कथा
स्नेहमयी जीवनाशा
रम्या पुलियन्नूर्एस् एस् जि एच् एस् एस् कण्टंड़्काली पय्यन्नूर्, कण्णूर् ।
मम प्राप्तिसमये कवाटः पिहितः आसीत् ।
तत् गृहं वातावरणं च अत्यन्तं पुरातनमिव अभासत। जीवनम् अत्रास्तीत्यस्य कापि कला तत्र दृष्टिगोचरा नासीत्। अड़्कणं न परिमार्जितम्, तत्र तृणानि रूढमूलानि काननच्छायां प्रयच्छन्ति स्म। गृहं च न परिमार्जितम्। धूलिधूसरितम् आसीत्। लूताजालैः निर्मिताः भिन्नभिन्नालड़्कृतयः तत्र तत्रासन्।
दूरदेशोद्योगप्राप्तौ अनन्यगामिकाहम् एकमात्र बन्धुगृहम् एतत् प्रविष्टा। गृहस्य अन्तः प्रकाशः नास्ति प्रायः । चतुश्शालेत्यतः लभ्यमान प्रकाशेन मार्गाः ज्ञाताः। महानसस्य पुरतः विद्यमाने प्रकोष्ठे बन्धुर्मम सा दीपज्वालनाय वर्तिकाः सज्जीकरोति स्म। तस्याः दर्शने ममहृदयं छिन्न भिन्नम् अभवत् । पूर्वं ऐश्वर्यदेवतेव विराजमाना सा सुमड़्गलित्वं सम्यक् अलड़्करोति स्म । अधुना तु कलुषितवस्त्रा कृशगात्री सा केशान् न प्रसाधितवतीति दृष्टा मया। तस्याः एकमात्रपुत्र्याः भर्तुश्च अपघातेन देहवियोगः मया ज्ञातः आसीत्। तथापि एवंविधम् एतस्य परिवर्तनं न ज्ञातमेव मया। स्नेहव्यवहारेणैव सा रक्षितुंशक्या इति ज्ञात्वा अहं तत्र दीपं ज्वलितवती। दीपस्य प्रकाशेन अस्वस्थतां प्रदर्शितवती सा पूर्वकर्मस्मरणेन वा वार्तिकायाः सज्जतायां लग्ना आसीत्। समीपं गत्वा 'पेरश्शी ' इति आहूय स्मारितवती। ममाह्वानेन सा किञ्चित् स्मृतवतीव भावं प्रकटितवती। किञ्चितपि समीपस्था भूत्वा तस्याः स्कन्धे हस्तं विधाय अहं निर्मला इति सूचितवती। उद्योगप्रप्तिवृत्तान्तं सर्वं तां सूचितवती। इतः परम् अत्रैव मम वासः इति च । सा अड़्गीकृतवती । तस्मिन् दिने परस्परसम्भाषणं विना मौनभोजनम् आसीत्।
अग्रिमदिने प्रातरुत्थाय गृहस्वच्छतायां व्यपृताहम् । गृहम् अड़्कणं च सम्यक् परिमार्ज्य स्नानं ततः श्रीगृहे दीपज्वलनं च श्रद्धया मया आचरितम् । मम भागवतपारयणं श्रुत्वा सा उत्थितवती । ततः किञ्चिदाश्वस्ता इव स्नात्वा आगत्य मम समीपम् उपविष्टा । ततः महानसे द्वापि मिलित्वा आहारनिर्माणं कृतवत्यौ । मम प्रस्थानावसरे सा भोजनपात्रम् आनीतवती। " नावश्यकं , मध्यह्ने अहम् आगत्य मिलित्वा भोजनं कुर्वः " इति कथनेन सा सन्तुष्टा अभवत्। जीवनाशा तस्यां स्फुरितेव। मम गमनसमये पुरतः आगत्य स्थितवती। स्वपुत्रीं स्मृत्वा अश्रूणि मुञ्चन्ति दृष्टा मया।
तद्दिने सायंकाले तामपि बहिर्गन्तुं प्रेरितवती। महता कष्टेन तां बहिरानाय्य वाटिकानिर्माणम् आरब्धवती। सापि मम साहाय्यार्थं सन्नद्धा अभवत्। एकघण्टाभ्यन्तरे सुन्दरम् उद्यानं सज्जीकृतवत्यौ। अनन्तरं स्नात्वा सन्ध्यावन्दनाय उपविष्टे।
एवम् एकमासानन्तरं निरन्तरसामीप्यदानेन तस्यां जीवनोत्साहः वर्धितः। समीपस्थाः बालाः तस्याः वाटिकायामगत्य क्रीडां कर्तुमारब्धवन्तः । तेषां निरन्तरकोलाहलैः तत् गृहं मनुष्यगृहं जातम्। सा मध्यपि पुत्रीनिर्विशेषं स्निह्यति स्म। अहमपि स्नेहं दत्वा ताम् पुनः जीवनोन्मुखं कृतवती। आत्मविश्वासेन आश्वस्ता च।
--------------------------------------