!!!---☀: सुविचार्य विधातव्यम् :☀---
इयं कथा सोमदेवस्य कृतात् "कथासरित्सागरात्" उद्धृता अस्ति । तत्र "चतुर्व्यूहम्" एकं पाठं वर्तते । तत्रैव "गोदोहनम्" अस्ति । अस्यां कथायाम् समयस्य महत्त्वं प्रतिपादयति ।
आसीत् पुरा माधवो नाम कश्चिद् गोपालकः । तस्य गृहे नन्दिनी नाम एका गौः आसीत् । तस्याः दुग्धं विक्रीय सः सुखेन जीवनं यापयति स्म ।
एकदा तस्य भागिनेयः तत्रागत्य सूचितवान्---"मातुल ! प्रतिवेशिनः श्रेष्ठिनः गृहे मासानन्तरम् एकः यज्ञः संपत्स्यते । तस्मिन् उत्सवे पञ्चाशत् किलोमितस्य क्षीरस्य आवश्यकता भविष्यति ।"
इदमाकर्ण्य माधवः अचिन्यत्---"पञ्चाशत् किलोमितस्य पयः , अस्तु दास्यामि । एतावन्मात्रं पयः विक्रीय बहुधनं प्राप्स्यते, येन एकस्य भवनस्य निर्माणं करिष्यामि ।"
अथ प्रसन्नः माधवः स्वधेनुम् अहर्निशं सेवते । सः तस्याः रज्जुं धृत्वा तस्यै तृप्तिपर्यन्तं प्रभूतं घासादिकं ददाति, जलं पाययति, विषाणयोः तैलं करोति । प्रातः सायं च तां तिलकं करोति । यदा-कदा गुडादिकमपि भोजयति । स सर्वदा चिन्तयामास--"एकवारं ग्रहीष्यामि पयोSस्या प्राज्यम् उत्सवे ।"
इत्थं सेवानिरतस्य तस्य एकः मासः व्यतीतः । अस्मिन्नन्तरे तस्य भार्या मालती पितृगृहात् प्रत्यावर्तत । माधवः ताम् तत्सर्वं विस्तरेण अकथयत् । तौ सत्वरं कुम्भकारस्य गृहाद् घटदशकं क्रीतवन्तौ । तदैव प्रतिवेशी दुग्धाय तम् आकारयत् । माधवस्तु सपदि पञ्च-उपचारैः गाम् अपूजयत् । पात्रहस्तः दोहनाय गोः समीपम् अगच्छत् ।
मासैकपर्यन्तं दुग्धस्य अदोहनात् दुग्धहीना सा माधवहस्ते पात्रं दृष्ट्वा एव अकूर्दत् । माधवः पौनःपुन्येन प्रार्थयति---"नन्दिनि ! कथं मां व्याकुलयसि ? पञ्चाशत् किलोमितं क्षीरं सत्वरं यच्छ ।"
पौनः पुन्येन दोग्धुं प्रयतमानं माधवं सा पृष्ठपादाभ्यां ताडयित्वा रक्तरञ्जितम् अकरोत् । तं तादृशायाम् अवस्थायां वीक्ष्य मालती मूर्च्छिता जाता ।
बहुभिः उपचारैः तस्याः मूर्च्छाम् दूरीकृत्य माधवः ताम् अकथयत्---"मासान्तेSहं धनी भविष्यामि इति चिन्तयित्वा एव मासपर्यन्तं मया धेनुरेव न दुग्धा । अस्मात् कारणाद् इयं दुग्धहीनाSभवत् । देवि ! भविष्यचिन्तायां तु मया स्वकीयं वर्त्तमानमपि विनाशितम् । एभिः रक्तबिन्दुभिः मम चक्षुरुन्मीलितं यत् लघु-अपि कार्यं अविचार्य न कर्त्तव्यम्
यथा----
"यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ।।"
तथा च
"कालेन बिन्दुमात्रेण जलदानेन यत्सुखम् ।
न तथा सिन्धुदानेन गते कालेSस्ति संभवम् ।।"
🙏🏻🙏🏻🙏🏻