Monday 15 August 2016

ग्रामग्रामान्तरं प्रति 80000 लोकयानानि ।।    
                 नवदेहल्ली >  125000 ग्रामान् परस्परं बन्धितुं 60% केन्द्रविहितेन लोकयानानि आगमिष्यन्ति । ग्रामीणमार्गेण लोकयानचालनमेव पद्धत्याः लक्ष्यम् । गतागतमन्त्रालयः ग्रामविकसनमन्त्रालयेन सह  सम्मिल्य चाल्यमानायाः पद्धत्याः रूपरेखा आविष्कृता । प्रधानमन्त्री ग्रामीण परिवहन योजना इति नाम पद्धत्याः अस्याः।

 पलास्तिकदेशीयपताकायाः निरोधनम्। 
नवदिल्ली - पलास्तिकविमुक्तं स्वातन्त्र्यदिनाघोषं साक्षात्कर्तुं पलास्तिकनिर्मितानां देशीयपताकानाम् विक्रय-वितरण-उपभोगानि निरुद्धानि।
   देशीयपताकानाम् अन्तःसत्तां संरक्षितुं पलास्तिकपताकानाम् उपयोगं निराकर्तुं  च क्रियाविधिं स्वीकर्तुं राज्यसर्वकारान् प्रति केन्द्रसर्वकारः निरदिशत्। निरोधनोल्लङ्घनं संवत्सरत्रयं यावत् कारागारदण्डनम् अर्हति।

 भारतीय क्रिकेटदलेन वेस्ट- इंडीज़ दलं पराजितम् 

भारत वेस्ट इंडीजयोः तृतीय क्रिकेटनिकषद्वन्द्वे सेंटलूसियाटेस्ट क्रीडांगणे भारतेन वेस्ट इंडीजदलं 237 धावनांकैः पराजितम् . रविचन्द्रन अश्विनः 'मैन ऑफ़ द मैच' इति स्पर्धापुरुषपुरस्कारेण बहुमानितः | श्रृंखलायाः अन्तिमस्पर्धा  गुरुवासरात् प्रारप्स्यते |

 श्रीनगरे देशीयध्वजारोहणं करिष्यतीति त्रयोदशवयस्का बालिका। 
अहम्मदाबाद्‌ > स्वातन्त्र्यदिने काश्मीरस्य श्रीनगरे लाल् चौक् मध्ये देशीयध्वजारोहणं करिष्यतीति गुजरातस्वदेशिनी  बालिका। त्रयोदशवयस्का तन्सीं मेरानी एव एवमवदत्। सङ्घर्षपूरितेषु बहुषु काश्मीरमण्डलेषु बहोः कालादारभ्य आगस्त् १५, जनुवरी २६ इत्येतयोः देशीयप्राधान्यदिनयोः 'कर्फ्यू' प्रख्यापनं क्रियमाणं वर्तते। तत्तु अस्मिन् वर्षेऽपि भविष्यति। अतः ध्वजारोहणाय बालिकायै अनुमतिः नैव लप्स्यते इति विदग्धैः सूचितम्। माध्यमप्रवर्तकैः एतत्सूचिते सन्दर्भे 'स्व राष्ट्रे प्रवेशितुं कस्यापि अनुमतिः नावश्यकी' इत्येव बालिकायाः प्रतिवचनमासीत्।

 इरों शर्मिलायाः निराहारसमरम् अनुवर्त्य ३२ वयस्का वनिता।
  इंफाल् > षोडशवर्षपर्यन्तं दीर्घीकृतनिराहारसंग्रामं समापयित्वा गतसप्ताहे एव इरों शर्मिलया राष्ट्रीयमण्डलप्रवेशं सम्बन्ध्य स्वाभिप्रायः प्रकटितः। अफ्स्पा नियमं प्रतिनिवर्तयितुं इरों शर्मिलया कृतं निराहारसंग्रामम् अनुवर्तयितुं मणिप्पूर् स्वदेशिनी अरम्बांरोबितलीमा नामिका ३२ वयस्का सन्नद्धा अभवत् ।द्वयोः बालयोः माता अपि भवति इयं युवती । इंफाल् पश्चिमजिल्लायाः कम्यूणिटि अङ्‌गणे शनिवासरे प्रभाते दशवादनात् तया निराहारसंग्रामः आरब्धः।

वैमानिकयाेः कृते वर्षचतुष्टयस्य निरोधः।
  नवदहली > मद्यलहर्यां विदेशात् भारतं प्रति विमानचालनं कृतम् इति कारणेन द्वयोः वैमानिकयोः डि जि सि ए पक्षतः वर्षचतुष्टयस्य निरोधः। द्वयोः उपरि एफ् ऐ आर् पञ्चीकृत्य अन्वेषणाय अपि निर्देश: दत्तः। एतौ एयर् इन्ड्या संस्थायाः जेट् एयर्वेय्स् संस्थायाः च वैमानिकौ भवतः।विमानस्य प्रत्यागमनात्परं कृतायां परिशोधनायां एतौ मद्यपानमकुरुतां इति व्यक्तमासीत्। एतस्मिन्नेव विषये एयर् इन्ड्या संस्थायाः एकः कर्मकरः निरोधितः वर्तते । वैमानिकाभ्यां गुरुतरः कृत्यविलोपः एव कृतः इति व्योमयानमन्त्रालयेन सूचितमासीत्।
:
जम्मु - काश्मीर् समस्यां परिहाराय चर्चायै भारतसहयोगः आवश्यकः- पाकिस्थान्।  
नवदहली > काश्मीर् समस्यापरिहाराय चर्चा आवश्यकी,एतदर्थं भारतसहयोगः अपेक्षितः। एतत्सम्बन्ध्य भारतं प्रति आमन्त्रणपत्रिकां प्रेषयिष्यतीति पाक् प्रधानमन्त्रिणः विदेशकार्य उपदेष्टा सर्ताज् असीस् अवदत्। काश्मीर् समस्या परिहारः लक्ष्यं प्राप्स्यतीति विश्वासः वर्तते इत्यपि तेन सूचितम्।