शास्त्रपरिचयः
कल्पशास्त्रम्
एन् के रामचन्द्रः
वेदाड़्गेष्वन्यतमस्य कल्पशास्त्रस्य वेदहस्तः इति प्रसिद्धिः । हस्तौ कल्पोऽथ पठ्यते इति पाणिनीयशिक्षायामुक्तम्। वेदोक्तकर्मणामानुपूर्व्येण कल्पनं कल्पः। कल्पो वेदविहितकर्मणामानुपूर्व्येण कल्पना इति ऋक्प्रातिशाख्ये। इदं वेदाड़्गं प्रत्यक्षतः ब्राह्मण्य सम्बद्धम्। कल्पसूत्रं श्रौतसूत्र- गृह्यसूत्र-कर्मसूत्र-धर्मस्त्र शुल्बसूत्रभेदात् चतुर्थाविभक्तम्।श्रौतसूत्रम्
कल्प इति वेदाड़्गस्य मुख्यविभागत्वेन कल्प्यन्ते इति श्रौतसूत्राणि। वेदेन श्रुत्य सम्बद्धत्वात् श्रौत इति नाम वेदोक्तानां यागादिनां क्रमबद्धाध्यनमेव श्रौतसूत्रेषु प्रतिपाद्यते। दर्श- पूर्णमास- पिण्डपितृ-आग्रायणेष्टि- चतुर्मासनिरूढपशुर्बन्ध सोमयाग-सत्र-गवानयन-वाजपेय-राजसूय- सौत्रामणि-अश्वमेध-पुरुषमेध-अहिनादीनां यागानां यथाक्रमं विवेचनम् अत्र लभ्यते। अत्र प्रतिपादितानि कर्माणि नित्यकर्माणि,नैमित्तिककर्माणि, काम्यकर्माणि इति त्रिधा विभक्तानि भवन्ति।
नित्यकर्माणि- अवश्यं कर्तव्यानि कर्मण्येव नित्यकर्माणि। अग्निहोत्रादयः नित्ययागः। तावत्ज्जीवम् अग्निहोत्रं जुह्यदिति विधिः दर्श- पूर्णमासादीनि मासिकानि पाक्षिकानि वा यागानुष्ठानानि च नित्यकर्मसु अन्तर्भवन्ति।
नैमित्तिककर्माणि- विवाहः जातकर्मः उपनयनं श्राद्धम् इत्यादयः संस्काराः नैमित्तिककर्मसु अन्तर्भवन्ति।एतानि प्रत्येकं सन्दर्भे अनुष्ठीयानेव।
काम्यकर्माणि- पुत्रकर्म वृष्टिःगो समृद्धिः इत्यादिकम् इच्छद्भिः तदर्थमनुष्ठीयानि कर्माणि काम्यकर्मासु अन्तर्भवन्ति। प्रतिवेदं पृथक् पृथक् प्रातिशाख्यं विद्यन्ते।अश्वलायनं शाख्यनमिति ऋग्वेदस्य द्वे प्रातिशाख्ये। अनयोः प्रथमम् ऐतरेयब्राह्मणं द्वितीयं शाख्यायनब्राह्मणं चानुसरति। यजुर्वेदीये श्रौतसूत्रे ब्रह्मावर्तमिति प्रसिद्धे कुरुक्षेत्रे विद्यमानैः ब्राह्मणैः अनुतिष्ठमानानां यागादीनां कर्मणां विवरणमेव मुख्यप्रतिपाद्यम्। कठ- मैत्रायणी- तैत्तरीयाख्ये वेदे मन्त्रभागाः ब्राह्मण भागश्च सम्मिश्ररूपेण तिष्ठन्ति। अतः अस्य कृष्णयजुर्वेदः इति संज्ञा। अनन्तरकालिके वाजसनेययजुर्वेदाख्ये मन्त्रभागः एकत्र ब्राह्मणभागाः इतरत्र च इति व्यवस्था।
अतः अस्य शुक्लयजुर्वेदः इति संज्ञा। कृष्णशुक्लयजुर्वेदयोः पृथक् पृथक् श्रौत्रसूत्राणि सन्ति। कृष्णशुक्लयजुर्वेदीये बौधायन- वाधूल-भरद्वाज- आपस्तम्भ-सत्यारण्य हिरण्यकेशी वैख्यनसांख्यानि श्रौतसूत्राणि। शुक्लयजुर्वेदीये कात्यायन श्रौतसूत्रमेक एव।
सामवेदीये लाट्यायनं द्राह्यायनं जैमिनीयम् आर्षेयकल्पं निदानमिति पञ्च श्रौतसुत्राणि। अथर्ववेदस्य वैतायनाख्यम् एकमेव श्रौतसुत्रम्।
गृह्यसूत्राणि ।
गृहे भवं गृह्यम्। गृहस्य कर्म सम्बद्धं यत्कर्म तादृश कर्मनिरूपकं भवति गृह्यसूत्रम्। चतुषु आश्रमेषु गृहस्थाश्रमं महत्तमिति विश्वास्यते। गृहस्त एव पञ्चमहायज्ञान् निर्वोढुमर्हः। गृहस्थेन अनुष्टेयानाम् आचराणां कर्माणां च प्रतिपादनं श्रौतसूत्रेषु दृश्यन्ते। श्रुतिलक्षणकर्मणि आचारलक्षणकर्मणि च विद्यन्ते। तयोः आद्यं श्रौतसूत्रेषु व्याख्यातम्। द्वितीयं तु आचारलक्षणकर्म गृह्यसूत्रेषु विव्रियते। तानि च यज्ञकर्माणि देवपितृकर्म समिदाधानं तर्पणं वर्षानुसृतकर्मणि भवननिर्माणावसरे क्रियमाणानि कर्माणि भूकर्षणावसरे क्रियमाणानि कर्मणि, कृष्यारंभकर्मणि,श्राद्धकर्म च भवन्ति । षोडशसंस्काराः अस्मिन्नेव अन्तर्भवन्ति। श्रौतसूत्राणि गृह्यसूत्राण्यपि वेदसंबद्धीनि भवन्ति। ऋग्वेदीये द्वे गृह्यसूत्रे उपलब्धे । आश्वलायनं साख्ययनं च।
शौनकं - शाल्यं- ऐतरेयं- बह्वृचं- भारवीयं- पाराशरं- पैड़्गमिति सप्तनष्टप्रायाणि। शुक्लयजुर्वेदीये द्वे- पारस्करं वाचसनेयं च।
कृष्णयजुर्वेदीयानि नव उपलभ्यन्ते। तानि बौधायनं- भारद्वाजम् - आपस्तम्बं- हिरण्यकेशी-वैखानसं-अग्निवेश्यं - मानवं-काठकं-वराहञ्च। सामवेदीयानि चत्वारि- गाभिलं-खादिरं ( द्राह्यायनं)जैमनीयं कौथूमञ्च। अथर्ववेदीयमेकमेव कौशीकगृह्यसूत्रम्। तच्च शौनकशाखासंबद्धम्।
धर्मसूत्राणि
धर्मपदस्य नियमः- प्रशिक्षणं - उपयोगः - आचारनिष्ठाशीलं- कर्तव्यं- सदाचारः- इत्यादयोऽनेके अर्थाः सन्ति। धर्मसूत्रेषु धर्माश्रमिणां कर्तव्यानि प्रतिपादितानि। धर्मस्य निर्वचनेन साकं अर्थभेदांश्च एषु विवृण्वन्ति। धर्मसूत्राणि गद्यरूपेण लिखितानि सन्ति। एषु एकैकं प्रश्नाध्यायखण्डरूपेण विभक्तम्। अद्य उपलभ्यमानाः धर्मसूत्रग्रन्थाः -----------------------चत्वारः एव। गौतमधर्मसूत्रं, बौधायनधर्मसूत्रं, आपस्तम्बधर्मसूत्रं, वासिष्ठधर्मसूत्रञ्च। अपि च हिरण्यकेशी, विष्णु, पारीतादीनि अपि सन्ति इति केचन वदन्ति। इतराण्यपेक्ष्य धर्मसूत्राणि सर्ववेदसंबद्धानि भवन्ति।
धर्मस्वरूपं चतुर्णां वर्णानाम् आचाराः, कर्तव्यानि, जीवितवृत्तयश्च चतुर्णामाश्रमाणाम् आचाराः , सपिण्डनं, पापप्रायश्चित्तानि मतानां नियमाः, आशौचं, न्यायव्यवहारं, राजधर्माः, स्त्रीधर्माः, पुत्रविचाराः , स्त्रीधनं , दायव्यवस्था, विवाहभेदाः इत्यादीनि धर्मसूत्रे प्रतिपादितानि।
शुल्बसूत्रम्-
शुल्बं नाम रज्जुः। अतः मापननिर्धारणं श्रौतसूत्रसंबद्धं साहित्यं भवति शुल्बसूत्रम्। संहितासु विद्यमानाः गणितविषयाः संगृह्य यागवेद्यदिषु कथम् उपयोक्तुं शक्यन्ते इति शुल्बसूत्राणि विशदयन्ति।
कात्यायनः, आपस्तम्बः, बौधायनः , सत्याषाढः , मानवः, वाराहः, मैत्रायणि इत्येतानि शुल्बसूत्रणि अद्य उपलभ्यन्ते। यागशालायाः घटना, यागवेदिः , अग्निकुण्डम् इत्यादीनि क्षेत्रगणितणमनुसृत्यैव कल्पितानि। क्षेत्रगणितस्य अड़्कगणितस्य च सूचनाः शुल्बसूत्रेषु उपलभ्यन्ते। विविधानां यागानां वेदिकानिर्माणं कथंभवेदिति शुल्बसूत्रग्रन्थेषु विव्रियते।
गणितानाम् आधारतत्वानि प्रमाणसूत्राणि तथा वर्गमूलं दशांशः इत्यादीनां सूचनाः
शुल्बसूत्रेभ्यो लभ्यन्ते। गृह्यसूत्रेषु धर्मसूत्रेषु शुल्बसूत्रेषु च प्रतिपादितानि नित्यनैमित्तिक काम्यकर्माणि अनुष्ठानानि गणितक्रिया चेत्यादयः अद्यापि मानवजीवने समाजे च प्रमाणतया स्वीक्रियन्ते।
एवं भारतीयजीवने अस्य कल्पशास्त्रस्य अत्यन्तमुपादेयता दृश्यते। वेदोक्तकर्मणां प्रतिपादनात् कल्पः वेदपुरुषस्य हस्तरूपेण कल्प्यते। कल्पनामनादरे वेदो खण्डितहस्तो भवेत्। भारतीयजीवनपद्धतेः दर्पणायते इदं कल्पशास्त्रम्।
----------------------------------------------------------------------------------------