Thursday, 31 January 2019

‘मनोगतम्’ – ५२  
‘मन की बात’ (५२-वीं कड़ी)   प्रसारणतिथि: - २७-o१-२०१९     
          [“मन की बात” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                  
                                 - भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः 
                मम प्रियाः देशवासिनः, नमस्कारः | मासेsस्मिन् एकविंशे दिने देशः गहन-शोकस्य वृत्तम् अध्यगच्छत् | कर्णाटके टुमकुर-जनपदे श्रीसिद्धगङ्गामठस्य डॉक्टर-श्री-श्री-श्रीशिवकुमार-स्वामि-पादः ब्रह्मणि लीनः| शिवकुमारस्वामिपादः नैजं सम्पूर्णमपि जीवनं समाज-सेवायै समर्पितवान् | भगवान् बसवेश्वरः अस्मान् अशिक्षयत् – ‘कायकवे कैलास’– अर्थात् कठोर-परिश्रमं कुर्वन् स्वीय-दायित्व-निर्वहणं हि,  भगवतः शिवस्य निवास-स्थाने, कैलाशधाम्नि स्थेय-तुल्यमस्ति| शिवकुमारस्वामिपादः अस्यैव दर्शनस्य अनुयायी आसीत्, तथा चासौ स्वीये एकादशोत्तर-शत-वर्षमिते निजे जीवन-काले परस्सहस्र-मितानां जनानां शैक्षिकार्थिक-सामाजिकोत्थान-कार्याणि अकरोत् | तस्य ख्यातिः तादृक्-विद्वद्वर्यरूपेणासीत्, यो हि आङ्ग्ल- संस्कृत-कन्नड़-भाषासु अप्रतिहत-गतिः अवर्तत | असौ समाज-परिष्कारकः आसीत् | सः नैजं पूर्णमपि जीवनं अस्मिन्नेव कर्मणि अनैषीत् यत् जनाः शिक्षां भोजनमाश्रयम् आध्यात्मिक-ज्ञानञ्चावाप्नुयुः| कृषकाः सर्वविधं कल्याणमवाप्नुयुः, - इयमेव स्वामिपादस्य जीवनस्य प्राथमिकता अवर्तत | सिद्धङ्गा-मठं नियमितरूपेण पशु-मेलां कृषिमेलाञ्चायोजयति स्म | नैकवारमहं परमपूज्य-स्वामि-पादस्य आशीर्वादावाप्तेः सौभाग्यम् अवाप्नवम् | सप्तोत्तर-द्विसहस्र-तमे वर्षे, श्री-श्री-श्रीशिवकुमारस्वामि-वर्यस्य शताब्दवर्षसमुत्सव-समारोहावसरे अस्माकं पूर्व-राष्ट्रपतिः डॉ.ए.पी.जे

Saturday, 12 January 2019

चोरभयम्
कर्मणा भाग्यबलेनैव सर्वेषामंशः सुनिश्चितः।
अनधिकारात् पराशं यो गृह्णाति सैव चोरः ॥१॥
धर्मांगेष्वस्तेयः प्राक्कालाद्धि स्वीकृतः।
चोरकर्म  अधर्म इति शास्त्रेषूपवर्णितः ॥२॥
येषामभिरुचिर्मद्ये द्यूतकर्मणि तथा च वै।?
क्रियास्वभिरुचिर्नास्ति हि ते चोरा भयकारकाः ॥३॥
संयोगाद् विधिवशाच्चैव केचन चोरा हि जीवने।
आश्रयहीनाश्च ये सन्ति वृत्याभावास्तथा च वै ॥४॥
संचिता यैः सम्पत्ति: सर्वे भयभीतास्तथा।
रक्षकै:सुरक्षिता:केचनान्ये जाग्रता:सदा ॥५॥
हिंसका भवन्ति केचन वा  सर्वदा भयकारकाः।
कामक्रोधादिकाश्चैव सद्वृत्तीनाञ्च चोरका: ॥६॥
सर्वे भयदायका नैव प्रिया हृदयहारकाः।
इच्छा भवति सर्वेषां तथा चोरास्तु जीवने ॥७॥
आसीन्नवनीतचोरस्तु  गोपीनां हृदयहारकः।
हरत्वीशो मम हृदयञ्चैव जीवानामिच्छा सदा ॥८॥

                     -------------------

Tuesday, 1 January 2019

मनोगतम्’ – ५१   
        ‘मन की बात’ (५१-वीं कड़ी)   प्रसारणतिथि: - ३०-१२-२०१८                                   
                      - संस्कृत-भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः 
         मम प्रियाः देशवासिनः, नमस्कारः | अष्टादशोत्तर-विंशतिशततमं वर्षं पूर्णतामेति |वयं नवदशोत्तर-विंशतिशततमं वर्षं प्रवेक्ष्यामः| स्वाभाविक- रूपेण एतादृशे काले, विगत-वर्षस्य विषयाः चर्च्यन्ते, युगपदेव आगामिवर्षस्य संकल्पस्यापि चर्चा श्रूयते| भवतु नाम व्यष्टिजीवनम्, समाजजीवनम्, राष्ट्र- जीवनं वा – प्रत्येकमपि जनस्य कृते सिंहावलोकनं भवत्यनिवार्यम्, तथा च, यथादूरमपि शक्यं तावद् दूरं भविष्यति द्रष्टुमपि प्रयतनीयम्, तदैव अनुभवानां लाभोsपि प्राप्यते, तथा च, किमपि नूतनमाचरितुम् आत्मविश्वासोsपि लभ्यते | वयम् एतादृशं किं करवाम येन निज-जीवनं परिवर्तयितुं शक्नुम ? युगपदेव देशं समाजञ्च अग्रेसारयितुं स्वीयं योगदानं कर्तुं शक्नुम ? भवतां सर्वेषां कृते  नवदशोत्तर-विंशतिशततमं वर्षं शुभं भवेदिति कृत्वा कोटिशः शुभकामनाः व्याहरामि |  भवन्तः सर्वेsपि कदाचित् विचारितवन्तः यत् अष्टादशोत्तर-विंशतिशततमं वर्षं केन प्रकारेण स्मरणीयम्? अष्टादशोत्तर-विंशतिशततमं वर्षं हि भारतमेकदेशरूपेण, स्वीयानां त्रिंशदुत्तरशत-कोटि-जनानां सामर्थ्यरूपेण च, केन प्रकारेण स्मरिष्यते – एतत् स्मरणमपि महत्वपूर्णमस्ति | अस्माकं सर्वेषां कृते गौरवप्रदं वर्तते | 
           अष्टादशोत्तर-विंशतिशततमे वर्षे,  विश्वस्य बृहत्तमा स्वास्थ्यागोप-योजना ‘आयुष्मान् भारतम्’इत्यारभत | देशस्य प्रत्येकमपि ग्रामः विद्युत्-सौविध्यमलभत| विश्वस्य गणमान्याः संस्थाः स्वीकृतवत्यः यत् भारतं आलेख्य-गत्या,  देशं निर्धनतातो मुक्तिं प्रयच्छति | देशवासिनां दृढसंकल्प-कारणात् स्वच्छता-कार्याणि एधित्वा प्रतिशतं पञ्चनवतितोsप्यधिकानि भूत्वा तद्दिशि अग्रेसरन्ति |
          स्वाधीनता-प्राप्तेः अनन्तरं रक्त-दुर्गात् प्रथमवारं, ‘आज़ाद-हिन्द-सरकार’-इत्यस्य पञ्च-सप्तति-वर्षपूर्त्यवसरे त्रिवार्णिको ध्वजः उत्तोलितः | देशम् एकतासूत्रेण सन्नद्धकस्य, सरदारवल्लभभाईपटेलस्य सम्माननार्थं विश्वस्य उच्छ्रिततमा प्रतिमा 

Monday, 17 December 2018

तुलसीपत्रम्
 -डा गदाधर त्रिपाठी
-कविता
अन्यैस्तुलना नास्त्यतुल्या ननु तुलसी सदा।
अक्षमास्तुलनां दातुं  तेन तुलसी  स्मृता।।1।।
भूतघ्नी भूतपत्री च सुभगा तीव्रा तथा।
वैष्णवी पावनी वृन्दा कथिता सर्वथा सदा।।2।।
गौरी श्यामा ननु तुलसी तु खरपत्रा तथा च वै।
क्षुद्रपत्रा विल्वगन्धा गन्धतुलसी कथिता सदा।।3।।
कटुत्वञ्चैव तिक्तत्वमुष्णत्वञ्च वै सदा।
सुरभित्वं रुचिकरत्वञ्च गुणाः कथितास्तथा।।4।।
एका तुलसी गोपी राधाशापाद्  भूमिमागता।
पत्नी शंखचूडस्यापरा गण्डकी तुलसी मता।।5।।
आख्यानमस्ति द्वितीयं हि वृन्दाया: कथितं तथा।
त्रिषु देवीषु तुलसी वै तदा भूमिं समागता।।6।।
ओषधिर्मूलं बीजञ्च पत्रमस्या: सर्वदा।
हृदयस्य भवति पुष्टिर्हि ज्वरनाशस्तथा च वै।।7।।
चक्षुरोगञ्च दद्रुं वै मसकान्नपवारयति।
आरोपिता यत्र तुलसी लक्ष्मीर्वसति सर्वथा।।8।।
धन्या:शालग्रामस्य तुलस्या कुर्वन्ति पूजनम्।
तीर्थानि चैव देवाश्च तुलस्यां वसन्ति सर्वदा।।9।।
भोजनं तुलसीपत्रेण त्वीशस्य स्मरणं सदा।
अन्ते गंगाजलञ्चैव पुनरागमनं नैव च हि।।10।।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

Friday, 23 November 2018

संस्कृतशिक्षकाणां मध्ये ज्ञानेन प्रभुः, चन्द्रशेखरप्रभुः।
     कोच्ची > केरलेषु विद्यालयाध्यापकानां मध्ये चन्द्रशेखर प्रभु इत्याख्यः शिक्षकः अस्ति। अस्मिन् वर्षस्य शर्मा जी पुरस्काराय एषः चितः आस्ति। संस्कृतभारत्या उत्तम संस्कृतशिक्षकाय दीयमानः पुरस्कारः भवति अयम्।

    कोच्ची मण्डले मट्टाञ्चेरी टी डी उच्चविद्यालये संस्कृतशिक्षकः भवति एषः। संस्कृताध्यापकवृन्देषु ज्ञाने प्रभुत्वं प्रदर्शयति च। विनायान्वितः सः सहाध्यापकानां छात्राणां मनांसि सदा प्रभावयति।

   अस्य धर्मपत्नी पुष्पलता भवति। सा अपि केरलसर्वकारविद्यालये संस्कृतशिक्षका भवति। दम्पत्यौ संस्कृतस्य प्रचारणप्रसारणकर्मसु व्यापृतौ वर्तेते।  - सम्प्रतिवार्ता कोच्ची।

संस्कृतेन वृत्तिलाभः। ( Sanskrit for Employment )
ओली अमितः
संस्कृतरसास्वादसमूहस्य संचालकः

मार्गे गमनसमये देवेश: अनिलेन सह मिलति तयोः वार्तालापः।....

देवेश:- भो: अनिल भवान्  कुत्र वेगेन गच्छन् अस्ति?

अनिल:- नमो नमः मित्र। किं वदामि , बहु समस्याग्रस्तः अस्मि। मम PHD अभवत् परञ्च कुत्रापि उद्द्योग: न दृश्यते ।

देवेश:- अरे भवान् कस्मिन् विषये PHD कृतवान् ?

अनिलः- संस्कृतविषये।

देवेश: - अहमपि संस्कृतेन आचार्यपदवीम् अधिगतवान्  अस्मि। परञ्च अहम् उद्द्योगविषये कदापि न चिन्तयामि।

अनिलः- अरे तर्हि भवतः जीवनं कथं चलति?

देवेश: - पश्यतु अहम् अस्मि ब्राह्मणः। कर्मकांडम् अस्माकं कार्यम्, तेन सम्यक् चलति मम जीवनम्। अहं तु वदामि भवान् अपि आगच्छतु मया सह। पौरोहित्यं करिष्याव:।

अनिलः- अरे भवान् तु ब्राह्मणः अस्ति। भवान् तत् कर्तुं शक्नोति। अहं कथं करिष्यामि?

देवेश: - तर्हि  भवतः कृते केवलं शिक्षकस्य उद्द्योग: लप्स्यते। तदपि रामभरोसे रामाश्रये अस्ति।

( एतद्वार्तालापं कश्चन युवक: शृण्वन् आसीत्। सः आगत्य वदति)

युवक: - अरे कः वदति संस्कृतेन केवलं शिक्षकस्य उद्योग: एव प्राप्यते ?

देवेश: - अहं वदामि। भवान् किं मत्तः अधिकं  जानाति?

युवक: - भो: श्रीमन् कूपमण्डूक: मा भवतु।
पश्यतु - संस्कृतमाध्यमेन वयं शिक्षक:,विश्वविद्यालये अधिवक्ता, समाचारप्रवाचक:(news-reader) भारतीयदूतावासे अनुवादक: (translator) पुस्तकप्रकाशकः (publisher) लेखकः(writer) पुस्तकसमीक्षकः (critic) अपि भवितुं शक्नुमः।

अनिलः - अहं तु बाल्यकालात् एव प्रशासनिकक्षेत्रे (administrative field) गन्तुमिच्छामि।

युवक: - भवान् संस्कृतं पठित्वा केवलं NDA विहाय इतरासु सर्वासु प्रशासनिकसेवासु गन्तुम् अर्हति।

देवेश: - अहं तु श्रुतवान् वित्तकोषे कार्यलाभार्थम गणितम् अधिकं पठनीयं भवति?

युवक:- पश्यतु मित्र ! कापि भाषा उद्योगं न

Thursday, 22 November 2018

धन्याता           चित्रव्यायाख्या
-बाला चिर्रावूरी 

   जीवकारुण्यमेतद्धि बालासु प्रतिभाति वै।
   बोद्धारो तैव नूनं तु ज्येष्ठानां मार्गदर्शकाः।।

   जीवेन जीविताःसर्वे इति ज्ञानं विना अपि।
   दानानां सात्त्विकं श्रेष्ठं इति ज्ञानं विना अपि।।

   गवामपि च श्रेष्ठत्वं नैव जानन्ति साम्प्रते।
   धन्याता हि निश्चयेन पितरावपि कुलेषु च।।




दिष्ट्या वर्धस्व गोवत्स! तव जन्म तु सार्थकम्।
जलेन जीवेम सर्वेsपि जानामि सततं भवे।।

मनःसरस्युदकपाने गुणाधिकशतं भवेत्।
हरिपद्मपदाम्भोजाज्जाता मन्दाकिनीति च।।

पुराणवचनादेव ज्ञायते न तु लोकते।
हन्त दर्शनमात्रेण त्वय्यक्षान्तिर्हि मे मनः।।

अहमपि एलितुमिच्छामि क्षणमात्रेsपि त्वद्दृशा।
तावन्मात्रेण श्रीकृष्णचरणतीर्थे पुनामि हि।।
   

Monday, 5 November 2018

मनोगतम्’ – ४९ ‘मनकीबात’ (49वींकड़ी) प्रसारणतिथि: - २८-१०-२०१८ 
[“मनकीबात”-“मनोगतम्” -इतिकार्यक्रमस्य संस्कृत-भाषिकानुवादः ]  


 - भाषान्तर-कर्ता -डॉ.बलदेवानन्द-सागरः 
          मम प्रियाः देशवासिनः, भवद्भ्यः सर्वेभ्यः नमस्कारः| ओक्टोबर-मासे एकत्रिंशत्तमे दिने अस्माकं सर्वेषां प्रियस्य सरदार-वल्लभभाई-पटेलस्य जयन्ती वर्तते, तथा च, प्रतिवर्षमिव ‘Run for Unity’-इति एकतायै धावनार्थं देशस्य युवजनाः सन्नद्धाः सन्ति | साम्प्रतन्तु ऋतुरपि बहु सुखदः| अयञ्च एकता-धावनस्य कृते उत्साह-वर्धकः| ममाग्रहोsयं यद् भवन्तः सर्वे बृहन्मात्रया एकताधावनेsस्मिन् नूनं सहभागित्वमावहन्तु | स्वाधीनता-प्राप्तेः प्रायेण सार्ध-षण्मासेभ्यः प्राक्, सप्तचत्वारिंशदुत्तरोनविंश-शततमे वर्षे जान्युआरि-मासे सप्त-विंशे दिने, विश्वस्य प्रसिद्धायाः Time Magazine’–इत्यान्ताराष्ट्रिय-पत्रिकायाः प्रकाशित-संस्करणस्य प्रथम-पृष्ठे सरदार-पटेलस्य छायाचित्रं प्रकाशितमासीत्| स्वीये मुख्ये वृत्त-विवरणे पत्रिकया भारतस्य एकं मानचित्रं प्रकाशितम्, अपि चैतत् मानचित्रं तादृशं नासीत् यादृशं वयमद्यत्वे पश्यामः | एतत् तादृशस्य भारतस्य मानचित्रमासीत् यद्धि अनेकधा विभक्तमवर्तत| तदा देशे सार्ध-पञ्चशताधिकानि रियासत-इति वंशभोग्यानि देशज-राज्यानि आसन्| आङ्ग्ल-जनानां भारत-विषयिणी रुचिः समाप्ता आसीत् परञ्च ते देशमिमं छिन्न-भिन्नं कृत्वा त्यक्तुमिच्छन्ति स्म |‘Time-पत्रिकया’लिखितमासीत् यत् भारते विभाजनं, हिंसा,खाद्यान्नसङ्कटं, महार्घता, सत्ता-इति शासनाधिकाराणां राजनीति-सदृशानि सङ्कटानिपरिभ्रमन्ति स्म |ततः परं ‘Time-पत्रिका’ लिखति यत् एतेषु सङ्कटेषु सत्सु देशं एकता-सूत्रेण सन्नद्धुं, व्रणान् च सम्भर्तुं यदि कश्चन क्षमते चेत् सोsस्ति- सरदार-वल्लभभाई-पटेलः |‘Time-पत्रिका’याः विवरणमिदंलौहपुरुषस्य जीवनस्य अपरान् अपि पक्षान् प्रकाशयति | केन प्रकारेण सः विंशत्युत्तरोन- विंश-शततमस्य दशके अमदाबादे समापन्न-जलपूरावसरे साहाय्य-कार्याणां प्रबन्धनमकरोत्| केन प्रकारेण सः बारडोली-सत्याग्रहस्य दिङ्निर्देशनं व्यदधात् | देशस्य कृते तस्य प्रामाणिकता प्रतिबद्धता च तादृशे आस्तां यत् कृषक-श्रमिकोद्योगपति-प्रभृतयः सर्वेsपि तस्मिन् विश्वसन्ति स्म| गान्धि-चरणः सरदार-पटेलम् अकथयत् यत् राज्यानां समस्याः तावत्यो विकटाः सन्ति यत् केवलं भवान् एव एताः समाधातुमर्हति, तथा च, सरदार-पटेलः समस्यानां प्रत्येकं समाधाय देशम् एकतासूत्रेण सन्नद्धुम् असम्भवकार्यं पूर्णतामनयत् | सः सर्वेषामपि वंश-भोग्यानां लघु-राज्यानां भारते विलयम- कारयत्| भवतु तत् जूनागढ़म् आहोस्वित् हैदराबादम्,त्रावणकोरम् वा राजस्थानस्य वंश-भोग्यं राज्यम् – सः सरदार-पटेलः एवासीत् यस्य विवेकेन रणनीतिक-कौशलेन चाद्य वयं एकं हिन्दुस्थानम् अवलोकयितुं पारयामः | एकता-सूत्रेण समन्वितं राष्ट्रमेतं, अस्मदीयां भारत-मातरं दृष्ट्वा वयं स्वाभाविक-रूपेण सरदार-वल्लभभाई-पटेलस्य पुण्य-स्मरणं कुर्मः |ऐषमः ओक्टोबर-मासीये एक-त्रिंशत्तमे दिने सरदार-पटेलस्य जयन्ती तु इतोऽपि विशिष्टा भविता –दिनेsस्मिन्  सरदार-पटेल-वर्याय तात्विक-श्रद्धाञ्जलिमर्पयन्तो वयं Statue of Unity-इति एकता-प्रतिमां राष्ट्राय समर्पयिष्यामः | गुजराते नर्मदा-नदी-तटे स्थापितायाः अस्या प्रतिमायाः उत्तुङ्गत्वम् अमेरिका-देशस्य ‘Statue of Liberty’-इत्यपेक्षया

Wednesday, 10 October 2018

न्यायशास्त्रस्य सामान्यपरिचयः
रजीष् के वि, 
(दर्शनम्)
Research Articles No: 20181010


रजीष् के वि, 
संस्कृताध्यापकः, त्रिश्शूर्।


   "दृश्यते अनेन इति दर्शनम्" इति दर्शनशब्दस्य व्युत्पत्तिः၊ अनया च व्युत्पत्त्या ज्ञानार्थकदृश् धातोः दर्शनमिति पदं निष्पन्नम्। तथा च शास्त्रे निहितानां निगूढतत्त्वानाम् उद्बोधनं येन सम्भवति तदेव दर्शनं भवितुमर्हति। एवञ्च प्रपञ्चरहस्यानाम् ईश्वररहस्यानां च मार्गम् अन्विष्यमाणैः पुरुषैः दर्शनमेव अवाप्तव्यम् इति स्पष्टम्। अयं प्रपञ्चः, प्रकृतिः, मनुष्यः, ज्ञानं, जीवनम् इत्येवम् अनेके विषयाः प्राचीनदार्शनिकानां चिन्तनधारायां मुख्याः आसन्। वस्तुतः अस्य प्रपञ्चस्य विषये , आत्मविषये च परस्परभिन्नतां वर्तते चेदपि प्रायः सर्वाण्यपि दर्शनानि परमपुरुषार्थात्मकं मोक्षमेव आत्यन्तिकलक्ष्यत्वेन स्वीकृतानि दृश्यन्ते। इदञ्च दर्शनम् आस्तिकदर्शनं नास्तिकदर्शनं चेति द्वेधा विभक्तं वर्तते। तत्र विभाजकधर्मत्वेन वेदप्रामाण्यमेव स्वीक्रियते दार्शनिकैः। तथाहि यानि दर्शनानि वेदप्रामाण्यम् अङ्गीकुर्वन्ति तानि आस्तिकदर्शनानि यानि नाङ्गीकुर्वन्ति तानि नास्तिकदर्शनानि इति च भेदः। तत्र नास्तिकदर्शनानि प्रायः बृहस्पतेः चार्वाकदर्शनं, भगवतः बुद्धस्य बौद्धदर्शनं, वर्धमानमहावीरस्य जैनदर्शनं च भवन्ति। आस्तिकदर्शनानि प्रधानतया षट्विधानि वर्तन्ते, तद्यथा- कपिलमुनिविरचितं सांख्यदर्शनं, पतञ्जलिविरचितं योगदर्शनं, कणादविरचितं वैशेषिकदर्शनं, महर्षिगौतमविरचितं न्यायदर्शनं, जैमिनिविरचितं पूर्वमीमांसादर्शनं, बादरायणविरचितम् उत्तरमीमांसादर्शनम् अथवा वेदान्तदर्शनं चेति।

  ॥ न्यायशास्त्रस्य परिचयः ॥
     आस्तिकदर्शनेषु षट्सु अन्यतमं भवति महर्षिगौतमप्रणीतं न्यायदर्शनम्।" काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् " इत्युक्तिः सुविदितैव विश्वे अस्मिन्। अस्याम् उक्त्यां प्रयुक्तेन काणादपदेन यद्यपि वैशेषिकदर्शनस्य ग्रहणं सम्भवति तथापि न्यायशास्रस्यापि प्रभाव: तत्र वर्तत एव, न्यायवैशेषिकदर्शनयोः समानतन्त्रत्‍वात् ।न्यायवैशेषिकदर्शनयोः समानतन्त्रत्‍वं तु आत्मनः अस्तित्‍वं ,परमाणुसाधनं, प्रपञ्चोत्पत्ति इत्येवं रीत्या अनेकेषु विषयेषु दृश्यते, अपि च पदार्थानां यथार्थज्ञानेन अथवा तत्त्वज्ञानेन मोक्षप्राप्तिरिति दर्शनद्वयाभिमतमेव। तत्र तु न्यायसूत्रकारेण गौतममहर्षिणा प्रमाणप्रमेयादिषोढशपदार्थानां तत्त्वज्ञानस्य मोक्षहेतुत्वं दर्शितम्। 

   "नीयते अनेन इति न्यायः ." इति न्यायशब्दस्य व्युत्पत्तिः ।अर्थात् यत् अस्मान् अर्थतत्वं प्रति नयति अथवा तत्वज्ञानाय प्रेरयति तदेव न्यायः भवितुमर्हति। शास्त्रार्थविचारादिषु स्वमतस्थापनाय परमतखण्डनस्य आवश्यकतया परमतखण्डनपूर्वकमेव स्वमतस्थापनं कर्तव्यं भवति। एवञ्च परमतखण्डन-पूर्वकस्वमत-स्थापने वक्त्रा यादृशवाक्य-विन्यासः क्रियते तादृशवाक्य-समुदाय एव न्याय  इत्युच्यते। तथा च कीदृशावयवसमुदायेन अर्थज्ञानं जायते तद्‌वाक्यसमुदाय एव न्याय इति स्पष्टम्। तत्र न्याय नाम किमिति जिज्ञासायां न्यायवार्तिककारेण उद्योतकराचार्येण उक्तं वर्तते एवम्- "प्रयोजने सति परीक्ष्यते इति प्रयोजनं परीक्षां प्रवर्तयति इति का पुनरियं परीक्षा न्यायः" इति। अर्थात् परीक्षान्यायपदयोः ऐक्यात् एकार्थप्रतिपादकत्वात् वा न्यायो नाम परीक्षा इति युज्यते। न्यायस्वरूपं तु भाष्यकारेण वात्स्यायनमहर्षिणा एवं दर्शितम् - "प्रमाणैरर्थपरीक्षणं न्यायः" इति। अत्र तु प्रमाणशब्देन प्रमाणमूलाः प्रतिज्ञादयः पञ्चावयवाः एव गृह्यन्ते। एतैः अवयवैः लिङ्गस्य अर्थस्य वा परीक्षणमेव न्यायशब्देन उद्दिश्यते। एतत् व्याख्यातं वार्तिककारेण उद्योतकराचार्येण एवं - "समस्तप्रमाण-व्यापारादर्थातिगतिर्न्यायः। न एकैकप्रमाणमर्थपरिच्छेदहेतुभावेन व्यवतिष्ठमानं न्याय इत्युच्यते किन्तु समस्तानि" इति। अर्थात् प्रत्यक्षानुमानादिप्रमाणमूलैः प्रतिज्ञादिभिः पञ्चावयवैः जायमाना अर्थसम्पत्तिरेव न्यायपदवाच्या भवति।

     न्यायशास्त्रमिदम् आन्वीक्षिकी, न्यायविद्या, प्रमाणशास्त्रं, हेतुविद्या, तर्कशास्त्रम् इत्येवं बहुभिः नामभिः व्यपदिश्यते। उक्तं च भाष्यकारेण वात्स्यायनमहर्षिणा एवम् - "इमास्तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते, यासां चतुर्थीयमान्वीक्षिकी न्यायविद्या" इति। अर्थात् "आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती" इत्यनेन सूक्तेन उक्तासु चतसृषु विद्यासु चतुर्था भवदियम् आन्वीक्षिकी। अन्वीक्षा नाम प्रत्यक्षागमाभ्याम् ईक्षितस्य ज्ञानस्य पुनरीक्षणम् इत्यर्थः। तया अन्वीक्षया प्रवर्तत इति आन्वीक्षिकी न्यायविद्या वा। एवं प्रत्यक्षाभिः चतुर्भिः प्रमाणैरेव अर्थानां प्रतिपादनं क्रियतेत्यतः शास्त्रस्यास्य प्रमाणशास्त्रमित्यपि नाम सङ्गतमेव। एवमेव अनुमानप्रमाणस्य प्राधान्यत्वात् तस्य अनुमानस्य हेतुविषयकत्वाच्च हेतुशास्त्रं, प्रमाणद्वारा विवक्षितार्थविचारेषु तर्कबोधनात् तर्कशास्त्रम् इत्यपि न्यायशास्त्रस्य नामान्तरं साधुरेव।

   न्यायशास्त्रप्रवर्तकाणां तत्तद्विषयप्रतिपादनदृष्ट्या शास्त्रस्यास्य परम्परा द्वेधा विभक्ता दृश्यते प्राचीना नवीना चेति। तत्र सूत्रभाष्यवार्तिककारादारभ्य प्रायः जयन्तभट्टपर्यन्तं प्राचीनपरम्परा, क्रिस्तोः पश्चात् त्रयोदशशतकजन्मनः आचार्यगङ्गेशोपाध्यायादारभ्य प्रचाल्यमाना नवीनपरम्परा इति व्यपदेशः। तत्र सूत्रकारेण गौतममहर्षिणा तावत् प्रमाणप्रमेयादिः षोढशपदार्थाः प्रोक्ताः। एतेषां षोढशपदार्थानां तत्त्वज्ञानं मोक्षहेतुरिति तेषामाशयः। किन्तु नवीनैस्तावत् पदार्थाः इत्यनेन प्रतियोगिता, अनुयोगिता, प्रकारता, विशेष्यता इत्येवंरीत्या पारिभाषिकपदार्थाः एव अभिमताः दृश्यन्ते। किन्तु वैशेषिकसूत्रकर्ता कणादमहर्षिणा तु द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानमेव मोक्षहेतुत्‍वेन अभिमतम्। परन्तु अन्नंभट्टविश्वनाथप्रभृतिभिः नवीनैस्तावत् सूत्रोक्तपदार्थानां द्रव्यादिषु सप्तसु एव अन्तर्भावः स्वीकृतः वर्तते। एवंरीत्या दर्शितानां पदार्थानां लक्षणस्वरूपविचारविमर्शद्वारा न्यायशास्त्रमिदं प्रवर्तमानं वर्तते।

Tuesday, 2 October 2018

मनोगतम्’ – ४८  ‘मन की बात’ 
(48-वीं कड़ी)   प्रसारणतिथि: - ३०-०९-२०१८
              [“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                               
                                          - भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः
     मम प्रियाः देशवासिनः!  नमस्कारः | कदाचिदेव भवेद् कश्चन भारतीयः यो हि अस्मदीयानां सशस्त्र-बलानां सैनिकानां कृते गौरवं नैवानुभवेत् | प्रत्येकमपि भारतीयः, भवतु नाम सः कस्यचन क्षेत्रस्य, जातेः, धर्मस्य, पथः, भाषायाः वा – अस्मदीयान् सैनिकान् प्रति निज-प्रसन्नतां प्रकटयितुं समर्थनञ्च प्रदर्शयितुं सर्वदैव तत्परो भवति | गतदिने एव भारतस्य सपाद-शत-कोटिः देशवासिनः, पराक्रमपर्व आयोजितवन्तः | वयं वर्ष-द्वय-पूर्वं विहितं surgical strike-इति शस्त्र-निपातनं स्मृतवन्तः, यदा अस्मदीयाः सैनिकाः अस्माकं राष्ट्रमभिलक्ष्य आतङ्कवाद-व्याजेन छद्म-युद्ध-निरतान् धृष्टान् सम्यक् उत्तरितवन्तः | देशस्य नाना-स्थानेषु अस्मत्-सशस्त्र-बलानि प्रदर्शनीः आयोजयेयुः येन देशस्य समधिकाः नागरिकाः विशेषेण युव-जनाः नूनमिदम् अवगच्छेयुः यत् अस्मदीया शक्तिः नाम किमस्ति ? कियन्तो वयं क्षमाः ? तथा च, केन प्रकारेण अस्माकं भटाः निज-प्राणान् पणीकृत्य अस्मान् देशवासिनो रक्षन्ति | पराक्रम-पर्व-सदृशः दिवसः अस्मदीय-सशस्त्र-सेनानां गौरवपूर्ण-रिक्थ-विषये यूनः स्मारयति, तथा च, देशस्य एकताम् अखण्डताञ्च सुनिश्चेतुं अस्मान् प्रेरयति | अहमपि वीराणां भूमौ राजस्थाने जोधपुरे एकस्मिन् कार्यक्रमे सहभागित्वमावहम्, साम्प्रतमिदं सुनिश्चितं यद् अस्माकं सैनिकाः तान् सर्वान्नपि समीचीनं प्रत्युत्तरिष्यन्ति ये हि अस्मदीये राष्ट्रेsस्मिन् शान्तेः उन्नतेश्च परिवेशं प्रणाशयितुं प्रयतिष्यन्ते | वयं शान्तौ विश्वसिमः तथा चैनां प्रवर्धयितुं प्रतिबद्धाः स्मः, किञ्च सम्मान-सामञ्जस्यं कृत्वा राष्ट्रस्य च सम्प्रभुतां पणीकृत्य न कदाचिदपि| भारतं सर्वदैव शान्तिं प्रति वचनबद्धं समर्पितञ्च अवर्तत | विंशतौ शताब्दे विश्वयुद्ध-द्वये अस्माकं लक्षाधिकाः सैनिकाः शान्तिं प्रति नैजं सर्वोच्चं बलिदानं कृतवन्तः तथा चेदं बलिदानं तदानुष्ठितं, यदा आभ्यां युद्धाभ्यां न वयं साक्षात्-सम्पृक्ताः आस्मः | न वयं कदापि कस्यचन भूमेः अभिलाषिणः समभवाम | एषासीत् शान्तिं प्रति अस्मदीया प्रतिबद्धता | कतिपय-दिनेभ्यः प्रागेव सेप्टेम्बर-मासे त्रयोविंशे दिने वयं इस्राइलस्य Haifa-युद्धस्य शत-वर्ष-पूर्तौ सत्यां मैसूर-हैदराबाद-जोधपुर-शक्ति-समूहानां अस्मदीयान् वीर-सैनिकान् अस्मराम, ये हि आक्रान्तृभ्यः Haifa-क्षेत्रं मुक्तमकुर्वन् | अयमपि शान्ति-दिशि अस्माकं सैनिकैः समाचरितः अन्यतमः पराक्रम एवासीत् |  अद्यत्वेsपि संयुक्त-राष्ट्र-संघस्य पृथक्-पृथक् शान्ति-संधारक-बलानां कृते भारतं सर्वाधिक-सैनिक-प्रेषकेषु देशेषु अन्यतमोsस्ति | दशकेभ्यः अस्माकं वीर-सैनिकाः नीलं शिरस्त्राणं परिधाय विश्वस्मिन् विश्वे शान्तिं सन्धारयितुं महत्त्वाधायिनीं भूमिकां निरवहन् |
          मम प्रियाः देशवासिनः, नभसः कथा तु अनुपमा एव भवति, नात्र किमपि आश्चर्यं यन्नभसि निज-शक्तिं प्रदर्श्य भारतीय-वायुसेना देशवासिनां