Monday, 5 November 2018

मनोगतम्’ – ४९ ‘मनकीबात’ (49वींकड़ी) प्रसारणतिथि: - २८-१०-२०१८ 
[“मनकीबात”-“मनोगतम्” -इतिकार्यक्रमस्य संस्कृत-भाषिकानुवादः ]  


 - भाषान्तर-कर्ता -डॉ.बलदेवानन्द-सागरः 
          मम प्रियाः देशवासिनः, भवद्भ्यः सर्वेभ्यः नमस्कारः| ओक्टोबर-मासे एकत्रिंशत्तमे दिने अस्माकं सर्वेषां प्रियस्य सरदार-वल्लभभाई-पटेलस्य जयन्ती वर्तते, तथा च, प्रतिवर्षमिव ‘Run for Unity’-इति एकतायै धावनार्थं देशस्य युवजनाः सन्नद्धाः सन्ति | साम्प्रतन्तु ऋतुरपि बहु सुखदः| अयञ्च एकता-धावनस्य कृते उत्साह-वर्धकः| ममाग्रहोsयं यद् भवन्तः सर्वे बृहन्मात्रया एकताधावनेsस्मिन् नूनं सहभागित्वमावहन्तु | स्वाधीनता-प्राप्तेः प्रायेण सार्ध-षण्मासेभ्यः प्राक्, सप्तचत्वारिंशदुत्तरोनविंश-शततमे वर्षे जान्युआरि-मासे सप्त-विंशे दिने, विश्वस्य प्रसिद्धायाः Time Magazine’–इत्यान्ताराष्ट्रिय-पत्रिकायाः प्रकाशित-संस्करणस्य प्रथम-पृष्ठे सरदार-पटेलस्य छायाचित्रं प्रकाशितमासीत्| स्वीये मुख्ये वृत्त-विवरणे पत्रिकया भारतस्य एकं मानचित्रं प्रकाशितम्, अपि चैतत् मानचित्रं तादृशं नासीत् यादृशं वयमद्यत्वे पश्यामः | एतत् तादृशस्य भारतस्य मानचित्रमासीत् यद्धि अनेकधा विभक्तमवर्तत| तदा देशे सार्ध-पञ्चशताधिकानि रियासत-इति वंशभोग्यानि देशज-राज्यानि आसन्| आङ्ग्ल-जनानां भारत-विषयिणी रुचिः समाप्ता आसीत् परञ्च ते देशमिमं छिन्न-भिन्नं कृत्वा त्यक्तुमिच्छन्ति स्म |‘Time-पत्रिकया’लिखितमासीत् यत् भारते विभाजनं, हिंसा,खाद्यान्नसङ्कटं, महार्घता, सत्ता-इति शासनाधिकाराणां राजनीति-सदृशानि सङ्कटानिपरिभ्रमन्ति स्म |ततः परं ‘Time-पत्रिका’ लिखति यत् एतेषु सङ्कटेषु सत्सु देशं एकता-सूत्रेण सन्नद्धुं, व्रणान् च सम्भर्तुं यदि कश्चन क्षमते चेत् सोsस्ति- सरदार-वल्लभभाई-पटेलः |‘Time-पत्रिका’याः विवरणमिदंलौहपुरुषस्य जीवनस्य अपरान् अपि पक्षान् प्रकाशयति | केन प्रकारेण सः विंशत्युत्तरोन- विंश-शततमस्य दशके अमदाबादे समापन्न-जलपूरावसरे साहाय्य-कार्याणां प्रबन्धनमकरोत्| केन प्रकारेण सः बारडोली-सत्याग्रहस्य दिङ्निर्देशनं व्यदधात् | देशस्य कृते तस्य प्रामाणिकता प्रतिबद्धता च तादृशे आस्तां यत् कृषक-श्रमिकोद्योगपति-प्रभृतयः सर्वेsपि तस्मिन् विश्वसन्ति स्म| गान्धि-चरणः सरदार-पटेलम् अकथयत् यत् राज्यानां समस्याः तावत्यो विकटाः सन्ति यत् केवलं भवान् एव एताः समाधातुमर्हति, तथा च, सरदार-पटेलः समस्यानां प्रत्येकं समाधाय देशम् एकतासूत्रेण सन्नद्धुम् असम्भवकार्यं पूर्णतामनयत् | सः सर्वेषामपि वंश-भोग्यानां लघु-राज्यानां भारते विलयम- कारयत्| भवतु तत् जूनागढ़म् आहोस्वित् हैदराबादम्,त्रावणकोरम् वा राजस्थानस्य वंश-भोग्यं राज्यम् – सः सरदार-पटेलः एवासीत् यस्य विवेकेन रणनीतिक-कौशलेन चाद्य वयं एकं हिन्दुस्थानम् अवलोकयितुं पारयामः | एकता-सूत्रेण समन्वितं राष्ट्रमेतं, अस्मदीयां भारत-मातरं दृष्ट्वा वयं स्वाभाविक-रूपेण सरदार-वल्लभभाई-पटेलस्य पुण्य-स्मरणं कुर्मः |ऐषमः ओक्टोबर-मासीये एक-त्रिंशत्तमे दिने सरदार-पटेलस्य जयन्ती तु इतोऽपि विशिष्टा भविता –दिनेsस्मिन्  सरदार-पटेल-वर्याय तात्विक-श्रद्धाञ्जलिमर्पयन्तो वयं Statue of Unity-इति एकता-प्रतिमां राष्ट्राय समर्पयिष्यामः | गुजराते नर्मदा-नदी-तटे स्थापितायाः अस्या प्रतिमायाः उत्तुङ्गत्वम् अमेरिका-देशस्य ‘Statue of Liberty’-इत्यपेक्षया

Wednesday, 10 October 2018

न्यायशास्त्रस्य सामान्यपरिचयः
रजीष् के वि, 
(दर्शनम्)
Research Articles No: 20181010


रजीष् के वि, 
संस्कृताध्यापकः, त्रिश्शूर्।


   "दृश्यते अनेन इति दर्शनम्" इति दर्शनशब्दस्य व्युत्पत्तिः၊ अनया च व्युत्पत्त्या ज्ञानार्थकदृश् धातोः दर्शनमिति पदं निष्पन्नम्। तथा च शास्त्रे निहितानां निगूढतत्त्वानाम् उद्बोधनं येन सम्भवति तदेव दर्शनं भवितुमर्हति। एवञ्च प्रपञ्चरहस्यानाम् ईश्वररहस्यानां च मार्गम् अन्विष्यमाणैः पुरुषैः दर्शनमेव अवाप्तव्यम् इति स्पष्टम्। अयं प्रपञ्चः, प्रकृतिः, मनुष्यः, ज्ञानं, जीवनम् इत्येवम् अनेके विषयाः प्राचीनदार्शनिकानां चिन्तनधारायां मुख्याः आसन्। वस्तुतः अस्य प्रपञ्चस्य विषये , आत्मविषये च परस्परभिन्नतां वर्तते चेदपि प्रायः सर्वाण्यपि दर्शनानि परमपुरुषार्थात्मकं मोक्षमेव आत्यन्तिकलक्ष्यत्वेन स्वीकृतानि दृश्यन्ते। इदञ्च दर्शनम् आस्तिकदर्शनं नास्तिकदर्शनं चेति द्वेधा विभक्तं वर्तते। तत्र विभाजकधर्मत्वेन वेदप्रामाण्यमेव स्वीक्रियते दार्शनिकैः। तथाहि यानि दर्शनानि वेदप्रामाण्यम् अङ्गीकुर्वन्ति तानि आस्तिकदर्शनानि यानि नाङ्गीकुर्वन्ति तानि नास्तिकदर्शनानि इति च भेदः। तत्र नास्तिकदर्शनानि प्रायः बृहस्पतेः चार्वाकदर्शनं, भगवतः बुद्धस्य बौद्धदर्शनं, वर्धमानमहावीरस्य जैनदर्शनं च भवन्ति। आस्तिकदर्शनानि प्रधानतया षट्विधानि वर्तन्ते, तद्यथा- कपिलमुनिविरचितं सांख्यदर्शनं, पतञ्जलिविरचितं योगदर्शनं, कणादविरचितं वैशेषिकदर्शनं, महर्षिगौतमविरचितं न्यायदर्शनं, जैमिनिविरचितं पूर्वमीमांसादर्शनं, बादरायणविरचितम् उत्तरमीमांसादर्शनम् अथवा वेदान्तदर्शनं चेति।

  ॥ न्यायशास्त्रस्य परिचयः ॥
     आस्तिकदर्शनेषु षट्सु अन्यतमं भवति महर्षिगौतमप्रणीतं न्यायदर्शनम्।" काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् " इत्युक्तिः सुविदितैव विश्वे अस्मिन्। अस्याम् उक्त्यां प्रयुक्तेन काणादपदेन यद्यपि वैशेषिकदर्शनस्य ग्रहणं सम्भवति तथापि न्यायशास्रस्यापि प्रभाव: तत्र वर्तत एव, न्यायवैशेषिकदर्शनयोः समानतन्त्रत्‍वात् ।न्यायवैशेषिकदर्शनयोः समानतन्त्रत्‍वं तु आत्मनः अस्तित्‍वं ,परमाणुसाधनं, प्रपञ्चोत्पत्ति इत्येवं रीत्या अनेकेषु विषयेषु दृश्यते, अपि च पदार्थानां यथार्थज्ञानेन अथवा तत्त्वज्ञानेन मोक्षप्राप्तिरिति दर्शनद्वयाभिमतमेव। तत्र तु न्यायसूत्रकारेण गौतममहर्षिणा प्रमाणप्रमेयादिषोढशपदार्थानां तत्त्वज्ञानस्य मोक्षहेतुत्वं दर्शितम्। 

   "नीयते अनेन इति न्यायः ." इति न्यायशब्दस्य व्युत्पत्तिः ।अर्थात् यत् अस्मान् अर्थतत्वं प्रति नयति अथवा तत्वज्ञानाय प्रेरयति तदेव न्यायः भवितुमर्हति। शास्त्रार्थविचारादिषु स्वमतस्थापनाय परमतखण्डनस्य आवश्यकतया परमतखण्डनपूर्वकमेव स्वमतस्थापनं कर्तव्यं भवति। एवञ्च परमतखण्डन-पूर्वकस्वमत-स्थापने वक्त्रा यादृशवाक्य-विन्यासः क्रियते तादृशवाक्य-समुदाय एव न्याय  इत्युच्यते। तथा च कीदृशावयवसमुदायेन अर्थज्ञानं जायते तद्‌वाक्यसमुदाय एव न्याय इति स्पष्टम्। तत्र न्याय नाम किमिति जिज्ञासायां न्यायवार्तिककारेण उद्योतकराचार्येण उक्तं वर्तते एवम्- "प्रयोजने सति परीक्ष्यते इति प्रयोजनं परीक्षां प्रवर्तयति इति का पुनरियं परीक्षा न्यायः" इति। अर्थात् परीक्षान्यायपदयोः ऐक्यात् एकार्थप्रतिपादकत्वात् वा न्यायो नाम परीक्षा इति युज्यते। न्यायस्वरूपं तु भाष्यकारेण वात्स्यायनमहर्षिणा एवं दर्शितम् - "प्रमाणैरर्थपरीक्षणं न्यायः" इति। अत्र तु प्रमाणशब्देन प्रमाणमूलाः प्रतिज्ञादयः पञ्चावयवाः एव गृह्यन्ते। एतैः अवयवैः लिङ्गस्य अर्थस्य वा परीक्षणमेव न्यायशब्देन उद्दिश्यते। एतत् व्याख्यातं वार्तिककारेण उद्योतकराचार्येण एवं - "समस्तप्रमाण-व्यापारादर्थातिगतिर्न्यायः। न एकैकप्रमाणमर्थपरिच्छेदहेतुभावेन व्यवतिष्ठमानं न्याय इत्युच्यते किन्तु समस्तानि" इति। अर्थात् प्रत्यक्षानुमानादिप्रमाणमूलैः प्रतिज्ञादिभिः पञ्चावयवैः जायमाना अर्थसम्पत्तिरेव न्यायपदवाच्या भवति।

     न्यायशास्त्रमिदम् आन्वीक्षिकी, न्यायविद्या, प्रमाणशास्त्रं, हेतुविद्या, तर्कशास्त्रम् इत्येवं बहुभिः नामभिः व्यपदिश्यते। उक्तं च भाष्यकारेण वात्स्यायनमहर्षिणा एवम् - "इमास्तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते, यासां चतुर्थीयमान्वीक्षिकी न्यायविद्या" इति। अर्थात् "आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती" इत्यनेन सूक्तेन उक्तासु चतसृषु विद्यासु चतुर्था भवदियम् आन्वीक्षिकी। अन्वीक्षा नाम प्रत्यक्षागमाभ्याम् ईक्षितस्य ज्ञानस्य पुनरीक्षणम् इत्यर्थः। तया अन्वीक्षया प्रवर्तत इति आन्वीक्षिकी न्यायविद्या वा। एवं प्रत्यक्षाभिः चतुर्भिः प्रमाणैरेव अर्थानां प्रतिपादनं क्रियतेत्यतः शास्त्रस्यास्य प्रमाणशास्त्रमित्यपि नाम सङ्गतमेव। एवमेव अनुमानप्रमाणस्य प्राधान्यत्वात् तस्य अनुमानस्य हेतुविषयकत्वाच्च हेतुशास्त्रं, प्रमाणद्वारा विवक्षितार्थविचारेषु तर्कबोधनात् तर्कशास्त्रम् इत्यपि न्यायशास्त्रस्य नामान्तरं साधुरेव।

   न्यायशास्त्रप्रवर्तकाणां तत्तद्विषयप्रतिपादनदृष्ट्या शास्त्रस्यास्य परम्परा द्वेधा विभक्ता दृश्यते प्राचीना नवीना चेति। तत्र सूत्रभाष्यवार्तिककारादारभ्य प्रायः जयन्तभट्टपर्यन्तं प्राचीनपरम्परा, क्रिस्तोः पश्चात् त्रयोदशशतकजन्मनः आचार्यगङ्गेशोपाध्यायादारभ्य प्रचाल्यमाना नवीनपरम्परा इति व्यपदेशः। तत्र सूत्रकारेण गौतममहर्षिणा तावत् प्रमाणप्रमेयादिः षोढशपदार्थाः प्रोक्ताः। एतेषां षोढशपदार्थानां तत्त्वज्ञानं मोक्षहेतुरिति तेषामाशयः। किन्तु नवीनैस्तावत् पदार्थाः इत्यनेन प्रतियोगिता, अनुयोगिता, प्रकारता, विशेष्यता इत्येवंरीत्या पारिभाषिकपदार्थाः एव अभिमताः दृश्यन्ते। किन्तु वैशेषिकसूत्रकर्ता कणादमहर्षिणा तु द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानमेव मोक्षहेतुत्‍वेन अभिमतम्। परन्तु अन्नंभट्टविश्वनाथप्रभृतिभिः नवीनैस्तावत् सूत्रोक्तपदार्थानां द्रव्यादिषु सप्तसु एव अन्तर्भावः स्वीकृतः वर्तते। एवंरीत्या दर्शितानां पदार्थानां लक्षणस्वरूपविचारविमर्शद्वारा न्यायशास्त्रमिदं प्रवर्तमानं वर्तते।

Tuesday, 2 October 2018

मनोगतम्’ – ४८  ‘मन की बात’ 
(48-वीं कड़ी)   प्रसारणतिथि: - ३०-०९-२०१८
              [“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                               
                                          - भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः
     मम प्रियाः देशवासिनः!  नमस्कारः | कदाचिदेव भवेद् कश्चन भारतीयः यो हि अस्मदीयानां सशस्त्र-बलानां सैनिकानां कृते गौरवं नैवानुभवेत् | प्रत्येकमपि भारतीयः, भवतु नाम सः कस्यचन क्षेत्रस्य, जातेः, धर्मस्य, पथः, भाषायाः वा – अस्मदीयान् सैनिकान् प्रति निज-प्रसन्नतां प्रकटयितुं समर्थनञ्च प्रदर्शयितुं सर्वदैव तत्परो भवति | गतदिने एव भारतस्य सपाद-शत-कोटिः देशवासिनः, पराक्रमपर्व आयोजितवन्तः | वयं वर्ष-द्वय-पूर्वं विहितं surgical strike-इति शस्त्र-निपातनं स्मृतवन्तः, यदा अस्मदीयाः सैनिकाः अस्माकं राष्ट्रमभिलक्ष्य आतङ्कवाद-व्याजेन छद्म-युद्ध-निरतान् धृष्टान् सम्यक् उत्तरितवन्तः | देशस्य नाना-स्थानेषु अस्मत्-सशस्त्र-बलानि प्रदर्शनीः आयोजयेयुः येन देशस्य समधिकाः नागरिकाः विशेषेण युव-जनाः नूनमिदम् अवगच्छेयुः यत् अस्मदीया शक्तिः नाम किमस्ति ? कियन्तो वयं क्षमाः ? तथा च, केन प्रकारेण अस्माकं भटाः निज-प्राणान् पणीकृत्य अस्मान् देशवासिनो रक्षन्ति | पराक्रम-पर्व-सदृशः दिवसः अस्मदीय-सशस्त्र-सेनानां गौरवपूर्ण-रिक्थ-विषये यूनः स्मारयति, तथा च, देशस्य एकताम् अखण्डताञ्च सुनिश्चेतुं अस्मान् प्रेरयति | अहमपि वीराणां भूमौ राजस्थाने जोधपुरे एकस्मिन् कार्यक्रमे सहभागित्वमावहम्, साम्प्रतमिदं सुनिश्चितं यद् अस्माकं सैनिकाः तान् सर्वान्नपि समीचीनं प्रत्युत्तरिष्यन्ति ये हि अस्मदीये राष्ट्रेsस्मिन् शान्तेः उन्नतेश्च परिवेशं प्रणाशयितुं प्रयतिष्यन्ते | वयं शान्तौ विश्वसिमः तथा चैनां प्रवर्धयितुं प्रतिबद्धाः स्मः, किञ्च सम्मान-सामञ्जस्यं कृत्वा राष्ट्रस्य च सम्प्रभुतां पणीकृत्य न कदाचिदपि| भारतं सर्वदैव शान्तिं प्रति वचनबद्धं समर्पितञ्च अवर्तत | विंशतौ शताब्दे विश्वयुद्ध-द्वये अस्माकं लक्षाधिकाः सैनिकाः शान्तिं प्रति नैजं सर्वोच्चं बलिदानं कृतवन्तः तथा चेदं बलिदानं तदानुष्ठितं, यदा आभ्यां युद्धाभ्यां न वयं साक्षात्-सम्पृक्ताः आस्मः | न वयं कदापि कस्यचन भूमेः अभिलाषिणः समभवाम | एषासीत् शान्तिं प्रति अस्मदीया प्रतिबद्धता | कतिपय-दिनेभ्यः प्रागेव सेप्टेम्बर-मासे त्रयोविंशे दिने वयं इस्राइलस्य Haifa-युद्धस्य शत-वर्ष-पूर्तौ सत्यां मैसूर-हैदराबाद-जोधपुर-शक्ति-समूहानां अस्मदीयान् वीर-सैनिकान् अस्मराम, ये हि आक्रान्तृभ्यः Haifa-क्षेत्रं मुक्तमकुर्वन् | अयमपि शान्ति-दिशि अस्माकं सैनिकैः समाचरितः अन्यतमः पराक्रम एवासीत् |  अद्यत्वेsपि संयुक्त-राष्ट्र-संघस्य पृथक्-पृथक् शान्ति-संधारक-बलानां कृते भारतं सर्वाधिक-सैनिक-प्रेषकेषु देशेषु अन्यतमोsस्ति | दशकेभ्यः अस्माकं वीर-सैनिकाः नीलं शिरस्त्राणं परिधाय विश्वस्मिन् विश्वे शान्तिं सन्धारयितुं महत्त्वाधायिनीं भूमिकां निरवहन् |
          मम प्रियाः देशवासिनः, नभसः कथा तु अनुपमा एव भवति, नात्र किमपि आश्चर्यं यन्नभसि निज-शक्तिं प्रदर्श्य भारतीय-वायुसेना देशवासिनां

Monday, 24 September 2018

श्री गणेशपूजनम्
-डा गदाधर त्रिपाठी    
सृष्टेरादावासीद् देवा दानाद् देवाः प्रकीर्तिताः।
देवेष्वयं गणेशो वै वेदग्रन्थेषूपस्थितः   ॥१॥

गणानां देवसंघानां प्रथमोऽयं वै सदा मतः। 
आदौ पूज्यः सर्वकार्येषु स्मरणान्मंगलदायकः ॥२॥

पुत्रो$यमुमामहेशयोर्हि कृष्णस्यांशो विश्रुतः। 
शापादभवत्कौंचःमूषको डिंको गणपति वाहकः ॥३॥

पराशरगृहे$भवज्जन्म गजमुखस्य च वै।
युगे द्वापरसमये संकेतो$यं कृतश्च वै ॥४॥

चतुर्भुजैश्च व्याप्तो$स्ति नेत्रै:सूक्ष्मैःसूक्ष्मदर्शकः।
परश्वंकुशपाशैश्च गणपतिःसर्वान्र क्षति सर्वदा ॥५॥

केतुग्रहस्य देवो$यं प्रणवस्यायञ्च वाचकः।
पित्रो:रक्षिता मर्यादा तेनायं गणनायकः ॥६॥

अशोकसुन्दरी भगिनी ज्ञेया भ्राता कार्तिकेयश्च वै।
पत्नी ऋद्धिश्चसिद्धिश्चविनायकस्य भुवनवाहिके ॥७॥

नामानि चैकदन्तस्य द्वादशोल्लिखितानि च वै। 
पुराणे नारदप्रोक्ते च कथितानि ऋषिभिस्तदा ॥८॥

विद्यारम्भे विवाहे च करणीयं स्मरणं सदा। 
विघ्नानामयं हर्ता  भालचन्द्रो गजाननः ॥९॥

मासे भाद्रपदे चैव शुक्लपक्षे तथा च वै। 
चतुर्थ्यां तिथौ चैव सर्वत्र भवति गणपति पूजनम् ॥१०॥

Monday, 27 August 2018

‘मनोगतम्’ – ४७  ‘मन की बात’
(47 वीं कड़ी)            प्रसारणतिथि: - २६-०८-२०१८
 [“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                 
                             - भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः 
     मम प्रियाः देशवासिनः!  नमस्कारः | अद्य अशेष-देशः रक्षाबंधन-पर्व आयोजयति| अस्मिन्  पावन-पर्वणि सर्वेभ्योsपि देशवासिभ्यः भूरिशो मङ्गल-कामनाः | रक्षाबंधन-पर्व नाम भगिनी-भ्रात्रोः पारस्परिकं         प्रेम्णः विश्वासस्य प्रतीक-रूपम् | पर्वेदं सहस्राब्देभ्यः सामाजिक-सौहार्दस्य बृहदुदाहरणत्वेनापि प्रवर्तते | देशस्य इतिहासः अनेकाभिः तादृशीभिः कथाभिः सम्भरितोsस्ति, यस्यां हि एकेनैव रक्षासूत्रेण पृथक्-पृथक्-राज्य-द्वयस्य वा धर्म-द्वयस्य जनाः विश्वास-सूत्रेण संयुक्तीकृताः |  सद्यः कतिपय-दिनानन्तरं जन्माष्टमी-पर्व  अपि आगन्तास्स्ति | अशेष-परिवेशः ‘हाथी, घोड़ा, पालकी – जय कन्हैयालाल की, गोविन्दा-गोविन्दा’ इति जयघोषैः गुञ्जायमानो भविता | भगवतः कृष्णस्य रङ्गेण रञ्जितानां समुल्लास-सन्दोहवतां सहजानन्दः किञ्चित् पृथगेव भवति | देशस्य अनेकेषु कोणेषु विशेषेण च, महाराष्ट्रे दही-हाँडी-इति दधि-घटानां सज्जतां क्रियमाणाः अस्मदीयाः युवानो भवेयुः | सर्वेषामपि देशवासिनां कृते रक्षाबन्धन-जन्माष्टमी-पर्वणोः हार्दिक्यः शुभकामनाः | 
    प्रधानमन्त्रि-महोदय ! नमस्कारः | अहं चिन्मयी, बेंगलुरु-नगरे विजयभारती-विद्यालये दशम-कक्ष्यायां पठामि | अद्य संस्कृत-दिनमस्ति | संस्कृतं सरलम् इति सर्वे वदन्ति | वयमत्र बहवः संस्कृत-सम्भाषणमपि कुर्मः | अतः संस्कृत-विषये

Wednesday, 15 August 2018

डा. प्रियव्रतमिश्रविरचितम्-  
          अहङ्कारशतकम्    ( ग्रन्थपरिचयः)
DR. Dhanya P V
 Article  No: 20180815 
 ग्रन्थपरिचयः
डा. धन्या पि वि
पोस्ट् डोक्टरल् फ़ेल्लो
राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपति।

     ह जगतीतले संस्कृतवाङ्मयम् अनन्यसाधारणं वैशेष्यं समश्नुत। सुरभारत्याः संस्कृतसरस्वत्याः अलङ्कारभूतानि सन्ति बहूनि काव्यतल्लजानि । यद्यपि गीर्वाण्या वाण्या तावदसङ्ख्यातानि सन्ति काव्यानि तथापि तत्र अनन्यसाधारणोऽयं डा. प्रियव्रतमिश्रविरचितः ग्रन्थः "अहङ्कारशतकम्"। ग्रन्थकारोऽयं बिहारराज्यस्थ दरभङ्गाप्रदेशस्थ श्रीरामसुन्दरसंस्कृतविश्वविद्याप्रतिष्ठाने, व्याकरणविभागे सहायकाचार्यत्वेन वृत्तिनिरतः। सुरभारतीसमाराधनैकव्रतस्य अस्य  कारिकामुखः, प्रयुक्ताख्यातमञ्जरी, उमराव जान् इत्यादीनि पुस्तकानि एवं चाटुश्लोक-शास्त्रलेख-कवितादीनि हृद्यानि च अनेकानि सन्ति। राष्ट्रियसंस्कृतसंस्थानं, राजीवगान्धीपरिसरः, शृङ्गेरीद्वारा "लेखविशारदः" अपि च दिल्लीसंस्कृत अकादमीद्वारा "नवोदितकविः" इत्यादि उपाधिभाजः डा. प्रियव्रतमिश्रः आधुनिकसंस्कृतकविषु अनन्यस्थानं समावहति।

       आधुनिकाः मानवाः आत्मानं श्रेष्ठं मन्यन्ते। उक्तं च भगवद्गीतायां "अहङ्कारविमूढात्मा कर्ताहमिति मन्यते " इति । तादृश अहङ्कारपूरितजगतः चित्रणं प्रददाति कविः स्वीयकाव्ये अहङ्कारशतके। एवं च
"असारे संसारे सकलविषयो नश्वरपरो
दिवारात्रो लोको जननमिह मृत्युं च लभते।
न किञ्चिन्नित्यं वै न खलु मनुजो बुध्यति पुनः
मदोन्मत्तो लोकस्त्वहमहमिकायां विहरते॥ "(अहङ्कारशतकम्)

वेदान्तपरिप्लुतः सन्नपि अहङ्कारे  मानवाः विहरन्ति इति सत्यं कविः स्मारयति।  अहङ्कारजन्यक्लेशान् ज्ञात्वापि लोकः अहङ्करोतीति कविवचनं चिन्तोद्वीपिकैव।  मदान्धकारस्य तीक्ष्णावस्थाम् एवं प्रदर्शयति

"मदोन्मत्तावस्था ननु च मनुजं प्रेरयति भोः!
तदा नासौ धूर्तो निशमयति कस्यापि वचनम्।
त्वहं जाग्रस्त्येनं न हि खलु विजानाति पुरुषो
मदोन्मत्तो लोकस्त्वहमहमिकयां विहरते ॥"(अहङ्कारशतकम्) इति ।

    तथा काव्ये निगदितानां व्यावहारिकतत्वानां वाचनावसरे काव्यास्वादकस्य, कवेः च समन्वयो बहुत्र भवति। कवेः श्लोकरचनाशैली हृद्या एवं सर्वास्वाद्ययुक्ता। अपि च श्लोकानां हिन्दी-आङ्गलभाषाभावार्थाः संस्कृतानभिज्ञानपि सुरभारतीकामुकान्, सुरवाण्याः उपसेवने समायोजयन्ति इत्यत्र नास्ति शङ्का। ’शिखरिणी’वृत्तम् (रसैरुद्रैश्छिन्ना यमनसभलागः शिखरिणी) अनुज्ञातः कविः आशतकम् अमुं वृत्तं स्व्यकरोत्। "This meter (शिखरिणी) is most suitable for the expression of strong feeling." इति टि.के रामचन्द्र अय्यर्, ’लघुवृत्तरत्नाकरे’ अभिप्रैति। अस्य वचनस्य सार्थकता अहङ्कारशतकस्य पठनेनोपजायते। अलङ्काराणां प्रयोगेपि कविः स्वीय काव्योत्कर्षता बहुत्र व्यादिशति।अस्मिन् ग्रन्थे प्रतिश्लोकः मुक्तकवत् भाति तथापि श्लोकधारा सुबद्धा। वाचकेभ्य कविः प्रायोगिकवेदान्तस्य प्रयोगस्यावश्यकता, मानवस्य तथा समाजस्य अहङ्कारोन्मत्तता च प्रकृतार्थे प्रयच्छति।

     अपायोपेतस्य अहङ्कारस्य अतिरेकः लोके सर्वत्र दरीदृश्यते। अहङ्कारः क्षणभङ्गुरस्यास्य जीवनस्य परमलक्ष्यार्थं, ईश्वरप्राप्त्यर्थं भवेत् इति समाख्यापयति काव्यकुसुमैः कविः। शतश्लोकान्वितस्यास्य काव्यस्य अहङ्कारशतकस्य काव्यास्वाद्यतां सहृदयेभ्यः सुचारुरीत्या प्रददाति नवदेहलीस्थ मान्यताप्रकाशनं नाम पुस्तकप्रकाशकसंस्था। ईदृशकाव्यकुसुमैः भूयो भूयो सेव्यमाना भवतु  संस्कृतसरस्वतीत्याशास्महे।

Monday, 30 July 2018

मनोगतम् – ४६ 
‘मन की बात’ (4६वीं कड़ी) प्रसारण तिथि: 29.07.2018
[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                               
                     - भाषान्तर-कर्ता -  बलदेवानन्द-सागरः
          मम प्रियाः देशवासिनः, नमस्कारः ! एतेषु दिनेषु अनेकेभ्यः स्थानेभ्यः समीचीनायाः वर्षायाः वृत्तानि अधिगम्यन्ते | कुत्रचित्तु समधिकायाः वर्षायाः कारणात् चिन्तायाः अपि वृत्तानि अवाप्यन्ते| अपि च, केषुचित् स्थानेषु साम्प्रतमपि जनाः वर्षां प्रतीक्षन्ते| भारतस्य विशालता, विविधता च स्तः, कदाचित् वर्षापि रुचित्वम् अरुचित्वं च प्रदर्शयति, परन्तु कथं वयमत्र वर्षायाः दोषम् अभिमन्यामहे?  मनुष्यः एवास्ति यो हि प्रकृत्या साकं संघर्षस्य मार्गं अवाचिनोत् | अस्य परिणामत्वेन एव कदाचित् प्रकृतिरेषा रुष्टा भवति |  तथा च, एतस्मादेव कारणात् अस्माकं सर्वेषामपि दायित्वं भवति यत् वयं प्रकृति-प्रेमिणः भवेम, वयं प्रकृति-रक्षकाः स्याम, वयं  प्रकृतेः सम्वर्धकाश्च भवेम, एवमाचरिते सति यानि प्रकृतिदत्त-वस्तूनि सन्ति तेषु स्वतः एव सन्तोलनं सन्धारितं भवति |

       विगतेषु दिनेषु तादृशी एवैका प्राकृतिका- पदायाः घटना अशेष-विश्वस्य ध्यानमाकर्षयत्,  मानव-मनांसि च प्राकम्पयत् | भवद्भिः सर्वैरपि दृश्यवाहिन्यां दृष्टं स्यात्, थाईलैंड-देशे द्वादशानां किशोराणां पाद-कन्दुक-क्रीडकानां वृन्दं, तेषां च प्रशिक्षकः भ्रमणार्थं गुहायां गताः |  तत्र प्रायेण गुहायां प्रवेशार्थं ततः निर्गमनार्थं च, कतिपय-होरावधिकः कालः अपेक्षते | परञ्च तस्मिन् दिने दैवेन किमपि अन्यदेव निर्णीतमासीत् | यदा ते गुहायाः सुबहु आभ्यन्तरं प्रविष्टाः –  सहसा मूसलाधार-वृष्टिकारणात् गुहायाः उपद्वारम् अतिमात्रम् जलं सञ्चितं जातम् | तेषां बहिः निर्गमनस्य मार्गः अवरुद्धो जातः |  न कश्चन अपरो मार्गः लब्धः एतस्मात् ते गुहान्तर्वर्तिनि एकस्मिन् लघु-केदारे अवस्थिताः –  तच्च न केवलं एक-द्वि-दिवसार्थं –  अष्टादश-दिन-पर्यन्तम् ! किं भवन्तः कल्पयितुं शक्नुवन्ति यत् किशोरावस्थायां यदा पुरतः एव मृत्युः अवलोक्यते तदा प्रतिपलं युगायते इति ! एकतः ते संकट-प्रतीकारं कुर्वन्तः आसन्,  अपरतश्च अखिलेsपि विश्वे मानवता एकीभूय ईश्वर- दत्तान् मानवीय-गुणान् प्रकटयति स्म | विश्वस्मिन् विश्वे जनाः एतान् बालकान् सुरक्षितान् एव बहिः निष्कासयितुं प्रार्थना-निरताः आसन् |     

        एतदवगन्तुं सर्वविधोsपि प्रयासः विहितः यत् बालकाः सन्ति कुत्रेति? कस्यां दशायाञ्च वर्तन्ते?  केन प्रकारेण ते बहिः निष्कासयितुं शक्यन्ते? यदि सुरक्षाकार्यं काले एव न सञ्जातं चेत् तर्हि प्रावृट्-ऋतौ कतिपय-मास-पर्यन्तं तेषां बहिः निष्कासनं शक्यं नाभविष्यत् | अस्तु ! यदा शुभ-वृत्तं प्राप्तं तदा अशेष-विश्वं शान्तिमन्वभवत्, सन्तोषोsजायत, परञ्च पूर्णमेनं घटनाक्रमम् अपरेण मन्तव्येन अपि विचारयितुं मम मानसमभिलषति यत् कृत्स्नमपि सुरक्षा-साहाय्य-कार्यं केन प्रकारेण प्रचालितम्? प्रत्येकमपि स्तरे यो दायित्वानुभवः जातः सोsद्भुतः आसीत् | सर्वेsपि,  भवतु नाम तत् प्रशासनं वा एतेषाम् निरुद्धानां बालानां पितरौ,  भवन्तु वा तेषां कुटुम्ब-जनाः वा सञ्चार-माध्यमानि, भवेद्वा सः देशस्य नागरिकः –  प्रत्येकमपि शान्तेः धैर्यस्य च अद्भुताचरणम् अकरोत् | सर्वेsपि ‘संगछध्वं संवदध्व’मिति कृत्वा समूह-भावेन एकीभूय स्वकार्येsस्मिन् संलग्नाः आसन् |  सर्वेषामपि संयमितो व्यवहारः! – अवगच्छामि यत् शिक्षणस्य विषयोsयम्,  अवगमनस्य पाठ-सदृशः| एवं नासीत् यत्तेषाम् पितरौ दुःखितौ नाभविष्यताम्, एवमपि नासीत् यत् जनन्याः अक्ष्णोः अश्रूणि नैव निरगच्छन्, परन्तु धैर्यम्, संयमः,  सम्पूर्णस्यापि समाजस्य शान्तचित्त-व्यवहारः – एतत्सर्वमेव सर्वेषामपि अस्माकं कृते शिक्षणीयं वर्त्तते |  अस्मिन् पूर्णेsपि सुरक्षा-साहाय्य-कार्ये थाईलैंडस्य नौसेनायाः अन्यतमः सैनिकः हुतात्मः सञ्जातः | कृत्स्नमपि विश्वम् आश्चर्यचकितमस्ति यत् एतादृशीषु कठिन-परिस्थितिषु सतीषु जलपूरितायाम् अन्धकार-पूर्णायां च गुहायां एतावता साहसेन धैर्येण च साकं ते निजाशां नैव त्यक्तवन्तः | एतत्तु नूनं प्रमाणयति यत् मानवता यदा सम्भूय पुरो याति,  अद्भुत-वस्तूनि सम्पद्यन्ते | केवलमिदमेव अवधेयं यद् वयं शान्त-स्थिर-मनसा निजलक्ष्यमादध्याम,  तदर्थं कार्यनिरताः च भवेम|

       विगतेषु दिनेषु अस्माकं देशस्य प्रियः कविः नीरजः अस्मान् विहाय प्रयातः|नीरज-कवेः अनन्य-तमा विशेषतासीत् - आशा, विश्वासः, दृढसंकल्पः,

Wednesday, 18 July 2018

।। महाकालज्योतिर्लिङ्गकथा।।
(शिवपुराणान्तर्गतकथा)
---- सुनीश् नम्बूतिरि


      पुराणवर्णितानि द्वादशज्योतिर्लिङ्गानि भारते अद्यापि प्रसिद्धानि। तेषु तृतीयम् उज्जयिन्यां महाकालज्योतिर्लिङ्गम् इति सुप्रसिद्धं वर्तते। 

       पुरा एव अवन्ती नगरी शिवभक्तानां बाहुल्येन प्रसिद्धा पावनी च आसीत्। तत्र परमशैव एकः वेदनिष्ठायुक्तो ब्राह्मणः पार्थिवलिङ्गस्य नित्यम् अर्चनं करोति स्म। परमज्ञानी सः ब्राह्मणः शरीरयात्रावसाने शिवलोकं जगाम। तस्य महात्मनः चत्वारः पुत्राः देवप्रियः प्रियमेधः सुकृतः धर्मवाही ते च पितसदृशा: परमशिवभक्ता एवासन्। जनकेन अनुष्ठितं शिवपूजनं तेऽपि भक्त्या अनुष्ठानं कृतवन्तः। अनेन तेषां कीर्तिः सर्वत्र प्रसृता जाता। एवम् अवन्ती च ब्रह्मतेजोमयी जाता।। 


     अथैकदा ब्रह्मदेवात् वरं सम्पाद्य दूषणः नामकः एको महासुर: भूलोके धर्मक्षयाय प्रयत्नं कुर्वन् आसीत्। धर्मतेजोमयी नगरी अवन्ती इति श्रुत्वा अवन्त्याः विषये तस्य मनसि आश्चर्यम् जातम्। अनेकेषां महापराक्रमशालिनां वधं कृतवानहं कथं शरीरबलहीनाः ब्राह्मणाः तत्र अधुनाऽपि निर्भयेन वैदिकधर्मपालने शक्ताः भवन्ति इति चिन्ता तं बाधते स्म। सैन्येन सह अवन्त्याः नाशं कर्तुं निश्चितवान् सो महाखलः तत्र गत्वा साधुजनानां हननम् आरब्धवान्।।
भयभीताः जनाः आत्मरक्षणार्थं शिवार्चनतत्पराणां ब्राह्मणपुत्राणां समीपं गतवन्तः। शिवे अचञ्चलां भक्तिं कुर्वन्तः ते सर्वे नामसङ्गीर्त्तनं कृत्वा पार्थिवलिङ्गं परितः उपविष्टवन्तः। यथा दुष्टः दूषणासुर एतेषां शिवभक्तानां वधार्थम् आक्रोशं कृतवान् तावता महता शब्देन पार्थिवलिङ्गस्य स्थाने एको गर्तो जातः ततः विकटरूपधारी महाकाल इति ख्यातो  भगवान् परमेश्वर आविर्भूतः। सूर्योदयेन यथा अन्धकारस्य सम्पूर्णः नाशः जायते तथा दुष्टराक्षसानां नाशो जातः। क्षणाभ्यन्तरे दुष्टानां भस्मीकरणं परमात्माना महाकालेन कृतम्। आकाशात् हरिब्रह्मादयदेवाः पुष्पवृष्टिं चक्रुः। तदानीं द्विजाः विविधैः स्तोत्रैः शङ्करं नमस्कृत्य एवं प्रोक्तवन्तः।। 

महाकाल महादेव दुष्टदण्डकरप्रभो।
मुक्तिं प्रयच्छ नः शम्भो संसाराम्बुधितः शिव।।

अत्रैव लोकरक्षार्थं स्थातव्यं हि त्वया शिव।
स्वदर्शकान्नरान् शम्भो तारय त्वं सदा प्रभो।।

      तेषां भक्त्या प्रसन्नः भगवान् शिवः तेभ्यः मुक्तिं दत्त्वा तस्मिन्नेव गर्ते भक्तानां रक्षणार्थं विलयं गतवान् तदेव महाकालेश्वरस्य ज्योतिर्लिङ्गं जातम्। अद्यापि उज्जयिन्यां महाकालेश्वरस्य दर्शनादेव सर्वाभीष्टसिद्धिं पापनाशं तथा अन्ते शिवलोकञ्च प्राप्स्यन्ति इत्येव भक्तानां विश्वासः।। 

Monday, 16 July 2018


ऐतिहासिककाव्येषु आङ्गलसाम्राज्यम्।
डा. रोहिणी के.

Research Article  No: 20180716 

 अनुसन्धानाध्ययनम्
Dr. ROHINI K.
Guest Lecturer 
Dept. of Sanskrit
Sree Krishna college, Guruvayoor.


कैरलीभाषाया: व्यवस्थापक:, युगप्रभाव: केरलपाणिनि: इति नाम्ना प्रसिद्ध: ए. आर्. राजराजवर्मा महोदय:। अनेन विरचितमिदं काव्यं चरितमहाकाव्येषु अद्वितीयस्थानमर्हति। आङ्गलभारतचरित्रमेव वर्ण्यविषय:। अन्यचरितकाव्यापेक्षया आङ्गलसाम्राज्यस्य वर्णना नदीप्रवाहरूपेणैव भवति। आङ्गलभारतचरितं विशदरूपेण प्रतिपादित एका एव संस्कृतकृतिरस्ति आङ्गलसाम्राज्यम्।
लण्टन् नगरवर्णनया काव्यस्यास्य आरम्भ:। ‘ब्रिटीष् ईस्ट् इन्ट्या कम्पनी’ नाम संघटनाया:, 1900 तम भारताङ्गलचरितं च अत्र विशदरूपेण प्रतिपादयति। काव्येस्मिन् 23 सर्गेषु 1900 श्लोका: सन्ति। आङ्गलसाम्राज्ये 1911 श्लोका: सन्ति, किन्तु 11 श्लोका: कवि: तस्य एव ‘पञ्चाशत्पूर्तिपञ्चाशिका’ नामक काव्यात् स्वीकृता: भवन्ति। मातुल: ‘केरलकालिदास:’ इति प्रथित: केरलवर्मा वलियकोयितम्पुरान् महाभागस्य निर्देशानुसारमेव काव्यस्यास्य रचना कृता इति 1897 जूण् मासस्य दैनिक्यां लिखितमासीत्। ग्रन्थस्य अवतारिका ए. शेषय्या शास्त्रिमहोदयेन, लघुटिप्पणी टि. गणपतिशास्त्रिणा च लिखितं वर्तते। 1901 तमे वर्षे ग्रन्थस्यास्य प्रकाशनमभवत्। काव्येस्मिन् स्थल-कथापात्र-नदीनां नामानि स्थूललिप्या लिखिता वर्तते। प्रत्येकपुटस्य वामभागे तत्र वर्णितमुख्यविषयस्य वर्षस्य च विवरणमपि दत्तमस्ति।
अस्ति प्रशस्तेष्वतलान्तिकाब्धि-
क्षिप्तेषु विष्वक्पुरमाङ्गलेषु
तिंसा नदीतीरवतंसभूतं
भूमण्डनं लण्टननामधेयम्।।22 (आ. सा. 1/1)
एतेन श्लोकेन लण्टन् नगरस्य वर्णनया ग्रन्थारम्भ: भवति। कुमारसभ्मवस्य शैली एव अत्र प्रयुक्त: इति एतेन काव्येन ज्ञायते। प्रथमसर्गस्य नाम इन्ट्याप्रवेश: इत्यस्ति। काव्येस्मिन् 29 छन्दसां प्रयोग: कविना कृत:।
‘आद्यचरितानुवर्णना’ नामकस्य द्वितीयसर्गस्य 77 श्लोकेषु भारते आर्याणाम् आगमनकालत: मुगलचक्रवर्तीनां शासनपर्यन्तविस्तृतकालस्य रूपरेखा कृता वर्तते। क्लैव् वर्यस्य नायकत्वेन दक्षिणभारते आङ्गलानाम् आधिपत्यस्य शाक्तीकरणमेव ‘कर्णाटकास्कन्दनं’ नामके तृतीयसर्गे प्रतिपाद्यविषय:। चतुर्थसर्गस्य ‘परङ्गिनिष्कासनम्’ इति नाम अन्वर्थमेव। भारते फ्रञ्च् आधिपत्यस्य पतनमेव अस्मिन् सर्गे प्रतिपाद्यते। ‘कालगर्तरात्रिवृत्तम्’ इति पञ्चमसर्गस्य नाम, वङ्गविजय: एव षष्ठसर्गस्य नाम। बंगाल् कलापविवरणं तथा बंगाल् गवर्णर् पदव्यां क्लैव् वर्यस्य अवरोधनम् इत्यादय: सप्तमे सर्गे वर्णिता:। अष्टमे तु वारन्हेस्टिङ् वर्यस्य भरणपरिष्कार: रेगुलेटिंग् आक्ट्, पिट् वर्यस्य इन्ट्या आक्ट् इत्यादय: विषया: प्रतिपादिता:। नवमे सर्गे मराठाचरितं, दशमे मैसूर् चरितं च उपवर्णितम्। अनन्तरसर्गत्रये तथा चतुर्दशसर्गस्य पञ्चविंशतिश्लोकपर्यन्तं टिप्पुसुल्तान् राज्ञ: वर्णना च भवति। चतुर्दशसर्गस्य शिष्टश्लोकै: वेल्लस्लीप्रभो: शासनवर्णना कृता वर्तते। पञ्चदश सर्गे मरात्ताराज्ञां पराजय:, षोडशसर्गे ब्रिटीष् शासकै: विहितशासनक्रम: चित्रित:। मध्यभारतोधृति: च सप्तदशसर्गे:, आम्हेस्ट् बेन्टिक् आक्लन्ट् इत्यादयानां भरणाधिपानां भरणक्रम: अष्टादशे सर्गे च उपवर्णित:। डेल्हौसे: नयतन्त्रै: जायमानं सिक् पतनमेव नवदशसर्गस्य प्रतिपाद्यविषय:। डेल्हौसी प्रभो: रेल् व्यवस्था, पत्रालयव्यवस्था, विद्याभ्यासपरिष्कार: च विंशे सर्गे प्रतिपादित:। प्रथमस्वातन्त्र्यसंग्रामवर्णना एव महासमुप्पिञ्चिलं इत्यस्मिन् एकविंशे अध्याये वर्ण्यते। राजश्रीपरिग्रहमिति द्वाविंशसर्गस्य नाम। यद्यपि आङ्गलसाम्राज्यस्थापनमिति काव्यस्येतिवृत्तम् एषु अध्यायेषु समाप्तं याति, तथापि विक्टोरिया राज्ञ्या: भरणस्वीकारोद्घोष: तत्कालीनभरणक्रम: इत्यादि विषयान् प्रवक्तुं साम्राज्यसिद्धिरिति त्रयोविंशसर्गस्य विनियोग: कविना विहितं वर्तते।
      विषयदृष्ट्या आङ्गलशासनप्रशंसनमेव कवे: मुख्यलक्ष्यमित्यत: कालिकप्रसक्तिरेव वर्तते। रचनाशैल्या: मनोहारितया ऐतिहासिकप्रधानतया च आङ्गलसाम्राज्यमिति अस्य काव्यस्य महत्तमं स्थानं चरितकाव्यप्रस्थाने वर्तते इत्यत्र नास्ति सन्देह:।
 गज्जलिका          कविता

-अंकित शर्मा 'इषुप्रिय'

का हृदि आगच्छ, विक्षुब्ध करोति माम्।
का स्मृत्यां विहरन् सति, स्तम्भयति मम गाम्।
पिबन् सुधां प्रेमस्य, तथाप्यतृप्तोऽहम्।
दग्धोरस्य व्यथामथ, वदतु वदामि काम्।
अंतस्थ तिमिरस्य ,शरद्चन्द्रवत् या।
करोति प्रीत्या नाशं दृष्ट्यां वासं याम्।
सुरभिर्श्वासे श्वासे रोमे रोमे स्पर्शं।
पश्यामि सर्वत्र खञ्जननयनां ताम्।
वचने वार्तालापे कार्ये यस्या वृत्ति।
नात्मनः बोधं मे सर्वं हि तस्याम्।
सरितावन्मम हृदयं नेत्रसागरे याति।
यौवनजलेऽभिषिक्ता मे प्रत्यावस्थां।
मोहाधरयोः च लटपाशे सम्बिध्दं।
मुक्तिर्लभामि न कष्टमिदं मधुरम्।