्षिकस्य आचरणवेलायां मम मित्रं राधाकृष्ण एवमुक्तवान् - " भवान्  ग्रामीणविद्यवये पुत्रं पाठयित्व तस्य 'फ्यूचर्'  किमर्थं  नाशयति ? नगरम् आगच्छतु। तत्र उत्तम विद्यलये पाठयतु, प्रवेशन क्लेशः स्यात्  । चिन्ता मास्तु , व्यवस्थां करिष्यामि वासव्यवस्थायामपि चिन्ता न करणीया  ।  "

किन्तु पितरौ " मम चिन्ता जाता ।
किं भो! इदानीं भवतः पुत्रस्य भविष्यमेव प्रधानं ननु? वासरान्तेषु अत्र आगत्य पित्रो क्षेमान्वेषणं कुरु " तदेव उत्तममिति  शारदायाः अपि मतमासीत्। हरितमयानि क्षेत्राणि जीर्णमपि शान्तिपूर्वं मन्दिरं च त्यक्त्वा तथा सदा जपन्तम् अश्वत्थं विस्मृत्य अपरिचिते नगरे वासः। राम! राम! इति मातुः आह्वानं कदाचित् एव शृणुयाम्।समूलम् उत्पाट्य अन्यत्र रोपणम्। !! तत्र सामञ्जस्ये कति दिनानि आवश्यकानि भवेयुः । मम विविधाः चिन्ताः आसन्।

किन्तु  नगरी तु काचित् अभिसारिका इव। तस्याः करवलये बद्धः चेत् सर्वमपि विस्मरति। न गृहं , न ग्रामः न बान्धवाः । तस्याः सौन्दर्ये मुग्धः न किमपि स्मरन्ति...। मोहयितुं सा जानात्यपि......।

नगरजीवितम् आरब्धम् । ग्रामस्य व्ययात् दशगुणितः व्ययः । कदलीपत्रमपि धनेनैव लभ्यम्। तद्वत् अन्याः आवश्यकताः सञ्जाताः। "सर्वेषु गृहेषु परिचारिकाः सन्ति। एका अत्रापि भवतु। नो चेत् अस्माकम् अपमानः" शारदायाः परिभवः । कथञ्चित् परिचारिकायाः व्यवस्थाम् अकरवम्। पुत्रस्य इच्छानां तु सीमा एव नासीत्। एकस्यानन्तरम् अन्यत्...... । द्विचक्रिका, जड़्गमदूवाणी, सड़्गणकम्..... एवमेवम् आवलिः प्रवृद्धा ।

" भवान् छात्रः खलु इदानीं किमर्थम् ? " अपृच्छम् । " " " पितः! सर्वेषां मम मित्राणां हस्ते अस्ति।
भवान् कस्मिन् युगे जीवति ? " प्रश्नभावेन शारदां दृष्टवान् । " ददातु रे " , तस्याः नेत्रे स्पष्टम् अवदताम् ।
भवतु अस्माकम् उण्णिः खलु  अनयस्मै कस्मै न इति विचचिन्त्य तामपि इच्छां पूरितवान्। सड़्गणकं गृहमानीतम् । उण्णिः तु सर्वदा तस्य  पुरतः एव । पठनार्थमेव उपयोगः इति तस्य वचने तु आवयोः संशयलेशोऽपि नासीत्।

एकस्मिन्दिने दृरवाणी आगता । पुत्रस्य विद्यालयात् ।
" शीध्रम् आगन्तव्यम्  " । किं स्यात् एतावत्याः त्वरयाः कारणम् ?
प्राचार्यस्य प्रकोष्ठं प्रविष्टः । क्रोधस्फुरनेत्राभ्यां किमपि लिखन् प्राचार्यः । समीपे निद्रामग्नः इव उण्णिः । प्राचार्यः वक्तुमारब्धवान् - पश्यतु भवतः पुत्रस्य पठनवस्तूनि ....  उत्पीठिकां प्रदर्शितवान् ।


रक्तवर्णेन अड़्कितं प्रगतिपत्रम्, श्वेतचूर्णयुक्तानि लघुपलास्तिकपोटलिकाः , काचित् सान्द्रमुद्रिका.....  एवमेवं ..... व्यक्तं किल? इदमपि पश्य , सान्द्रमुद्रिकां सड़्गणके संस्थाप्य सः चलचित्रं दर्शितवान् ..... मम अधस्तात् भूमिः चलिता इव पाताले मग्नः इव अभवम्। चित्रे मम पुत्रः परिचारिका च .... अहो किं किं दृष्टं मया .... मम शिरोभ्रमणं जातम्। प्रचार्यः पुनरपि कथयन्नासीत्। आरक्षकाः न्यायवादः अधिवक्ता एवमेवं...। उण्णिः गृहमानीतः। शारदा रोदितुमारभत। पुत्रस्य स्कन्धे स्ववक्षसि च पुनः पुनः ताडयन्ती सा किमपि प्रलपन्ती आसीत्। क्रुद्धः सः मां  स्वमातरम् अपि ताडयितुम् उद्युक्तः।

प्रातिवेशिकस्य अध्यपकस्य साहाय्येन उन्मादविमुक्तक्रन्दं नीत्वा चिकित्सा ....... वर्षाणां प्रयत्नेन सः मादकवस्तुभ्यः विमुक्तः ।  " स्वकृतेभ्यः  पापेभ्यः मोचनं प्राप्तुमिच्छामि । पापनिवारिणीनां तीर्थानां वक्षसि अश्रूणि मुञ्चन् पूतो भविष्यामि ..."आवयोः मौनम् अनुमतिं मत्वा सः प्रस्थितः .... मासद्वयं अतीतम्। एकवारं कावेर्यामस्मीति दूरवाणी आसीत्। परन्तु ततः परं कापि वार्ता नास्ति। तम् आह्वयामश्चेत् परिधौ नास्तीति वचनमेव।
राम... ...  राम.......  जानकीजाने   येशुदासस्य मधुरस्वनः । रामचन्द्रः झटिति स्वप्नात् जागरितः । दूरवाणी!! मह्यं दूरवाणी !! उण्णिः स्यात् । शारदा अपि दूरवाणीं स्वीकृतवान्। अपरस्मात् पार्श्वात् ध्वनिः आगतः। राम ! किमर्थं भवान् न आगच्छति ? श्वः जन्मदिनं तव ...... आयाहि । आवामत्र भवदागमनं प्रतीक्ष्यमाणौ स्वः ।

मातुः सकम्पवचनं श्रुत्वा किमपि स्मृत्वा इव रामचन्द्रः भार्यया सह झटित्येव गृहं प्रतिष्ठित । यात्रावेलायामपि शारदा पुत्रम् आह्वयितुं प्रयतमाना आसीत्। तदापि सा एव वाणी...   " भवता आहूयमाना संख्या परिधौ नास्ति "।
---------------------------------------