शिक्षाशास्त्रम्।
विपिन् जि नायर्
के जि वि जि यु पि एस् कुण्टरा।
वैदिकानां शब्दानाम् उच्चारणमधिकृत्य प्रवृत्तं शास्त्रं भवति शिक्षाशास्त्रम्। शास्त्रमिदं वेदेड़्गेषु अन्यतमत्वेन प्रथितम्।
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।
ज्योतिषामयनं चक्षुः निरुक्तं श्रोत्रमुच्यते ।।
शिक्षा ध्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात् साड़्गमधीत्यैव ब्रह्मलोके महीयते।।
इति
पाणिनीयशिक्षागतश्लोकप्रामाण्येन षडपि वेदाड़्गानि वेदपुरुषस्य
अवयवत्वेनाद्रीयन्ते चेत् शिक्षात्मकम् अड़्गं तत्र ध्राणस्वरूपमिति ज्ञातुं
शक्यते।
शिक्षायायः ध्राणत्वप्रतिपादनेन तस्याः वेदेध्ययने
अतीवावश्यकत्वम् अड़्गीक्रियते। यद्यपि व्याकणं शरीरस्थोच्चस्थानं
मुखस्वरूपं भवति तथापि नासिकायाः मुखोपरि स्थित्या तत्स्थानपन्ना शिक्षैव
सर्वोपरि वरीवर्ति। पदसाधुत्वमात्रविधायकं व्याकरणम् उच्चारणादिविधिविहीनं
तत् नासिका विरहितं मुखमिव न शोभते इति शिक्षयाः
वेदपुरुषनासिकात्वव्यवहारं सयुक्तिकं सम्पादयति।
स्वरवर्णाद्युच्चारणप्रकारो यत्र शास्त्रो शिक्ष्यते, उपदिश्यते सा
शिक्षेति सायणाचार्यस्य ऋग्वेदभाष्यभूमिकायामुक्तं दृश्यते। अनेनावगम्यते
यत् येन शास्त्रेण वेदमन्त्रणाम् उच्चारणं शुद्धं सम्पाद्यते तच्छास्त्रं
शिक्षाशास्त्रमिति। वेदे स्वरस्य प्राधान्यं तु सर्वविदितमेव। स्वरज्ञानं च
शिक्षामूलकमेव।अत एवेदं शिक्षाशास्त्रं वेदाड़्गत्वेन कल्प्यते। मन्त्रो
हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह।
स वाग्व्रजो यजमानं हिनस्ति।
यथेन्द्रशशत्रुसावरतोऽपराधात्।।
इति शिक्षावचनं वेदमन्त्रणामुच्चारणे शिक्षाशास्त्रस्य प्राधान्यं प्रमाणयति।
आख्यायिकेयं प्रसिद्धा - विश्वरूपसंज्ञिते
त्वष्टुः
पुत्रे इन्द्रेणापहृते सति रूष्टस्त्वष्टा इन्द्रस्य हन्तारं
पुत्रमुत्पादयितुमाभिचारपूर्वकं कञ्चन यागं चकार। तत्र इन्द्रशत्रुवर्धस्व
इति पदप्रयोगः तत्पुरुषसमासयुक्तः मन्त्रे ऊहितः। तस्मिन् मन्द्रे
तत्पुरुषसमासोक्त अन्तोदात्तत्वे कर्तव्ये बहुव्रीहिप्रयुक्तः
अद्युदात्तस्वरः ऋत्विजा प्रयुक्तः। अतः शब्दस्यार्थान्तराभिधानात्
इन्द्रेण इन्द्रहननार्थं त्वष्टजनयितः वृत्रासुरोऽपि हतः।
अतः
मन्त्रेषु स्वरदोषो वर्णदोषो वा कथमपि न भवेदिति ज्ञायते। स्वरतः स्वरेण
वर्णतः वर्णेन अक्षरेण वा हीनः रहितः मन्त्रः मिथ्या प्रयुक्तः सन्
तमभीप्सितमर्थं नाह। सः मन्द्रः वाग्व्रचो भूत्वा यजमानं हिनस्ति हन्ति।
यथा स्वरस्य अपराधात् इन्द्रः शत्रुः इति शब्दः यजमानं हिंसितवानिति
शिक्षावचनस्य तात्पर्यम्। अद्यत्वे नैके शिक्षाग्रन्थाः प्रकाशितत्वेन
चोपलभ्यन्ते। बादरायणशिक्षा , पाणिनीयशिक्षा, नारदशिक्षा, कौडिन्यशिक्षा
इत्येवमादयो ग्रन्थास्तत्र प्रमुखाः। शिक्षाग्रन्थेषु सर्वविदितं
प्राशस्त्यं पाणिनीय शिक्षायेव आवहन्ति। यतो हि पाणिनीयं व्याकरणं न केवलं
लौकिकमात्रम् अपि तु वैदिकानमपि शब्दानां साधुत्व कल्पकमेव। अतः
पाणिनीयस्य लौकिकवैदिकेत्युभयविधव्याकरणस्य व्युत्पादकत्वेन तत्सम्बन्धा
शिक्षा इतरशिक्षाग्रन्थेभ्यः प्रसिद्धिमलभत।
शिक्षाशास्त्रे
प्रतिपाद्यतया बहवो विषयाः उपतिष्ठन्ते। तत्र वर्णानां भेदः
उदात्तानुदातस्वरितभेदाः अनुनासिकानामनुनासिकाभेदाः ह्रस्वदीर्धप्लुतभेदाः
वर्णोत्पत्तिः वर्णभेदानाम् उच्चारणस्थानानि वर्णनामाभ्यन्तर
बाह्यप्रयत्नभेदाः इत्येते अंशाः मुख्यभूताः वर्णानां भेदाः-
मुखसहितनासिकया उच्चार्यमाणः वर्णः अनुनासिकः।
पाणिनीयशिक्षायां वर्णानां भेदमधिकृत्यैवमुच्यते
द्विषष्टिः चतुषष्टिर्वा वर्णाः शम्भुमते मताः।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा
स्वराः विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः।
अनुस्वारो विसर्गश्च ख फौ चापि पराश्रितौ
दुःस्पृष्टश्चेति विज्ञेयो लृकारः प्लुत एव च।। इति।
संस्कृतभाषायां
स्वरः सन्ति एकविंशतिः । अ इ उ ऋ इत्येते चत्वारः वर्णाः
ह्रस्वदीर्धप्लुतभेदात् द्वादश सन्ति। ए ऐ ओ औ इतीमे वर्णाः चत्वारः
दीर्धप्लुत भेदात् अष्टौ तेषां ह्वस्वभावात्। लृकारो ह्रस्वः एक एव इति मते
लृकारः एक एव। संकलनया स्वरवर्णाः एकविंशतिर्जाता। ककारादरभ्य
मकारपर्यन्तं स्पर्शाख्या पञ्चविंशति वर्णाः सन्ति। यमसंज्ञकाः चत्वारः
वर्णाः प्रातिशाख्ये प्रसिद्धाः। वर्गेषु अद्यानां चतुर्णां पञ्चमे परे
मध्ये पूर्वसदृशाः वर्णाः यमाख्याः। अनुस्वारविसर्गौ इति द्वौ। क फ इति
कफाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ द्वौ।
द्वयोर्स्वरयोरध्ये वर्तमानः लकारः दुःस्पृष्टाख्यः। अन्यः एकः इति आहत्य
त्रिषष्टिः वर्णाः संस्कृतभाषायाम् विद्यन्ते इति पक्षे चतुःषष्टि वर्णाः
बोध्याः भाषायाम्। लृकारस्य प्लुतभेदे प्लुतलृकारोऽपि पृथक् वर्णः
शिक्षायाम् अच् वर्णानाम् उदात्त अनुदात्त स्वरित अशुनासिक अननुनासिकधर्माः
अपि उच्यन्ते। ताल्वादिषु उच्चारण स्थानेषु ऊर्ध्वभागे निष्पन्नः अच्
उदात्तसंज्ञः। आये मित्रावरुणा इत्यृचि अकारः एकारश्च उदात्तः । तल्वादिषु
उच्चारणस्थानेषु अधोभागे निष्पन्नः अजनुदात्तसंज्ञः स्यात्। अर्वाड़्
यज्ञसंक्राम इत्यृचि आद्यः अकारः अनुदात्तः। उदात्तत्वानुदात्तरूपवर्णधर्मौ
यस्मान्नचि विद्येते सः अच् स्वरितसंज्ञो भवति। मुखसहितनासिकया
उच्चार्यमाणः वर्णः अनुनासिकः
केवलं मुखेनैवोच्चार्यमाणो वर्णः
अनुनासिकसंज्ञः इति अनुनासिकाननुनासिकयोर्भेदः। वर्णानां ह्रस्व दीर्ध
प्लुतभेदे तादृशानां वर्णानाम् उच्चारणकाल एव निमितभूतो भवति। एकया मात्रया
उच्चार्यमाणो वर्णः ह्रस्वः , द्विमात्रकालिको वर्णः दीर्धः , त्रिभिः
मात्ररूपकालैः उच्चिर्यमाणो वर्णः प्लुतसंज्ञकः इति तत्र विवेकः।
वर्णोत्पत्तिक्रमः - शिक्षायां वर्णोत्पत्तिमेवमाह -
आत्मा बुद्ध्या समेत्यर्थान् मनो भुड़्क्ते विवक्षया
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्।
सोत्तीर्णो
मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः वर्णाञ्जनयते तेषां विभागः पञ्चधा
स्मृतः । इति आत्मा संस्काररूपेण स्वागतान् घटपटादि पदार्थान् स्ववृत्त्या
एकबुद्धिविषयान् कृत्वा स्वस्मिन् संस्काररूपेण स्थितपदार्थबोधनेच्छया मनः
स्वस्यैव परिणामविशेषं युक्तं करोति। तदनु मनः जठराग्निम् अभिहन्ति। सः
जठराग्निः जठरस्य वायुम् ऊर्ध्वं गन्तुं प्ररयति। यदा कायाग्निना प्रेरितः
वायुः ऊर्ध्वदेशं संप्राप्य वर्णोच्चारणस्थानानि स्पृशति , तदा
तत्तद्वर्णाः मुखान्निस्सरति।
वर्णानामुच्चारणस्थानानि
अष्टौ स्थानानिवर्णानामुरः कण्ठः शिरस्था।
जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च।।
वर्णानामुच्चरणस्थानानि शिक्षायमेवमुच्यते।
अकारस्य
कवर्गस्य हकारविसर्गयोश्च उच्चारणस्थानं कण्ठो भवति। इकारस्य चवर्गस्य
यकारशकारयोश्च उच्चारणस्थानं तालुर्भवति । ऋकारस्य टवर्गस्य रेफषकारयोः च
उच्चारणस्थानं दन्ताः भवन्ति ।
उपूपध्मानीयानां ओष्ठौ भवतः।
ञमणड़णनानां नसिका च स्थानत्वेन प्रख्यायते । एकार ऐकारौ कण्ठातालुस्थानीयौ,
वकारस्य दन्तोष्ठम्। जिह्वामुलीयस्य जिह्वामूलं नासिका अनुस्वारस्य स्थानं
भवति। एवं शिक्षायां वर्णोच्चारणस्थानानि स्पष्टमुक्तानि ।
शिक्षाशास्त्रस्य
अध्ययनमद्यत्वेऽपि जनेभ्यः अत्यन्तम् उपकुरुत एव । यतो हि
प्रादेशिकभाषासु उपयुज्यमानेषु शब्देषु इमे एव वर्णाः आदृताः । परन्तु
इदानीं विद्यलयेषु वर्णानाम् अध्यापनाध्ययनव्यवस्था आधिक्येन प्रमादान्विता
भवति । अत एव तद्वर्णयुक्तानां शब्दानामुच्चारणमपि त्रुटिं गच्छन्ति।
छात्राः महाप्रणान् वर्णान् अल्पप्राणत्वेन अल्पप्राणान् वर्णान्
महाप्राणत्वेन वा उच्चारयन्ति । नो चेत् तान् तथा उच्चारयितुम् अध्यापकाः
प्ररयन्ति च। किन्तु शिक्षाशास्त्रस्य अध्ययनेन इयं रीतिः परिवर्तमानयोग्य
इव भवति।
निरुक्तम्
निरुक्तमिति नाम्ना प्रथितं शास्त्रं वेदाड़्गेष्वन्यतमं भवति।
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।
ज्योतिषामयनं चक्षुः निरुक्तं श्रोत्रमुच्यते।।
शिक्षा ध्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात् साड़्गमधीत्यैव ब्रह्मलोके महीयते।। इति
शिक्षाग्रन्थवचनेन
षडपि वेदाड़्गानि वेदपुरुषस्य अवयवत्वेन प्रकल्प्यन्ते। तत्र
निरुक्तात्मकमड़्गं वेदपुरुषस्य श्रोत्रत्वेन गण्यते। श्रोत्रं नाम कर्णः ।
शब्दानां श्रवणद्वारे तदर्थज्ञानं श्रोत्रेणैव अस्माकं सम्भवति। यथा
श्रोत्रमन्तरेण शब्दानां श्रवणं तेषामर्थमवगमश्च असम्भव एव, तथा वैदिकानां
शब्दानाम् अर्थज्ञानमपि निरुक्तादृते असाध्यमेव। अत एव निरुक्तरूपं
शास्त्रंवेदपुरुषस्य श्रोत्रत्वेन निर्णीयते। किञ्च शास्त्रस्यास्य
अध्ययनेन ब्रह्मलोकप्रप्तिरपि सेत्स्यतीति शिक्षावचनमिदं शास्त्रमेतद्
अधिजिघांसमानन् स्मारयति।
निरुक्तशब्दव्युत्पत्तिः-
निरुच्यन्ते निश्शेषेण उपदिश्यन्ते वैदिकाः शब्दाः तदर्थावबोधनाय यत्र तन्निरुक्तमिति निरुक्तशब्दस्य व्युत्पत्तिः।
वेदे
विद्यमानानाम् अर्थकथनापेक्षायुक्तानां शब्दानां सड़्कलनं तावत् निघण्डुः
इति नाम्ना प्रथिते वैदिके कोशे कृतमस्ति। तस्य भाष्यत्वेन नो चेत्क
टीकारूपतावेन वा विरचितः ग्रन्थो भवति निरुक्तम्। निघण्डौ तु केचन वैदिकाः
शब्दाः परिगणिता एव। निरुक्ते तावत् तेषां शब्दानां सविस्तरं विवेचनं
क्रियते। अर्थात् प्रकृति प्रत्ययविभागानुसारेण अर्थज्ञानाय प्रक्रिया
वर्णिता अस्ति।
अर्थावबोधे निरपेक्षतया पदज्ञानं यत्रोक्तं
तन्निरुक्तमिति ऋग्वेदभष्यभूमिकायां सायणाचर्यः निरुक्तं निर्वक्ति । किञ्च
एकैकस्य पदस्य सम्भाविताः अवयवार्थाः यत्र निश्शेषेण उच्यन्ते तदपि
निरुक्तमित्यपि केचन निरुक्तशब्दमाचक्षते। एवं नानाविधनिरुक्तनिर्वचनैः
निरुक्तशब्देन निघण्टुः निरुक्तञ्च इत्युभयोऽपि ग्रन्थाराशिः स्वीक्रियते
इति ज्ञायते।
निरुक्ताकारः यास्कः-
बृहस्पतिः, काश्यपः,
औपमन्यवः इत्यदयः सन्ति बहवो निरुक्तकाराः । तथापि यास्काचार्यस्य
निरुक्तमेव अद्यत्वे समुपलभ्यते । तस्मात् निरुक्तशब्दश्रवणे
तत्प्रवर्तकत्वेन यास्क एव स्मृतिपथमारोहितः। तस्य निरुक्तग्रन्थादेव तत्र
प्रवृत्तानां इतरेषामार्याणां नामानि श्रूयन्ते । यास्काचार्यादपि पूर्वं
निघण्टुग्रन्थः आसीत् , तथापि तस्य परिष्कार एव तेन कृतः। तथा च
स्वपरिष्कृतस्य
निघण्टुग्रन्थस्य भाष्यमेव निरुक्तशब्देन व्यपदिश्यते। एवञ्च
स्वपरिष्कृतनिघण्टुसम्मुल्लसितयास्कीयनिरुक्तग्रन्थ एव अद्यतत्वे
निरुक्तेभिधीयते।
यास्कस्य कालः-
यास्कस्य
कालस्थानयोर्विषये विदुषां मते यास्कस्य कालः प्रायः क्रिस्तोः पूर्व॔
सप्तमशदाब्दिः (700 क्रि. पू. ) इति कल्प्यते। यास्कः पाणिनोः प्राच्यो
भवतीति ऐतिहासिकानां मतम्। यतो हि तदीयसिद्धान्ताः पाणिनिनापि स्वीकृताः।
यास्कस्य निरुक्तस्यान्ते पारस्कर इति नाम विद्यते । तेन विद्वंसः ऊहन्ते
यत् सः पारस्कदाशीय इति। तस्य गोत्रस्य नाम भवति यास्क इति गोत्रनाम्नैव
सः संप्रत्यपि अभिधीयते।
निघण्टुः निरुक्तञ्च -
यास्केन
परिष्कृते निघण्टुग्रन्थे शब्दाः सड़्ग्रहीताः सन्ति। ते शब्दाः
अध्यायपञ्चके विभक्ताः। गवादिदेवपत्न्यन्ताः वैदिकाः शब्दाः तत्रोक्ताः ।
तेषां शब्दानां निरुक्तिः द्वादशाध्याययुक्ते निरुक्तग्रन्थे यास्केन कृता ।
तत्र परिशिष्टत्वेन अध्यायद्वयमपि योजितमस्ति। एवञ्च आहत्य
चतुर्दशाध्यायाः निरुक्ताख्ये ग्रन्थेस्मिन् दृश्यन्ते। अस्य ग्रन्थस्य
विषये यास्कः स्वयमेव वदतीत्थम्-समाम्नायः समाम्नातः सः व्यख्यातव्यः इति ।
अर्थात् अस्मिन् ग्रन्थे निघण्टौ आम्नाय शब्दाः एव समाहृताः तेषां
विवरणमत्र क्रियते इति।
उदाहरणतया स्वर्गपर्यायस्य नाकः इति शब्दस्य
व्युत्पत्तिः निरुक्तकारेण एवं प्रदर्शिता - कै शब्दे इत्यस्मत्द्धतोः
कायन्ति, आनन्दोत्सवध्वनिं कुर्वन्ति यस्मिन्नित्यर्थे कमिति शब्दः
सुखार्थे निष्पादित न कं अकमिति सुखविरोधि दुःखमित्यस्मिन्नर्थे
बहुव्रीहिमाश्रित्य नलोपं अकृत्वा सवर्णदीर्धे च नाकः इति शब्दः
व्युत्पद्यते। दुखेन अमिश्रितं सुखं यत्रोपलभ्यते सः नाकः स्वर्गः इति
नाकशब्दार्थः।
निरुक्तकाराणां मौलिकाः सिद्धान्ताः-
निरुक्तकारः
यास्कः समानपि शब्दान् नाम आख्यात उपसर्ग निपातत्वेन चतुर्था विभजते।
तत्र नामाख्यातयोः वाचकत्वरूपमर्थम् उपसर्गनिपातानान्तु
द्योतकत्वरूपमर्थमपि अकल्पयत्।
भावप्रधानमाख्यातमित्यनेन
वाक्येषु तिड़न्तानां प्राधान्यं, धातुलभ्यव्यापारर्थस्य विशेष्यत्वं
व्यापारमुख्यविशेष्यकशाब्दबोधकथनप्रकारोनपि तैः स्वीकृतः। इमामेव सरणीं
वैयाकरणाः अपि अनुवर्तन्ते।
सत्वप्रधानानि नामानि इत्युक्त्वा नामासु द्रव्यस्य प्राधान्यञ्च निर्णीतम्। शब्दाः रूढि- योगिक-
योगरूढ भेदेन त्रिधा विभक्ताः
येषां
शब्दानां प्रकृतिप्रत्ययरूपव्याकरणप्रकियां विना अर्थात् अवयवार्थं विना
साक्षात् अर्थकथनेन प्रयोगो विहितः, ते योगरूढशब्दाः इत्युच्यन्ते।
स्तम्भादयः शब्दाः तत्र उदाहृताः। ये च तावत् प्रकृति प्रत्ययविभागपरत्वेन
निष्पाद्य कस्मिश्चिदर्थे रूढाः भवन्ति ते रूढिशब्दाः इत्युच्यन्ते।
पड़्कजादिशब्दास्तत्र लक्ष्यन्ते। पड़्कात् जायते इति अर्थकथनपुरःस्सरं
पड़ूकात् इत्युपपदपूर्वकात् जनि प्रादुर्भावे इत्यस्माद्धातोः डप्रत्यये
कृते पड़्कजशब्दः कमलरूपार्थे व्युत्पद्यते। तत्रावयवार्थे सत्यपि
कृमिकीटादिषु पड़्कजशब्दो न प्रवर्तते। अवयवार्थसहकृतरूढ्यर्थः एव अत्र
आश्रीयते। नतु अवयवार्थ एव।
एषां शब्दानां
प्रकृतिप्रत्ययरूपविभागपरकत्वेन अर्थकथनं दृश्यते ते शब्दाः यौगिकाः
इत्युच्यन्ते। तेषां तु अवयवार्थ एव स्वीक्रियते। पाचकादयः
शब्दास्तत्रोपतिष्ठन्ते। अत्र पाककर्ता इत्यवयवार्थ एव आश्रियते। न तु
चेदपि सर्वाणि नामानि आख्यातजानि ( धातुजानि ) इति
प्रकृतिप्रत्ययविभागपरत्वेन अर्थकथनयोग्याः इत्येव निरुक्तकाराणां समयः।
किन्तु गार्ग्यदयः विमतिं प्रदर्शयन्ति। एवं सति निरुक्तकाराणामेव मतं
समीचीनमिति निरुक्ते सयुक्तिकं निरूपितम्।
सुखमिति शब्दः
विकारर्थकत्वेनैव कैरल्याम् उपतिष्ठते। किन्तु तस्य अवयवार्थसहकृतस्वार्थः
निरुक्तकारस्य पन्थानमेव अनुगच्छति । सु इत्यव्ययं समीचीनमर्थकं खं नाम
आकाशं तच्च मनःप्रतिरूपकम्। तथा च समीचीनतया विद्यमानां मानसिकीं अवस्थां
सुखशब्दः आचष्टे इति। सुखशब्दात् एतावानर्थः आदेय इति चिन्ता न कस्यापि
प्रादेशिकभाषागतशब्दप्रयोक्तुः उदिता स्यात्।
एवं केषाञ्चन शब्दानां
निर्वचनं श्रूयताम्। आचार्यः आचारं ग्रहयति आचिनोत्यर्थानिति वा। अर्थः-
अर्थ्यते स्वसम्बन्धितया इष्यते इत्यर्थः। अर्थः ( धनार्थकः अर्थशब्दः )-
अरणे( ऋ धातोः ल्युडन्तम् )गमने अत्रैव तिष्ठति न तेन सह गच्छति परलोकं
प्राप्तं स्वामिनं नानुगच्छतीत्यर्थः । सर्वषां मन्त्राणामर्थवत्वं
पूर्वपक्षनिराकरणपुरःसरं निरुक्ते व्यवस्थापितम्। अर्थो न बुध्यते
इत्यत्रेदं समाधानम् - न हि स्थाणोरपराधः यदेनमन्धो न पश्यति पुरुषापराधः
सः अर्थावगमनेन निरर्थकाः मन्त्राः इति यस्को निरूपयति। एवम् अद्यत्वेऽपि
निरुक्तकारपदं बहवः प्रादेशिकाः शब्दाः अनुसरन्तीति तस्य गरिमानमेधयति।
निरुक्तस्य प्रयोजनम्।
वेदानमध्ययनार्थम्
अवश्यं वेदाड़्गानाम् अध्ययनमपेक्षितमेव। अतः वेदाड़्गानि वेदास्य
कुञ्चिकेत्युच्यते । लोके तु कुञ्चिकया कार्यद्वयं सम्पाद्यते । एकं
रक्षणम् अन्यच्च उद्घाटनम्।। इत्थमेव वेदाड़्गान्यपि वेदमन्त्राणां रक्षां
कुर्वन्ति। अपि च यस्तु वेदमन्त्राणामर्थाभिलाषी तस्मै वेदार्थस्य
उद्घाटनमपि कारयन्ति अड़्गानि। तथा च वेदमन्त्राणां यथावत् रक्षणे
अर्थोद्घाटने च निरुक्तस्यापि अध्ययनमहेयमिति निश्चप्रचम्।
अर्थप्रधानं निरुक्तं शब्दप्रधानं व्याकरणम् इति हेतोः व्याकरणज्ञानस्य परिपूर्णता निरुक्तस्याध्ययनेनैव सम्पद्यते।
यास्केनैव शास्त्रस्यास्य प्रयोजनमित्थमुच्यते-
अथापीदमन्तरेण
मन्त्रेष्वर्थप्रत्ययो न विद्यते। अर्थात् शास्त्रस्यास्य अध्ययनेन विना
वेदमन्त्राणाम् अर्थज्ञानं न सम्भवति। यतो हि शास्त्रेऽस्मिन्नेव
प्रकृतिप्रत्ययविभागपुरस्कारं वैदिकानां शब्दानाम् अर्थविवेचनं कृतं
दृश्यते। मन्त्रगतशब्दार्थज्ञानस्य
प्रयोजनं चोक्तं-
योऽर्थज्ञः सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा इति-
यः अर्थज्ञः सः एव मड़्गलं प्राप्नोति नान्य इति।
वैदिकानां
शब्दानां निरुक्तकारेणकश्चन नियत अर्थः प्रस्तुतः। ते एव वैदिकाः शब्दाः
भारतीयप्रादेशिकभाषासु नैके निपतिताः। सुख दुख अक्षरादिशब्दाः तत्र
उदाहार्याः।
सुखमिति शब्दः विकारर्थकत्वेनैव कैरल्याम्
उपतिष्ठते। किन्तु तस्य अवयवार्थसहकृतस्वार्थः निरुक्तकारस्य पन्थानमेव
अनुगच्छति । सु इत्यव्ययं समीचीनमर्थकं खं नाम आकाशं तच्च मनःप्रतिरूपकम्।
तथा च समीचीनतया विद्यमानां मानसिकीं अवस्थां सुखशब्दः आचष्टे इति।
सुखशब्दात् एतावानर्थः आदेय इति चिन्ता न कस्यापि
प्रादेशिकभाषागतशब्दप्रयोक्तुः उदिता स्यात्।
एवं केषाञ्चन शब्दानां
निर्वचनं श्रूयताम्। आचार्यः आचारं ग्रहयति आचिनोत्यर्थानिति वा। अर्थः-
अर्थ्यते स्वसम्बन्धितया इष्यते इत्यर्थः। अर्थः ( धनार्थकः अर्थशब्दः )-
अरणे( ऋ धातोः ल्युडन्तम् )गमने अत्रैव तिष्ठति न तेन सह गच्छति परलोकं
प्राप्तं स्वामिनं नानुगच्छतीत्यर्थः । सर्वषां मन्त्राणामर्थवत्वं
पूर्वपक्षनिराकरणपुरःसरं निरुक्ते व्यवस्थापितम्। अर्थो न बुध्यते
इत्यत्रेदं समाधानम् - न हि स्थाणोरपराधः यदेनमन्धो न पश्यति पुरुषापराधः
सः अर्थावगमनेन निरर्थकाः मन्त्राः इति यस्को निरूपयति। एवम् अद्यत्वेऽपि
निरुक्तकारपदं बहवः प्रादेशिकाः शब्दाः अनुसरन्तीति तस्य गरिमानमेधयति।
-----------------------------------------------